स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०५२

विकिस्रोतः तः
Jump to navigation Jump to search

स्कंद उवाच ।। ।।
गभस्तिमालिनिगते काशीं त्रैलोक्यमोहिनीम् ।।
पुनश्चिंतामवापोच्चैर्मंदरस्थो मुने हरः ।। १ ।।
नाद्याप्यायांति योगिन्यो नाद्याप्यायाति तिग्मगुः ।।
प्रवृत्तिरपि मे काश्याश्चित्रमत्यंत दुर्लभा ।।२।।
किमत्र चित्रं यत्काशी मदीयमपिमानसम् ।।
निश्चलं चंचलयति गणना केतरेसुरे ।।३।।
अधाक्षिपमहं कामं त्रिजगज्जित्त्वरंदृशा ।।
अहो काश्यभिलाषोत्र मामेव दुनुयात्तराम्।।४।।
काशीप्रवृत्तिमन्वेष्टुं कं वा प्रहिणुयामितः ।।
ज्ञातुं क एव निपुणो यतः स चतुराननः ।। ५ ।।
इत्याहूय विधातारं बहुमानपुरःसरम् ।।
तत्रोपवेश्य श्रीकंठः प्रोवाच चतुराननम् ।। ६ ।।
योगिन्यः प्रेषिताः पूर्वं प्रेषितोथ सहस्रगुः ।।
नाद्यापि ते निवर्तंते काश्याः कलशसंभव ।। ७ ।।
सा समुत्सुकयेत्काशी लोकेश मम मानसम् ।।
प्राकृतस्य जनस्येव चंचलाक्षीव काचन ।। ८ ।।
मंदरेत्र रतिर्मे न भृशं सुंदरकंदरे ।।
अनच्छतुच्छपानीये नक्रस्येवाल्पपल्वले ।। ९ ।।
ना बाधिष्ट तथा मां स तापो हालाहलोद्भवः ।।
काशीविरहजन्मात्र यथा मामतिबाधते ।। 4.2.52.१० ।।
शीतरश्मिः शिरःस्थोपि वर्षन्पीयूषसीकरैः ।।
काशीविश्लेषजं तापं नाहो गमयितुं प्रभुः ।। ११ ।।
विधे विधेहि मे कार्यमार्य धुर्य महामते ।।
याहि काशीमितस्तूर्णं यतस्व च ममेहिते ।। १२ ।।
ब्रह्मंस्त्वमेव तद्वेत्सि काशी त्यजनकारणम् ।।
मंदोपि न त्यजेत्काशीं किमु यो वेत्ति किंचन ।।१३।।
अद्यैव किं न गच्छेयं काशीं ब्रह्मन्स्वमायया ।।
दिवोदासं स्वधर्मस्थं न तूल्लंघितुमुत्सहे ।। १४।।
विधे सर्वविधेयानि त्वमेव विदधासि यत् ।।
इति चेति च वक्तव्यं त्वय्यपार्थमतोखिलम् ।।१५।।
अरिष्टं गच्छ पंथास्ते शुभोदर्को भवत्वलम्।।
आदायाज्ञां विधि मूर्ध्नि ययौ वाराणसीं मुदा ।।१६।।
सितहंसरथस्तूर्णं प्राप्य वाराणसीं पुरीम् ।।
कृतकृत्यमिवात्मानममन्यत तदात्मभूः ।। ।। १७ ।।
हंसयानफलं मेद्य जातं काशीसमागमे ।।
काशी प्राप्तौ यतः प्रोक्ता अंतरायाः पदेपदे ।। १८ ।।
दृशि धातुरभूद्य मदृशो प्राप्य सान्वयः ।।
स्पष्टं दृष्टिपथं प्राप्ता यदेषाऽऽनंदवाटिका ।। १९ ।।
स्वयं सिंचति या मद्भिः स्वाभिः स्वर्गतरंगिणी ।।
यत्रानंदमया वृक्षा यत्रानंदमया जनाः।। 4.2.52.२० ।।
निर्विशंति सदा काश्यां फलान्यानंदवंत्यपि।।
सदैवानंदभूः काशी सदैवानंददः शिवः ।। २१ ।।
आनंदरूपा जायंते तेन काश्यां हि जंतवः ।।
चरणौ चरितुं वित्तस्तावेव कृतिनामिह ।। ।। २२ ।।
चरणौ विचरेतांयौ विश्वभर्तृ पुरी भुवि ।।
तावेव श्रवणौ श्रोतुं संविदा ते बहुश्रुतौ ।। २३ ।।
इह श्रुतिमतां पुंसां याभ्यां काशी श्रुता सकृत् ।।
तदेव मनुते सर्वं मनस्त्विह मनस्विनाम ।। २४ ।।
येनानुमन्यते चैषा काशी सर्वप्रमाणभूः ।।
बुद्धिर्बुध्यति सा सर्वमिह बुद्धिमतां सताम् ।।
ययैतद्धूर्जटेर्धाम धृतं स्व विषयीकृतम् ।। २५ ।।
वरं तृणानि धान्यानि तानि वात्याहतान्यपि ।।
काश्यां यान्या पतंतीह न जनाः काश्यदर्शनाः ।। २६ ।। ।
अद्य मे सफलं चायुः परार्धद्वय संमितम् ।।
यस्मिन्सति मया प्रापि दुष्प्रापा काशिका पुरी ।। २७ ।।
अहो मे धर्मसंपत्तिरहोमे भाग्यगौरवम् ।।
यदद्राक्षिषमद्याहं काशीं सुचिर चिंतिताम् ।। २८ ।।
अद्य मे स्वतपो वृक्षो मनोरथफलैरलम् ।।
शिवभक्त्यंबुना सिक्तः फलितोति बृहत्तरैः ।। २९ ।।
मया व्यधायि बहुधा सृष्टिः सृष्टिं वितन्वता ।।
परमन्यादृशी काशी स्वयं विश्वेश निर्मितिः।। 4.2.52.३० ।।
इति हृष्टमना वेधा दृष्ट्वा वाराणसीं पुरीम् ।।
वृद्धब्राह्मणरूपेण राजानं च ददर्श ह ।। ३१ ।।
जलार्द्राक्षतपाणिश्च स्वस्त्युक्त्वा पृथिवीभुजे ।।
कृतप्रणामो राज्ञाथ भेजे तद्दत्तमासनम् ।।३२।।
कृतमानो नृपतिना सोभ्युत्थानासनादिभिः ।।
विप्रो व्यजिज्ञपद्भूपं पृष्टागमनकारणम् ।। ३३ ।।
।। ब्राह्मण उवाच ।। ।।
भूपाल बहुकालीनोस्म्यहमत्र चिरंतनः ।।
त्वं तु मां नैव जानासि जाने त्वां हि रिपुंजयम् ।। ।। ३४ ।।
परःशता मया दृष्टा राजानो भूरिदक्षिणाः ।।
विजितानेकसंग्रामा यायजूका जितेंद्रियाः ।। ३५ ।।
विनिष्कृतारिषड्वर्गाः सुशीलाः सत्त्वशालिनः ।।
श्रुतस्यपारदृश्वानो राजनीतिविचक्षणाः ।। ३६ ।।
दयादाक्षिण्यनिपुणाः सत्यव्रतपरायणाः ।।
क्षमया क्षमयातुल्या गांभीर्यजितसागराः ।। ३७ ।।
जितरोषरयाः शूराः सौम्यसौंदर्यभूमयः ।।
इत्यादि गुणसंपन्नाः सुसंचितयशोधनाः ।।३८।।
परं द्वित्राः पवित्रा ये राजर्षे तव सद्गुणाः ।।
तेष्वेषु राजसु मम प्रायशो न दृशं गताः ।। ३९ ।।
प्रजानिजकुटुंबस्त्वं त्वं तु भूदेवदैवतः ।।
महातपः सहायस्त्वं पथानान्ये तथा नृपाः ।। 4.2.52.४० ।।
धन्यो मान्योसि च सतां पूजनीयोसि सद्गुणैः ।।
देवा अपि दिवोदास त्वत्त्रासान्न विमार्गगाः ।। ४१ ।।
किं नः स्तुत्या तव नृप द्विजानामस्पृहावताम् ।।
किं कुर्मस्त्वद्गुणग्रामाः स्तावकान्नः प्रकुर्वते ।।४२।।
गोष्ठी तिष्ठत्वियं तावत्प्रस्तुतं स्तौमि सांप्रतम् ।।
यष्टुकामोस्म्यहं राजंस्त्वां सहायमतो वृणे ।।४३।।
त्वया राजन्वती चैषाऽवनिः सर्वर्धिभाजनम् ।।
अहं चास्तिधनो राजन्न्यायोपात्तमहाधनः ।।४४।।
इयं च राजधानी ते कर्मभूमावनुत्तमा ।।
यस्यां कृतानां कार्याणां संवर्तेपि न संक्षयः ।।४९।।
संचितं यद्धनं पुंभिर्नयसन्मार्गगामिभिः ।।
तत्काश्यां विनियुज्येत क्लेशायेतरथा भवेत् ।।४६।।
महिमानं परं काश्याः कोपि वेद न भूपते ।।
ऋते त्रिनयनाच्छंभोः सर्वज्ञानप्रदायिनः ।।४७।।
मन्ये धन्यतरोसि त्वं बहुजन्मशतार्जितैः ।।
सुकृतैः पासि यत्काशीं विश्वभर्तुः परां तनुम् ।। ४८।।
काशी त्रिजगतीसारस्त्रिवेदी सार एव वै ।।
त्रिवर्गोत्तरसारश्च निर्णीतेति महर्षिभिः ।। ४९।।
विश्वेशानुग्रहेणैव त्वयैषा पाल्यते पुरी ।।
एकस्याप्यवनात्काश्यां त्रैलोक्यमवितं भवेत् ।।4.2.52.५०।।
अन्यच्च ते हितं वच्मि यदि ते रोचतेऽनघ ।।
प्रीणनीयः सदैवैको विश्वेशः सर्वकर्मभिः ।। ५१ ।।
अन्यदेवधिया राजन्विश्वेशं पश्य मा क्वचित् ।।
ब्रह्मविष्ण्विंद्र चंद्रार्का क्रीडेयं तस्य धूर्जटेः ।। ।। ५२ ।।
विप्रैरुदर्कमिच्छद्भिः शिक्षणीया यतो नृपाः ।।
अतस्तव हितं ख्यातं किं वा मे चिंतयानया ।। ५३ ।।
इति जोषं स्थितं विप्रं प्रत्युवाच नृपोत्तमः ।।
सर्वं मया हृदि धृतं यत्त्वयोक्तं द्विजोत्तम ।। ५४ ।।
।। राजोवाच ।। ।।
अहं यियक्षमाणस्य तव साहाय्यकर्मणि ।।
दासोस्मि यज्ञसंभारान्नयमेको शतोऽखिलान् ।। ५५ ।।
यदस्ति मेखिलं तत्र सप्तांगेपि भवान्प्रभुः ।।
यजस्वैकमनाब्रह्मन्सिद्धं मन्यस्व वांछितम् ।। ५६ ।।
राज्यं करोमि यद्ब्रह्मन्स्वार्थं तन्न मनागपि ।।
पुत्रैः कलत्रैर्देहेनपरोपकृतये यते ।। ५७।।
राज्ञां क्रतुक्रियाभ्योपि तीर्थेभ्योपि समंततः ।।
प्रजापालनमेवैको धर्मः प्रोक्तो मनीषिभिः ।। ५८ ।।
प्रजासंतापजोवह्निर्वज्राग्नेरपि दारुणः ।।
द्वित्रान्दहति वज्राग्निः पूर्वो राज्यं कुलं तनुम् ।। ५९ ।।
यदावभृथसिस्रासुर्भवेयं द्विजसत्तम ।।
तदा विप्रपदांभोभिरभिषेकं करोम्यहम् ।। 4.2.52.६० ।।
हवनं ब्राह्मणमुखे यत्करोमि द्विजोत्तम ।।
मन्ये क्रतुक्रियाभ्योपि तद्विशिष्टं महामते ।।६१।।
अभिलाषेषु सर्वेषु जागर्त्येको हृदीह मे ।।
अद्यापि मार्गणः कोपि द्रष्टव्यः स्वतनोरपि ।। ६२ ।।
अहो अहोभिर्बहुभिः फलितो मे मनोरथः ।।
यत्त्वं मेद्य गृहे प्राप्तः किंचित्प्रार्थयितुं द्विज ।। ६३ ।।
एकाग्रमानसो विप्र यज्ञान्विपुलदक्षिणान् ।।
बहून्यजकृतं विद्धि साहाय्यं सर्ववस्तुषु ।। ६४ ।।
इति राज्ञो महाबुद्धेर्धर्मशीलस्य भाषितम् ।।
श्रुत्वा तुष्टमनाः स्रष्टा क्रतुसंभारमाहरत् ।। ६५ ।।
साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः ।।
इयाज दशभिः काश्यामश्वमेधैर्महामखैः ।।६६ ।।
अद्यापि होमधूमोघैर्यद्व्याप्तं गगनांतरम् ।।
तदा प्रभृति न व्योम नीलिमानं जहात्यदः ।। ६७ ।।
तीर्थं दशाश्वमेधाख्यं प्रथितं जगतीतले ।।
तदा प्रभृति तत्रासीद्वाराणस्यां शुभप्रदम् ।। ६८ ।।
पुरा रुद्रसरो नाम तत्तीर्थं कलशोद्भव ।।
दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात् ।। ६९ ।।
स्वर्धुन्यथ ततः प्राप्ता भगीरथसमागमात् ।।
अतीव पुण्यवज्जातमतस्तत्तीर्थमुत्तमम् ।।4.2.52.७०।।
विधिर्दशाश्वमेधेशं लिंगं संस्थाप्य तत्र वै।।
स्थितवान्न गतोद्यापि क्वापि काशीं विहाय तु ।। ७१ ।।
राज्ञो धर्मरतेस्तस्य च्छिद्रं नावाप किंचन ।।
अतः पुरारेः पुरतो व्रजित्वा किं वदेद्विधिः ।। ७२ ।।
क्षेत्रप्रभावं विज्ञाय ध्यायन्विश्वेश्वरं शिवम् ।।
ब्रह्मेश्वरं च संस्थाप्य विधिस्तत्रैव संस्थितः ।। ७३ ।।
परातनुरियं काशी विश्वेशस्येति निश्चितम् ।।
अस्याः संसेवनाच्छंभुर्न कुप्यति पुरो मयि ।। ७४ ।।
कः प्राप्य काशीं दुर्मेधाः पुनस्त्यक्तुमिहेह ते ।।
अनेकजन्मजनितकर्मनिर्मूलनक्षमाम् ।। ७५ ।।
विश्वसंतापसंहर्तुः स्थाने विश्वपतेस्तनुः ।।
संताप्यतेतरां काश्या विश्लेषज महाग्निना ।। ७६ ।।
प्राप्य काशीं त्यजेद्यस्तु समस्ताघौघनाशिनीम्।।
नृपशुः स परिज्ञेयो महासौख्यपराङमुखः ।। ७७ ।।
निर्वाणलक्ष्मीं यः कांक्षेत्त्यक्त्वा संसारदुर्गतिम् ।।
तेन काशी न संत्याज्या यद्याप्तैशादनुग्रहात् ।। ७८ ।।
यः काशीं संपरित्यज्य गच्छेदन्यत्र दुर्मतिः ।।
तस्य हस्ततलाद्गच्छेच्चतुर्वर्गफलोदयः ।। ७९ ।।
निबर्हणी मधौघस्य सुपुण्य परिबृंहिणीम् ।।
कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम्।। 4.2.52.८० ।।
सत्यलोके क्व तत्सौख्यं क्व सौख्यं वैष्णवे पदे ।।
यत्सौख्यं लभ्यते काश्यां निमेषार्धनिषेवणात् ।। ८१ ।।
वाराणसीगुणगणान्निर्णीय द्रुहिणस्त्विति ।।
व्यावृत्य मंदरगिरिं न पुनः प्रत्यगान्मुने ।।८२।।
।। स्कंद उवाच ।। ।।
मित्रावरुणयोः पुत्र महिमानं ब्रवीमि ते ।। ।।
काश्यां दशाश्वमेधस्य सर्वतीर्थशिरोमणेः ।। ८३ ।।
दशाश्वमेधिकं प्राप्य सर्वतीर्थोत्तमोत्तमम् ।।
यत्किंचित्क्रियते कर्म तदक्षयमिहेरितम् ।। ८४ ।।
स्नानं दानं जपो होमः स्वाध्यायो दे वतार्चनम् ।।
संध्योपास्तिस्तर्पणं च श्राद्धं पितृसमर्चनम्।।८५।।
दशाश्वमेधिके तीर्थे सकृत्स्नात्वा नरोत्तमः ।९।
दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते ।।८६।।
ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् ।।
दशाश्वमेधिके स्नात्वा मुच्यते जन्मपातकैः ।। ८७ ।।
ज्येष्ठे शुक्ल द्वितीयायां स्नात्वा रुद्रसरोवरे ।।
जन्मद्वयकृतं पापं तत्क्षणादेव नश्यति ।। ८८ ।।
एवं सर्वासु तिथिषु क्रमस्नायी नरोत्तमः ।।
आशुक्लपक्षदशमि प्रतिजन्माघमुत्सृजेत् ।। ८९ ।।
तिथिं दशहरां प्राप्य दशजन्माघहारिणीम् ।।
दशाश्वमेधिके स्नातो यामीं पश्येन्न यातनाम् ।।4.2.52.९०।।
लिंगं दशाश्वमेधेशं दृष्ट्वा दशहरा तिथौ ।।
दशजन्मार्जितैः पापैस्त्यज्यते नात्र संशयः ।। ९१ ।।
स्नातो दशहरायां यः पूजयेल्लिंगमुत्तमम् ।।
भक्त्या दशाश्वमेधेशं न तं गर्भदशा स्पृशेत् ।।९२।।
ज्येष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः ।।
कुर्वन्वै वार्षिकीं यात्रां न विघ्नैरभिभूयते।।९३।।
दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते ।।
दशाश्वमेधे तन्नूनं स्नात्वा दशहरा तिथौ ।। ९४ ।।
स्वर्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ।।
न दुर्दशामवाप्नोति पुमान्पुण्यतमः क्वचित् ।। ९५ ।।
यत्काश्यां दक्षिणद्वारमंतर्गेहस्य कीर्त्यते ।।
तत्र ब्रह्मेश्वरं दृष्ट्वा ब्रह्मलोके महीयते ।। ९६ ।।
इति ब्राह्मणवेषेण वाराणस्यां महाधिया ।।
द्रुहिणेन स्थितं तावद्यावद्विश्वेश्वरागमः ।। ९७ ।।
दिवोदासोपि राजेंद्रो वृद्धब्राह्मणरूपिणे ।।
ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकल्पयत्।। ९८ ।।
ब्रह्मेश्वरसमीपे तु ब्रह्मशाला मनोहरा ।।
ब्रह्मा तत्रावसद्व्योम ब्रह्मघोषैर्निनादयन् ।। ९९ ।।
इति ते कथितो ब्रह्मन्महिमातिमहत्तरः ।।
दशाश्वमेधतीर्थस्य सर्वाघौघविनाशनः ।। 4.2.52.१०० ।।
श्रुत्वाध्यायमिमं पुण्यं श्रावयित्वा तथैव च ।।
ब्रह्मलोकमवाप्नोति श्रद्धया मानवोत्तमः ।। १०१ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुर्थे काशीखंडे दशाश्वमेधवर्णनंनाम द्विपंचाशत्तमोऽध्यायः ।। ५२ ।।