स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२२

विकिस्रोतः तः
Jump to navigation Jump to search

।। शिवशर्मोवाच ।।
ध्रुवाख्यानमिदं रम्यं महापातकनाशनम् ।।
महाश्चर्यकरं पुण्यं श्रुत्वा तृप्तोस्मि भो गणौ ।। १ ।।
।। अगस्त्य उवाच ।। ।।
इत्थं यावद्द्विजो ब्रूते विमानं वायुवेगगम् ।।
तावत्प्राप महर्लोकं स्वर्लोकात्परमाद्भुतम् ।। २ ।।
द्विजोऽथ लोकं संवीक्ष्य सर्वतो महसा वृतम् ।।
तौ गणौ प्रत्युवाचेदं कोयं लोको मनोहरः ।। ३ ।।
तावूचतुस्ततो विप्रं निशामय महामते ।।
अयं स हि महर्लोकः स्वर्लोकात्परमाद्भुतः ।। ४ ।।
कल्पायुषो वसंत्यत्र तपसा धूतकल्मषाः ।।
विष्णुस्मरण संक्षीण समस्तक्लेशसंचयाः ।।५।।
निर्व्याजप्रणिधानेन दृष्ट्वा तेजोमयं जगत् ।।
महायोगसमायुक्ता वसंत्यत्र सुरोत्तमाः ।। ६ ।।
इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ।।
क्षणार्धेन विमानं तज्जनलोकं निनायतान् ।। ७ ।।
निवसंत्यमला यत्र मानसा बह्मणः सुताः ।।
सनंदनाद्या योगींद्राः सर्वे ते ह्यूर्ध्वरेतसः ।। ८ ।।
अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ।।
सर्वद्वंद्वविनिर्मुक्तास्ते वसंत्यतिनिर्मलाः ।।९।।
जनलोकात्तपोलोकस्तेषां लोचनगोचरः ।।
कृतस्तेन विमानेन मनोवेगेन गच्छता ।। 4.1.22.१० ।।
वैराजा यत्र ते देवा वसेयुर्दाहवर्जिताः ।।
वासुदेवे मनो येषां वासुदेवार्पितक्रियाः ।। ११ ।।
तपसा तोष्य गोविंदमभिलाषविवर्जिताः।।
तपोलोकमिमं प्राप्य वसंति विजितेंद्रियाः ।।१२।।
शिलोंछ वृत्तया ये वै दंतोलूखलिकाश्च ये ।।
अश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये ।। १३ ।।
ग्रीष्मे पंचाग्नितपसो वर्षासु स्थंडिलेशयाः ।।
हेमंतशिशिरार्धे ये क्षपंति सलिले क्षपाः ।।१४।।
कुशाग्रनीरविप्रूषस्तृषिता यतयोऽपिबन्।।
वाताशिनोतिक्षुधिताः पादाग्रांगुष्ठ भूस्पृशः ।। १५ ।।
ऊर्ध्वदोषो रविदृशस्त्वेकांघ्रि स्थाणु निश्चलाः ।।
ये वै दिवा निरुच्छ्वासा मासोच्छ्वासाश्च ये पुनः ।।१६।।
मासोपवासव्रतिनश्चातुर्मास्य व्रताश्च ये ।।
ऋत्वंततोयपाना ये षण्मासोपवासकाः ।। १७ ।।
ये च वर्षनिमेषा वै वर्षधारांबु तर्षकाः ।।
ये च स्थाणूपमां प्राप्ता मृगकंडूति सौख्यदाः ।। १८ ।।
जटाटवी कोटरांतः कृतनीडांडजाश्च ये ।।
प्ररूढवामलूरांगाः स्नायुनद्धास्थिसंचयाः ।। १९ ।।
लताप्रतानैः परितो वेष्टितावयवाश्च ये ।।
सस्यानि च प्ररूढानि यदंगेषु चिरस्थिति ।। 4.1.22.२० ।।
इत्यादि सुतपः क्लिष्टवर्ष्माणो ये तपोधनाः ।।
ब्रह्मायुषस्तपोलोके ते वसंत्यकुतोभयाः ।।२१।।
यावदित्थं स पुण्यात्मा शृणोति गणयोर्मुखात् ।।
तावन्नेत्रातिथीभूतः सत्यलोको महोज्ज्वलः ।। २२ ।।
त्वरावंतौ गणौ तत्र विमानादवरुह्य तौ ।।
स्रष्टारं सर्वलोकानां तेन सार्धं प्रणेमतुः ।। २३ ।।
ब्रह्मोवाच ।।
गणावसौ द्विजो धीमान्वेदवेदांगपारगः ।।
स्मृत्युक्ताचारचंचुश्च प्रतीपः पापकर्मसु ।। २४ ।।
अयि द्विज महाप्राज्ञ जाने त्वां शिवशर्मक ।।
साधूकृतं त्वया वत्स सुतीर्थप्राणमोक्षणात् ।। २५ ।।
सत्वरं गत्वरं सर्वं यच्चैतद्भवतेक्षितम् ।।
दैनंदिनप्रलयतः सृजामि च पुनः पुनः ।। २६ ।।
आ वैराजं प्रतिपदमुपसंहरते हरः ।।
का कथा मशकाभानां नृणां मरणधर्मिणाम् ।। २७ ।।
चतुर्षु भूतग्रामेषु ह्येक एव गुणो नृणाम् ।।
तस्मिन्वै भारते वर्षे कर्मभूमौ महीयसि ।। २८ ।।
चपलानि विनिर्जित्येंद्रियाणि मनसा सह ।।
विहाय वैरिणं लोभं विष्वग्गुणगणस्य च ।। २९ ।।
धर्मवंशहरं काममर्थसंचयहारिणम् ।।
जरापलितकर्तारं विनिष्कृत्य विचारतः ।।4.1.22.३०।।
जित्वा क्रोधरिपुं धैर्यात्तपसो यशसः श्रियः ।।
शरीरस्यापि हर्तारं नेतारं तामसीं गतिम् ।। ३१ ।।
सदा मदं परित्यज्य प्रमादैकपदप्रदम् ।।
प्रमादैकशरण्यं च संपदां विनिवर्तकम् ।। ३२ ।।
सर्वत्र लघुता हेतुमहंकारं विहाय च ।।
दूषणारोपणे यत्नं कुर्वाणं सज्जनेष्वपि ।। ३३ ।।
हित्वा मोहं महाद्रोहरोपणं मतिघातिनम् ।।
अत्यंतमंधीकरणमंधतामिस्रदर्शकम् ।। ३४ ।।
श्रुतिस्मृतिपुराणोक्तं परिक्षुण्णं महाजनैः ।।
धर्मसोपानमारुह्य यदिहायांति हेलया ।। ३५ ।।
कर्मभूमिं समीहंते सर्वे स्वर्गौकसो द्विज ।।
यत्तत्रार्जितभोक्तारः पदेषूच्चावचेष्वमी ।। ३६ ।।
नार्यावर्तसुमो देशो न काशी सदृशी पुरी ।।
न विश्वेश समं लिंगं क्वापि बह्मांडमंडले ।।३७।।
संति स्वर्गा बहुविधाः सुखेतर विवर्जिता।।
सुकृतैकफलाः सर्वे युक्ताः सर्वसमृद्धिभिः।। ।। ३८ ।।
स्वर्लोकादधिकं रम्यं नहि ब्रह्मांडगोलके ।।
सर्वे यतंते स्वर्गाय तपोदानव्रतादिभिः ।। ३९ ।।
स्वर्लोकादपिरम्याणि पातालानीति नारदः ।।
प्राह स्वर्गसदां मध्ये पातालेभ्यः समागतः ।। 4.1.22.४० ।।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ।।
नागांगाभरणप्रोताः पातालं केन तत्समम् ।। ४१ ।।
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ।।
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ।। ४२ ।।
दिवार्करश्मयस्तत्र प्रभां तन्वंति नातपम्।।
शशिनश्च न शीताय निशि द्योताय केवलम् ।। ४३ ।।
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ।।
वनानि नद्यो रम्याणि सदंभांसि सरांसि च ।। ४४ ।।
कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च ।।
भूषणान्यतिरम्याणि गंधाद्यमनुलेपनम् ।। ४५ ।।
वीणावेणुमृदंगादि निस्वनाः श्रुतिहारिणः ।।
हाटकेशं महालिंगं यत्र वै सर्वकामदम् ।। ४६ ।।
एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः ।।
दैत्योरगैश्च भुज्यंते पातालांतरगोचरैः ।। ४७ ।।
पातालेभ्योपि वै रम्यं द्विज वर्षमिलावृतम्।।
रत्नसानुं समाश्रित्य परितः परिसंस्थितम्।।४८।।
सदा सुकृतिनो यत्र सर्वभोगभुजो द्विज।।
नवयौवनसंपन्ना नित्यं यत्र मृगीदृशः ।।४९।।
भोगभूमिरियं प्रोक्ता श्रेयो विनिमयार्जिता ।।
भुज्यते त्वद्विधैर्लोकैस्तीर्थाभित्यक्त देहकैः ।। 4.1.22.५० ।।
अक्लीबभाषिभिश्चापि पुत्रक्षेत्राद्यहीनकैः ।।
परोपकारसंक्षीणसुखायुर्धनसंचयैः ।। ५१ ।।
संति द्वीपा ह्यनेका वै पारावारांतरस्थिताः ।।
जंबूद्वीपसमो द्वीपो न क्वापि जगतीतले ।। ५२ ।।
तत्रापि नववर्षाणि भारतं तत्र चोत्तमम् ।।
कर्मभूमिरियं प्रोक्ता देवानामपिदुर्लभा ।।५३।।
अष्टौ किंपुरुषादीनि देवभोग्यानि तानि तु ।।
तेषु स्वर्गात्समागत्य रमंते त्रिदिवौकसः ।। ५४ ।।
योजनानां सहस्राणि नवविस्तारतस्त्विदम् ।।
भारतं प्रथमं वर्षं मेरोर्दक्षिणतः स्थितम् ।। ५५ ।।
तत्रापि हिमविंध्याद्रेरंतरं पुण्यदं परम् ।।
गंगायमुनयोर्मध्ये ह्यंतर्वेदी भुवः पराः ।। ५६ ।।
कुरुक्षेत्रं हि सर्वेषां क्षेत्राणामधिकं ततः ।।
ततोपि नैमिषारण्यं स्वर्गसाधनमुत्तमम् ।। ५७ ।।
नैमिषारण्यतोपीह सर्वस्मिन्क्षितिमंडले ।।
सर्वेभ्योपि हि तीर्थेभ्यस्तीर्थराजो विशिष्यते ।। ५८ ।।
स्वर्गदोमोक्षदश्चैव सर्वकामफलप्रदः ।।
प्रयागस्तन्महत्क्षेत्रं तीर्थराज इति स्मृतः ।। ६९ ।।
यागाः सर्वे मया पूर्वं तुलया विधृता द्विज ।।
तच्च तीर्थवरं रम्यं कामिकं कामपूरणात ।। 4.1.22.६० ।।
दृष्ट्वा प्रकृष्टयागेभ्यः पुष्टेभ्यो दक्षिणादिभिः ।।
प्रयागमिति तन्नाम कृतं हरिहरादिभिः ।। ६१ ।।
नाममात्रस्मृतेर्यस्य प्रयागस्य त्रिकालतः ।।
स्मर्तुः शरीरे नो जातु पापं वसति कुत्रचित् ।। ६२ ।।
संति तीर्थान्यनेकानि पापत्राणकराणि च ।।
न शक्तान्यधिकं दातुं कृतैनः परिशुद्धितः ।। ६३ ।।
जन्मांतरेष्वसंख्येषु यः कृतः पापसंचयः ।।
दुष्प्रणोद्यो हि नितरां व्रतैर्दानैस्तपोजपैः ।। ६४ ।।
स तीर्थराजगमनोद्यतस्य शुभजन्मनः ।।
अंगेषु वेपतेऽत्यंतं द्रुमो वातहतो यथा ।। ६५ ।।
ततः क्रांतार्धमार्गस्य प्रयाग दृढचेतसः ।।
पुंसः शरीरान्निर्यातुमपेक्षेत पदांतरम् ।। ।। ६६।।
भाग्यान्नेत्रातिथीभूते तीर्थराजे महात्मनः ।।
पलायते द्रुततरं तमः सूर्योदये यथा ।। ६७ ।।
सप्तधातुमयी भूततनौ पापानि यानि वै ।।
केशेषु तानि तिष्ठंति वपनाद्यांति तान्यपि ।। ६८ ।।
एवं निष्कलुषीभूय ततः स्नायात्सितासिते ।।
यंयं काममभिध्यायंस्तं तमाप्नोति नान्यथा ।। ६९ ।।
पुण्यराशिं च विपुलं पुण्यान्भोगान्यथेप्सितान् ।।
स्वर्गं प्राप्नोति तत्पुण्यान्निष्कामो मोक्षमाप्नुयात् ।। 4.1.22.७० ।।
स्नायाद्योभिलषन्मोक्षं कामानन्यान्विहाय च ।।
सोपि मोक्षमवाप्नोति कामदात्तीर्थराजतः ।। ७१ ।।
तीर्थराजं परित्यज्य योऽन्यस्मात्काममिच्छति ।।
भारताख्ये महावर्षे स कामं नाप्नुयात्स्फुटम् ।। ७२ ।।
सत्यलोके प्रयागे च नांतरं वेद्म्यहं द्विज ।।
तत्र ये शुभकर्माणस्ते मल्लोकनिवासिनः ।। ७३ ।।
तीर्थाभिलाषिभिर्मर्त्यैस्सेव्यं तीर्थांतरं नहि ।।
अन्यत्र भूमिवलये तीर्थराजात्प्रया गतः ।।७४।।
यथांतरं द्विजश्रेष्ठ भूपेत्वितरसेवके ।।
दृष्टांतमात्रं कथितं प्रयागेतर तीर्थयोः ।।७५।।
यथाकथंचित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः ।।
तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि ।। ७६ ।।
यस्य भाग्यवतश्चात्र तिष्ठंत्यस्थीन्यपि द्विज ।।
न तस्य दुःखलेशोपि क्वापि जन्मनि जायते ।। ७७ ।।
ब्रह्महत्यादि पापानां प्रायश्चित्तं चिकीर्षुणा ।।
प्रयागं विधिवत्सेव्यं द्विजवाक्यान्न संशयः ।। ७८ ।।
किं बहूक्तेन विप्रेंद्र महोदयमभीप्सुना ।।
सेव्यं सितासितं तीर्थं प्रकृष्टं जगतीतले ।। ७९ ।।
प्रयागतोपि तीर्थेशात्सर्वेषु भुवनेष्वपि ।।
अनायासेन वै मुक्तिः काश्यां देहावसानतः ।।4.1.22.८०।।
प्रयागादपि वै रम्यमविमुक्तं न संशयः ।।
यत्र विश्वेश्वरः साक्षात्स्वयं समधितिष्ठति ।। ८१ ।।
अविमुक्तान्महाक्षेत्राद्विश्वेश समधिष्ठितात् ।।
न च किंचित्क्वचिद्रम्यमिह ब्रह्मांडगोलके ।। ८२ ।।
अविमुक्तमिदं क्षेत्रमपि ब्रह्मांडमध्यगम् ।।
ब्रह्मांडमध्ये न भवेत्पंचक्रोशप्रमाणतः ।। ८३ ।।
यथायथा हि वर्धेत जलमेकार्णवस्य च ।।
तथातथोन्नयेदीशस्तत्क्षेत्रं प्रलयादपि ।। ८४ ।।
क्षेत्रमेतत्त्रिशूलाग्रे शूलिनस्तिष्ठति द्विज ।।
अंतरिक्षेन भूमिष्ठं नेक्षंते मूढबुद्धयः।। ८५ ।।
सदा कृतयुगं चात्र महापर्वसदाऽत्र वै ।।
न ग्रहाऽस्तोदयकृतो दोषो विश्वेश्वराश्रमे ।।८६।।
सदा सौम्यायनं तत्र सदा तत्र महोदयः ।।
सदैव मंगलं तत्र यत्र विश्वेश्वरस्थितिः।।८७।।
यथाभूमितले विप्र पुर्यः संति सहस्रशः ।।
तथा काशी न मंतव्या क्वापि लोकोत्तरात्वियम् ।। ८८ ।।
मया सृष्टानि विप्रेंद्र भुवनानि चतुर्दश ।।
अस्याः पुर्या विनिर्माता स्वयं विश्वेश्वरः प्रभुः ।। ८९ ।।
पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् ।।
त्रैलोक्याधिकृतिं प्राप्तस्त्यक्त्वा वाराणसीं पुरीम् ।। 4.1.22.९० ।।
चराचरस्य सर्वस्य यानि कर्माणि तानि वै ।।
गोचरे चित्रगुप्तस्य काशीवासिकृतादृते ।। ९१ ।।
प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम ।।
मध्ये काशीपुरी क्वापि रक्षिणस्तत्र तद्गणाः ।। ९२ ।।
स्वयं नियंता विश्वेशस्तत्र काश्यां तनुत्यजाम् ।।
तत्रापि कृतपापानां नियंता कालभैरवः ।। ९३ ।।
तत्र पापं न कर्तव्यं दारुणा रुद्रयातना ।।
अहो रुद्रपिशाचत्वं नरकेभ्योपि दुःसहम् ।। ९४ ।।
पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी ।।
सुखेनान्यत्र कर्तव्यं मही ह्यस्ति महीयसी ।। ९५ ।।
अपि कामातुरो जंतुरेकां रक्षति मातरम् ।।
अपि पापकृता काशी रक्ष्या मोक्षार्थिनैकिका ।। ९६ ।।
परापवादशीलेन परदाराभिलाषिणा ।।
तेन काशी न संसेव्या क्व काशी निरयः क्व सः ।। ९७ ।।
अभिलष्यंति ये नित्यं धनं चात्र प्रतिग्रहैः ।।
परस्वं कपटैर्वापि काशी सेव्या न तैर्नरैः ।। ९८ ।।
परपीडाकरं कर्म काश्यां नित्यं विवर्जयेत् ।।
तदेव चेत्किमत्र स्यात्काशीवासो दुरात्मनाम् ।। ।। ९९ ।।
त्यक्त्वा वैश्वेश्वरीं भक्तिं येऽन्यदेवपरायणाः ।।
सर्वथा तैर्न वस्तव्या राजधानी पिनाकिनः ।। 4.1.22.१०० ।।
अर्थार्थिनस्तु ये विप्र ये च कामार्थिनो नराः ।।
अविमुक्तं न तैः सेव्यं मोक्षक्षेत्रमिदं यतः ।। १ ।।
शिवनिंदापरा ये च वेदनिंदा पराश्च ये ।।
वेदाचारप्रतीपा ये सेव्या वाराणसी न तैः ।। २ ।।
परद्रोहधियो ये च परेर्ष्याकारिणश्च ये ।।
परोपतापिनो ये वै तेषां काशी न सिद्धये ।। ३ ।।
मनसापि न ये काशीमभिनंदंति दुर्धियः ।।
तेषां निर्वाणवार्तापि दूरे दुर्वृत्तचेतसाम् ।। ४ ।।
ज्ञानेन न विना मोक्षः क्वचिदस्तीह भूतले ।।
तज्ज्ञानं न व्रतैर्लभ्यमपि चांद्रायणादिभिः ।। ५ ।।
तुलापुरुषमुख्यैश्च दानैश्च श्रद्धयान्वितैः ।।
देशकाले च विधिना पात्रेभ्यः प्रतिपादितैः ।। ६ ।।
न यमैर्ब्रह्मचर्याद्यैर्नियमैर्नार्चनादिभि. ।।
शरीरशोषणैरुग्रैर्न तपोभिर्द्विजोत्तम ।। ७ ।।
न महामंत्रजप्यैश्च गुरुभिः प्रतिपादितैः ।।
न स्वाध्यायैर्यथोक्तैश्च नाग्निशुश्रूषणैः परैः ।। ८ ।।
न सेवया गुरूणां च न श्राद्धैर्देवतार्चनैः ।।
न नानातीर्थयात्राभिर्ज्ञानं समधिगम्यते ।। ।। ९ ।।
न योगेन विना ज्ञानं योगस्तत्त्वार्थशीलनम् ।।
गुरूपदिष्टमार्गेण सदाभ्यासवशेन च ।। 4.1.22.११० ।।
तस्यांतराया बहवः सुदूरश्रवणादयः ।।
अतो न प्राप्यते ज्ञानं योगादेकेन जन्मना ।। ११ ।।
विना तपो जपाद्यैश्च विना योगेन सुव्रत ।।
निःश्रेयो लभ्यते काश्यामिहैकेनैव जन्मना ।।१२।।
त्वया शुद्धधिया काश्यां यच्छ्रेयः समुपार्जितम् ।।
तच्छ्रेयसोप्युदर्कस्ते महानस्ति द्विजोत्तम ।। १३ ।।
उक्तेति विररामाजः शृण्वतोर्गणयोस्तयोः ।।
सोपि प्रमुदितश्चाभूच्छिवशर्मा महामनाः ।। ११४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ब्रह्मकृतकाशीप्रशंसानाम द्वाविंशतितमोऽध्यायः ।। २२ ।। ।।