स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४८

विकिस्रोतः तः
Jump to navigation Jump to search

स्कंद उवाच ।। ।।
शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः ।।
दानवानां वधार्थाय भुवोभारापनुत्तये ।। १ ।।
आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान् ।।
वासुदेवो जगद्धाम देवक्या वसुदेवतः।।२।।
साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः ।।
स्वर्गे पितादृशा बालाः सुशीला न हि कुंभज ।। ३ ।।
अतीवरूपसंपन्ना अतीव सुमहाबलाः ।।
अतीव शस्त्रशास्त्रज्ञा अतीव शुभलक्षणाः ।। ४ ।।
तांद्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसांनिधिः ।।
कृतवल्कलकौपीनो धृत कृष्णाजिनांबरः ।।।।।
गृहीतब्रह्मदंडश्च त्रिवृन्मौंजी सुमेखलः ।।
उरस्थलस्थ तुलसी मालया समलंकृतः ।। ६ ।।
गोपीचंदननिर्यास लसदंगविलेपनः ।।
तपसा कृशसर्वांगो मूर्तो ज्वलनवज्ज्वलन् ।।७।।
आजगामांबरचरो नारदो द्वारकापुरीम् ।।
विश्वकर्मविनिर्माणां जितस्वर्गपुरीश्रियम् ।।८।।
तंदृष्ट्वा नारदं सर्वे विनम्रतरकंधराः ।।
प्रबद्ध मूर्धांजलयः प्रणेमुर्वृष्णिनंदनाः ।। ९ ।।
सांबः स्वरूपसौंदर्य गर्वसर्वस्वमोहितः ।।
न ननाम मुनिं तत्र हसंस्तद्रूपसंपदम् ।। 4.1.48.१० ।।
सांबस्य तमभिप्रायं विज्ञाय स महामुनिः ।।
विवेश सुमहारम्यं नारदः कृष्णमंदिरम् ।। ११ ।।
कृष्णोथ दृष्ट्वाऽऽगच्छंतं प्रत्युद्गम्य च नारदम् ।।
मधुपर्केण संपूज्य स्वासने चोपवेशयत् ।। १२ ।।
कृत्वा कथा विचित्रार्थास्तत एकांतवर्तिनः ।।
कृष्णस्य कर्णेऽकथयन्नारदः सांबचेष्टितम् ।। १३ ।।
अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन ।।
प्रायशस्तन्न घटतेऽसंभाव्यं नाथ वास्त्रियाम् ।। १४ ।।
यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान् ।।
स्वभावचंचलाक्षीणां चेतोवृत्तिः सुचंचला ।। १५ ।।
अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम् ।।
रूपमेव समीक्षंते विषमेषु विमोहिताः ।।१६।।
अथवा विदितं नो ते वल्लवीनां विचेष्टितम् ।।
विनाष्टौनायिकाः कृष्ण कामयंतेऽबलाह्यमुम् ।। ४३ ।।
वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः ।।
विज्ञाताऽऽखिलवृत्तांतस्तथ्यं कृष्णोप्यमन्यत ।। १८ ।।
तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता ।।
यावन्नार्थी विविक्तस्थो विविक्तेर्थिनि नान्यथा ।। १९।।
इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् ।।
विवेकसेतुनाऽऽस्तभ्य नारदं प्राहिणोत्सुधीः ।।4.1.48.२०।।
सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्षत।।
गते देवमुनौ तस्मिन्वीक्षमाणोप्यहर्निशम् ।।२१।।
कियत्यपि गते काले पुनरप्याययौ मुनिः ।।
मध्ये लीलावतीनां च ज्ञात्वा कृष्णमवस्थितम् ।। २२ ।।
बहिः क्रीडंतमाहूय सांबमित्याह नारदः ।।
याहि कृष्णांतिकं तूर्णं कथयागमनं मम ।।२३ ।।
सांबोपि यामि नोयामि क्षणमित्थमचिंतयत् ।।
कथं रहःस्थ पितरं यामि स्त्रैणसखंप्रति ।। २४ ।।
न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः ।।
ज्वलदंगारसंकाश स्फुरत्सर्वांगतेजसः ।। २५।।
प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा ।।
इदानीमपि नो यायामस्य वाक्यान्महामुनेः ।। २६ ।।
अत्याहितं तदस्तीह तदागोद्वयदर्शनात् ।।
पितुः कोपोपि सुश्लाघ्यो मयि नो ब्राह्मणस्य तु ।। २७।।
ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित् ।।
अपराग्निविनिर्दग्धारो हंते दावदग्धवत् ।। २८।।
इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः ।।
मध्ये स्त्रैणसभंकृष्णं यावज्जांबवतीसुतः ।। २९ ।।
दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः ।।
तावत्तमन्वगच्छच्च नारदः कार्यसिद्धये ।। 4.1.48.३० ।।
ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम् ।।
समुत्तस्थौ परिदधत्पीतकौशेयमंबरम् ।। ३१ ।।
उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः ।।
विलज्जिताः समुत्तस्धुर्गृह्णंत्यः स्वंस्वमंबरम् ।। ३२ ।।
महार्हशयनीये तं हस्ते धृत्वा महामुनिम् ।।
समुपावेशयत्कृष्णः सांबश्च क्रीडितुं ययौ ।। ३३ ।।
तासां स्खलितमालोक्य तिष्ठंतीनां पुरो मुनिः ।।
कृष्णलीलाद्रवीभूतवरांगानां जगौ हरिम् ।। ३४ ।।
पश्यपश्य महाबुद्धे दृष्ट्वा जांबवतीसुतम् ।।
इमाः स्खलितमापन्नास्तद्रूपक्षुब्धचेतसः ।। ३५ ।।
कृष्णोपि सांबमाहूय सहसैवाशपत्सुतम् ।।
सर्वा जांबवतीतुल्याः पश्यंतमपि दुर्विधेः ।। ३६ ।।
यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः ।।
तस्मात्कुष्ठी भव क्षिप्रमकांडागमनेन च ।। ३७ ।।
वेपमानो महाव्याधिभयात्सांबोपि दारुणात् ।।
कृष्णं प्रसादयामास बहुशः पापशांतये।। ३८ ।।
कृष्णोप्यनेन संजानन्सांबं स्वसुतमौरसम् ।।
अब्रवीत्कुष्ठमोक्षाय व्रज वैश्वेश्वरीं पुरीम् ।। ३९ ।।
तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि ।।
महैनसां क्षयो यत्र नास्ति वाराणसीं विना ।। 4.1.48.४० ।।
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा ।।
येषां महैनसां दृष्टा मुनिभिर्नैव निष्कृतिः ।।
तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम् ।। ४१ ।।
न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते ।।
प्राकृतेभ्योपि पापेभ्यो मुच्यते शंकराज्ञया ।। ४२ ।।
पुरा पुरारिणा सृष्टमविमुक्तं विमुक्तये ।।
सर्वेषामेव जंतूनां कृपयांते तनुत्यजाम् ।। ४३ ।।
तत्रानंदवने शंभोस्तवशाप निराकृतिः ।।
सांब तत्त्वेरितं याहि नान्यथा शापनिर्वृतिः ।। ४४ ।।
ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः ।।
नारदः कृतकृत्यः सन्ययावाकाशवर्त्मना ।। ४५ ।।
सांबो वाराणसीं प्राप्य समाराध्यांशुमालिनम् ।।
कुंडं तत्पृष्ठतः कृत्वा निजां प्रकृतिमाप्तवान् ।।४६ ।।
सांबादित्यस्तदारभ्य सर्वव्याधिहरो रविः ।।
ददाति सर्वभक्तेभ्योऽनामयाः सर्वसंपदः ।। ४७ ।।
सांबकुंडे नरः स्नात्वा रविवारेऽरुणोदये।।
सांबादित्यं च संपूज्य व्याधिभिर्नाभिभूयते ।। ४८ ।।
न स्त्री वैधव्यमाप्नोति सांबादित्यस्य सेवनात् ।।
वंध्या पुत्रं प्रसूयेत शुद्धरूपसमन्वितम् ।। ४९ ।।
शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने ।।
महापर्व समाख्यातं रविपर्व समं शुभम् ।। 4.1.48.५० ।।
महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये ।।
सांबादित्यं प्रपूज्यापि धर्ममक्षयमाप्नुयात् ।। ५१ ।।
सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने ।।
तत्पुण्यं रविसप्तम्यां माघे काश्यां न संशयः ।। ५२ ।।
मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत् ।।
अशोकैस्तत्र संपूज्य कुंडे स्नात्वा विधानतः ।। ५३ ।।
सांबादित्यं नरो जातु न शोकैरभिभूयते ।।
संवत्सरकृतात्पापाद्बहिर्भवति तत्क्षणात् ।। ५४ ।।
विश्वेशात्पश्चिमाशायां सांबेनात्र महात्मना ।।
सम्यगाराधिता मूर्तिरादित्यस्य शुभप्रदा ।। ५५ ।।
इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि ।।
तामभ्यर्च्य नमस्कृत्य कृत्वाष्टौ च प्रदक्षिणाः ।।
नरो भवति निष्पापः काशीवास फलं लभेत् ।। ५६ ।।
सांबादित्यस्य माहात्म्यं कथितं ते महामते ।।
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ।। ५७ ।।
इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ ।।
तथा द्रौपदआदित्यः संसेव्यो भक्तसिद्धिदः ।। ५८ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सांबादित्यमाहात्म्यकथनं नामाष्टचत्वारिंशोध्यायः ।।४८।।