स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९३

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।। ।।
नर्मदेशस्य माहात्म्यं श्रुतं कल्मषनाशनम् ।।
इदानीं कथय स्कंद सतीश्वर समुद्भवम् ।। १ ।।
स्कंद उवाच ।। ।।
मित्रावरुणसंभूत कथयामि कथां शृणु ।। यथा सतीश्वरं लिंगं काश्यामाविर्बभूव ह ।। २ ।।
पुरा तताप सुमहत्तपः शतधृतिर्मुने ।।
तपसा तेन देवेशः संतुष्टो वरदोऽभवत् ।। ३ ।।
उवाच चापि ब्रह्माणं नितरां ब्राह्मणप्रियः ।।
सर्वज्ञनाथो लोकात्मा वरं वरय लोककृत् ।। ४ ।।
।। ब्रह्मोवाच ।। ।।
यदि प्रसन्नो देवेश वरं दास्यसि वांछितम् ।।
तदा त्वं मे भव सुतो देवी दक्षसुताऽस्तु च ।। ५ ।।
इति श्रुत्वा महादेवः सर्वदो ब्रह्मणो वरम् ।।
स्मित्वा देवीमुखं वीक्ष्य प्रोवाच चतुराननम् ।। ६ ।।
ब्रह्मंस्त्वद्वांछितं भूयात्किमदेयं पितामह ।।
इत्युक्त्वा ब्रह्मणो भालादाविरासीच्छशांकभृत् ।। ७ ।।
रुदन्स उत्तानशयो ब्रह्मणो मुखमैक्षत ।।
ततो ब्रह्मापि तं बालं रुदंतं प्रविलोक्य च ।। ८ ।।
किं मां जनकमाप्यापि त्वं रोदिषि मुहुर्मुहुः ।।
श्रुत्वेति पृथुकः प्राह यथोक्तं परमेष्ठिना ।। ९ ।।
नाम्ने रोदिमि मे स्रष्टुर्नाम देहि पितामह ।।
रोदनाद्रुद्र इत्याख्यां समाया डिंभको लभत् ।।4.2.93.१०।।
।। अगस्त्य उवाच ।। ।।
अर्भकत्वं गतोपीशः किं रुरोद षडानन ।।
यदि वेत्सि तदाचक्ष्व महत्कौतूहलं हि मे ।। ११ ।।
।। स्कंद उवाच ।। ।।
सर्वज्ञस्य कुमारत्वात्किंचित्किंचिदवैम्यहम् ।।
रोदने कारणं वच्मि शृणु कुंभसमुद्भव ।। १२ ।।
मनसीति विचारोभूद्देवस्य परमात्मनः ।।
बुद्धिवैभवमस्याहो वीक्षितुं परमेष्ठिनः ।।१३।।
सत्यलोकाधिनाथस्य चतुरास्यस्य वेधसः ।।
इत्यानंदात्समुद्भूतो वाष्पपूरो महेशितुः ।।१४।।
।। अगस्त्य उवाच ।। ।।
किं बुद्धिवैभवं धातुः शंभुना मनसीक्षितम् ।
येनानंदाश्रु संभारो बाल्येप्यभवदीशितुः ।।१५।।
एतत्कथय मे प्राज्ञ सर्वज्ञानंदवर्धन ।।
श्रुत्वागस्त्युदितं वाक्यं तारकारिरुवाच ह ।।१६।।
देवे न मनसि ध्यातमिति कुंभजने मुने ।।
विनापत्यं जनेतारं क उद्धर्तुमिह प्रभुः ।। १७ ।।
एको मनोरथश्चायं द्वितीयोयं सुनिश्चितम् ।।
अपत्यत्वं गते चास्मिन्स्मर्तुरुत्पत्तिहारिणि ।। १८ ।।
क्षणंक्षणं समालोक्यमंगस्पर्शे क्षणंक्षणम् ।।
एकशय्यासनाहारं लप्स्यतेऽनेन क्षणेक्षणे !। १९ ।।
योयं न गोचरः क्वापि वाणीमनसयोरपि ।।
स मेऽपत्यत्वमासाद्य किं न दास्यति चिंतितम् ।। 4.2.93.२० ।।
योऽमुं सकृत्स्पृशेज्जंतुर्योमुं पश्येत्सकृन्मुदा ।
न स भूयोभिजायेत भवेच्चानंदमेदुरः ।। २१ ।।
गृहक्रीडनकं मे सौ यदि भूयात्कथंचन ।।
तदापरस्य सौख्यस्य निधानं स्यामसंशयम् ।। २२ ।।
विधेः समीहितं चेति नूनं ज्ञात्वा स सर्ववित् ।।
आनंदवाष्पकलितं चक्षुस्त्रयमदीधरत् ।। २३ ।।
श्रुत्वैत्यगस्तिः स्कंदस्य भाषितं पर्यमूमुदत् ।।
ननाम चांघ्री प्रोवाच जयसर्वज्ञनंदन ।। २४ ।।
विधेरपि मनोज्ञातं शंभोरपि मनोगतम् । ।
सम्यक्चित्तं त्वया ज्ञातं नमस्तुभ्यं चिदात्मने ।। २५ ।।
स्कंदोपि नितरां तुष्टःश्रोतुरानंददर्शनात् ।।
धन्योस्यगस्त्य धन्योसि श्रोतुं जानासि तत्त्वतः ।। २६ ।।
न मे श्रमो वृथा जातो ब्रुवतस्ते पुरः कथाम् ।।
इत्यगस्तिं समाभाष्य पुनः प्राह षडाननः ।। २७ । ।
देवे रुद्रत्वमापन्ने देवी दक्षसुताभवत् ।।
सापि तप्त्वा तपस्तीव्रं सती काश्यां वरार्थिनी ।। २८ ।।
ददर्श लिंगरूपेण प्रादुर्भूतं हरं पुरः ।।
अलं तप्त्वा महादेवि प्रोक्तवंतमिति स्फुटम् ।। २१ ।।
इदं सतीश्वरं लिंगं तव नाम्ना भविष्यति .।।
यथा मनोरथस्तेऽत्र फलितो दक्षकन्यके ।। 4.2.93.३० ।।
तथैतल्लिंगमाराध्यान्यस्यापि हि फलिष्यति ।।
कुमारी प्राप्स्यति पतिं मनसोपि समुच्छ्रितम् ।। ३१ ।।
एतल्लिंगं समाराध्य कुमारोपि वरांगनाम् ।।
यस्य यस्य हि यः कामस्तस्य तस्य हि स ध्रुवम् ।। ३२ ।।
भविष्यति न संदेहः सतीश्वरसमर्चगात् ।।
सतीश्वरं समभ्यर्च्य यो यो यं यं समीहते ।। ३३ ।।
तस्य तस्य स स क्षिप्रं भविष्यति मनोरथः ।। ३४ ।।
इतोष्टमे च दिवसे त्वज्जनेता प्रजापतिः ।।
मह्यं दास्यति कन्यां त्वां सफलस्ते मनोरथः ।।
इत्युक्त्वा देवदेवेशस्तत्रैवांतर्हितोभवत् ।। ३५ । ।
सापि स्वभवनं याता सती दाक्षायणी मुदा । ।
पितापि तस्मै प्रादात्तां रुद्राय दिवसेष्टमे ।। ३६ ।।
।। स्कंद उवाव ।। ।।
इत्थं सतीश्वरं लिंगं काश्यां प्रादुरभून्मुने ।।
स्मरणादपि लिंगं च दद्यात्सत्त्वगुणं परम् ।। ३७ ।।
रत्नेशात्पूर्वतो भागे दृष्ट्वा लिंगं सतीश्वरम् । ।
मुच्यते पातकैः सद्यः क्रमाज्ज्ञानं च विंदति ।। ३८ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे सतीश्वरप्रादुर्भावो नाम त्रिनवतितमोऽध्यायः ।। ९३ ।।