स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४९ स्कन्दपुराणम् - नागरखण्डः
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ०५१ →

।। स्कंद उवाच ।। ।।
वाराणस्यां तथादित्या ये चान्ये तान्वदाम्यतः ।।
कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः ।। १ ।।
खखोल्को नाम भगवानादित्य परिकीर्तितः ।।
त्रिविष्टपोत्तरे भागे सर्वव्याधिविघातकृत् ।। २ ।।
यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु ।।
पुरा कद्रूश्च विनता दक्षस्य तनये शुभे ।। ।।३।।
कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः ।।
क्रीडंत्यावेकदान्योन्यं मुने ते ऊचतुस्त्विति ।। ४ ।।
।। कद्रूरुवाच ।। ।।
विनते त्वं विजानासि यदि तद्ब्रूहि मेग्रतः।।
अखंडिता गतिस्तेस्ति यतो गगनमंडले ।। ५ ।।
योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे ।।
किं रूपःसोस्ति शबलो धवलो वा वदाशु मे ।। ६ ।।
पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे ।।
एवमेव न यात्येष कालक्रीडनकं विना ।।७।।
।। विनतोवाच ।। ।।
किं पणेन भगिन्यत्र कथयाम्येवमेव हि ।।
त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम् ।। ८ ।।
ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता ।।
ध्रुवमेकस्य विजये क्रोधोन्स्येह जायते ।।९।।
कद्रूरुवाच ।।
क्रीडेयं नात्र भगिनि कारणं किमपि क्रुधः ।।
खेलस्य व्यवहारोयं पणे यत्किंचिदुच्यते ।। 4.1.50.१० ।।
।। विनतोवाच ।। ।।
तथा कुरु यथा प्रीतिस्तवास्ति पवनाशिनि ।।
अथ तां विनतामाह कद्रूः कुटिलमानसा ।। ११ ।।
तस्यास्तु सा भवेद्दासी पराजीयेत या यया ।।
अस्मिन्पणे इमाः सर्वाः सख्यः साक्षिण्य एव नौ ।। १२ ।।
इत्यन्योन्यं पणीकृत्य सर्पिण्यपि पतत्त्रिणी ।।
उवाच कर्बुरं कद्रूरश्वं श्वेतं गरुत्मती ।। १३ ।।
कदागंतव्यमिति च चक्राते ते गमावधिम् ।।
जग्मतुश्च विरम्याथ क्रीडनात्स्वस्वमालयम् ।। १४ ।।
विनतायां गतायां तु कद्रूराहूय चांगजान् ।।
उवाच यात वै पुत्रा द्रुतं वचनतो मम ।। १५।।
तुरंगमुच्चैःश्रवसं प्रोद्भूतं क्षीरनीरधेः ।।
सुरासुरैर्मथ्यमानान्मंदराघातसाध्वसात् ।। १६ ।।
कार्यकारणरूपस्य सादृश्यमधिगच्छति ।।
अतस्तं क्षीरवर्णाभं कल्माषयत पुत्रकाः ।। १७ ।।
तस्य वालधिमध्यास्य कृष्णकुंतलतां गताः ।।
तथा तदंगलोमानि विधत्तविषसीत्कृतैः ।। १८ ।।
इति श्रुत्वा वचो मातुः काद्रवेयाः परस्परम् ।।
संमंत्र्य मातरं प्रोचुः कद्रूं कद्रूपमागताः ।। १९ ।।
।। नागा ऊचुः ।। ।।
मातर्वयं त्वदाह्वानाद्विहाय क्रीडनं बलात् ।।
प्राप्ताः प्रहृष्टा मृष्टान्नं दास्यत्यद्य प्रसूरिति ।। 4.1.50.२० ।।
मृष्टं तिष्ठतु तद्दूरं विषादप्यधिकं कटु ।।
तत्त्वया वादियन्मंत्रैरौषधैर्नोपशाम्यति ।। २१ ।।
वयं न यामो यद्भाव्यं तदस्माकं भवत्विह ।।
इति प्रोक्तं विषास्यैस्तैस्तदा कुटिलगामिभिः ।। २२ ।।
।। स्कंद उवाच ।। ।।
अन्येपि ये कुटिलगाः पररंध्रनिषेविणः ।।
अकर्णाः कूरहृदयाः पितरौ व्रीडयंति ते ।। २३ ।।
पित्रोर्गिरं निराकृत्य ये तिष्ठेयुः सुदुर्मदाः ।।
अत्याहितमिह प्राप्य गच्छेयुस्तेऽचिराल्लयम् ।। २४ ।।
तेषां वचनमाकर्ण्य नयाम इति सोरगी ।।
शशाप तान्क्रुधाविष्टा नागांश्चागः समागतान् ।। २५ ।।
तार्क्ष्यस्य भक्ष्या भवत यूयं मद्वाक्यलंघनात् ।।
जातमात्राश्च सर्पिण्यो भक्षयंतु स्वबालकान् ।। २६ ।।
इति शापानलाद्भीतैः कैश्चित्पातालमाश्रितम् ।।
जिजीविषुभिरन्यैश्च द्वित्रैश्चक्रे प्रसूवचः ।। २७ ।।
ते पुच्छमौच्चैःश्रवसमधिगम्य महाधियः ।।
सुनीलचिकुराभासं चक्रुरंगं च कर्बुरम् ।। २८ ।।
तत्क्ष्वेडानल धूमौघैः फूत्कारभरनिःसृतैः।।
मातृवाक्कृतिजाद्धर्मान्न दग्धा भानुभानुभिः ।। २९ ।।
विनतापृष्ठमारुह्य कद्रूः स्नेहवशात्ततः ।।
वियन्मार्गमलंकृत्य ददर्शोष्णांशुमंडलम् ।। 4.1.50.३० ।।
तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा ।।
कद्रुस्ततः खगीं प्राह विस्रब्धं विनते व्रज ।। ३१ ।।
उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः ।।
विस्रब्धाहं स्वभावेन त्वं सापेक्षाहि सर्वतः ।। ।। ३२ ।।
स्वरूपेण पतंगी त्वं पतंगोसौ सहस्रगुः ।।
अतएव न ते बाधा गगने तापसंभवा ।। ३३ ।।
वियत्सरसि हंसोयं भवती हंसगामिनी ।।
चंडरश्मिप्रतापाग्निस्त्वामतो नेह बाधते ।। ३४ ।।
खगीमुद्गीयमानां खे पुनरूचे बिलेशया ।।
त्राहित्राहि भगिन्यत्र यावोन्यत्र वियत्पथः ।। ३५ ।।
विनते विनतां मां त्वं किं नावसि पतत्त्रिणी ।।
तव दासी भविष्यामि त्वदुच्छिष्टनिषेविणी ।।३६ ।।
यावज्जीवमहं भूयां त्वत्पादोदकपायिनी ।।
खखोल्कानि पतेदेषा भृशगद्गदभाषिणी ।।।। ३७ ।।
मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी।।
सख्युल्कानि पतेदेषा वक्तव्ये त्विति संभ्रमात् ।। ३८ ।।
खखोल्केति यदुक्ता गीः कद्र्वा संभ्रातचेतसा ।।
तदा खखोल्कनामार्कः स्तुतो विनतया बहु ।। ३९ ।।
मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति ।।
ताभ्यां तुरंगमो दर्शि किंचित्किर्मीरवान्रथे ।। 4.1.50.४० ।।
उक्ता विनतयैवैषा तापोपहतलोचना ।।
क्रूरा सरीसृपी सत्यवादिन्या विश्वमान्यया ।। ४१ ।।
कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः ।।
चंद्ररश्मिप्रभोप्येष कल्माष इव भासते ।। ४२ ।।
विधिर्बलीयान्भुजगि चित्रं जयपराजये ।।
क्रूरोपि विजयी क्वापि त्वक्रूरोपि पराजयी ।। ४३ ।।
विनताविनताधारा वदंतीति यथागतम् ।।
कद्रूनिवेशनं प्राप्ता तस्या दास्यमचीकरत् ।।४४।।
कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना ।।
विच्छाया मलिना दीना दीर्घनिःश्वासवत्यपि ।। ।। ४५ ।।
सुपर्ण उवाच ।। ।।
प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने ।।
सायमायासि च कुतो विच्छाया दीनमानसा ।। ४६ ।।
कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना ।।
यथा क्लीबसुता योषिद्यथापति तिरस्कृता ।।४७।।
ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि ।।
मयि जीवति ते बाले कालेपि कृतसाध्वसे।। ।। ४८ ।।
अश्रुनिर्माणकरणे कारणं किं तपस्विनि ।।
सुचरित्रा सुनारीषु नामंगलमिहेष्यते ।। ४९ ।।
धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् ।।
वरं वंध्यैव सा यस्याः सुता वंध्यमनोरथाः ।।4.1.50.५० ।।
इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः ।।
विनता प्राह तं पुत्रं मातृभक्तिसमन्वितम् ।। ५१ ।।
अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः ।।
पृष्ठे वहामि तां नित्यं तत्पुत्रानपि पुत्रक।।५२।।
कदाचिन्मंदरं यामि कदाचिन्मलयाचलम् ।।
कदाचिदंतरीपेषु चरेयं तदुदन्वताम् ।। ।। ५३ ।।
यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः ।।
व्रजेयं तत्रतत्राहं तदधीना यतः सुत ।। ५४।।
गरुड उवाच ।। ।।
दासीत्वकारणं मातः किं ते जातं सुलक्षणे ।।
दक्षप्रजापतेः पुत्रि कश्यपस्यप्रियेऽनघे ।। ५५ ।।
विनतोवाच गरुडं पुरावृत्तमशेषतः ।।
दासीत्वकारणं यद्वदादित्याश्वविलोकनम् ।। ५६ ।।
श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज।।
पृच्छाद्य मातस्तान्दुष्टान्काद्रवेयानिदं वचः ।।५७।।
यद्दुर्लभं हि भवतां यत्रात्यंतरुचिश्च वः ।।
मद्दासीत्वविमोक्षाय तद्याचध्वं ददाम्यहम्।। ।। ५८ ।।
तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम् ।।
सर्पाः संमंत्र्य तां प्रोचुर्विनतां हृष्टमानसाः ।। ५९ ।।
मातृशापविमोक्षाय यदि दास्यति नः सुधाम् ।।
तदा समीहितं तेस्तु न दास्यत्यथ दास्यसि ।। 4.1.50.६० ।।
इत्योंकृत्य समापृच्छ्य कद्रूं द्रुतगतिः खगी ।।
गरुत्मंतं समाचष्ट दृष्ट्वा संहृष्टमानसम् ।। ६१ ।।
नागांतकस्ततः प्राह मातरं चिंतयातुराम् ।।
आनीतं विद्धि पीयूषं मातर्मे देहि भोजनम्।। ६२ ।।
विनता प्राह तं पुत्रं संप्रहृष्टतनूरुहा ।।
भोः सुपर्णार्णवं तूर्णं याहि मंगलमस्तु ते ।। ६३ ।।
संति तत्रापि बहुशो निषादा मत्स्यघातिनः ।।
वेलातटनिवासाश्च तान्भक्षय दुरात्मनः ।। ६४ ।।
परप्राणैर्निजप्राणान्ये पुष्णंतीह दुर्धियः ।।
शासनीयाः प्रयत्नेन श्रेयस्तच्छासनं परम् ।। ६५ ।।
बहुहिंसाकृतां हिंसा भवेत्स्वर्गस्य साधनम् ।।
विहिंसितेषु दुष्टेषु रक्ष्यते भूरिशो यतः ।।६६।।
निषादेष्वपि चेद्विप्रः कश्चिद्भवति पुत्रक ।।
संरक्षणीयो यत्नेन भक्षणीयो न कर्हिचित् ।। ६७ ।।
।। गरुड उवाच ।। ।।
मत्स्यादिनां वसन्मध्ये कथं ज्ञेयो द्विजो मया ।। अभक्ष्यो यस्त्वया प्रोक्तस्तच्चिह्नं किं चनात्थ मे ।। ६८ ।।
।। विनतोवाच ।।
यज्ञसूत्रं गले यस्य सोत्तरीयं सुनिर्मलम् ।।
नित्यधौतानि वासांसि भालं तिलक लांछितम् ।।६९।।
सपवित्रौ करौ यस्य यन्नीवी कुशगर्भिणी।।
यन्मौलिः सशिखाग्रंथिः स ज्ञेयो ब्राह्मणस्त्वया ।। 4.1.50.७० ।।
उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः ।।
गायत्रीमात्रमंत्रोपि स विज्ञेयो द्विजस्त्वया ।। ७१ ।।
गरुड उवाच ।।
मध्ये सदा निषादानां यो वसेज्जननि द्विजः ।।
तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम् ।। ७२ ।।
लक्ष्मांतरं समाचक्ष्व द्विजबोधकरं प्रसूः ।।
येन विज्ञाय तं विप्रं त्यजेयमपि कंठगम् ।। ७३ ।।
तच्छ्रुत्वा विनता प्राह यस्ते कंठगतोंऽगज ।।
खदिरांगारवद्दह्यात्तमपाकुरु दूरतः ।। ७४ ।।
द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न ।।
देशं वंशं श्रियं स्वं च निर्मूलयति कालतः ।। ७५ ।।
निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च ।।
गृहीताशीर्ययौ शीघ्रं खमार्गेण खगेश्वरः ।।७६।।
दूरादालोकयांचक्रे निषादान्मत्स्यजीविनः ।।
पक्षौ विधूय पक्षींद्रो रजसापूर्य रोदसी ।। ७७ ।।
अंधीकृत्य दिशोभागानब्धिरोधस्युपाविशत् ।।
व्यादाय वदनं घोरं महाकंदरसन्निभम् ।। ७८ ।।
कांदिशीका निषादास्तु विविशुस्तत्र च स्वयम् ।।
मन्वानेष्वथ पंथानं तेषु कंठं विशत्स्वपि ।।७९ ।।
जज्वालेंगलसंस्पर्शो द्विजस्तत्कंठकंदलीम् ।।
प्राक्प्रविष्टानथो तार्क्ष्यो निषादानौदरीं दरीम् ।। 4.1.50.८० ।।
प्रवेश्य कंठतालुस्थं तं विज्ञाय द्विजस्फुटम् ।।
भयादुदगिरत्तूर्णं मातृवाक्येन यंत्रितः ।। ८१ ।।
तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत ।।
कस्त्वं जात्यासि निगद मम कंठविदाहकृत् ।। ८२ ।।
स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः ।।
वसाम्येषु निषादेषु जातिमात्रोपजीवकः ।। ८३ ।।
तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः ।।
नभो विक्षोभयांचक्रे प्रलयानिल सन्निभः ।। ८४ ।।
तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगंतरम् ।।
ज्वलद्दावानलं शैलमिव बिभ्युर्दिवौकसः ।। ।। ८५ ।।
ते सन्नह्यंत युद्धाय सज्जीकृत बलायुधाः ।।
अध्यास्य वाहनान्याशु सर्वे वर्मभृतः सुराः ।। ८६ ।।
तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान् ।।
क्षणप्रभाप्यसौ नैव को नः सम्मुख एत्यसौ ।। ८७ ।।
न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम्।।
महासाध्वसदः कोयमस्माकं हृत्प्रकंपनः ।। ८८ ।।
यावत्संभावयंतीति नीतिज्ञा अपि निर्जराः ।।
तावद्दुधाव स्वौ पक्षौ पक्षिराजो महाबलः ।। ८९ ।।
निपेतुः पक्षवातेन सायुधाश्च सवाहनाः ।।
न ज्ञायंते क्व संप्राप्ता वात्यया पार्णतार्णवत् ।। 4.1.50.९० ।।
अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट् ।।
कोशागारं सुधायाः स तत्रापश्यच्च रक्षिणः ।। ९१ ।।
शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः ।।
ददर्श कर्तरीयंत्रममृतोपरिसंस्थितम् ।। ९२ ।।
मनःपवनवेगेन भ्रममाणं महारयम् ।।
अपिस्पृशंतं मशकं यत्खंडयति कोटिशः ।। ९३ ।।
उपोपविश्य पक्षींद्रस्तस्य यंत्रस्य निर्भयः ।।
क्षणं विचारयामास किमत्र करवाण्यहो ।। ९४ ।।
स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह ।।
क उपायोत्र कर्तव्यो वृथा जातो ममोद्यमः ।। ९५ ।।
न बलं प्रभवेदत्र न किंचिदपि पौरुषम् ।।
अहो प्रयत्नो देवानामेतत्पीयूषरक्षणे ।।९६।।
यदि मे शंकरे भक्तिर्निर्द्वंद्वातीव निश्चला ।।
तदा स देवदेवो मां वियुनक्तु महाऽधिया ।।९७।।
यद्यहं मातृभक्तोस्मि स्वामिनः शंकरादपि ।।
तदा मे बुद्धिरत्रास्तु पीयूषहरणं क्षमा ।। ९८ ।।
आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः ।।
मातुर्दास्यविमोक्षाय यतेहममृतं प्रति ।। ९९ ।।
जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् ।।
साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येपि तस्य न ।। 4.1.50.१०० ।।
इति चिंतयतस्तस्य बुद्धिरासीन्महात्मनः ।। १ ।।
देहं चकार सोत्यंतमणीयांसमणोरपि ।।
परमाणुसहस्रांशं कृत्वा रूपं महाद्भुतम् ।। २ ।।
प्रविश्य कर्तरीयंत्रमधोदेहस्य लाघवात् ।।
बिभ्यत्तद्यंत्रतो देहं वंचयन्वायुखंडनात् ।।
मूलमुत्पाट्य तरसा गृहीत्वाऽमृतभाजनम् ।। ३ ।।
निर्ययौ पावने मार्गे क्रोशत्सु स्वर्गसद्मसु ।। ४ ।।
तथा वैकुंठनाथं ते गत्वा प्रोचुः सुधाभुजः ।।
निर्जित्य नीयते चक्रिन्सुधा नो जीवितं परम् ।। ५ ।।
इत्याकर्ण्य हरिस्तेभ्योऽभयं दत्त्वा त्वरायुतः ।।
कृत्वा युद्धं च सुमहद्विंशार्कघटिकाद्वयम् ।। ।। ६ ।।
शुंभदेव्योर्यथासूत गरुडस्तत्र चाधिकः ।।
तदा प्रसन्नो भगवान्महायुद्धेन सर्वदः ।। ७ ।।
गत्वा गरुडमाहेदं प्रसन्नोस्मि खगेश्वर ।।
वरं वृणीहि भद्रं ते जितवृंदारवृंदक।। ८ ।।
हसित्वा गरुडः प्राह विश्वरूपं जनार्दनम् ।।
अहमेव प्रसन्नोस्मि त्वं प्रार्थय वरद्वयम् ।। ९ ।।
ततः कैटभजित्प्राह वैनतेयं मुदान्वितः ।।
वृतंवृतं महोदार देहिदेहि वरद्वयम् ।। 4.1.50.११० ।।
इति विष्णूदितं श्रुत्वा प्रहसन्नाह पक्षिराट् ।।
किं विलंबेन तद्ब्रूहि दत्तं दत्तं वरद्वयम् ।। ११ ।।
अलब्धलाभे संजाते द्यूतादि विजयोदये ।।
दातव्यं सुधियापात्रे सदा लाभजयौ क्व वा ।। १२ ।।
।। श्रीविष्णुरुवाच ।। ।।
बलवानसि पक्षींद्र तन्मे वाहनतां व्रज ।।
एको वरोयं वरद द्वितीयं शृणु काश्यप ।। १३ ।।
दर्शयित्वामृतं प्राज्ञ मातृदास्यविमोक्षकम् ।।
द्विजिह्वेभ्यः कुरु तथा द्रागश्नंति न ते यथा ।। १४ ।।
देया सुधा सुधाभुग्भ्यो द्वितीयोस्तु वरो मम ।।
तथेति स प्रतिज्ञाय निर्ययौ पक्षिराड्दिवः ।। १५ ।।
स मातरं विनिर्मोच्य दास्यात्काश्यपनंदनः ।।
नागानां पुरतो धृत्वा महामृतकमंडलुम् ।। १६ ।।
अमृतं पातुकामांस्तानित्याचष्ट महामतिः ।।
नागाः शुचित्वमासाद्य भोक्तव्यैषा सुधा शुभा ।। १७ ।।
नोचेदशुचिभिः स्पृष्टा स्नानादि परिवर्जितैः ।।
यास्यत्यदृश्यतामेषा सुधाऽनिमिषरक्षिता।। १८।।
सामान्यमपि यद्रक्ष्यं स्पृश्यतेऽशुचिभिः क्वचित् ।।
हरंति तद्रसं देवास्तच्च तिष्ठति नीरसम् ।। १९ ।।
इत्युक्त्वा सहितो मात्रा वैनतेयो विनिर्ययौ ।।
कुशासने च तैरुक्तो धृत्वा पीयूषभाजनम् ।। 4.1.50.१२० ।।
यावत्स्नातुं गताः सर्पास्तावत्पीयूषभाजनम् ।।
आदाय विष्णुना दत्तं देवेभ्य इव जीवितम् ।। २१ ।।
आगत्य भुजगाः स्नात्वा न दृष्ट्वामृतभाजनम् ।।
अहो प्रतारिता नीतममृतं चेति चुक्रुशुः ।। २२ ।।
ततः पर्यलिहन्दर्भान्पीयूषस्पर्शकांक्षिणः ।।
आस्तां तावत्सुधा दूरं जिह्वास्तेषां द्विधाभवन् ।। २३ ।।
अन्येप्यन्यायलब्धार्थं ये बुभुक्षंति केवलम् ।।
तन्नो परिणतिं गच्छेद्भोक्तुं वातैर्न लभ्यते।। ।। २४ ।।
न्यायाध्वस्थेन तार्क्ष्येण सुधा प्राप्तातिदुर्लभा ।।
लब्धाप्यन्यायतो नागैर्दृष्टमात्रा क्षणाद्गता ।।२५।।
अथ दास्याद्विनिर्मुक्ता विनतोवाच खेचरम् ।।
पुत्र काशीं प्रयास्यामि दास्यपापापनुत्तये ।। २६ ।।
तावत्पापानि जृंभंते नानाजन्मार्जितान्यपि ।।
यावत्काशी न हृत्संस्था पुनर्भवविघातिनी।। २७ ।।
काशीस्मरणमात्रेण किं चित्रं यदघं व्रजेत् ।।
गर्भवासोपि नश्येत विश्वेशानुग्रहात्परात् ।। २८ ।।
यत्र विश्वेश्वरः साक्षात्तारापतिविभूषणः ।।
तारयेत्तारकद्रोण्या दुस्तराद्भवसागरात् ।। २९ ।।
विश्वेशानुगृहीतानां विच्छिन्नाखिलकर्मणाम् ।।
भवेत्काशीं प्रति मतिर्नेतरेषां कदाचन ।। 4.1.50.१३० ।।
काशीं प्रति मनो येषां निःशेषक्षालितैनसाम् ।।
त एव मानवा लोके सत्यं नृप शवोपरे ।। ३१ ।।
तैरेव कालो विजितस्त एव हि गतैनसः ।।
अपुनर्गर्भवासास्ते प्राप्ता वाराणसीह यैः ।। ।। ३२।।
श्रेयसां भाजनं चैतन्नृजन्मन मुधा नयेत्।।
देवानामपिदुष्प्राप्यं काशीसंदर्शनादृते ।। ३३ ।।
कः कलिः कोथवा कालः किं वा कर्माण्यनेकधा ।।
परानंदप्रदं क्षेत्रमविमुक्तं यदीक्षितम् ।। ३४ ।।
ते गर्भवासे तिष्ठंति पुनस्ते गर्भवासिनः।।
ये न गर्भवनच्छेत्रीं सेवंते वरणामसिम्।।३५।।
निशम्येति वचः प्राह तार्क्ष्यो नत्वाथ मातरम्।।
अहमप्यागमिष्यामि काशीं द्रष्टुं शिवार्चिताम् ।। ३६।।
मातुराज्ञामथ प्राप्य जनन्या सह पक्षिराट् ।।
क्षणाद्वाराणसीं प्राप मोक्षनिक्षेपभूमिकाम् ।। ३७ ।।
उभावपि च तेपाते तप उग्रं महामती ।।
संस्थाप्य शांभवं लिंगं पतत्त्रींद्रोऽचलेंद्रियः ।। ३८ ।।
नाम्ना खखोल्कमादित्यं संस्थाप्य विनता शुभम् ।।
अचिरेणैव कालेन महतस्तपसस्तयोः ।।३९।।
काश्यां प्रसन्नौ संजातौ देवौ शंकरभास्करौ ।।
गरुडस्थापिताल्लिंगादाविरासीदुमापतिः ।। 4.1.50.१४० ।।
गरुडाय वरान्प्रादात्स बहूनतिदुर्लभान्।।
खगेंद्र मम भक्तोसि तव ज्ञानं भविष्यति ।। ४१ ।।
वेत्स्यसि त्वं रहस्यं मे यन्न ज्ञातं सुरैरपि ।।
त्वयैतत्स्थापितं लिंगं गरुडेश्वरसंज्ञितम् ।। ४२ ।।
परमज्ञानदं पुंसां दृष्टं स्पृष्टं समर्चितम् ।। अन्यच्च शृणु पक्षींद्र हितं ते वच्मि सांप्रतम् ।। ४३ ।।
असावहं स वै विष्णुर्मास्तु ते भेददृक्च नौ ।।
एवं तस्यैव पक्षींद्र दैत्येंद्र बलहारिण ।। ४४ ।।
प्राप्य सत्पत्रतां पत्रिंस्त्वमप्यर्च्यो भविष्यसि ।।
इति दत्त्वा वरं शंभुः स्वभक्ताय गरुत्मते ।। ४५ ।।
तत्रैवांतर्हितो जातो गरुडोपि हरिं ययौ ।।
हरे रथत्वं संप्राप्य सोपि पूज्योऽभवद्भुवि ।। ४६ ।।
तपस्यंतीमथालोक्य कदाचिद्विनतां प्रभुः ।।
शिवस्यैव परामूर्तिः खखोल्को नाम भास्करः ।। ४७ ।।
दत्त्वा वरं च पापघ्नं शिवज्ञानसमन्वितम् ।।
काशीवासिजनानेक भवपापक्षयंकरः ।। ४८ ।।
विनतादित्य इत्याख्यः खखोल्कस्तत्र संस्थितः ।।
इत्थं खखोल्क आदित्यः काशीविघ्नतमोहरः ।। ४९ ।।
तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।।
काश्यां पैशंगिले तीर्थे खखोल्कस्य विलोकनात् ।।
नरश्चिंतितमाप्नोति नीरोगो जायते क्षणात् ।। 4.1.50.१५० ।।
नरः श्रुत्वैतदाख्यानं खखोल्कादित्यसंभवम् ।।
गरुडेशेन सहितं सर्वपापैः प्रमुच्यते ।। १५१ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे खखोल्कादित्य गरुडेशयोर्वर्णनंनाम पंचाशत्तमोऽध्यायः ।। ५० ।।
इति काशीखंडपूर्वार्धं समाप्तम् ।।