स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०८७

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।। ।।
सर्वज्ञसूनो षड्वक्त्र सर्वार्थकुशल प्रभो ।।
प्रादुर्भावं निशम्यैषां लिंगानां मुक्तिदायिनाम् ।। १ ।।
नितरां परितृप्तोस्मि सुधां पीत्वेव निर्जरः ।।
ओंकारप्रमुखैर्लिंगैरिदमानंदकाननम्।।२।।
आनंदमेवजनयेदपि पापजुषामिह ।।
परानंदमहं प्राप्तः श्रुत्वैतल्लिंगकीर्तनम् ।।३।।
जीवन्मुक्तइवासं हि क्षेत्रतत्त्वश्रुतेरहम् ।।
स्कंददक्षेश्वरादीनि लिंगानीह चतुर्दश ।।
यान्युक्तानि समाचक्ष्व तत्प्रभावमशेषतः ।। ४ ।।
यो दक्षो गर्हयामास मध्ये देवसभं विभुम् ।।
स कथं लिंगमीशस्य प्रत्यस्थापयदद्भुतम् ।।५।।
इति श्रुत्वा शिखिरथः कुंभयोनेरुदीरितम् ।।
सूत संकथयामास दक्षेश्वर समुद्भवम् ।।६।।
।। स्कंद उवाच ।।
आकर्णय मुने वच्मि कथां कल्मषहारिणीम् ।।
पुरश्चरणकामोसौ दक्षः काशीं समाययौ ।। ७ ।।
छागवक्त्रो विरूपास्यो दधीचि परिधिक्कृतः ।।
प्रायश्चित्तविधानार्थं सूपदिष्टः स्वयंभुवा ।। ८ ।।
एकदा देवदेवस्य सेवार्थं शशिमौलिनः ।।
कैलासमगमद्विष्णुः पद्मयोनिपुरस्कृतः ।। ९ ।।
इंद्रादयो लोकपाला विश्वेदेवा मरुद्गणाः ।।
आदित्या वसवो रुद्राः साध्या विद्याधरोरगाः ।। 4.2.87.१० ।।
ऋषयोऽप्सरसोयक्षा गंधर्वाः सिद्धचारणाः ।।
तैर्नतो देवदेवेशः परिहृष्टतनूरुहैः ।।११।।
स्तुतश्च नाना स्तुतिभिः शंभुनापि कृतादराः ।।
विविशुश्चासनश्रेण्यां तन्मुखासक्तदृष्टयः ।। १२ ।।
अथ तेषूपविष्टेषु शंभुना विष्टरश्रवाः ।।
कृतहस्तपरिस्पर्शमानः पृष्टो महादरम् ।। १३ ।।
श्रीवत्सलांछन हरे दैत्यवंशदवानल ।।
कच्चित्पालयितुं शक्तिस्त्रिलोकीमस्त्यकुंठिता।। १४ ।।
दितिजान्दनुजान्दुष्टान्कच्चिच्छासि रणांगणे ।।
अपि कुद्धान्महीदेवान्मामिव प्रतिमन्यसे ।। १५ ।।
बाधया रहिता गावः कच्चित्संति महीतले ।।
स्त्रियः संति हि सुश्रीकाः पतिव्रतपरायणाः ।। १६ ।।
विधियज्ञाः प्रवर्तंते पृथिव्यां बहुदक्षिणाः ।।
निराबाधं तपः कच्चिदस्ति शश्वत्तपस्विनाम् ।। १७ ।।
निष्प्रत्यूहं पठंत्येव सांगान्वेदान्द्विजोत्तमाः ।।
महीपालाः प्रजाः कच्चित्पांति त्वमिवकेशव ।। १८।।
स्वेषु स्वेषु च धर्मेषु कच्चिद्वर्णाश्रमास्तथा ।।
निष्ठावंतो हि तिष्ठंति प्रहृष्टेंद्रियमानसाः ।। १९ ।।
धूर्जटिः परिपृछ्येति हृष्टं वैकुंठनायकम्।
ब्रह्माणं चापि पप्रच्छ ब्राह्मं तेजः समेधते ।। 4.2.87.२० ।।
सत्यमस्खलितं कच्चिदस्ति त्रैलोक्यमंडपे ।।
तीर्थावरोधो न क्वापि केनचित्क्रियते विधे ।। २१ ।।
इंद्रादयः सुराः कच्चित्स्वेषु स्वेषु पुरेष्वहो ।।
राज्यं प्रशासति स्वस्थाः कृष्णदोर्दंडपालिताः ।। २२ ।।
प्रत्येकं परिपृच्छयेशः सर्वानित्थं कृतादरान् ।।
पृष्ट्वा गमनकार्यं च तेषां कृत्वा मनोरथान् ।। २३ ।।
विससर्जाथ तान्सर्वान्देवः सौधं समाविशत् ।।
गतेष्वथ च देवेषु स्वस्व धिष्ण्येषु हृष्टवत् ।। २४ ।।
मध्ये मार्गं स चिंतोभूद्दक्षः सत्याः पिता तदा ।।
अन्यदेवसमानं स मानं प्राप न चाधिकम् ।। २५ ।।
अतीव क्षुब्धचित्तोभून्मंदराघाततोऽब्धिवत् ।।
उवाच च मनस्येतन्महाक्रोधरयांधदृक्।। २६ ।।
अतीवगर्वितो जातः सती मे प्राप्य कन्यकाम् ।।
कस्यचिन्नाप्यसौ प्रायो न कोस्यापि क्वचित्पुनः ।। २७ ।।
किं वंश्यस्त्वेष किं गोत्रः किं देशीयः किमात्मकः ।।
किं वृत्तिः किं समाचारो विपा(षा?)दी वृषवाहनः ।। २८ ।।
न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम् ।।
न गृहस्थेषु गण्योसौ श्मशाननिलयो यतः ।। २९ ।।
असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः।।
वानप्रस्थ्यं कुतश्चास्मिन्नैश्वर्यमदमोहिते ।।4.2.87.३०।।
न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम् ।।
शस्त्रास्त्रधारणात्प्रायः क्षत्रियः स्यान्न सोप्ययम्।। ३१ ।।
क्षतात्संत्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये ।।
वैश्योपि न भवेदेष सदा निर्धनचेष्टनः ।। ३२ ।।
शूद्रोपि न भवेत्प्रायो नागयज्ञोपवीतवान् ।।
एवं वर्णाश्रमातीतः कोसौ सम्यङ्नकीर्त्यते ।। ३३ ।।
सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ।।
प्रायशः पुरुषोनासावर्धनारीवपुर्यतः ।। ३४ ।।
योषापि न भवेदेष यतोसौ श्मश्रुलाननः ।।
नपुंसकोपि न भवेल्लिंगमस्ययतोर्च्यते ।। ३५ ।।
बालोपि न भवत्येष यतोऽयं बहुवार्षिकः।।
अनादिवृद्धो लोकेषु गीयते चोग्र एष यत् ।। ३६ ।।
अतो युवत्वं संभाव्यं नात्र नूनं चिरंतने ।।
वृद्धोऽपि न भवत्येष जरामरणवर्जितः ।। ३७ ।।
ब्रह्मादीन्संहरेत्प्रांते तथापि च न पातकी ।।
पुण्यलेशोपि नास्त्यस्मिन्ब्रह्ममौलिच्छिदिक्रुधा।। ३८ ।।
अस्थिनेपथ्यवति च क्व शुचित्वं विवाससि ।।
किं बहूक्तेन नो किंचिज्ज्ञायतेऽस्य विचेष्टितम् ।। २९ ।।
अहो धार्ष्ट्यं महद्दृष्टं जटिलस्याद्य चाद्भुतम् ।।
यदासनान्नोत्थितोसौ दृष्ट्वा मां श्वशुरं गुरुम् ।। 4.2.87.४० ।।
एवंभूता भवंत्येव मातापितृविवर्जिताः ।।
निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरंकुशाः ।। ४१ ।।
स्वच्छंदचारिणोऽनाथाः सर्वत्र स्वाभिमानिनः ।।
अकिंचना अपिप्रायस्तथापीश्वरमानिनः ।। ४२ ।।
जामातॄणां स्वभावोयं प्रायशो गर्वभाजनम् ।।
किंचिदैश्वयर्मासाद्य भवत्येव न संशयः ।। ४३ ।।
द्विजराजः स गर्विष्ठो रोहिणीप्रेमनिर्भरः ।।
कृत्तिकादिषु चास्नेही मया शप्तः क्षयीकृतः ।। ४४ ।।
अस्याहं गर्वसर्वस्वं हरिष्याम्येव शूलिनः ।।
यथावमानितश्चाहमनेनास्य गृहं गतः ।। ४५ ।।
तथास्याहं करिष्यामि मानहानिं च सर्वतः ।।
संप्रधार्येति बहुशः स तु दक्षः प्रजापतिः ।। ४६ ।।
प्राप्य स्वभवनं देवानाजुहाव सवासवान् ।।
अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ।। ४७ ।।
भवंतु यज्ञसंभारानानयंतु त्वरान्विताः ।।
श्वेतद्वीपमथो गत्वा चक्रे चक्रिणमच्युतम् ।। ४८ ।।
महाक्रतूपद्रष्टारं यज्ञपूरुषमेव च ।।
तस्यर्त्विजोभवन्सर्व ऋषयो ब्रह्मवादिनः ।। ४९ ।।
प्रावर्तत ततस्तस्य दक्षस्य च महाध्वरः ।।
दृष्ट्वा देवनिकायांश्च तस्मिन्दक्ष महाध्वरे ।। 4.2.87.५० ।।
अनीश्वरांस्ततो वेधा व्याजं कृत्वा गृहं ययौ ।।
दधीचिरथ संवीक्ष्य सर्वांस्त्रैलोक्यवासिनः ।। ५१ ।।
दक्षयज्ञे समायातान्सतीश्वरविवर्जितान् ।।
प्राप्तसंमानसंभारान्वासोलंकृतिपूर्वकम् ।।५२ ।।
दक्षस्य हि शुभोदर्कमिच्छन्प्रोवाच चेति वै ।। ।।
दधीचिरुवाच ।।
दक्षप्रजापते दक्ष साक्षाद्धातृस्वरूपधृक् ।। ५३ ।।
न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम् ।।
यादृशः क्रतुसंभारस्तव चेह समीक्ष्यते ।। ५४ ।।
न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते ।।
क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ।। ५५ ।।
कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्संपत्ति रीदृशी ।।
साक्षादग्निः स्वयं कुंडे साक्षादिंद्रादिदेवताः ।।५६।।
साक्षाच्च सर्वे मंत्रा वै साक्षाद्यज्ञपुमानसौ ।।
आचार्यपदवीमेष देवाचार्यः स्वयं चरेत् ।।
साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकांडवित् ।। ५७ ।।
अयं पूषा भगस्त्वेष इयं देवी सरस्वती ।।
एते च सर्वदिक्पाला यज्ञरक्षाकृतः स्वयम् ।। ५८।।
त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया ।।
जामाता त्वेष ते धर्मः पत्नीभिर्दशभिः सह ।। ५९ ।।
स्वयमेव हि कुर्वीत धर्मकार्यं प्रयत्नतः ।।
ओषधीनामयं नाथस्तव जामातृषूत्तमः ।। 4.2.87.६० ।।
सप्तविंशतिभिः सार्धं पत्नीभिस्तव कार्यकृत् ।।
ओषधीः पूरयेत्सर्वा द्विजराजो महासुधीः ।।६१।।
दीक्षितो राजसूयस्य दत्तत्रैलोक्यदक्षिणः ।।
मारीचः कश्यपश्चासौ प्रजापतिषु सत्तमः ।।
त्रयोदशमिताभिश्च भार्याभिस्तव कार्यकृत् ।। ६२ ।।
हविः कामदुघा सूते कल्पवृक्षः समित्कुशान् ।।
दारुपात्राणि सर्वाणि शकटं मंडपादिकम् ।। ६३ ।।
विश्वकर्माप्यलंकारान्कुरुतेभ्यागतर्त्विजाम् ।।
वसूनि चाऽपि वासांसि वसवोष्टौ ददत्यपि ।। ६४ ।।
स्वयंलक्ष्मीरलंकुर्याद्यावै चात्र सुवासिनीः ।। ६५ ।।
सर्वे सुखाय मे दक्ष वीक्षमाणस्य सर्वतः ।।
एकं दुःखाकरोत्येव यत्त्वं विस्मृतवानसि ।। ६६ ।।
जीवहीनो यथा देहो भूषितोपि न शोभते ।।
तथेश्वरं विना यज्ञः श्मशानमिव लक्ष्यते ।। ६७ ।।
इत्थं दधीचिवचनं श्रुत्वा दक्षः प्रजापतिः ।।
भृशं जज्वाल कोपेन हविषा कृष्णवर्त्मवत् ।। ६८ ।।
पूर्वस्तुत्याति संहृष्टो दृष्टो योसौ दधीचिना ।।
स एव चापि कोपाग्निमुद्वमन्वीक्षितो मुखात् ।। ६९ ।।
 प्रत्युवाचाथ तं विप्रं वेपमानांगयष्टिकः ।।
दक्षः प्रजापती रोषाज्जिघांसुरिव तं द्विजम् ।। 4.2.87.७० ।।
।। दक्ष उवाच ।। ।।
ब्राह्मणोसि दधीचे त्वं किं करोमि तवात्र वै ।।
दीक्षामहमहो प्राप्तः कर्तुं नायाति किंचन ।। ७१ ।।
भवान्केन समाहूतो यदत्रागान्महाजडः ।।
आगतोपि हि केन त्वं पृष्ट इत्थं प्रब्रवीषि यत् ।। ७२ ।।
सर्वमंगलमांगल्यो यत्र श्रीमानयं हरिः ।।
स्वयं वै यज्ञपुरुषः स मखः किं श्मशानवत् ।। ७३ ।।
यत्र वज्रधरः शक्रः शतयज्ञैकदीक्षितः ।।
त्रयस्त्रिंशतिकोटीनाममराणां पतिः स्वयम् ।। ७४ ।।
तं त्वंचोपमिमीषेमुं श्मशानेन महामखम् ।।
धर्मराट्च स्वयं यत्र धर्माधर्मैककोविदः ।। ७५ ।।
श्रीदोस्ति यत्र श्रीदाता साक्षाद्यत्राशुशुक्षणिः ।।
तं यज्ञमुपमासि त्वममंगलभुवातया ।। ७६ ।।
देवाचार्यः स्वयं यत्र क्रतोराचार्यतागतः ।।
अभिमानवशात्तं त्वमाख्यासि पितृकाननम् ।। ७७ ।।
यत्रार्त्विज्यं भजंतेऽमी वसिष्ठप्रमुखर्षयः ।।
तमध्वरं समाचक्षे मंगलेतरभूमिवत् ।। ७८ ।।
निशम्येति मुनिः प्राह दधीचिर्ज्ञानिनां वरः ।।
सर्वमंगलमांगल्यो भवेद्यज्ञपुमान्हरिः ।। ७९ ।।
तथापि शांभवी शक्तिर्वेदे विष्णुः प्रपठ्यते ।।
वामांगं स्रष्टुराद्यस्य हरिस्तदितरद्विधिः ।। 4.2.87.८० ।।
दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः ।।
दुर्वाससा क्षणेनापि नीतो निःश्रीकतां हि सः ।। ८१ ।।
पुनराराध्य भूतेशं प्रापैकाममरावतीम् ।।
यस्त्वया धर्मराजोत्र कथितः क्रतुरक्षकः ।। ८२ ।।
बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा ।।
धनदस्त्र्यंबकसखस्तच्चक्षुश्चाशुशुक्षणिः ।। ८३ ।।
पार्ष्णिग्राह्यभवद्रुद्रो देवाचार्यस्य वै तदा ।।
यदा तारामधार्षीत्स द्विजराजोऽतिसुंदरीम् ।। ८४ ।।
तं विदंति वसिष्ठाद्यास्तवार्त्विज्यं भजंति ये ।।
एको रुद्रो न द्वितीयः संविदाना अपीति हि ।। ८५।।
प्रावर्तंतर्षयोन्येपि गौरवात्तव ते क्रतौ ।।
यदि मे ब्राह्मणस्यैकं शृणोषि वचनं हितम् ।। ८६ ।।
तदा क्रतुफलाधीशं विश्वेशं त्वं समाह्वय ।।
विना तेन क्रतुरसौ कृतोप्यकृत एव हि ।। ८७ ।।
सति तस्म्निमहादेवे विश्वकर्मैकसाक्षिणि ।।
तवापि चैषा सर्वेषां फलिष्यंति मनोरथाः ।। ८८ ।।
यथा जडानि बीजानि न फलंति स्वयं तथा ।।
जडानि सर्वकर्माणि न फलंतीश्वरं विना ।। ८९ ।।
अर्थहीना यथा वाणी धर्महीना यथा तनुः ।।
पतिहीना यथा नारी शिवहीना तथा क्रिया ।। ।। 4.2.87.९० ।।
गंगाहीना यथा देशाः पुत्रहीना यथा गृहाः ।।
दानहीना यथा संपच्छिवहीना तथा क्रिया ।। ९१ ।।
मंत्रिहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः ।।
योषा हीनं यथा सौख्यं शिवहीना तथा क्रिया ।। ९२ ।।
दर्भहीना यथा संध्या तिलहीनं च तर्पणम् ।।
हविर्हीनो यथा होमः शिवहीना तथा क्रिया ।। ९३ ।।
इत्थं दधीचिनाख्यातं जग्राह वचनं न तत् ।।
दक्षो दक्षोपि तत्रैव शंभोर्माया विमोहितः।। ९४ ।।
प्रोवाच च भृशं क्रुद्धः का चिंता तव मे क्रतोः ।।
क्रतुमुख्यानि सर्वाणि यानि कर्माणि सर्वतः ।। ९५ ।।
तानि सिद्ध्यंति नियतं यथार्थकरणादिह ।।
अयथार्थविधानेन सिद्ध्येत्कर्मापि नेशितुः ।। ९६ ।।
स्वकर्मसिद्धये चाथ सर्व एव हि चेश्वरः ।।
ईश्वरः कर्मणां साक्षी यत्त्वयापीति भाषितम् ।। ९७ ।।
तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित् ।। ९८ ।।
जडानि सर्वकर्माणि न फलंतीश्वरं विना ।।
यदुक्तं भवता तत्राप्यहो दृष्टांतयाम्यहम् ।। ९९ ।।
जडान्यपि च बीजानि कालं संप्राप्यवात्मनः ।।
अंकूरयंति कालाच्च पुष्प्यंति च फलंति च ।। 4.2.87.१०० ।।
विनापीशं तथा कर्म स्वयं कालात्फलत्यहो ।।
किमीश्वरेण तेनात्र महामंगलमूर्तिना ।। १ ।।
।। दधीचिरुवाच ।। ।।
यथार्थकरणात्सिद्धमपि कार्यं कदाचन ।।
ईश्वरप्रातिकूल्याच्च सिद्धमेवाशु नश्यति ।। २ ।।
ईश्वरेच्छा बलात्कर्म कृतमप्यविधानतः ।।
संसिद्ध्येत्तदधीनाश्च कथं सर्व इहेश्वराः ।। ३ ।।
सामान्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम् ।।
साक्षीभवेदसंदिग्धः फलस्य प्रतिभूरपि ।। ४ ।।
भूजलादिस्वरूपेण बीजमाविश्यसर्वकृत् ।।
स्वयं कालस्वरूपेण विदध्यादंकुरोदयम् ।। ५ ।।
यत्त्वयोक्तं विनापीशं काले कर्मफलेत्स्वयम् ।।
स एव कालो भगवान्सर्वकर्ता महेशिता ।। ६ ।।
अन्यच्च भवता प्रोक्तं तदेकं तथ्यमेव तत् ।।
किमीश्वरेण तेनात्र महामंगलमूर्तिना ।। ७ ।।
ये महांतो भवंत्येव ये च मंगलमूर्तयः ।।
ईश्वराख्या च येष्वस्ति किं तैरत्र तवांतिके ।। ८ ।।
उत्तरादुत्तरं चेति प्रत्युत्तरयति द्विजे ।।
दधीचौ चुक्रुधेऽत्यंतं दक्षोगर्वातिसुश्रिया ।। ९ ।।
आदिदेश समीपस्थानालोक्य परितस्त्विति ।।
ब्राह्मणापसदं चामुं परिदूरयताशु वै ।। 4.2.87.११० ।।
अमुष्मादध्वरश्रेष्ठादवरिष्ठमनोगतम् ।।
इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव ।। ११ ।।
किं मां दूरयसे मूढ दूरीभूतो भवानपि ।।
सर्वेभ्यो मंगलेभ्यश्च सर्वैरेभिः समं ध्रुवम् ।। १२ ।।
अकांडे क्रोधजो दंडस्तव मूर्ध्नि पतिष्यति ।।
महेशितुस्त्रिजगती परिशास्तुः प्रजापते ।। १३ ।।
इत्युक्त्वा निर्जगामाशु यज्ञवाटात्ततो द्विजः ।।
तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो भवान् ।। १४ ।।
उत्तंक उपमन्युश्च ऋचीकोद्दालकावपि ।।
मांडव्यो वामदेवश्च गालवो गर्गगौतमौ ।।१५।।
शिवतत्त्वविदोन्येपि दक्षयज्ञाद्विनिर्ययुः ।।
गते दधीचौ सानंदं प्रावर्तत महामखः ।।१६।।
ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुण दक्षिणाम् ।।
प्रादात्प्रजापतिर्दक्षस्त्वन्येभ्योप्यधिकं वसु ।। ।। १७ ।।
सर्वे जामातरस्तेन तोषिता भूरिशोधनैः ।।
कन्याश्चालंकृताः सर्वा महाविभवविस्तरैः ।।१८।।
ऋषिपत्न्योपि बहुशो देवपत्न्योप्यनेकशः ।।
तथा पुरांगनाः सर्वास्तेन मानभुवः कृताः ।। १९ ।।
ब्रह्मघोषेण तारेण व्योमशब्दगुणं स्फुटम् ।।
कारितं तेन दक्षेण विप्राणां हृष्टचेतसाम् ।। 4.2.87.१२० ।।
अग्निर्मंदाग्निरभवत्तस्मिञ्जुह्वति दीक्षिते ।।
हविः परिमलेनैव परितृप्ता दिगंगनाः ।। २१ ।।
स्वाहाकारैर्वषट्कारैः सुरा जाताः पिचंडिलाः ।।
रचिता गिरयस्तेन सदन्नानां पदेपदे ।।२२।।
घृतकुल्याः कृतास्तेन मधुकुल्याः सहस्रशः ।।
महासरांसि पयसां द्रप्सस्यापि महाह्रदाः ।। २३ ।।
राशयश्च दुकूलानां रत्नानां शिखराणि च ।।
यज्ञवाटस्य वसुधा स्वर्णरूप्यमयीकृता ।। २४ ।।
न लभ्यंते क्रतौ तस्य मार्गिता अपि मार्गणाः ।।
हृष्टाः पुष्टाः समभवन्नपि तत्परिचारकाः ।। २५ ।।
ध्वनिर्मंगलगीतानां व्यानशे गगनांगणम् ।।
जहृषे चाप्सरोवृंदैर्गंधर्वैर्मुमुदेतराम् ।। २६ ।।
विद्याधरैर्ननंदे च वसुधा ववृधे भृशम् ।।
महाविभवसंभारे तस्मिन्दाक्षे महाक्रतौ ।।
इत्थं प्रवृत्तेऽथ मुनिः कैलासं नारदो ययौ ।।१२७।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षयज्ञप्रादुर्भावोनाम सप्ताशीतितमोऽध्यायः ।। ८७।। ।। छ ।। ।।