स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००३

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच ।।
भगवन्भूतभव्येश सर्वज्ञानमहानिधे ।।
अवाप्य काशीं गीर्वाणैः किमकारि वदाच्युत ।। १ ।।
अधीत्येमां कथां दिव्यां न तृप्तिमधियाम्यहम् ।।
शेवधिस्तपसां देवैरगस्तिः प्रार्थितः कथम् ।। २ ।।
कथं विंध्योप्यवाप स्वां प्रकृतिं तादृगुन्नतः ।।
तववागमृतांभोधौ मनो मे स्नातुमुत्सुकम् ।। ३ ।।
इति कृत्स्नं समाकर्ण्य व्यासः पाराशरो मुनिः ।।
श्रद्धावते स्वशिष्याय वक्तुं समुपचक्रमे ।। ४ ।।
पाराशर उवाच ।।
शृणु सूत महाबुद्धे भक्तिश्रद्धासमन्वितः ।।
शुकवैशंपायनाद्याः शृण्वंत्वेते च बालकाः ।।५ ।।
ततो वाराणसीं प्राप्य गीर्वाणाः समहर्षयः ।।
अविलंबं प्रथमतो म णिकर्ण्यां विधानतः ।। ६ ।।
सचैलमभिमज्ज्याथ कृतसंध्यादिसत्क्रियाः ।।
संतर्प्य तर्प्यादिपितॄन्कुशगंधतिलोदकैः ।। ७ ।।
तीर्थवासार्थिनः सर्वान्संतर्प्य च पृथक्पृथक् ।।
रत्नैर्हिरण्यवासोभिरश्वाभरणधेनुभिः ।। ८ ।।
विचित्रैश्च तथा पात्रैः स्वर्णरौप्यादि निर्मितैः ।।
अमृतस्वादुपक्वान्नैः पायसै श्च सशर्करैः ।। ९ ।।
सगोरसैरन्नदानैर्धान्यदानैरनेकधा ।।
गंधचंदनकर्पूरैस्तांबूलैश्चारुचामरैः ।। ।। 4.1.3.१० ।।
सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः ।।
शिबिकादासदासीभिर्विमानैःपशुभिर्गृहैः ।। ११ ।।
चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः ।।
वर्षाशनप्रदानैश्च गृहोपस्करसंयुतैः ।। १२ ।।
उपानत्पादुकाभिश्च यतिनश्च तपस्विनः ।।
योग्यैः पट्टदुकूलैश्च विविधैश्चित्ररल्लकैः ।। १३ ।।
दंडैः कमंडलुयुतैरजिनैर्मृगसंभवैः ।।
कौपीनैरुच्चमंचैश्च परिचारककांचनैः ।। १४ ।।
मठैर्विद्यार्थिनामन्नैरतिथ्यर्थं महाधनैः ।।
महापुस्तकसंभारैर्लेखकानां च जीवनैः।।१५।।
बहुधौषधदानैश्च सत्रदानैरनेकशः ।।
ग्रीष्मे प्रपार्थद्रविणैर्हेमंतेग्निष्टिकेंधनैः।।१६।।
छत्राच्छादनिकाद्यर्थे वर्षाकालोचितैर्बहु।।
रात्रौ पाठप्रदीपैश्च पादाभ्यंजनकादिभिः ।।१७।।
पुराणपाठकांश्चापि प्रतिदेवालयं धनैः ।।
देवालये नृत्यगीतकरणार्थैरनेकशः।।१८।।
देवालय सुधाकार्यैर्जीर्णोद्धारैरनेकधा ।।
चित्रलेखनमूल्यैश्च रंगमालादिमंडनैः ।। १९ ।।
नीराजनैर्गुग्गुलुभिर्दशां गादि सुधूपकैः ।।
कर्पूरवर्तिकाद्यैश्च देवार्चार्थैरनेकशः ।। 4.1.3.२० ।।
पंचामृतानां स्नपनैः सुगंध स्नपनैरपि ।।
देवार्थं मुखवासैश्च देवोद्यानैरनेकशः ।। २१ ।।
महापूजार्थमाल्यादि गुंफनार्थैस्त्रिकालतः ।।
शंखभेरीमृदंगादिवाद्यनादैः शिवालये ।। २२ ।।
घंटागुडुककुंभादि स्नानोपस्करभाजनैः ।।
श्वेतैर्मार्जनवस्त्रैश्च सुगंधैर्यक्षकर्दमैः ।। २३ ।।
जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः ।।
रासक्रीडादिसंयुक्तैश्चलनैः सप्रदक्षिणैः ।। २४ ।।
एवमादिभिरुद्दंडैः क्रियाकांडैरनेकशः ।।
पंचरात्रमुषित्वा तु कृत्वा तीर्थान्यनेकशः ।। २५ ।।
दीनानाथांश्च संतर्प्य नत्वा विश्वेश्वरं विभुम् ।।
ब्रह्मचर्यादिनियमैस्तीर्थमेवं प्रसाध्य च ।। २६ ।।
पुनः पुनर्विश्वनाथं दृष्ट्वा स्तुत्वा प्रणम्य च ।।
जग्मुः परोपकारार्थमगस्तिर्यत्र तिष्ठति ।। २७ ।।
स्वनाम्ना लिंगमास्थाप्य कुंडं कृत्वा तदग्रतः ।।
शतरुद्रियसूक्तेन जपन्निश्चलमानसः ।। २८ ।।
तं दृष्ट्वा दूरतो देवा द्वितीयमिव भास्करम् ।।
ज्वलज्ज्वलनसंकाशैरंगैः सर्वत्रसोज्ज्वलम् ।। २९ ।।
साक्षात्किंवाडवाग्निर्वा मूर्त्या वै तप्यते तपः ।।
स्थाणुवन्निश्चलतरं निर्मलं सन्मनो यथा ।। 4.1.3.३० ।।
अथवा सर्व तेजांसि श्रित्वेमां ब्राह्मणीं तनुम् ।।
शीलयंति परं धाम शातंशांत पदाप्तये ।। ३१ ।।
तपनस्तप्यतेऽत्यर्थं दहनोपि हि दह्यते ।।
यत्तीव्रतपसाद्यापि चपलाऽचपलाभवत् ।। ३२ ।।
यस्याश्रमे ऽत्र दृश्यंते हिंस्रा अपि समंततः ।।
सत्त्वरूपा अमी सत्त्वास्त्यक्त्वा वैरं स्वभावजम् ।। ३३ ।।
शुंडादंडेन करटिः सिंहं कंडूयतेऽभयः ।।
अष्टापदांके स्वपिति केसरी केसरोद्भटः ।। ३४ ।।
सूकरः स्तब्धरोमापि विहाय निजयूथकम् ।।
चरेद्वनशुनां मध्ये मुस्तान्यस्तेक्षणोबली ।। ३५ ।।
भूदारोपि न भूदारं तथाकुर्याद्यथाऽन्यतः ।।
सर्वा लिंगमयी काशी यतस्तद्भीतियंत्रितः ।। ३६ ।।
क्रोडीकृत्य क्रोडपोतं तरक्षुः क्रीडयत्यहो ।।
शार्दूलबालानुत्सार्य शार्दूलीमेणपोतकः ।। ३७ ।।
चलत्पुच्छोथ पिबति फेनिलेनाननेन वै ।।
स्वपंतं लोमशं भल्लं वानरश्चलदंगुलिः।।३८।।
यूका संवीक्ष्यवीक्ष्यैव भक्षयेद्दंतकोटिभिः ।।
गोलांगूलारक्तमुखानीलां गा यूथथनायकाः।।३९।।
जातिस्वभावमात्सर्यं त्यक्त्वैकत्र रमंति च ।।
शशाः क्रीडंति च वृकैस्तैः पृष्ठलुंठनैर्मुहुः।।4.1.3.४०।।
आखुश्चाखुभुजः कर्णं कंडूयेत चलाननः ।।
मयूरपुच्छपुटगो निद्रात्योतुः सुखाधिकम् ।। ४१ ।।
स्वकंठं घर्षयत्येव केकिकंठे भुजंगमः ।।
भुजंगमफणापृष्ठे नकुलः स्वकुलोचितम् ।। ४२ ।।
वैरं परित्यज्य लुठेदुत्प्लुत्योत्प्लुत्य लीलया ।।
आलोक्य मूषकं सर्पश्चरंतं वदनाग्रतः ।। ४३ ।।
क्षुधांधोपि न गृह्णाति सोपि तस्माद्बिभेति नो ।।
प्रसूयमानां हरिणीं दृष्ट्वा कारुण्यपूर्णदृक् ।। ४४ ।।
तद्दृष्टिपातं मुंचन्वै व्याघ्रो दूरं व्रजत्यहो ।।
व्याघ्री व्याघ्रस्य चरितं मृगी मृगविचेष्टितम् ।।
उभे कथयतो ऽन्योन्यं सख्याविवमुदान्विते ।।४५।।
दृष्ट्वाप्युद्दंडकोदंडं शबरं शंबरोमृगः ।।
धृष्टो न वर्त्म त्यजति सोपि कंडूयतेपि तम् ।। ४६ ।।
रोहितोऽरण्यमहिषमुद्धर्षति निराकुलः।।
चमरीशबरीकेशैः संमिमीते स्ववालधिम् ।।४७।।
गवयः शल्यकश्चाऽयमुभावेकत्रतिष्ठतः ।।
तीव्रमात्सर्यमुत्सृज्य मुनितेजोनियंत्रितौ ।। ४५ ।।
हुंडौ च मुंड युद्धाय न सज्जेते जयैषिणौ ।।
एणशावं सृगालोपि मृदुस्पृशति पाणिना।।४९।।
तृण्वंति तृणगुल्मादीन्श्वापदास्त्वापदास्पदम्।।
लोकद्वये दुःखहंहि धिक्तन्मांसस्य भक्षणम्।। 4.1.3.५० ।।
यः स्वार्थं मांसपचनं कुरुते पापमोहितः ।।
यावंत्यस्य तु रोमाणि तावत्स नरके वसेत् ।।५१।।
परप्राणैस्तु ये प्राणान्स्वान्पुष्णं ति हि दुर्धियः ।।
आकल्पं नरकान्भुक्त्वा ते भुज्यंतेत्र तैः पुनः।।५२ ।।
जातुमांसं न भोक्तव्यं प्राणैः कंठगतैरपि ।।
भोक्तव्यं तर्हि भोक्तव्यं स्वमांसं नेतरस्य च ।। ५३ ।।
वरमेतेश्वापदा वै मैत्रावरुणि सेवया ।।
येषां न हिंसने बुद्धिर्नतु हिंसापरा नराः ।।५४ ।।
बकोपि पल्वले मत्स्यान्नाश्नात्यग्रेचरानपि ।।
न महांतोप्यमहतो मत्स्या मत्स्यानदंति वै ।। ५५ ।।
एकतः सर्वमांसानि मत्स्यमांसं तथकैतः।।
स्मृतिः स्मृतेति किंत्वेभिरतोमत्स्याञ्जहत्यमी ।। ५६ ।।
श्येनोपि वर्तिकां दृष्ट्वा भवत्येष पराङ्मुखः ।।
चित्रमत्रापि मधुपा भ्रमंति मलिनाशयाः ।। ५७ ।।
सुचिरं नरकान्भुक्त्वा मदिरापानलंपटाः ।।
मधुपा एव गायंते भ्रांतिभाजः पुनः पुनः ।। ५८ ।।
अतएव पुराणेषु गाथेति परिगीयते ।।
स्फुटार्थात्र पुराणज्ञैर्ज्ञात्वा तत्त्वं पिनाकिनः ।। ५९ ।।
क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् ।।
मद्यमांसरतानां च दूरे तिष्ठति शंकरः ।। 4.1.3.६० ।।
विना शिवप्रसादं हि भ्रांतिः क्वापि न नश्यति ।।
अतएव भ्रमंत्येते भ्रमराः शिववर्जिताः ।। ६१ ।।
इत्याश्रमचरान्दृष्ट्वा तिर्यञ्चोपि मुनीनिव ।।
अबोधिविबुधैरित्थं प्रभावः क्षेत्रजस्त्वयम् ।। ६२ ।।
यतो विश्वेश्वरेणैते तिर्यञ्चोप्यत्रवासिनः ।।
निधनावसरे मोच्यास्तारक स्योपदेशतः ।। ६३ ।।
ज्ञात्वा क्षेत्रस्य माहात्म्यं यो वसेत्कृतनिश्चयः ।।
तं तारयति विश्वेशो जीवंतमथवा मृतम् ।। ६४ ।।
अविमुक्तरहस्यज्ञा मुच्यंते ज्ञानि नो नराः।।
अज्ञानिनोपि तिर्यञ्चो मुच्यंते गतकिल्बिषाः ।। ६५ ।।
इत्याश्चर्यपरा देवा यावद्यांत्याश्रमं मुनेः ।।
तावत्पक्षिकुलं दृष्ट्वा भृशं मुमुदिरे पुनः ।। ६६ ।।
सारसो लक्ष्मणाकंठे कंठमाधाय निश्चलः ।।
मन्यामहे न निद्रातिध्यायेद्विश्वेश्वरं किल ।। ६७
कंडूयमाना वरटा स्वचंचुपुटकोटिभिः ।।
हंसं कामयमानं तु वारयेत्पक्षधूननैः ।। ६८ ।।
निरुद्ध्यमान चक्रेण चक्रीक्रेंकितभाषणैः।।
वदतीति किमत्रापि कामिता कामिनां वर ।। ६९ ।।
कलकंठः किलोत्कंठं मंजुगुंजति कुंजगः।।
ध्यानस्थः श्रोष्यति मुनिः पारावत्येति वार्यते।।4.1.3.७०।।
केकीकेकां परित्यज्य मौनं तिष्ठति तद्भयात्।।
चकोरश्चंद्रिका भोक्ता नक्तव्रतमिवास्थितः।।७१।।
पठंती सारिकासारं शुकंसंबोधयत्यहो ।।
अपारावारसंसारसिंधुपारप्रदः शिवः ।। ७२ ।।
कोकिलः कोमलालापैः कलयन्किलकाकलीम् ।।
कलिकालौ कलयतः काशीस्थान्नेतिभाषते ।। ७३ ।।
मृगाणां पक्षिणामित्थं दृष्ट्वा चेष्टां त्रिविष्टपम् ।।
अकांडपातसंकष्टं निनिंदुस्त्रिदशा बहु ।। ।। ७४ ।।
वरमेतेपक्षिमृगाः पशवः काशिवासिनः ।।
येषां न पुनरावृत्तिर्नदेवानपुनर्भवाः ।। ७५ ।।
काशीस्थैः पतितैस्तुल्या न वयं स्वर्गिणः क्वचित् ।।
काश्यां पाताद्भयं नास्ति स्वर्गेपाताद्भयं महत् ।। ७६ ।।
वरं काशीपुरी वासो मासोपवसनादिभिः ।।
विचित्रच्छत्रसंछायं राज्यं नान्यत्र नीरिपु ।। ७७ ।।
शशकैर्मशकैः काश्यां यत्पदं हेलयाप्यते ।।
तत्पदं नाप्यतेऽन्यत्र योगयुक्त्यापि योगिभिः ।। ७८ ।।
वरं वाराणसीरंको निःशंकोयो यमादपि ।।
न वयं त्रिदशायेषां गिरितोपीदृशी दशा ।। ७९ ।।
ब्रह्मणो दिवसाष्टांशेषपदमैंद्रं विनश्यति ।।
सलोकपाल सार्कं च सचंद्रग्रहतारकम् ।। 4.1.3.८० ।।
परार्धद्वयनाशेपि काशीस्थो यो न नश्यति ।।
तस्मात्सर्वप्रयत्नेन काश्यां श्रेयः समाचरेत् ।। ८१ ।।
यत्सुखं काशिवासेत्र न तद्ब्रह्मांडमंडपे ।।
अस्ति चेत्तत्कथं सर्वे काशीवासाभिलाषुकाः ।। ८२ ।।
जन्मांतरसहस्रेषु यत्पुण्यं समुपार्जितम् ।।
तत्पुण्यपरिवर्तेन काश्यां वासोऽत्र लभ्यते ।। ८३ ।।
लब्धोपि सिद्धिं नो यायाद्यदि कुद्ध्येत्त्रिलोचनः ।।
तस्माद्विश्वेश्वरं नित्यं शरण्यं शरणं व्रजेत् ।। ८४ ।।
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ।।
अखंडं हि यथा काश्यां न तथा न्यत्र कुत्रचित् ।। ८५।।
आलस्येनापि यो यायाद्गृहाद्विश्वेश्वरालयम् ।।
अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे ।। ८६ ।।
यः स्नात्वोत्तरवाहिन्यां याति विश्वे शदर्शने ।।
श्रद्धया परया तस्य श्रेयसोंतो न विद्यते ।। ८७ ।।
स्वर्धुनी दर्शनात्स्पर्शात्स्नानादाचमनादपि ।।
संध्योपासनतो जप्यात्तर्पणाद्देवपूजनात् ।।८८।।
पंचतीर्थावलोकाच्च ततो विश्वेश्वरेक्षणात् ।।
श्रद्धास्पर्शनपूजाभ्यां धूपदीपादिदानतः ।। ८९ ।।
प्रदक्षिणैः स्तोत्रजपैर्नमस्कारैस्तु नर्त्तनैः ।।
देवदेवमहादेव शंभो शिवशिवेति च ।। 4.1.3.९० ।।
धूर्जटे नीलकंठेश पिनाकिञ्शशिशेखर ।।
त्रिशूलपाणे विश्वेश रक्षरक्षेतिभाषणैः ।। ९१ ।।
मुक्तिमंडपिकायां च निमेषार्धो पवेशनात् ।।
तत्र धर्मकथालापात्पुराणश्रवणादपि ।। ९२ ।।
नित्यादिकर्मकरणात्तथातिथिसमर्चनैः ।।
परोपकरणाद्यैश्च धर्मस्स्यादुत्तरोत्तरः ।। ९३ ।।
शुक्लपक्षे यथा चंद्रः कलया कलयैधते ।।
एवं काश्यां निवसतां धर्मराशिः पदेपदे ।। ९४ ।।
श्रद्धाबीजो विप्रपादांबुसिक्तः शाखाविद्यास्ताश्चतस्रो दशापि ।।
पुष्पाण्यर्था द्वे फले स्थूलसूक्ष्मे मोक्षःकामो धर्मवृक्षोयमीड्यः ।। ९५ ।।
सर्वार्थानामत्रदात्री भवानी सर्वान्कामान्पूरयेदत्र ढुंढिः ।।
सर्वाञ्जंतून्मोचयेदंतकाले विश्वेशोत्रश्रोत्रमंत्रोपदेशात् ।। ९६ ।।
काश्यां धर्मस्तच्चतुष्पादरूपः काश्यामर्थः सोप्यने कप्रकारः ।।
काश्यां कामः सर्वसौख्यैकभूमिः काश्यां श्रेयस्तत्तु किंनात्र यच्च ।। ९७ ।।
विश्वेश्वरो यत्र न तत्र चित्रं धर्मार्थकामामृतरूपरूपः ।।
स्वरूपरूपः स हि विश्वरूपस्तस्मान्न काशी सदृशी त्रिलोकी ।। ९८ ।।
इति ब्रुवाणा गीर्वाणा ददृशुस्तूटजं मुनेः ।।
होमधूमसुगंधाढ्यं बटुभिर्बहुभिर्वृतम् ।। ९९ ।।
श्यामाकांजलियाञ्चार्थमृषिकन्यानुयायिभिः ।।
धृतोपग्रहदर्भास्यैर्मृगशावैरलंकृतम् ।। 4.1.3.१०० ।।
सार्द्रवल्कलकौपीनैर्वृक्षशाखावलंबिभिः ।।
बद्धुं विघ्नमृगान्दिक्षु वागुराभिरिवावृतम् ।। १ ।।
पतिव्रता शिरोरत्नलोपामुद्रांघ्रिमुद्रया ।।
मुद्रितं वीक्ष्य सन्नेमुः पर्णशालांऽगणं सुराः ।। २ ।।
विसर्जितसमाधिं च धृतकर्णाक्षमालिकम् ।।
अधिष्ठितं बृसीपृष्ठं परमेष्ठिवदुत्कटम् ।। ३ ।।
पुरोगस्त्यं समालोक्य सर्वे देवाः सवासवाः ।।
प्रहृष्टवदनाः प्रोचुः प्रोच्चैर्जयजयेति च ।। ४ ।।
मुनिरुत्थाय तान्सर्वानुपावेश्य यथोचितम् ।।
आशीर्भिरभिनंद्याथ पप्रच्छागमकारणम् ।। ५ ।।
व्यास उवाच ।।
इदं पुण्यतमाख्यानं श्रुत्वा भक्तिसमन्वितः ।।
पठित्वा पाठयित्वा च व्रतश्रद्धावतां पुरः ।। ६ ।।
विधूय सर्व पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि ।।
हंसवर्णेन यानेन गच्छेच्छिवपुरं ध्रुवम् ।। १०७ ।।
इति श्रीस्कान्दे महापुराण एकाशीति साहरुयां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे अगस्त्याश्रमवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।। ।।