सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०५१

विकिस्रोतः तः

।। अथ श्रीकाशीखंडोत्तरार्धं प्रारभ्यते ।।
श्रीगणेशाय नमः ।।
।। अगस्तिरुवाच ।। ।।
पार्वती हृदयानंद सर्वज्ञांगभव प्रभो ।।
किंचित्प्रष्टुमनाः स्वामिंस्तद्भवान्वक्तुमर्हति ।। १ ।।
दक्ष प्रजापतेः पुत्री कश्यपस्य परिग्रहः ।।
गरुत्मतः प्रसूः साध्वी कुतो दास्यमवाप सा ।। २ ।।
।। स्कंद उवाच ।। ।।
हंजिकात्वं यथा प्राप्ता विनता सा तपस्विनी ।।
तदप्यहं समाख्यामि निशामय महामते ।। ३ ।।
कद्रूरजीजनत्पुत्राञ्शतं कश्यपतः पुरा ।।
उलूकमरुणं तार्क्ष्यमसूत विनता त्रयम् ।। ४ ।।
कौशिको राज्यमाप्यापि श्रेष्ठत्वात्पक्षिणां मुने ।।
निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ।। ५ ।।
क्रूराक्षोयं दिवांधोयं सदा वक्रनखस्त्वसौ ।।
अतीवोद्वेगजनकं सर्वेषामस्य भाषणम् ।। ६ ।।
इत्थं तस्य गुणग्रामान्विकथ्य बहुशः खगाः ।।
नाद्यापि वृण्वते राज्ये कमपि स्वैरचारिणः ।। ७ ।।
कौशिकेथ तथावृत्ते पुत्रवीक्षणलालसा ।।
अंडं प्रस्फोटयामास मध्यमं विनता तदा ।। ८ ।।
पूर्णे वर्षसहस्रे तु प्रस्फोट्य घटसंभव ।।
तदभेदितयौत्सुक्यादंडमष्टमके शते ।। ९ ।।
तावत्सर्वाणि गात्राणि तस्यातिमहसः शिशोः ।।
ऊर्वोरुपरिसिद्धानि दंडांतर्निवासिनः ।। 4.2.51.१० ।।
अंडान्निर्गतमात्रेण क्रोधारुणमुखश्रिया ।।
अर्धनिष्पन्नदेहेन शिशुना शापिता प्रसूः ।। ११ ।।
जनयित्रि त्वया दृष्ट्वा काद्रवेयान्स्वलीलया ।।
खेलतो मातुरुत्संगे यदंडं व्याधित द्विधा ।। १२ ।।
तदनिष्पन्न सर्वांगः शपामि त्वा विहंगमे ।।
तेषामेवैधि दासी त्वं सपत्न्यंग भुवामिह ।। १३ ।।
वेपमानाथ तच्छापादिदं प्रोवाच पक्षिणी ।।
अनूरो ब्रूहि मे शापावसानं मातुरंगज ।। १४ ।।
।। अनूरुरुवाच ।।
अंडं तृतीयं मा भिंधि ह्यनिष्पन्नं ममेव हि ।।
अस्मिन्नंडे भविष्यो यः स ते दास्यं हरिष्यति ।। १५ ।।
इत्युक्त्वा सोरुणोगच्छदुड्डीयानंदकाननम् ।।
यत्र विश्वेश्वरो दद्यादपि पंगोः शुभां गतिम्।। १६ ।।
एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम्।।
मुने प्रसंगतो वच्मि अरुणादित्यसंभवम् ।। १७ ।।
अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः ।।
वाराणस्यां तपस्तप्त्वा तेनाराधि दिवाकरः ।। १८ ।।
सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे ।।
आदित्यस्तस्य नाम्नाभूदरुणादित्य इत्यपि ।। १९ ।।
।। अर्क उवाच ।।
तिष्ठानूरो मम रथे सदैव विनतात्मज ।।
जगतां च हितार्थाय ध्वांतं विध्वंसयन्पुरः ।। 4.2.51.२० ।।
अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यंति मानवाः ।।
वाराणस्यां महादेवोत्तरे तेषां कुतो भयम् ।। २१ ।।
येर्चयिष्यंति सततमरुणादित्यसंज्ञकम् ।।
मामत्र तेषां नो दुःखं न दारिद्र्यं न पातकम्।। २२ ।।
व्याधिभिर्नाभिभूयंते नो पसर्गैश्च कैश्चन ।।
शोकाग्निना न दह्यंते ह्यरुणादित्यसेवनात् ।। २३ ।।
अथ स्यंदनमारोप्य नीतवानरुणं रविः ।।
अद्यापि स रथे सौरे प्रातरेव समुद्यति ।। २४ ।।
यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने ।।
अरुणाय ससूर्याय तस्य दुःखभयं कुतः ।। २५ ।।
अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः ।।
न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन ।। २६ ।।
स्कंद उवाच ।।
वृद्धादित्यस्य माहात्म्यं शृणु ते कथयाम्यहम्।।
यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत् ।।२७ ।।
पुरात्र वृद्धहारीतो वाराणस्यां महातपाः ।।
महातपः समृद्ध्यर्थं समाराधितवान्रविम् ।। २८ ।।
मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम् ।।
दक्षिणेन विशालाक्ष्या दृढभक्तिसमन्वितः ।। २९ ।।
तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने ।।
अलं विलंब्य याचस्व कस्ते देयो वरो मया ।। 4.2.51.३० ।।
सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः ।।
यदि प्रसन्नो भगवान्युवत्वं देहि मे पुनः।। ३१ ।।
तपःकरण सामर्थ्यं स्थविरस्य न मे यतः ।।
पुनस्तारुण्यमाप्तोहं चरिष्याम्युत्तमं तपः ।।३२।।
तप एव परो धर्मस्तप एव परं वसु ।।
तप एव परः कामो निर्वाणं तप एव हि ।। ३३ ।।
ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसंपदः ।।
पदं ध्रुवादिभिः प्रापि केवलं तपसो बलात् ।। ३४ ।।
ततस्तपश्चरिष्यामि लोकद्वयमहत्त्वदम् ।।
प्राप्य त्वद्वरदानेन यौवनं सर्वसंमतम् ।। ३८३ ।।
धिग्जरांप्राणिनामत्र यया सर्वो विरज्यति ।।
जरातुरेंद्रियग्रामे स्त्रियोपि नयतः स्वसात् ।। ३६ ।।
वरं मरणमेवास्तु मा जरास्त्वतिशोच्यकृत् ।।
क्षणं दुःखं च मरणं जरा दुःखं क्षणेक्षणे ।।३७।।
कांक्षंति दीर्घतपसे चिरमायुर्जितेंद्रियाः ।।
धनं दानाय पुत्राय कलत्रं मुक्तये धियम्।। ३८ ।।
वृद्धस्यवार्धकं ब्रध्नस्तत्क्षणादपहृत्य वै ।।
ददौ च चारुता हेतुं तारुण्यं पुण्यसाधनम् ।।३९।।
एवं स वृद्धहारीतो वाराणस्यां महामुनिः ।।
संप्राप्य यौवनं ब्रध्नात्तप उग्रं चचार ह ।।4.2.51.४०।।
वृद्धेनाराधितो यस्माद्धारीतेन तपस्विना ।।
आदित्यो वार्धकहरो वृद्धादित्यस्ततः स्मृतः ।। ४१ ।।
वृद्धादित्यं समाराध्य वाराणस्यां घटोद्भव ।।
जरा दुर्गति रोगघ्नं बहवः सिद्धिमागताः ।। ४२ ।।
वृद्धादित्यं नमस्कृत्य वाराणस्या रवौ नरः ।।
लभेदभीप्सितां सिद्धिं न क्वचिद्दुर्गतिं लभेत् ।। ४३ ।।
।। स्कंद उवाच ।। ।।
अतः परं शृणु मुने केशवादित्यमुत्तमम् ।।
यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान् ।। ४४ ।।
व्योम्नि संचरमाणेन सप्ताश्वेनादिकेशवः ।।
एकदा दर्शिभावेन पूजयँल्लिंगमैश्वरम् ।। ४५ ।।
कौतुकादिव उत्तीर्य हरे रविरुपाविशत् ।।
निःशब्दो निश्चलः स्वस्थो महाश्चर्यसमन्वितः ।। ४६ ।।
प्रतीक्षमाणोवसरं किंचित्प्रष्टुमना हरिम् ।।
हरिं विसर्जितार्चं च प्रणनाम कृतांजलिः ।। ४७ ।।
स्वागतं ते हरिः प्राह बहुमानपुरःसरम् ।।
स्वाभ्याशं आसयामास भास्वंतं नतकंधरम्।। ४८।।
अथावसरमालोक्य लोकचक्षुरधोक्षजम् ।।
नत्वा विज्ञापयामास कृतानुज्ञोऽसुरारिणा ।। ४९ ।।
।। रविरुवाच ।। ।।
अंतरात्मासि जगतां विश्वंभर जगत्पते ।।
तवापि पूज्यः कोप्यस्ति जगत्पूज्यात्र माधव ।। 4.2.51.५० ।।
त्वत्तश्चाविर्भवेदेतत्त्वयि सर्वं प्रलीयते ।।
त्वमेव पाता सर्वस्य जगतो जगतांनिधे ।। ५१ ।।
इत्याश्चर्यं समालोक्य प्राप्तोस्म्यत्र तवांतिकम् ।।
किमिदं पूज्यते नाथ भवता भवतापहृत् ।। ५२ ।।
इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम् ।।
उच्चैर्माशंस सप्ताश्वं वारयन्करसंज्ञया ।। ५३ ।।
।। श्रीविष्णुरुवाच ।। ।।
देवदेवो महादेवो नीलकंठ उमापतिः ।।
एक एव हि पूज्योत्र सर्वकारणकारणम् ।। ५४ ।।
अत्र त्रिलोचनादन्यं समर्चयतियोल्पधीः ।।
सलोचनोपि विज्ञेयो लोचनाभ्यां विवर्जितः ।।५५।।
एको मृत्युंजयः पूज्यो जन्ममृत्युजराहरः ।।
मृत्युंजयं किलाभ्यर्च्य श्वेतो मृत्युंजयोभवत् ।। ५६ ।।
कालकालं समाराध्य भृंगी कालं जिगायवै ।।
शैलादिमपि तत्याज मृत्युर्मृत्युंजयार्चकम् ।।५७।।
विजिग्ये त्रिपुरं यस्तु हेलयैकेषु मोक्षणात् ।।
तं समभ्यर्च्य भूतेशं को न पूज्यतमो भवेत् ।।५८।।
त्रिजगज्जयिनो हेतोस्त्र्यक्षस्याराधनं परम् ।।
को नाराधयति ब्रध्नसारस्य स्मरविद्विषः ।। ५९ ।।
यस्याक्षिपक्ष्मसंकोचाज्जगत्संकोचमेत्यदः ।।
विकस्वरं विकासाच्च कस्य पूज्यतमो न सः ।। 4.2.51.६० ।।
शंभोर्लिंगं समभ्यर्च्य पुरुषार्थचतुष्टयम् ।।
प्राप्नोत्यत्र पुमान्सद्यो नात्र कार्या विचारणा ।। ६१ ।।
समर्च्य शांभवं लिंगमपिजन्मशतार्जितम् ।।
पापपुंजं जहात्येव पुमानत्र क्षणाद्ध्रुवम् ।। ६२ ।।
किंकिं न संभवेदत्र शिवलिंगसमर्चनात् ।।
पुत्राः कलत्र क्षेत्राणि स्वर्गो मोक्षोप्यसंशयम् ।। ६३ ।।
त्रैलोक्यैश्वर्यसंपत्तिर्मया प्राप्ता सहस्रगो ।।
शिवलिंगार्चनादेकात्सत्यंसत्यं पुनःपुनः ।। ६४ ।।
अयमेव परोयोगस्त्विदमेव परं तपः ।।
इदमेव परं ज्ञानं स्थाणुलिंगं यदर्च्यते ।। ६५।।
यैर्लिंगं सकृदप्यत्र पूजितं पार्वतीपतेः ।।
कुतो दुःखभयं तेषां संसारे दुःखभाजने ।। ६६ ।।
सर्वं परित्यज्य रवे यो लिंगं शरणं गतः ।।
न तं पापानि बाधंते महांत्यपि दिवाकर ।। ६७ ।।
लिंगार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर ।।
येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः ।।६८।।
न लिंगाराधनात्पुण्यं त्रिषुलोकेषु चापरम् ।।
सर्वतीर्थाभिषेकः स्याल्लिंगस्नानांबु सेवनात् ।। ६९ ।।
तस्माल्लिंगं त्वमप्यर्क समर्चय महेशितुः ।।
संप्राप्तं परमां लक्ष्मीं महातेजोभि जृंभणीम् ।। 4.2.51.७० ।।
इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः ।।
विधाय स्फाटिकं लिंगं मुनेद्यापि समर्चयेत् ।। ७१ ।।
गुरुत्वेन तदाकल्य विवस्वानादिकेशवम् ।।
तत्रोपतिष्ठतेद्यापि उत्तरेणादिकेशवात् ।। ७२ ।।
अतः स केशवादित्यः काश्यां भक्ततमोनुदः ।।
समर्चितः सदा देयान्मनसो वांछितं फलम् ।। ७३ ।।
केशवादित्यमाराध्य वाराणस्यां नरोत्तमः ।।
परमं ज्ञानमाप्नोति येन निर्वाणभाग्भवेत् ।। ७४ ।।
तत्र पादोदके तीर्थेकृतसर्वोदकक्रियः ।।
विलोक्य केशवादित्यं मुच्यते जन्मपातकैः ।। ७५ ।।
अगस्ते रथसप्तम्यां रविवारो यदाप्यते ।।
तदा पादोदके तीर्थे आदिकेशव सन्निधौ ।।७६।।
स्नात्वोषसि नरो मौनी केशवादित्यपूजनात् ।।
सप्तजन्मार्जितात्पापान्मुक्तो भवति तत्क्षणात् ।। ७७।।
यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।।
तन्मे रोगं च शोकं च माकरी हंतु सप्तमी ।। ७८ ।।
एतज्जन्मकृतं पापं यच्च जन्मांतरार्जितम् ।।
मनोवाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ।। ७९ ।।
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके ।।
सप्तव्याधिसमायुक्तं हर माकरि सप्तमि ।। 4.2.51.८० ।।
एतन्मंत्रत्रयं जप्त्वा स्नात्वा पादोदके नरः ।।
केशवादित्यमालोक्य क्षणान्निष्कलुषो भवेत् ।। ८१ ।।
केशवादित्यमाहात्म्यं शृण्वञ्श्रद्धासमन्वितः ।।
नरो न लिप्यते पापैः शिवभक्तिं च विंदति ।। ८२ ।।
।। स्कंद उवाच ।। ।।
अतः परं शृणु मुने विमलादित्यमुत्तमम् ।।
हरिकेशवने रम्ये वाराणस्यां व्यवस्थितम्।। ८३ ।।
उच्चदेशेभवत्पूर्वं विमलो नाम बाहुजः ।।
स प्राक्तनात्कर्मयोगाद्विमले पथ्यपि स्थितः ।। ८४ ।।
कुष्ठरोगमवाप्योच्चैस्त्यक्त्वा दारान्गृहं वसु ।।
वाराणसीं समासाद्य ब्रध्नमाराधयत्सुधीः ।। ८५ ।।
करवीरैर्जपाभिश्च गंधकैः किंशुकैः शुभैः ।।
रक्तोत्पलैरशोकैश्च स समानर्च भास्करम् ।। ८६ ।।
विचित्ररचनैर्माल्यैः पाटलाचंपकोद्भवैः ।।
कुंकुमागुरुकर्पूरमिश्रितैः शोणचंदनैः ।। ८७ ।।
देवमोहनधूपैश्च बह्वामोदततांबरैः ।।
कर्पूरवर्तिदीपैश्च नैवेद्यैर्घृतपायसैः ।। ८८ ।।
अर्घदानैश्च विधिवत्सौरेः स्तोत्रजपैरपि ।।
एवं समाराधयतस्तस्यार्को वरदोभवत् ।। ८९ ।।
उवाच च वरं ब्रूहि विमलामलचेष्टित ।।
कुष्ठश्च ते प्रयात्वेष प्रार्थयान्यं वरं पुनः ।। 4.2.51.९० ।।
आकर्ण्य विमलश्चेत्थमालापं रश्मिमालिनः ।।
प्रणतो दंडवद्भूमौ संप्रहष्टतनूरुहः । ९१ ।।
शनैर्विज्ञापयांचक्र एकचक्ररथं रविम् ।।
जगच्चक्षुरमेयात्मन्महाध्वांतविधूनन ।। ९२ ।।
यदि प्रसन्नो भगवन्यदि देयो वरो मम ।।
तदा त्वद्भक्तिनिष्ठा ये कुष्ठं मास्तु तदन्वये ।। ९३ ।।
अन्येपि रोगा मा संतु मास्तु तेषां दरिद्रता ।।
मास्तु कश्चन संतापस्त्वद्भक्तानां सहस्रगो ।। ९४ ।।
। श्रीसूर्य उवाच ।। ।।
तथास्त्विति महाप्राज्ञ शृण्वन्यं वरमुत्तमम् ।।
त्वयेयं पूजिता मूर्तिरेवं काश्यां महामते ।। ९५ ।।
अस्याः सान्निध्यमत्राहं न त्यक्ष्यामि कदाचन ।।
प्रथिता तव नाम्ना च प्रतिमैषा भविष्यति ।।९६।।
विमलादित्य इत्याख्या भक्तानां वरदा सदा ।।
सर्वव्याधि निहंत्री च सर्वपापक्षयंकरी ।।९७।।
इति दत्त्वा वरान्सूर्यस्तत्रैवांतरधीयत ।।
विमलो निर्मलतनुः सोपि स्वभवनं ययौ ।। ९८ ।।
इत्थं स विमलादित्यो वाराणस्यां शुभप्रदः ।।
तस्य दर्शनमात्रेण कुष्ठरोगः प्रणश्यति ।।९९।।
यश्चैतां विमलादित्यकथां वै शृणुयान्नरः ।।
प्राप्नोति निर्मलां शुद्धिं त्यज्यते च मनोमलैः ।।4.2.51.१००।।
।। स्कंद उवाच ।। ।।
गंगादित्योस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै ।।
तस्य दर्शनमात्रेण नरः शुद्धिमियादिह ।। १ ।।
यदा गंगा समायाता भगीरथपुरस्कृता ।।
तदा गंगां परिष्टोतुं रविस्तत्रैव संस्थितः ।। २ ।।
अद्याप्यहर्निशं गंगां संमुखीकृत्य भास्करः ।।
परिष्टौति प्रसन्नात्मा गंगाभक्तवरप्रदः ।। ३ ।।
गंगादित्यं समाराध्य वाराणस्यां नरोत्तमः ।।
दुर्गतिं जातु न क्वापि लभते न च रोगभाक् ।। ४
।। स्कंद उवाच ।।
अन्यच्छृणु महाभाग यमादित्यस्य संभवम्।।
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ।। ५ ।।
यमेशात्पश्चिमे भागे वीरेशात्पूर्वतो मुने ।।
यमादित्यं नरो दृष्ट्वा यमलोकं न पश्यति ।। ६ ।।
यमतीर्थे नरः स्नात्वा भूतायां भौमवासरे ।।
यमेश्वरं विलोक्याशु सर्वैः पापैः प्रमुच्यते ।। ७ ।।
यमतीर्थे यमः पूर्वं तप्त्वा सुविमलं तपः ।।
यमेशं च यमादित्यं प्रत्यष्ठाद्भक्तसिद्धिदम् ।। ८ ।।
यमेन स्थापितो यस्मादादित्यस्तत्र कुंभज ।।
अतः स हि यमादित्यो यामीं हरति यातनाम् ।। ९ ।।
यमेशं च यमादित्यं यमेन स्थापितं नमन् ।।
यमतीर्थे कृतस्नानो यमलोकं न पश्यति ।। 4.2.51.११० ।।
यमतीर्थे चतुर्दश्यां भरण्यां भौमवासरे ।।
तर्पणं पिंडदानं च कृत्वा पित्रनृणी भवेत् ।। ११ ।।
अभिलष्यंति सततं पितरो नरकौकसः ।।
भौमै भरण्यां भूतायां यदि योगोयमुत्तमम् ।। १२ ।।
काश्यां कश्चिद्यमे तीर्थे कृत्वा स्नानं महामतिः ।।
अपि यस्तर्पणंकुर्यात्सतिलं नो विमुक्तये ।। १३ ।।
किं गया गमनैः पुंसां किं श्राद्धैर्भूरिदक्षिणैः ।।
यदि काश्यां यमे तीर्थे योगेस्मिञ्श्राद्धमाप्यते।। १४ ।।
श्राद्धं कृत्वा यमे तीर्थे पूजयित्वा यमेश्वरम् ।।
यमादित्यं नमस्कृत्य पितॄणामनृणो भवेत् ।।१५।।
।। स्कंद उवाच ।। ।।
इति ते द्वादशादित्याः कथिता पापनाशनाः ।।
यत्संभवं समाकर्ण्य नरो न निरयी भवेत्।। १६ ।।
अन्येपि संति घटज रविभक्तैरनेकशः ।।
काश्यां संस्थापिताः सूर्या गुह्यकार्कादयः किल ।। १७ ।।
श्रुत्वाध्यायानिमान्पुण्यान्द्वादशादित्यसूचकान् ।।
श्रावयित्वापि नो मर्त्यो दुर्गतिं याति कुत्रचित् ।। ११८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुथें काशीखण्डे अरुणवृद्धकेशवविमलगंगायमादित्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ।। ।। ५१ ।।