स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९९
।। व्यास उवाच ।।
शृणु सूत यथा प्रोक्तं कुंभजे शरजन्मना ।।
देवदेवस्य चरितं विश्वेशस्य परात्मनः ।। १ ।।
अगस्त्य उवाच ।।
सेनानीः कथय त्वं मे ततो निर्वाणमंडपात् ।।
निर्गत्य देवो देवेंद्रैः सहितः किं चकार ह।। २ ।।
स्कंद उवाच ।।
मुक्तिमंडपतः शंभुर्ब्रह्मविष्णुपुरोगमः ।।
शृंगारमंडपं प्राप्य यच्चकार वदामि तत् ।। ३ ।।
प्राङ्मुखस्तूपविश्येशः सहास्माभिः सहेशया ।।
ब्रह्मणाधिष्ठितः सव्ये वामपार्श्वेथ शार्ङ्गिणा ।। ४ ।।
वीज्यमानो महेंद्रेण ऋषिभिः परितो वृतः ।।
गणैः पृष्ठप्रदेशस्थैर्जोषं तिष्ठद्भिरादरात् ।। ५।।
उदायुधैः सेव्यमानश्चावसन्मानभूरिभिः ।।
ब्रह्मणे विष्णवे शंभुः पाणिमुत्क्षिप्य दक्षिणम् ।। ६ ।।
दर्शयामास देवेशो लिंगं पश्यत पश्यत ।।
इदमेव परं ज्योतिरिदमेव परात्परम् ।। ।। ७ ।।
इदमेव हि मे रूपं स्थावरं चाति सिद्धिदम् ।।
एते पाशुपता सिद्धा आबाल ब्रह्मचारिणः ।। ८ ।।
जितेंद्रियास्तपोनिष्ठाः पंचार्थज्ञाननिर्मलाः ।।
भस्मकूटशया दाताः सुशीला ऊर्ध्वरेतसः ।।९ ।।
लिंगार्चनरता नित्यमनन्येंद्रियमानसाः ।।
सदैव वारुणाग्नेय स्नानद्वय सुनिर्मलाः ।। 4.2.99.१० ।।
कंदमूलफलाहाराः परतत्त्वार्पितेक्षणाः ।।
सत्यवंतो जितक्रोधा निर्मोहा निष्परिग्रहाः ।। ११ ।।
निरीहा निष्प्रपंचाश्च निरातंका निरामयाः ।।
निर्भगा निरुपायाश्च निःसंगा निर्मलाशयाः ।। १२ ।।
निस्तीर्णोदग्रसंसारा निर्विकल्पा निरेनसः ।।
निर्द्वंद्वा निश्चितार्थाश्च निरहंकारवृत्तयः ।। १३ ।।
सदैव मे महाप्रीता मत्पुत्रा मत्स्वरूपिणः ।।
एते पूज्या नमस्याश्च मद्बुद्ध्यामत्परायणैः ।। १४ ।।
अर्चितेष्वेष्वहं प्रीतो भविष्यामि न संशयः ।।
अस्मिन्वैश्वेश्वरे क्षेत्रे संभोज्याः शिवयोगिनः ।। १५ ।।
कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ।।
अयं विश्वेश्वरः साक्षात्स्थावरात्मा जगत्प्रभुः ।। १६ ।।
सर्वेषां सर्वसिद्धीनां कर्ता भक्तिजुषामिह ।।
अहं कदाचिद्दृश्यः स्यामदृश्यः स्यां कदाचन ।। १७ ।।
आनंदकानने चात्र स्वैरं तिष्ठामि देवताः ।।
अनुग्रहाय सर्वेषां भक्तानामिह सर्वदा ।। १८ ।।
स्थास्यामि लिंगरूपेण चिंतितार्थफलप्रदः ।।
स्वयंभून्यस्वयंभूनि यानि लिंगानि सर्वतः ।।
तानि सर्वाणि चायांति द्रष्टुं लिंगमिदं सदा ।। १९ ।।
अहं सर्वेषु लिंगेषु तिष्ठा्म्येव न संशयः ।।
परं त्वियं परामूर्तिर्मम लिंगस्वरूपिणी ।। 4.2.99.२० ।।
येन लिंगमिदं दृष्टं श्रद्धया शुद्धचक्षुषा ।।
साक्षात्कारेण तेनाहं दृष्ट एव दिवौकसः ।। २१ ।।
श्रवणादस्य लिंगस्य पातकं जन्मसंचितम् ।।
क्षणात्क्षयति शृण्वंतु देवा ऋषिगणैः सह ।। २२ ।।
स्मरणादस्य लिंगस्य पापं जन्मद्वयार्जितम् ।।
अवश्यं नश्यति क्षिप्रं मम वाक्यान्न संशयः ।।२३ ।।
एतल्लिंगं समुद्दिश्य गृहान्निष्क्रमणक्षणात् ।।
विलीयते महापापमपि जन्मत्रयार्जितम् ।।२४।।
दर्शनादस्य लिंगस्य हयमेधशतोद्भवम् ।।
पुण्यं लभेत नियतं ममानुग्रहतोमराः ।।२५।।
स्वयंभुवोस्य लिंगस्य मम विश्वेशितुः सुराः ।।
राजसूयसहस्रस्य फलं स्यात्स्पर्शमात्रतः।।२६।।
पुष्पमात्र प्रदानाच्च चुलुकोदकपूवर्कम् ।।
शतसौवर्णिकं पुण्यं लभते भक्तियोगतः ।।२७।।
पूजामात्रं विधायास्य लिंगराजस्य भक्तितः ।।
सहस्रहेमकमलपूजाफलमवाप्यते ।। २८ ।।
विधाय महती पूजां पंचामृतपुरःसराम् ।।
अस्य लिंगस्य लभते पुरुषार्थचतुष्टयम् ।। २९ ।।
वस्त्रपूतजलैर्लिंगं स्नापयित्वा ममामराः ।।
लक्षाश्वमेधजनितं पुण्यमाप्नोति सत्तमः ।। 4.2.99.३० ।।
सुगंधचंदनरसैर्लिंगमालिप्य भक्तितः ।।
आलिप्यते सुरस्त्रीभिः सुगंधैर्यक्षकर्दमैः ।। ३१ ।।
सामोद धूपदानैश्च दिव्यगंधाश्रयो भवेत् ।।
घृतदीपप्रबोधैश्च ज्योतीरूप विमानगः ।। ३२ ।।
कर्पूरवर्तिदीपेन सकृद्दत्तेन भक्तितः।।
कर्पूरदेहगौरश्रीर्भवेद्भालविलोचनः ।। ३३ ।।
दत्त्वा नैवेद्यमात्रं तु सिक्थेसिक्थे युगंयुगम् ।।
कैलासाद्रौ वसेद्धीमान्महाभोगसमन्वितः ।। ३४ ।।
विश्वेशे परमान्नं यो दद्यात्साज्य सशर्करम् ।।
त्रैलोक्यं तर्पितं तेन सदेवपितृमानवम्।। ३५ ।।
मुखवासं तु यो दद्याद्दर्पणं चारुचामरम् ।।
उल्लोचं सुखपर्यंकं तस्य पुण्यफलं महत् ।। ३६ ।।
संख्या सागररत्नानां कथंचित्कर्तुमिष्यते ।।
मुखवासादिदानस्य कः संख्यामत्र कारयेत् ।। ३७ ।।
पूजोपकरणद्रव्यं यो घंटा गडुकादिकम् ।।
भक्त्या मे भवने दद्यात्स वसेदत्र मेंतिके ।। ३८ ।।
यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात् ।।
तस्याग्रतो दिवारात्रं भवेत्तौर्यत्रिकं महत् ।। ३९ ।।
चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् ।।
यः सचित्रान्महाभोगान्भुंक्ते मत्पुरतः स्थितः ।।4.2.99.४०।।
सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः ।।
त्रैलोक्यवंदितपदो जायते वसुधापतिः।। ।। ४१ ।।
यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते ।।
तस्य जन्मांतरे मोक्षो भवत्येव न संशयः ।। ४२ ।।
विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ ।।
विश्वेशशीलनं चित्ते यस्य तस्य जनिः कुतः ।। ४३ ।।
लिंगं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते ।।
स मे गणेषु गण्येत महापुण्यबलाश्रितः ।। ४४ ।।
नित्यं विश्वेश विश्वेश विश्वनाथेति यो जपेत् ।।
त्रिसंध्यं तं सुकृतिनं जपाम्यहमपि ध्रुवम् ।। १५ ।।
ममापीदं महालिंगं सदा पूज्यतमं सुराः .।।
तस्मात्सर्वप्रयत्नेन पूज्यं देवर्षि मानवैः ।। ४६ ।।
यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः ।।
कृतांतदूतैस्ते दृष्टास्तैः स्मृता गर्भवेदना ।। ४७ ।।
यैरिदं प्रणतं लिंगं प्रणतास्ते सुरासुरैः ।।
यस्यै केन प्रणामेन दिक्पालपदमल्पकम् ।।
दिक्पालपदतः पातः पातः शिवनतेर्नहि ।। ४८ ।।
शृण्वंतु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै ।।
न भूर्भुवः स्वर्गमहर्जनांतर्विश्वेशतुल्यं क्वचिदस्ति लिंगम् ।। ४९ ।।
न सत्यलोके न तपस्यहो सुरा वैकुंठकैलासरसातलेषु ।।
तीर्थं क्वचिद्वै मणिकर्णिकासमं लिंगं च विश्वेश्वरतुल्यमन्यतः ।। 4.2.99.५० ।।
न विश्वनाथस्य समं हि लिंगं न तीर्थमन्यन्मणिकर्णिकातः ।।
तपोवनं कुत्रचिदस्ति नान्यच्छुभं ममानंदवनेन तुल्यम् ।। ५१ ।।
वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम् ।।
तत्रापि काचिन्मम सौख्यभूमिर्महापवित्रा मणिकर्णिकासौ ।। ५२ ।।
स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम् ।।
सव्येपसव्ये च कराः क्रमेण शतत्रयी यापि शतद्वयी च ।। ५३ ।।
हस्ताः शतं पंच सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम् ।।
सारस्त्रिलोक्याः परकोशभूमिर्यैः सेविता ते मम हृच्छया हि ।। ५४ ।।
अस्मिन्ममानंदवने यदेतल्लिंगं सुधाधाम सुधामधाम ।।
आसप्त पातालतलात्स्वयंभु समुत्थितं भक्तकृपावशेन ।।५५।।
येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिंगं भजिष्यंति च हेतुवादैः ।।
तेषां हि दंडः पर एष एव नगर्भवासाद्विरमंति ते ध्रुवम् ।। ५६ ।।
यद्यद्धितं स्वस्य सदैव तत्तल्लिंगेत्र देयं मम भक्तिमद्भिः ।।
इहाप्यमुत्रापि न तस्य संक्षयो यथेह पापस्य कृतस्य पापिभिः ।। ५७ ।।
दूरस्थितैरप्यधिबुद्धिभिर्यैर्लिंगं समाराधि ममेदमत्र ।।
मयैव दत्तैः शुभवस्तुजातैर्निःश्रेयसः श्रीर्वसं(?)येत्सतस्तान् ।। ५८ ।।
शृणुष्व विष्णो शृणु सृष्टिकर्तः शृण्वंतु देवर्षिगणाः समस्ताः ।।
इदं हि लिंगं परसिद्धिदं सतां भेदो मनागत्र न मत्सकाशतः ।। ५९ ।।
अस्मिन्हि लिंगेऽखिलसिद्धिसाधने समर्पितं यैः सुकृतार्जितं वसु ।।
तेभ्योतिमात्राखिलसौख्यसाधनं ददामि निर्वाणपदं सुनिर्भयम् ।। 4.2.99.६० ।।
उत्क्षिप्य बाहुं त्वसकृद्ब्रवीमि त्रयीमयेऽस्मिंस्त्रयमेव सारम् ।।
विश्वेश लिंगं मणिकर्णिकांबु काशीपुरी सत्यमिदं त्रिसत्यम् ।। ६१ ।।
उत्थाय देवोथ स शक्तिरीशस्तस्मिन्हि लिंगे कृतचारुपूजः ।।
ययौ लयं ते च सुरा जयेति जयेति चोक्त्वा नुनुवुस्तमीशम् ।। ६२ ।।
स्कंद उवाच ।। ।।
क्षेत्रस्य मैत्रावरुणे विमुक्तस्य महामते ।।
प्रभावस्यैकदेशोयं कथितः कल्मषापहः ।। ६३ ।।
तवाग्रे तु यथाबुद्धि काशीविश्लेषतापि नः ।।
अचिरेणैव कालेन काशीं प्राप्स्यस्यनुत्तमाम् ।। ६४ ।।
अस्ताचलस्य शिखरं प्राप्तवानेष भानुमान् ।।
तवापि हि ममाप्येष मौनस्य समयोऽभवत् ।। ६५ ।।
।। व्यास उवाच ।। ।।
श्रुत्वेति स मुनिः सूत संध्योपास्त्यै विनिर्गतः।।
प्रणम्यौ मेयमसकृल्लोपामुद्रा समन्वितः ।। ६६ ।।
रहस्यं परिविज्ञाय क्षेत्रस्य शशिमौलिनः ।।
अगस्त्यो निश्चितमनाः शिवध्यानपरोभवत् ।। ६७ ।।
आनंदकाननस्येह महिमानं महत्तरम् ।।
कोत्र वर्णयितुं शक्तः सूत वर्षशतैरपि ।। ६८ ।।
यथा देव्यै समाख्यायि शिवेन परमात्मना ।।
तथा स्कंदेन कथितं माहात्म्यं कुंभसंभवे ।। ६९।।
तवाग्रे च समाख्यातं शुकादीनां च सत्तम ।।
इदानीं प्रष्टुकामोसि किं तत्पृच्छ वदामि ते।।4.2.99.७०।।
श्रुत्वाध्यायमिमं पुण्यं सर्वकल्मषनाशनम् ।।
समस्तचिंतितफलप्रदं मर्त्यो भवेत्कृती ।।७१।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वेश्वरलिंगमहिमाख्यो नाम नवनवतितमोऽध्यायः ।। ९९ ।।