स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४३

विकिस्रोतः तः

।। अगस्तिरुवाच ।। ।।
दिवोदासं नरपतिं कथं देवस्त्रिलोचनः ।।
काशीं संत्याजयामास कथमागाच्च मंदरात् ।।
एतदाख्यानमाख्याहि श्रोतॄणां प्रमुदे भगोः ।। १ ।।
।। स्कंद उवाच ।। ।।
मंदरं गतवान्देवो ब्रह्मणो वाक्य गौरवात् ।।
तपसा तस्य संतुष्टो मंदरस्यैव भूभृतः ।। २ ।।
गते विश्वेश्वरे देवे मंदरं गिरिसुंदरम् ।।
गिरिशेन समं जग्मुरपि सर्वे दिवौकसः ।। ३ ।।
क्षेत्राणि वैष्णवानीह त्यक्त्वा विष्णुरपि क्षितेः ।।
प्रयातो मंदरं यत्र देवदेव उमाधवः ।। ४ ।।
स्थानानि गाणपत्यानि गणेशोपि ततो व्रजत् ।।
हित्वाहमपि विप्रेंद्र गतवान्मंदरं प्रति ।। ५ ।।
सूरः सौराणि संत्यज्य गतश्चायतनादरम् ।।
स्वंस्वं स्थानं क्षितौ त्यक्त्वा ययुरन्येपि निर्जराः ।। ६।।
गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः ।।
चकार राज्यं निर्द्वंद्वं दिवोदासः प्रतापवान् ।। ७ ।।
विधाय राजधानीं स वाराणस्यां सुनिश्चलाम् ।।
एधां चक्रे महाबुद्धिः प्रजाधर्मेण पालयन् ।। ८ ।।
सूर्यवत्स प्रतपिता दुर्हृदां हृदि नेत्रयोः ।।
सोमवत्सुहृदामासीन्मानसेषु स्वकेष्वऽपि ।। ९ ।।
अखंडमाखंडलवत्कोदंडकलयन्रणे ।।
पलायमानैरालोकिशत्रुसैन्यबलाहकैः ।। 4.1.43.१० ।।
स धर्मराजवज्जातो धर्माधर्मविवेचकः ।।
अदंड्यान्मण्डयन्राजा दंड्यांश्च परिदंडयन् ।। ११ ।।
धनंजय इवाधाक्षीत्परारण्यान्यनेकशः ।।
पाशीव पाशयांचक्रे वैरिचक्रं विदूरगः ।। १२ ।।
सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः ।।
जगत्प्राणसमानश्च जगत्प्राणनतत्परः ।।१३।।
राजराजः स एवाभूत्सर्वेषां धनदः सताम् ।।
स एव रुद्रमूर्तिश्च प्रेक्षिष्ट रिपुभी रणे ।। १४ ।।
विश्वेषां स हि देवानां तपसा रूपधृग्यतः ।।
विश्वेदेवास्ततस्तं तु स्तुवंति च भजंति च ।। १५ ।।
असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः ।।
ग्रहाणां विग्रहधरो दस्रतोऽजस्ररूपभाक् ।। १६ ।।
मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः ।।
सर्वविद्याधरो यस्तु सर्वविद्याधरेष्वपि ।। १७ ।।
अगर्वानेव गंधर्वान्यश्चक्रे निजगीतिभिः ।।
ररक्षुर्यक्षरक्षांसि तद्दुर्गं स्वर्गसोदरम् ।। १८ ।।
नागानागांसि चक्रुश्च तस्य नागबलीयसः ।।
दनुजामनुजाकारं कृत्वा तं च सिषेविरे ।। १९ ।।
जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु ।।
संसेविष्यामहे राजन्नसुरास्त्वां स्ववैभवैः ।। 4.1.43.२० ।।
वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः ।।
अशिक्षयत्क्षितिपतेरिह यस्य तुरंगमान् ।।
आशुगश्चाशुगामित्वं पावमाने पथिस्थितः ।। २१ ।।
अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः ।।
अजस्र दानिनो दृष्ट्वा भवन्नन्येपि दानिनः ।। २२ ।।
सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे ।।
न यस्य शास्त्रैर्विजिता न शस्त्रैः केनचित्क्वचित् ।। २३ ।।
न नेत्रविषये जाता विषये यस्यभूभृतः ।।
सदा नष्टपदा द्वेष्यास्तदाऽनष्टपदाः प्रजाः ।। २४ ।।
कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम् ।।
तस्य क्षोणिभृतः क्षोण्यां जनाः सर्वे कलालयाः ।। २५ ।।
एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः ।।
सांगोपांगाश्च सर्वेषां सर्वे कामा हि तद्भुवि ।।२६।।
तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित् ।।
स्वर्गे स्वर्गसदामीशो गोत्रभित्परिकीर्तितः ।। २७ ।।
क्षयी च तस्य विषये कोप्याकर्णि न केनचित् ।।
त्रिविष्टपे क्षपानाथः पक्षेपक्षे क्षयीष्यते ।। २८ ।।
नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः ।। २९ ।।
हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते ।।
हिरण्यगर्भाः सर्वेषां तत्पौराणामिहालयाः ।। 4.1.43.३० ।।
सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान् ।।
सदंशुकाः प्रतिदिनं बह्वश्वास्तत्पुरौकसः ।। ३१ ।।
सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः ।।
एकैव पद्मा वैकुंठे तस्य पद्माकराः शतम् ।। ।। ३२ ।।
अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित् ।।
गृहेगृहेत्र धनदा नाक एकोऽलकापतिः ।। ३३ ।।
दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः ।।
गतं वर्षं दिनप्रायं शरदामयुताष्टकम् ।। ३४ ।।
गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः ।।
गुरुणा मंत्रयांचक्रुर्धर्मवर्त्मानुयायिनः ।।३५।।
भवादृशामिव मुने प्रायशो धर्मचारिणाम् ।।
विबुधा विदधत्येव महतीरापदांततीः ।।३६।।
यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः ।।
तानध्वरभुजोऽत्यंतं तथापि सुहृदो न ते ।। ३७ ।।
स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता ।।
बलि बाण दधीच्याद्यैरपराद्धं किमत्र तैः ।।३८।।
अंतराया भवंत्येव धर्मस्यापि पदेपदे ।।
तथापि न निजो धर्मो धर्मधीभिर्विमुच्यते ।। ३९ ।।
अधर्मिणः समेधंते धनधान्यसमृद्धिभिः ।।
अधर्मादेव च परं समूलं यांत्यधोगतिम् ।। 4.1.43.४० ।।
प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान् ।।
रिपुंजयस्य नाल्पोपि बभूवाधर्मसंग्रहः ।।४१।।
षाड्गुण्यवेदिनस्तस्य त्रिशक्त्यूर्जितचेतसः ।।
चतुरोपायवित्तस्य न रंध्रं विविदुः सुराः ।। ४२ ।।
बुद्धिमंतोपि विबुधा विप्रतीकर्तुमुद्यताः ।।
मनागपि न संशेकुरपकर्तुं तदीशितुः ।। ४३ ।।
एकपत्नीव्रताः सर्वे पुमांसस्तस्य मंडले ।।
नारीषु काचिन्नैवासीदपतिव्रतधर्मिणी ।। ४४ ।।
अनधीतो न विप्रोभूदशूरोनैव बाहुजः ।।
वैश्योनभिज्ञो नैवासीदर्थोपार्जनकर्मसु ।।४५।।
अनन्यवृत्तयः शूद्रा द्विजशुश्रूषणं प्रति ।।
तस्य राष्ट्रे समभवन्दिवोदासस्य भूपतेः ।। ४६ ।।
अविप्लुत ब्रह्मचर्यास्तद्राष्ट्रे ब्रह्मचारिणः ।।
नित्यं गुरुकुलाधीना वेदग्रहणतत्पराः ।। ४७ ।।
आतिथ्यधर्मप्रवणा धर्मशास्त्रविचक्षणाः ।।
नित्यसाधुसमाचारा गृहस्थास्तस्य सर्वतः ।। ४८ ।।
तृतीयाश्रमिणो यस्मिन्वनवृत्तिकृतादराः ।।
निःस्पृहा ग्रामवार्तासु वेदवर्त्मानुसारिणः ।। ४९ ।।
सर्वसंगविनिर्मुक्ता निर्मुक्ता निष्परिग्रहाः ।।
वाङ्मनःकर्मदंडाढ्या यतयो यत्र निःस्पृहाः ।। 4.1.43.५० ।।
अन्येनुलोमजन्मानः प्रतिलो मभवा अपि ।।
स्वपारंपर्यतो दृष्टं मनाग्वर्त्म न तत्यजुः ।। ५१ ।।
अनपत्या न तद्राष्ट्रे धनहीनोपि कोपि न ।।
अवृद्धसेवी नो कश्चिदकांडमृतिभाक्च न ।। ५२ ।।
न चाटा नैव वाचाटा वंचका नो न हिंसकाः ।।
न पाषंडा न वै भंडा न रंडा न च शौंडिकाः ।।५३।।
श्रुतिघोषो हि सर्वत्र शास्त्रवादः पदेपदे ।।
सर्वत्र सुभगालापा मुदामंगलगीतयः ।।५४ ।।
वीणावेणुप्रवादाश्च मृदंगा मधुरस्वनाः ।।
सोमपानं विनान्यत्र पानगोष्ठी न कर्णगा ।।५५।।
मांसाशिनः पुरोडाशे नैवान्यत्र कदाचन ।।
न दुरोदरिणो यत्र नाधमर्णा न तस्कराः ।। ५६ ।।
पुत्रस्य पित्रोः पदयोः पूजनं देवपूजनम् ।।
उपवासो व्रतं तीर्थं देवताराधनं परम् ।। ५७ ।।
नारीणां भर्तृपद् योरर्चनं तद्वचःश्रुतिः ।।
समर्चयंति सततमनुजा निजमग्रजम् ।। ५८ ।।
सपर्ययंति मुदिता भृत्याः स्वामिपदांबुजम् ।।
हीनवर्णैरग्रवर्णो वर्ण्यते गुणगौरवैः ।। ५९ ।।
वरिवस्यंति भूयोपि त्रिकालं काशिदेवताः ।।
सर्वत्र सर्वे विद्वांसः समर्च्यंते मनोरथैः ।। 4.1.43.६० ।।
विद्वद्भिश्च तपोनिष्ठास्तपोनिष्ठैर्जितेंद्रियाः ।।
जितेंद्रियैर्ज्ञाननिष्ठा ज्ञानिभिः शिवयोगिनः ।। ६१ ।।
मंत्रपूतं महार्हं च विधियुक्तं सुसंस्कृतम् ।।
वाडवानां मुखाग्नौ च हूयतेऽहर्निशं हविः ।। ६२ ।।
वापीकूपतडागानामारामाणां पदेपदे ।।
शुचिभिर्द्रव्यसंभारैः कर्तारो यत्र भूरिशः ।। ६३ ।।
यद्राष्ट्रे हृष्टपुष्टाश्च दृश्यंते सर्वजातयः ।।
अनिंद्यसेवा संपन्ना विनामृगयु सौनिकान् ।। ६४ ।।
इत्थं तस्य महीजानेः सर्वत्र शुचिवर्तिनः ।।
उन्मिषंतोप्यनिमिषा मनाक्छिद्रं न लेभिरे ।। ६५ ।।
अथोवाचामर गुरुर्देवानपचिकीर्षुकान् ।।
तस्मिन्राजनि धर्मिष्ठे वरिष्ठे मंत्रवेदिषु ।।६८।।
।। गुरुरुवाच ।। ।।
संधिविग्रहयानास्ति सं श्रयं द्वैधभावनम् ।।
यथा स राजा संवेत्ति न तथात्रापि कश्चन ।। ६७ ।।
उपायोप्येक एवास्ति चतुर्ष्विह दिवौकसः ।।
भेदो नाम स चेत्सिध्येत्तपोबलिनि तत्र हि ।।६८।।
तेन यद्यपि भूभर्त्रा भूमेर्देवा विवासिताः ।।
तथापि भूरिशस्तत्र संत्यस्मत्पक्षपातिनः ।। ६९ ।।
कालो निमिषमात्रोपि यान्विना न सुखं व्रजेत् ।।
अस्माकमपि तस्यापि संति ते तत्र मानिताः ।। 4.1.43.७० ।।
अंतर्बहिश्चरा नित्यं सर्वविश्रंभ भूमयः ।।
समागतेषु तेष्वत्र सर्वं नः सेत्स्यति प्रियम् ।। ७१ ।।
समाकर्ण्य च ते सर्वे त्रिदशा गीष्पतीरितम् ।।
निर्णीतवंतस्तस्यार्थं तस्मादंतर्बहिश्चरान् ।।
अभिनंद्याथ तं सर्वे प्रोचुरित्थं भवेदिति ।। ७२ ।।
ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम् ।।
ऊचे मधुरया वाचा बहुमानपुरःसरम् ।। ७३ ।।
हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता ।।
तामुपासंहर क्षिप्रं विषयात्तस्य भूपतेः ।। ।। ७४ ।।
समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः ।।
हव्यकव्यक्रियाशून्या विरजिष्यंति राजनि ।। ७५ ।।
प्रजासु च विरक्तासु राज्यकामदुघासु वै ।।
कृच्छ्रेणोपार्जितोऽपार्थो राजशब्दो भविष्यति ।। ७६ ।।
प्रजानां रंजनाद्राजा येयं रूढिरुपार्जिता ।।
तस्यां रूढ्यां प्रनष्टायां राज्यमेव विनंक्ष्यति ।। ७७ ।।
प्रजाविरहितो राजा कोशदुर्गबलादिभिः ।।
समृद्धोप्यचिरान्नश्येत्कूलसंस्थ इव द्रुमः ।। ७८ ।।
त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः ।।
क्षीणवृत्त्यां प्रजायां वै त्रिवर्गः क्षीयते स्वयम् ।। ७९ ।।
क्षीणे त्रिवर्गे संक्षीणा गतिर्लोकद्वयात्मिका ।। 4.1.43.८० ।।
इतींद्रवचनाद्वह्निरह्नाय क्षोणिमंडलात् ।।
आचकर्ष निजां मूर्तिं योगमाया बलान्वितः ।। ८१ ।।
निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः ।।
वज्रिणो वचसा वह्निर्निजशक्तिसमन्वितम् ।। ८२ ।।
वह्नौ स्वर्लोकमापन्ने जाते मध्यंदिने नृपः ।।
कृतमाध्याह्निकस्तूर्णं प्राविशद्भोज्यमंडपम् ।। ८३ ।।
महानसाधिकृतयो वेपमानास्ततो मुहुः ।।
क्षुधार्तमपि भूपालमिदं मंदं व्यजिज्ञपन् ।। ८४ ।।
सूपकारा ऊचुः ।।
अत्यहस्करतेजस्क प्रतापविजितानल ।।
किंचिद्विज्ञप्तुकामाः स्मोप्यकांडेरणपंडित ।। ८५ ।।
यदि विश्रुणयेद्राजन्भवानभयदक्षिणाम् ।।
तदा विज्ञापयिष्यामः प्रबद्धकरसंपुटाः ।। ८६ ।।
भ्रूसंज्ञयाकृतादेशाः प्रशस्तास्येनभूभुजा ।।
मृदु विज्ञापयांचक्रुः पाकशालाधिकारिणः ।। ८७ ।।
न जानीमो वयं नाथ त्वत्प्रतापभयार्दितः ।।
कुसृत्याथ कया विद्वान्नष्टो वैश्वानरः पुरात् ।। ८८ ।।
कृशानौ कृशतां प्राप्ते कथं पाकक्रिया भवेत् ।।
तथापि सूर्यपाकेन सिद्धा पक्तिर्हि काचन ।। ८९ ।।
प्रभोरादेशमासाद्य तामिहैवानयामहे ।।
मन्यामहे च भूजाने पक्तिरद्यतनी शुभा ।। 4.1.43.९० ।।
श्रुत्वांधसिकवाक्यं स महासत्त्वो महामतिः ।।
नृपतिश्चिंतयामास देवानां वै कृतं त्विदम् ।। ९१ ।।
क्षणं संशीलयंस्तत्र ददर्श तपसोबलात् ।।
न केवलं जहौ गेहं हुतभुक्चौदरीर्दरीः ।। ९२ ।।
अप्यहासीदितोलोकाज्जगाम च सुरालयम् ।।
भवत्विह हि का हानिरस्माकं ज्वलने गतै ।। ९३ ।।
तेषामेवविचाराच्च हानिरेषा सुपर्वणाम् ।।
तद्बलेन च किं राज्यं मयेदमुररीकृतम् ।। ९४ ।।
पितामहेन महतो गौरवात्प्रतिपादितम् ।।
इति चिंतयतस्तस्य मध्यलोकशतक्रतोः ।। ९५ ।।
पौराः समागता द्वारि सह जानपदैर्नरैः ।।
द्वास्थेन चाज्ञया राज्ञस्ततस्तेंतः प्रवेशिताः ।। ९६ ।।
दत्त्वोपदं यथार्हं ते प्रणेमुः क्षोणिवज्रिणम् ।।
केचित्संभाषिता राज्ञादरसोदरया गिरा ।। ९७ ।।
केचिच्च समुदा दृष्ट्या केचिच्च करसंज्ञया ।।
विसर्जिता सना राज्ञा बहुमानपुरःसरम् ।। ९८ ।।
तेजिरे भेजिरे सर्वे रत्नार्चिः परिसेविते ।।
विजितामोदसंदोहे सुरानोकहसौरभैः ।।
राज्ञः शतशलाकस्थच्छत्रस्यच्छाययाशुभे ।। ९९ ।।
विशांपतिरथोवाच तन्मुखच्छाययेरितम् ।।
विज्ञाय तदभिप्रायमलंभीत्या पुरौकसः ।। 4.1.43.१०० ।।
विकारकारिभिर्लेखैर्यदिनीतोऽनलो भुवः ।।
एतावतैव किं सिद्धयेन्मयि तेषां पराभवः ।। १ ।।
चिकीर्षुरहमेवासं पौराः कार्यमिदंपुरा ।।
परं ह्युपेक्षितप्रायं दिष्ट्या तैः स्मारितं चिरात् ।। २ ।।
गतोऽनलोऽभवद्भद्रं जगत्प्राणोपि यात्वितः ।।
वरुणः पुष्पवंताभ्यामविलंबं प्रयात्वितः ।। ३ ।।
अहमेव हि पर्जन्यो भविष्यामि तपोबलात् ।।
मुदे जनपदानां च सर्वसस्यसमृद्धिदः ।। ४ ।।
तपोयोगबलेनाहमात्मानं परिकल्प्य च ।।
त्रिधावह्निस्वरूपेण पक्तीष्टिव्युष्टिकृत्तमः ।। ५।।
अंतर्बहिश्च यो द्वेधा नभस्वत्पदवी दधत् ।।
सर्वेषामेव वेत्स्यामि त्वंतःकरणचेष्टितम् ।। ६ ।।
विधाय चांभसीं मूर्तिं सर्वजीवैकजीवनीम् ।।
प्रजाः संजीवयिप्यामि किं जडैर्विषये मम ।। ७ ।।
यदा खे तमसा पौरा ग्रस्येते शशिभास्करौ ।।
तदा न किं विना ताभ्यां जीवामः क्षितिमंडले ।। ८ ।।
श्रियं चांद्रमसीं प्राप्य ह्लादयिष्याम्यहं प्रजाः ।।
निशाचरेण किमिह क्षयिणा च कलंकिना ।। ९ ।।
अस्मत्कुले मूलभूतो भास्करो मान्य एव नः ।।
स तिष्ठतु सुखेनात्र यातायातं करोतु च ।। 4.1.43.११० ।।
स एको जगतामात्मा विशेषात्कुलदेवता ।।
सोपकर्तुं न वेत्त्येव तस्येदं व्रतमुत्तमम् ।। ११ ।।
इति नरपतिवाक्सुधारसौघं श्रुतिपुटकैः परिपीय पौरवर्गः ।।
विकसितवदनांबुजो जगामनिजनिजमालयमाधिमुक्तचित्तः ।। १२ ।।
क्षितिपतिरपि तत्तथा विधाय तपसोसाध्यमिहास्ति किं त्रिलोक्याम् ।।
अतिवह्न्यर्कमसौ दधच्चतेजो द्युसदां शल्यमिवोच्चकैर्बभूव ।। १३ ।।
इति श्रीस्कांदे महापुरण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दिवोदासप्रतापवर्णनंनाम त्रिचत्वारिंशोध्यायः ।।४३।।