स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

विकिस्रोतः तः
Jump to navigation Jump to search

।। स्कंद उवाच ।। ।।
नर्मदेशस्य माहात्म्यं कथयामि मुने तव ।।
यस्य स्मरणमात्रेण महापातकसंक्षयः ।। १ ।।
अस्य वाराहकल्पस्य प्रवेशे मुनिपुंगवैः ।।
आपृच्छि का सरिच्छ्रेष्ठा वद तां त्वं मृकंडज ।।२।।
मार्कंडेय उवाच ।। ।।
शृणुध्वं मुनयः सर्वे संति नद्यः परःशतम् ।।
सर्वा अप्यघहारिण्यः सर्वा अपि वृषप्रदाः ।।३।।
सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः।।
ततोपि हि महाश्रेष्ठाः सरित्सु सरिदुत्तमाः ।। ४ ।।
गंगा च यमुनाचाथ नर्मदा च सरस्वती ।।
चतुष्टयमिदं पुण्यं धुनीषु मुनिपुंगवाः ।। ५ ।।
ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम् ।।
नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती ।। ६ ।।
गंगा सर्वसरिद्योनिः समुद्रस्यापि पूरणी ।।
गंगाया न लभेत्साम्यं काचिदत्र सरिद्वरा ।। ।। ७ ।।
किंतु पूर्वं तपस्तप्त्वा रेवया बह्वनेहसम् ।।
वरदानोन्मुखो धाता प्रार्थितश्चेति सत्तम ।। ८ ।।
गंगा साम्यं विधे देहि प्रसन्नोसि यदि प्रभो ।।
ब्रह्मणाथ ततः प्रोक्ता नर्मदा स्मितपूर्वकम् ।।९।।
यदि त्र्यक्षसमत्वं तु लभ्यतेऽन्येन केनचित् ।।
तदा गंगासमत्वं च लभ्यते सरितान्यया ।।4.2.92.१०।।
पुरुषोत्तम तुल्यः स्यात्पुरुषोन्यो यदि क्वचित ।।
स्रोतस्विनी तदा साम्यं लभते गंगया परा ।। ११ ।।
यदि गौरी समा नारी क्वचिदन्या भवेदिह ।।
अन्या धुनीह स्वर्धुन्यास्तदा साम्यमुपैष्यति ।। १२ ।।
यदि काशीपुरी तुल्या भवेदस्या क्वचित्पुरी ।।
तदा स्वर्गतरंगिण्याः साम्यमन्या नदी लभेत् ।। १३ ।।
निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा ।।
धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम् ।। १४ ।।
सर्वेभ्योपि हि पुण्येभ्यः काश्यां लिंगप्रतिष्ठितेः ।।
अपरा न समुद्दिष्टा कैश्चिच्छ्रेयस्करी क्रिया ।। १५ ।।
अथ सा नर्मदा पुण्या विधिपूर्वां प्रतिष्ठितिम् ।।
व्यधात्पिलिपिलातीर्थे त्रिविषिष्टपसमीपतः ।। १६ ।।
ततः शंभुः प्रसन्नोभूऽत्तस्यै नद्यै शुभात्मने ।।
वरं वृणीष्व सुभगे यत्तुभ्यं रोचतेऽनघे ।। १७ ।।
सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् ।।
किं वरेणेह देवेश भृशं तुच्छेन धूर्जटे ।। ।। १८ ।।
निर्द्वंद्वा त्वत्पदद्वंद्वे भक्तिरस्तु महेश्वर ।।
श्रुत्वेति नितरां तुष्टो रेवागिरमनुत्तमाम् ।। १९ ।।
प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् ।।
गृहाण पुण्यनिलये वितरामि वरांतरम् ।। 4.2.92.२० ।।
यावंत्यो दृषदः संति तव रोधसि नर्मदे ।।
तावंत्यो लिंगरूपिण्यो भविष्यंति वरान्मम ।। २१ ।।
अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम् ।।
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः ।। २२ ।।
सद्यः पापहरा गंगा सप्ताहेन कलिंदजा ।।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः ।। ।। २३ ।।
अपरं च वरं दद्यां नर्मदे दर्शनाघहे ।।
भवत्या स्थापितं लिंगं नर्मदेश्वरसंजकम् ।। २४ ।।
यत्तल्लिंगं महापुण्यं मुक्तिं दास्यति शाश्वतीम ।।
अस्य लिंगस्य ये भक्तास्तान्दृष्ट्वा सूर्यनंदनः ।। २५ ।।
प्रणमिष्यंति यत्नेन महाश्रेयोभिवृद्धये ।।
संति लिंगान्यनेकानि काश्यां देवि पदेपदे ।। २६ ।।
परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः ।।
इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ ।। २७ ।।
नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम् ।।
स्वदेशं च परिप्राप्ता दृष्टमात्राघहारिणी ।। २८ ।।
वाक्यं मृकंडजमुनेस्तेपि श्रुत्वा मुनीश्वराः ।।
प्रहृष्टचेतसो जाताश्चक्रुः स्वं स्वं ततो हितम् ।। २९ ।।
।। स्कंद उवाच ।। ।।
नर्मदेशस्य माहात्म्यं श्रुत्वा भक्तियुतो नरः ।।
पापकंचुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम् ।। 4.2.92.३० ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे नर्मदेश्वराख्यानं नाम द्विनवतितमोऽध्यायः ।। ९२ ।।