स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४२

विकिस्रोतः तः

।। अगस्तिरुवाच ।। ।।
कथं निकटतः कालो ज्ञायते हरनंदन ।।
तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः ।। १ ।।
।। कुमार उवाच ।। ।।
वदामि कालचिह्नानि जायंते यानि देहिनाम् ।।
मृत्यौ निकटमापन्ने मुने तानि निशामय ।। २।।
याम्यनासापुटे यस्य वायुर्वाति दिवानिशम् ।।
अखंडमेव तस्यायुः क्षयत्यब्दत्रयेण हि ।। ३ ।।
अहोरात्रं त्र्यहोरात्रं रविर्वहति संततम् ।।
अब्दमेकं च तस्येह जीवनावधिरुच्यते ।। ४ ।।
वहेन्नासापुटयुगे दशाहानि निरंतरम् ।।
वातश्चेत्सह संक्रांतिस्तया जीवेद्दिनत्रयम् ।। ५ ।।
नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत् ।।
शंसेद्दिनद्वयादर्वाक्प्रयाणं तस्य चाध्वनि ।। ६ ।।
अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत् ।।
चिंतनीयः प्रयत्नेन स कालो मृत्युभीरुणा ।। ७ ।।
सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे ।।
पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत् ।। ८ ।।
अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिंगलम् ।।
तस्मिन्नेव क्षणेऽरूपं स जीवेद्वत्सरद्वयम् ।। ९ ।।
यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा ।।
इहैकदा पतेद्यस्य अब्दं तस्यायुरिष्यते ।। 4.1.42.१० ।।
इंद्रनीलनिभं व्योम्नि नागवृंदं य ईक्षते ।।
इतस्ततः प्रसृमरं षण्मासं न स जीवति ।।।१।।
व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम् ।।
फूत्कृत्याश्विंद्रचापं न पश्येत्षण्मासजीवितः ।। १२ ।।
अरुंधतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च ।।
आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमंडलम् ।।१३।।
अरुंधती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ।।
विष्णोः पदानि भ्रूमध्ये नेत्रयोर्मातृमंडलम् ।। १४ ।।
वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि ।।
अकस्मादन्यथाभावं षण्मासेन स मृत्युभाक् ।।१५।।
षण्मासमृत्योर्मर्त्यस्य कंठोष्ठरसना रदाः ।।
शुष्यंति सततं तद्वद्विच्छायास्तालुपंचमाः ।।१६।।
रेतः करजनेत्रांता नीलिमानं भजंति चेत् ।।
तर्हि कीनाशनगरीं षष्ठेमासि व्रजेन्नरः ।। १७ ।।
संप्रवृत्ते निधुवने मध्येंते क्षौति चेन्नरः ।।
निश्चितं पंचमे मासि धर्मराजातिथिर्भवेत् ।। १६ ।।
द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके ।।
प्रयाति याति तस्यायुः षण्मासेन परिक्षयम् ।। १९ ।।
सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ।।
चरणौ च करौ वापि त्रिमासं तस्य जीवितम् ।। 4.1.42.२० ।।
प्रतिबिंबं भवेद्यस्य पदखंडपदाकृति ।।
पांसौ वा कर्दमे वापि पंचमासान्स जीवति ।। २१ ।।
छाया प्रकंपते यस्य देहबंधेपि निश्चले ।।
कृतांतदूता बध्नंति चतुर्थे मासि तं नरम् ।। २२ ।।
निजस्य प्रतिबिंबस्य नीराज्यमुकुरादिषु ।।
उत्तमांगं न यः पश्येत्समासेन विनश्यति ।। २३ ।।
मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै ।।
रात्रौ चंद्रद्वयं चापि दिवा द्वौ च दिवाकरौ ।। २४ ।।
दिवा च तारकाचक्रं रात्रौ व्योमवितारकम् ।।
युगपच्च चतुर्दिक्षु शाक्रं कोदंडमंडलम् ।। २५ ।।
भूरुहे भूधराग्रे च गंधर्वनगरालयम् ।।
दिवापिशाच नृत्यं च एते पंचत्वहेतवः ।।२६।।
सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते ।।
तदा मासावधिं मृत्युः प्रतीक्षेत न चाधिकम् ।। २७ ।।
करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम् ।।
स्थूलः कृशः कृशस्थूलस्तदामासान्निवर्तते ।। २८ ।।
यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम् ।।
दिनानि पंच जीवित्वा पंचत्वमुपयाति सः ।। २९ ।।
प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः ।।
भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः ।। 4.1.42.३० ।।
रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः ।।
स्वप्ने स जीवितं त्यक्त्वा वर्षांते यममीक्षते ।। ३१ ।।
गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः ।।
यः पश्येत्स्वप्नसमये सोऽष्टौ मासाननित्यहो ।। ३२ ।।
पांसुराशि च वल्मीकं यूपदंडमथापि वा ।।
योधिरोहति वै स्वप्ने स षष्ठे मासि नश्यति ।। ३३ ।।
रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम् ।।
नीयमानं यमाशां यः स्वप्ने पश्येत्स्वपूर्वजान् ।। ३४ ।।
स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः ।।
तृणानि शुष्ककाष्ठानि षष्ठे मासि न तिष्ठति ।। ३५ ।।
लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम् ।।
स्वयं योग्रे स्थितं पश्येत्स त्रीन्मासान्न लंघयेत् ।। ३६ ।।
काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः ।।
स मासेन समीक्षेत नगरींशमनोषिताम् ।। ३७ ।।
नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन् ।।
दिनैः स पंचभिरेव पश्येत्संयमिनीं पुरीम् ।।३८।।
कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि ।।
प्रकृतेर्विकृतिश्चेत्स्यात्तदा पंचत्वमृच्छति ।।३९।।
एतानि कालचिह्नानि संत्यन्यानि बहून्यपि ।।
ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत् ।। 4.1.42.४० ।।
न कालवंचनोपायं मुनेन्यमवयाम्यहम् ।।
विना मृत्युजयं काशीनाथं गर्भावरोधकम् ।। ४१ ।।
तावद्गर्जंति पापानि तावद्गर्जेद्यमो नृपः ।।
यावद्विश्वेशशरणं नरो न निरतो व्रजेत् ।। ४२ ।।
प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः ।।
स्पृष्ट विश्वेशसल्लिंगः कश्च याति न वंद्यताम् ।। ४३ ।।
करिष्येत्कुपितःकालः किंकाशीवासिनां नृणाम् ।।
काले शिवः स्वयं कर्णे यत्र मंत्रोपदेशकः ।। ४४ ।।
यथा प्रयाति शिशुता कौमारं च यथा गतम् ।।
सत्वरं गत्वरं तद्वद्यौवनं चापि वार्धकम ।। ४५ ।।
यावन्नहि जराक्रांतिर्यावन्नेंद्रियवैक्लवम् ।।
तावत्सर्वं फल्गुरूपं हित्वा काशीं श्रयेत्सुधीः ।। ४६ ।।
अन्यानि काललक्ष्माणि तिष्ठंतु कलशोद्भव ।।
जरैव प्रथमं लक्ष्म चित्रं तत्रापि भीर्नहि ।। ४७ ।।
पराभूतो हि जरया सर्वैश्च परिभूयते ।।
हृततारुण्यमाणिक्यो धनहीनः पुमानिव ।। ४८ ।।
सुतावाक्यं न कुर्वंति पत्नी प्रेमापि मुंचति ।।
बांधवा नैव मन्यंते जरसाश्लेषितं नरम् ।। ४९ ।।
आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशंकिता ।।
भवेत्पराङ्मुखी नित्यं प्रणयिन्यपि कामिनी ।। 4.1.42.५० ।।
न जरा सदृशो व्याधिर्न दुःखं जरया समम् ।।
कारयित्र्यपमानस्य जरैव मरणं नृणाम् ।। ५१ ।।
न जीयते तथा कालस्तपसा योगयुक्तिभिः ।।
यथा चिरेणकालेन काशीवासाद्विजीयते ।। ५२ ।।
विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः ।।
विनातिपुण्यसंभारैः कः काशीं प्राप्तुमीहते ।। ५३ ।।
काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः ।।
काशीप्राप्तिरिदं दानं काशीप्राप्तिः शिवैकता ।। ५४ ।।
कः कलिकोथवा कालः का जरा किं च दुष्कृतम् ।।
का रुजः केंतराया वा श्रिता वाराणसी यदि ।। ५५ ।।
कलिस्तानेव बाधेत कालस्तांश्च जिघांसति ।। ५६।।
एनांसि तांश्च बाधंते ये न काशीं समाश्रिताः ।।
काशीसमाश्रिता यैश्च यैश्च विश्वेश्वरोर्चितः ।।
तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः ।। ।। ५७ ।।
धनिनो न तथा सौख्यं प्राप्नुवंति नराः क्वचित् ।।
यथा निधनतः काश्यां लभते सुखमव्ययम् ।। ५८ ।।
वरं काशीसमावासी नासीनो द्युसदां पदम्।।
दुःखांतं लभते पूर्वः सुखांतं लभते परः ।। ५९ ।।
स्थितोपि भगवनीशो मंदरं चारुकंदरम् ।।
काशीं विना रतिं नाऽऽप दिवोदासनृपोषिताम् ।। 4.1.42.६० ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे कालवंचनोपायोनाम द्विचत्वारिंशोध्यायः ।। ४२ ।।