स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६२

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।।
श्रुत्वा स्कंद न तृप्तोस्मि तव वक्त्रेरितां कथाम् ।।
अत्याश्चर्यकरं प्रोक्तमाख्यानं बैंदुमाधवम् ।। १ ।।
इदानीं श्रोतुमिच्छामि देवदेवसमागमम् ।।
तार्क्ष्यात्त्र्यक्षः समाकर्ण्य दिवोदासस्य चेष्टितम् ।।२ ।।
विष्णुमायाप्रपंचं च किमाह गरुडध्वजम् ।।
के के च शंभुना सार्धं समीयुर्मंदराद्गिरेः ।।३।।
ब्रह्मणेशः कथं दृष्टस्त्रपाकुलित चक्षुषा ।।
किमाह देव ब्रह्माणं किमुक्तं भास्वतापि च ।। ४ ।।
योगिनीभिः किमाख्यायि गणाह्रीणाः किमब्रुवन् ।।
एतदाख्याहि मे स्कंद महत्कौतूहलं मयि ।।५।।
इमं प्रश्नं निशम्यैशिर्मुनेः कलशजन्मनः ।।
प्रत्युवाच नमस्कृत्य शिवौ प्रणतसिद्धिदौ।।६।।
।। स्कंद उवाच ।। ।।
मुने शृणु कथामेतां सर्वपातकनाशिनीम्।।
अशेषविघ्नशमनीं महाश्रेयोभिवर्धिनीम्।। ७ ।।
अथ देवोऽसुररिपुः श्रुत्वा शंभुसमागमम् ।।
द्विजराजाय स मुदा समदात्पारितोषिकम् ।। ८ ।।
आयानं शंसते शंभोरुपवाराणसिप्रियम् ।।
ब्रह्माणमग्रतः कृत्वा ततश्चाभ्युद्ययौ हरिः ।। ९ ।।
विवस्वता समेतश्च तैर्गणैः परितो वृतः ।।
योगिनीभिरनूद्यातो गणेशमुपसंस्थितः ।। 4.2.62.१० ।।
अथनेत्रातिथीकृत्य देवदेवं वृषध्वजम् ।।
मंक्षु तार्क्ष्यादवारुह्य प्रणनाम श्रियः पतिः ।। ११ ।।
पितामहोपि स्थविरो भृशं नम्रशिरोधरः ।।
प्रणतेन मृडेनैव प्रणमन्विनिवारितः ।। १२ ।।
स्वस्त्यभ्युदितपाणिश्च रुद्रसूक्तैरमंत्रयत् ।।
अक्षतान्यथ सार्द्राणि दर्शयन्सफलान्यजः ।। १३।।
मौलिं पादाब्जयोः कृत्वा गणेशः सत्वरो नतः ।।
मूर्ध्न्युपाजिघ्रयांचक्रे हरो हर्षाद्गजाननम् ।। १४ ।।
अभ्युपावेशयच्चापि परिष्वज्य निजासने ।।
सोमनंदि प्रभृतयः प्रणेमुर्दंडवद्गणाः ।। १५ ।।
योगिन्योपि प्रणम्येशं चक्रुर्मंगलगायनम् ।।
तरणिः प्रणनामाथ प्रमथाधिपतिं हरम् ।। १६ ।।
खंडेंदुशेखरश्चाथ उपसिंहासनं हरिम् ।।
समुपावेशयद्वामपार्श्वे मानपुरःसरम् ।। १७ ।।
ब्रह्माणं दक्षिणे भागे परिविश्राणितासनम् ।।
दृष्ट्वा संभाविताः सर्वे शर्वेण प्रणता गणाः ।। १८।।
मौलिचालनमात्रेण योगिन्योपि प्रसादिताः ।।
संतोषितो रविश्चापि विशेति करसंज्ञया ।। १९ ।।
अथ शंभुं शतधृतिः प्रबद्धकरसंपुटः ।।
परिविज्ञापयांचक्रे प्रसन्नवदनांबुजम् ।। 4.2.62.२० ।।
।। ब्रह्मोवाच ।। ।।
भगवन्देवदेवेश क्षंतव्यं गिरिजापते ।।
वाराणसीं समासाद्य यदहं नागतः पुनः ।। २१ ।।
प्रसंगतोपि कः काशीं प्राप्य चंद्रविभूषण ।।
किंचिद्विधातुं शक्तोपि त्यजेत्स्थविरतां दधत्।। २२ ।।
स्वरूपतो ब्राह्मणत्वादपाकर्तुं न शक्यते ।।
अथ शक्तो व्यपाकर्तुं कः पुण्ये संचिकीर्षति ।। २३।।
विभोरपि समाज्ञेयं धर्मवर्त्मानुसारिणि ।।
न किंचिदपकर्तव्यं जानता केनचित्क्वचित ।। २४।।
कस्तादृशि महीजानौ पुण्यवर्त्मन्यतंद्रिते ।।
काशीपाले दिवोदासे मनागपि विरुद्धधीः ।।२५।।
निशम्येति वचस्तुष्टः श्रीकंठोति विशुद्धधीः ।।
हसन्प्रोवाच धातारं ब्रह्मन्सर्वमवैम्यहम् ।।२६।।
।। देवदेव उवाच ।। ।।
आदौ तावददोषं हि ब्रह्मत्वं ब्राह्मणस्य ते ।।
वाजिमेधाध्वराणां च ततोपि दशकं कृतम् ।। २७ ।।
ततोपि विहितं ब्रह्मन्भवता परमं हितम् ।।
अपराधसहस्राणि यल्लिंगं स्थापितं मम ।।२८।।
येनैकमपि मे लिंगं स्थापितं यत्र कुत्रचित् ।।
तस्यापराधलेशोपि नास्ति सर्वापराधिनः ।। २९।।
अपराधसहस्रेपि ब्राह्मणं योपराध्नुयात् ।।
दिनैः कतिपयैरेव तस्यैश्वर्यं विनश्यति ।। 4.2.62.३० ।।
इति ब्रुवति देवेशेप्यंतरुच्छ्वसितं गणैः ।।
समातृभिः समंताच्च विलोक्यास्यं परस्परम् ।। ३१ ।।
अर्कोप्यवसरं ज्ञात्वा नत्वा शंभुं व्यजिज्ञपत् ।।
प्रसन्नास्यमुमाकांतं दृष्ट्वा दृष्टचराचरः ।। ३२ ।।
।। अर्क उवाच ।। ।।
नाथ काशीमितो गत्वा यथाशक्ति कृतोपधिः ।।
अकिंचित्करतां प्राप्तः सहस्रकरवानपि ।। ३३ ।।
स्वधर्मपालके तस्मिन्दिवोदासे धरापतौ ।।
निश्चितागमनं ज्ञात्वा देवस्याहमिह स्थितः ।।३४।।
प्रतीक्षमाणो देवेश त्वदामनमुत्तमम्।।
विभज्य बहुधात्मानं त्वदाराधनतत्परः ।। ३५ ।।
मनोरथद्रुमश्चाद्य फलितः श्रीमदीक्षशात् ।।
किंचिद्भक्तिलवांभोभिः सिक्तो ध्यानेन पुष्पितः ।। ३६ ।।
इत्युदीरितमाकर्ण्य रवेर्वैरविलोचनः ।।
प्रोवाच देवदेवेशो नापराध्यसि भास्कर ।।३७।।
ममैव कार्यं विह्तिं त्वं यदत्र व्यवस्थितः ।।
यस्यां सुरप्रवेशो न तस्मिन्राजनि शासति ।। ३८ ।।
इति सूरं समाश्वास्य देवदेव कृपानिधिः ।।
गणानाश्वासयामास व्रीडा नम्रशिरोधरान् ।।३९।।
योगिन्योपि सुदृष्ट्वाथ शंभुना संप्रसादिताः ।।
त्रपाभरसमाक्रांत कंधरा इव सं गताः ।। 4.2.62.४० ।।
ततो व्यापारयांचक्रे त्र्यक्षो नेत्राणि चक्रिणि ।।
हरिर्न किंचिदप्यूचे सर्वज्ञाग्रे महामनाः ।। ४१ ।।
ईशोपि श्रुतवृत्तांतस्तार्क्ष्याद्गणप शार्ङ्गिणोः ।।
मनसैव प्रसन्नोभून्न किंचित्पर्यभाषत ।। ४२ ।।
एतस्मिन्नंतरे प्राप्ता गोलोकात्पंच धेनवः ।।
सुनंदा सुमनाश्चापि सुशीला सुरभिस्तथा ।। ।। ४३ ।।
पंचमी कपिला चापि सर्वाघौघविघट्टिनी ।।
वात्सल्यदृष्ट्या भर्गस्य तासामूधांसि सुस्रुवुः।।४४।।
ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः ।।
धारासारैरविच्छिन्नैस्तावद्यावद्ध्रदोऽभवत् ।।४५।।
पयःपयोधिरिव स द्वितीयः प्रैक्षि पार्षदैः ।।
देवेश समधिष्ठानात्तत्तीर्थमभवत्परम् ।।४६।।
कपिला ह्रद इत्याख्यां चक्रे तस्य महेश्वरः ।।
ततो देवाज्ञया सर्वे स्नातास्तत्र दिवौकसः ।। ४७ ।।
आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः ।।
तान्दृष्ट्वा ते सुराः सर्वे तर्पयांचक्रिरे मुदा ।। ४८ ।।
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।।
इत्याद्या दिव्यपितरस्तृप्ताः शंभुं व्यजिज्ञपन् ।।४९।।
देवदेव जगन्नाथ भक्तानामभयप्रद ।।
अस्मिंस्तीर्थे त्वदभ्याशाज्जाता नस्तृप्तिरक्षया ।। 4.2.62.५० ।।
तस्माच्छंभो वरं देहि प्रसन्नेनांतरात्मना ।।
इति दिव्यपितॄणां स श्रुत्वा वाक्यं वृषध्वजः ।। ५१ ।।
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ।।
शर्वः सर्वपितॄणां वै परतृप्तिकरं परम् ।। ५२ ।।
।। श्रीदेवदेव उवाच ।। ।।
शृणु विष्णो महाबाहो शृणु त्वं च पि तामह ।।
एतस्मिन्कापिले तीर्थे कापिलेय पयोभृते ।। ५३ ।।
ये पिंडान्निर्वपिष्यंति श्रद्धया श्राद्धदानतः ।।
तेषां पितॄणां संतृप्तिर्भविष्यति ममाज्ञया ।।५४।।
अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम् ।।
कुहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम्।।५५।।
संवर्तकाले संप्राप्ते जलराशिर्जलान्यपि ।।
क्षीयंते न क्षयत्यत्र श्राद्धं सोमकुहू कृतम् ।। ५६।।
अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते ।।
तीर्थे कापिलधारेस्मिन्गयया पुष्करेण किम् ।। ५७ ।।
गदाधरभवान्यत्र यत्र त्वं च पितामह ।।
वृषध्वजोस्म्यहं यत्र फल्गुस्तत्र न संशयः ।। ५८ ।।
दिव्यांतरिक्षभौमानि यानि तीर्थानि सर्वतः ।।
तान्यत्र निवसिष्यंति दर्शे सोमदिनान्विते ।। ९९ ।।
कुरुक्षेत्रे नैमिषे च गंगासागरसंगमे ।।
ग्रहणे श्राद्धतो यत्स्यात्तत्तीर्थे वार्षभध्वजे ।। 4.2.62.६० ।।
अस्य तीर्थस्य नामानि यानि दिव्य पितामहाः ।।
तान्यहं कथयिष्यामि भवतां तृप्तिदान्यलम् ।।६१।।
मधुस्रवेति प्रथममेषा पुष्करिणी स्मृता ।।
कृतकृत्या ततो ज्ञेया ततोऽसौ क्षीरनीरधिः ।। ६२ ।।
वृषभध्वजतीर्थं च तीर्थं पैतामहं ततः ।।
ततो गदाधराख्यं च पितृतीर्थं ततः परम् ।। ।। ६३ ।।
ततः कापिलधारं वै सुधाखनिरियं पुनः ।।
ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम् ।।६४।।
एतानि दश नामानि तीर्थस्यास्य पितामहाः ।।
भवतां तृप्तिकारीणि विनापि श्राद्धतर्पणैः ।। ६५ ।।
सूर्येंदु संगमे येत्र पितॄणां तृप्तिकामुकाः ।।
ब्राह्मणान्भोजयिष्यंति तेषां श्राद्धमनंतकम् ।। ६६ ।।
श्राद्धे पितॄणां संतृप्त्यै दास्यंति कपिलां शुभाम् ।।
येत्र तेषां पितृगणो वसेत्क्षीरोदरोधसि ।। ६७ ।।
वृषोत्सर्गः कृतो यैस्तु तीर्थेस्मिन्वार्षभध्वजे ।।
अश्वमेधपुरोडाशैः पितरस्तेन तर्पिताः ।। ६८ ।।
गयातोष्टगुणं पुण्यमस्मिंस्तीर्थे पितामहाः ।।
अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके ।। ६९ ।।
येषां गर्भेऽभवत्स्रावो येऽ दंतजननामृताः ।।
तेषां तृप्तिर्भवेन्नूनं तीर्थे कापिलधारिके।। 4.2.62.७० ।।
अदत्तमौंजीदाना ये ये चादारपरिग्रहाः ।।
तेभ्यो निर्वापितं पिंडमिह ह्यक्षयतां व्रजेत् ।। ।। ७१ ।।
अग्निदाहमृता ये वै नाग्निदाहश्च येषु वै ।।
ते सर्वे तृप्तिमायांति तीर्थे कापिलधारिके ।। ७२ ।।
और्द्ध्वदैहिकहीना ये षोडश श्राद्धवर्जिताः ।।
ते तृप्तिमधिगच्छंति घृतकुल्यां निवापतः ।। ७३ ।।
अपुत्राश्च मृता ये वै येषां नास्त्युकप्रदः ।।
तेपि तृप्तिं परां यांति मधुस्रवसि तर्पिताः ।। ७४ ।।
अपमृत्युमृता ये वै चोरविद्युज्जलादिभिः ।।
तेषामिह कृतं श्राद्धं जायते सुगतिप्रदम् ।। ७५ ।।
आत्मघातेन निधनं यैषामिहविकमर्णाम् ।।
तेपि तृप्तिं लभंतेत्र पिंडैः शिवगयाकृतैः।। ।। ७६ ।।
पितृगोत्रे मृता ये वै मातृपक्षे च ये मृताः ।।
तेषामत्र कृतः पिंडो भवेदक्षयतृप्तिदः ।। ७७ ।।
पत्नीवर्गे मृता ये वै मित्रवर्गे च ये मृताः ।।
ते सर्वे तृप्तिमायांति तर्पिता वार्षभध्वजे ।। ७८ ।।
ब्रह्मक्षत्रविशां वंशे शूद्रवंशेंऽत्यजेषु च ।।
येषां नामगृहीत्वात्र दीयते ते समुद्धृताः ।। ९ ।।
तिर्यग्योनि मृता ये वै ये पिशाचत्वमागताः ।।
तेप्यूर्ध्वगतिमायांति तृप्ताः कापिलधारिके ।। 4.2.62.८० ।।
ये तु मानुषलोकेस्मिन्पितरो मर्त्ययोनयः ।।
ते दिव्ययोनयः स्युर्वै मधुस्रवसि तर्पिताः ।। ।। ८१ ।।
ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः ।।
ते ब्रह्मलोके गच्छंति तृप्तास्तीर्थे वृषध्वजे ।। ८२।।
कृते क्षीरमयं तीर्थं त्रेतायां मधुमत्पुनः ।।
द्वापरे सर्पिषा पूर्णं कलौ जलमयं भवेत्।। ८३ ।।
सीमाबहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम् ।।
मध्ये वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः ।। ८४ ।।
काशीस्थितैर्यतो दर्शि ध्वजो मेषवृषलांछनः ।।
वृषध्वजेन नाम्नातः स्थास्याम्यत्र पितामहाः।। ८५ ।।
पितामहेन सहितो गदाधरसमन्वितः ।।
रविणा पार्षदैः सार्धं तुष्टये वः पितामहाः ।। ८६ ।।
इति यावद्वरं दत्ते पितृभ्यो वृषभध्वजः ।।
तावन्नदी समागत्य प्रणम्येशं व्यजिज्ञपत् ।।८७।।
।। नंदिकेश्वर उवाच ।। ।।
विहितः स्यदनः सज्जस्ततोस्तु विजयोदयः ।।
अष्टौ कंठीरवा यत्र यत्रोक्ष्णामष्टकं शुभम् ।। ८८ ।।
यत्रेभाः परिभांत्यष्टौ यत्राष्टौ जविनो हयाः ।।
मनः संयमनं यत्र कशापाणि व्यवस्थितम् ।। ८९ ।।
गंगायमुनयोरीषे चक्रे पवनदेवता ।।
सायंप्रातर्मये चक्रे छत्रं द्यौर्मंडलं शुचि ।।4.2.62.९०।।
तारावलीमयाः कीला आहेया उपनायकाः ।।
श्रुतयो मार्गदर्शिन्यः स्मृतयो रथगुप्तयः ।। ९१ ।।
दक्षिणाधूर्दृढा यत्र मखा यत्राभिरक्षकाः ।।
आसनं प्रणवो यत्र गायत्रीपादपीठभूः ।। ९२ ।।
सांगा व्याहृतयो यत्र शुभा सोपानवीथिकाः ।।
सूर्याचंद्रमसौ यत्र सततं द्वाररक्षकौ ।।९३।।
अग्निर्मकरतुंडश्च रथभूः कौमुदीमयी ।।
ध्वजदंडो महामेरुः पताका हस्करप्रभा ।। ९४ ।।
स्वयं वाग्देवता यत्र चंचच्चामरधारिणी ।।
।। स्कंद उवाच ।। ।।
शैलादिनेति विज्ञप्तो देवदेव उमापतिः ।। ९५ ।।
कृतनीराजनविधिरष्टभिर्देवमातृभिः ।।
पिनाकपाणिरुत्तस्थौ दत्तहस्तोथ शार्ङ्गिणा ।। ९६ ।।
निनादो दिव्यवाद्यानां रोदसी पर्यपूरयत् ।।
गीतमंगलगीर्भिश्च चारणैरनुवर्धितः ।। ९७ ।।
तेन दिव्यनिनादेन बधिरीकृतदिङ्मुखाः ।।
आहूता इव आजग्मुर्विष्वग्भुवनवासिनः ।। ९८ ।।
देवाकोट्यस्त्रयस्त्रिंशद्गणाः कोट्ययुतद्वयम् ।।
नवकोट्यस्तु चामुंडा भैरव्यः कोटिसंमिताः ।। ९९ ।।
षडाननाः कुमाराश्च मयूरवरवाहनाः ।।
ममानुगाः समायाताः कोटयोष्टौ महाबलाः ।। 4.2.62.१०० ।।
आययुः कोटयः सप्त स्फुरत्परशुपाणयः ।।
पिचंडिला महावेगा विघ्नविघ्ना गजाननाः ।। १ ।।
षडशीतिसहस्राणि मुनयो ब्रह्मवादिनः ।।
तावतोपि समाजग्मुस्तत्रत्ये गृहमेधिनः ।। २ ।।
नागानां कोटयस्तिस्रः पातालतलवासिनाम् ।।
दानवानां च दैत्यानां द्वे द्वे कोटी शिवात्मनाम् ।। ३ ।।
गंधर्वा नियुतान्यष्टौ कोट्यर्धं यक्षरक्षसाम् ।।
विद्याधराणामयुतं नियुतद्वयसंयुतम् ।। ४ ।।
तथा षष्टिसहस्राणि दिव्याश्चाप्सरसः शुभाः ।।
गोमातरोऽष्टौ लक्षाणि सुपर्णान्ययुतानि षट् ।। ५ ।।
सागराः सप्त संप्राप्ता नानारत्नोपदप्रदाः ।।
सरितां च सहस्राणि त्रीणि पंचायुतानि च ।। ६ ।।
गिरयोऽष्टौ सहस्राणि वनस्पतिशतत्रयम्।।
आजग्मुर्दिग्गजा अष्टौ यत्र देवः पिनाकधृक् ।।७।।
एतैः समेतः संतुष्टः परिष्टुत इतस्ततः ।।
श्रीकंठो रथमारुह्य काशीं प्राविशदुत्तमाम् ।।।७।।।
स गिरींद्रसुतस्त्र्यक्षो मुदां धाम मुदां खनिः ।।
काशीं प्रैक्षिष्ट संहृष्टस्त्रिविष्टप समुत्कटाम् ।।९।।
।। स्कंद उवाच ।। ।।
श्रुत्वाख्यानमिदं पुण्यं कोटिजन्माघनाशनम् ।।
पठित्वा पाठयित्वा च शिवसायुज्यमाप्नुयात् ।। 4.2.62.११० ।।
श्राद्धकाले विशेषेण पठनीयं प्रयत्नतः ।।
अक्षयं तद्भवेच्छ्राद्धं पितृतुष्टिकरं परम् ।। ११ ।।
वृषभध्वज माहात्म्यं पठित्वा शिवसन्निधौ ।।
प्रत्यहं वर्षमात्रं तु ह्यपुत्रः पुत्रवान्भवेत् ।। १२ ।।
विश्वेशितुः संप्रवेशो यः काश्यां समुदाहृतः ।।
परमानंदकंदस्य बीजमेतत्सुनिश्चितम् ।। १३ ।।
पठित्वैतन्मुदाख्यानं प्रविशेद्यो नवं गृहम् ।।
स सर्वसौख्यनिलयो भवेदेव न संशयः ।।१४।।
त्रैलोक्यानंदजनकमेतदाख्यानमुत्तमम् ।।
अस्य श्रवणमात्रेण विश्वेशः संप्रसीदति ।। १५ ।।
अलभ्यलाभो देवस्य जातोत्र हि यतः परः ।।
ततः काशी प्रवेशाख्यं जप्यमाख्यानमुत्तमम् ।। ११६ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे वृषभध्वजप्रादुर्भावोनाम द्विषष्टितमोऽध्यायः ।। ६२ ।। ।।