स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७७

विकिस्रोतः तः

।। पार्वत्युवाच ।। ।।
नमस्ते देवदेवेश प्रणमत्करुणानिधे ।।
वद केदारमाहात्म्यं भक्तानामनुकंपया ।।१।।
तस्मिँल्लिंगे महाप्रीतिस्तव काश्यामनुत्तमा ।।
तद्भक्ताश्च जना नित्यं देवदेवमहाधियः ।। २ ।।
।। देवदेव उवाच ।। ।।
शृण्वपर्णेभिधास्यामि केदारेश्वर संकथाम् ।।
समाकर्ण्यापि यां पापोप्यपापो जायते क्षणात् ।। ३ ।।
केदारं यातुकामस्य पुंसो निश्चितचेतसः ।।
आजन्मसंचितं पापं तत्क्षणादेव नश्यति ।। ४ ।।
गृहाद्विनिर्गते पुंसि केदारमभिनिश्चितम् ।। जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत् ।। ५ ।।
मध्ये मार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ।।
देहगेहाद्विनिःसृत्य निराशं याति निःश्वसत् ।। ६ ।।
सायंकेदारकेदारकेदारेति त्रिरुच्चरन्।।
गृहेपि निवसन्नूनं यात्राफलमवाप्नुयात् ।। ७ ।।
दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमंबु च ।।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।८।।
हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ।।
कोटिजन्मार्जितैनोभिर्मुच्यते नात्र संशयः ।।९।।
सकृत्प्रणम्य केदारं हरपापकृतोदकः ।।
स्थाप्य लिंगं हृदंभोजे प्रांते मोक्षं गमिष्यति।।4.2.77.१०।।
हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ।।
उद्धृत्य सप्तपुरुषान्स मे लोकं गमिष्यति ।। ११ ।।
पुरा राथंतरे कल्पे यदभूदत्र तच्छृणु ।।
अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः ।।१२।।
एको ब्राह्मणदायाद उज्जयिन्या इहागतः ।।
कृतोपनयनः पित्रा ब्रह्मचर्यव्रतेस्थितः ।।१३।।
स्थलीं पाशुपतीं काशीं स विलोक्य समंततः।।
द्विजैः पाशुपतैः कीर्णां जटामुकुटभूषितैः ।। १४ ।।
कृतलिंगसमर्चैश्च भूतिभूषितवर्ष्मभिः ।।
भिक्षाहृतान्नसंतुष्टैः पुष्टैर्गंगामृतोदकैः ।। १५ ।।
बभूवानंदितमना व्रतं जग्राह चोत्तमम्।।
हिरण्यगर्भादाचार्यान्महत्पाशुपताभिधम् ।। १६ ।।
स च शिष्यो वशिष्ठोभूत्सर्वपाशुपतोत्तमः ।।
स्नात्वा ह्रदे हरपापे नित्यप्रातः समुत्थितः ।।१७।।
विभूत्याहरहः स्नाति त्रिकालं लिंगमर्चयन् ।।
नांतरं स विजानाति शिवलिंगे गुरौ तथा ।।१८।।
स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ।।
ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम् ।।१९।।
यत्र गत्वा न शोचंति किंचित्संसारिणः क्वचित ।।
प्राश्योदकं लिंगरूपं लिंगरूपत्वमागताः ।।4.2.77.२०।।
असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः ।।
गुरुर्हिरण्यगर्भाख्यः पंचत्वमगमत्तदा ।। २१ ।।
पश्यतां तापसानां च विमाने सार्वकामिके ।।
आरोप्य तं पारिषदाः कैलासमनयन्मुदा ।। २२ ।।
यस्तु केदारमुद्दिश्य गेहादर्धपथेप्यहो ।।
अकातरस्त्यजेत्प्राणान्कैलासे स चिरं वसेत् ।। २३ ।।
तदाश्चर्यं समालोक्य स वशिष्ठस्तपोधनः ।।
केदारमेव लिंगेषु बह्वमंस्त सुनिश्चितम् ।। २४।।
अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात् ।।
अग्रहीन्नियमं चापि यथार्थं चाकरोत्पुनः ।। ।। २५ ।।
प्रति चैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम् ।।
विलोकयिष्ये केदारं वसन्वाराणसीं पुरीम् ।। २६ ।।
तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा ।।
आनंदकानने नित्यं वसता ब्रह्मचारिणा ।। २७ ।।
पुनर्यात्रां स वै चक्रे मधौ निकटवर्तिनि ।।
परमोत्साहसंतुष्टः पलिता कलितोप्यलम्।। २८ ।।
तपोधनैस्तन्निधनं शंकमानैर्निवारितः ।।
कारुण्यपूर्णहृदयैरन्यैरपि च संगिभिः ।। २९ ।।
ततोपि न तदुत्साहभंगोभूद्दृढचेतसः ।।
मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम ।। 4.2.77.३० ।।
इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ ।।
अशूद्रान्न परीपुष्टे तुष्टोहं चंडिकेऽभवम् ।। ३१ ।।
स्वप्रेमया स संप्रोक्तो वशिष्ठस्तापसोत्तमः ।।
दृढव्रत प्रसन्नोस्मि केदारं विद्धि मामिह ।। ३२ ।।
अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम् ।।
इत्युक्तवत्यपि मयि स्वप्नो मिथ्येति सोब्रवीत्।। ३३ ।।
ततोपि स मया प्रोक्तः स्वप्नो मिथ्याऽशुचिष्मताम् ।।
भवादृशाममिथ्यैव स्वाख्या सदृशवर्तिनाम् ।। ३४ ।।
वरं ब्रूहि प्रसन्नोस्मि स्वप्नशंकां त्यज द्विज ।।
तव सत्त्ववतः किंचिन्मयादेयं न किंचन ।। ३५ ।।
इत्युक्तं मे समाकर्ण्य वरयामास मामिति ।।
शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः ।। ३६ ।।
यदि प्रसन्नो देवेश तदा मे सानुगा इमे ।।
सर्वे शूलिन्नुग्राह्या एष एव वरो मम ।। ३७ ।।
देवि तस्येदमाकर्ण्य परोपकृतिशालिनः ।।
वचनं नितरां प्रीतस्तथेति तमुवाच ह ।। ३८ ।।
पुनः परोपकरणात्तत्तपो द्विगुणीकृतम् ।।
तेन पुण्येन स मया पुनः प्रोक्तो वरं वृणु ।। ३९ ।।
स वशिष्ठो महाप्राज्ञो दृढ पाशुपतव्रतः ।।
देवि मे प्रार्थयामास हिमशैलादिह स्थितिम् ।। 4.2.77.४० ।।
ततस्तत्तपसाकृष्टः कलामात्रेण तत्र हि ।।
हिमशैले ततश्चात्र सर्वभावेन संस्थितः ।। ४१ ।।
ततः प्रभाते संजाते सर्वेषां पश्यतामहम् ।।
हिमाद्रे प्रस्थितः प्राप्तस्तूयमानः सुरर्षिभिः ।।४२।।
वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम् ।।
हरपापह्रदे तीर्थे स्थितोहं तद्नुग्रहात् ।। ४३ ।।
मत्परिग्रहतः सर्वे हरपापे कृतोदकाः ।।
आराध्य मामनेनैव वपुषा सिद्धिमागताः ।। ४४ ।।
तदा प्रभृति लिंगेस्मिन्स्थितः साधकसिद्धये ।।
अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः ।। ४५।।
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम् ।।
तत्फलं सप्तगुणितं काश्यां केदारदर्शने ।। ४६ ।।
गौरीकुंडं यथा तत्र हंसतीर्थं च निर्मलम् ।।
यथा मधुस्रवा गंगा काश्यां तदखिलं तथा ।। ४७ ।।
इदं तीर्थं हरपापं सप्तजन्माघनाशनम् ।।
गंगायां मिलितं पश्चाज्जन्मकोटिकृताघहम् ।। ४८ ।।
अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः ।।
पश्यतां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ ।।४९।।
गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे ।।
गौरीतीर्थं ततः ख्यातं सर्वतीर्थोत्तमोत्तमम् ।। 4.2.77.५० ।।
अत्रामृतस्रवा गंगा महामोहांधकारहृत् ।।
अनेकजन्मजनित जाड्यध्वंसविधायिनी ।। ५१ ।।
सरसा मानसेनात्र पूर्वं तप्तं महातपः ।।
अतस्तु मानसं तीर्थं जने ख्यातिमिदं गतम् ।।५२।।
अत्र पूर्वं जनः स्नानमात्रेणैव प्रमुच्यते ।।
पश्चात्प्रसादितश्चाहं त्रिदशैर्मुक्तिदुर्दृशैः ।। ५३ ।।
सर्वे मुक्तिं गमिष्यंति यदि देवेह मानवाः ।।
केदारकुंडे सुस्नातास्तदोच्छित्तिर्भविष्यति ।। ५४ ।।
सर्वेषामेव वर्णानामाश्रमाणां च धर्मिणाम्।।
तस्मात्तनुविसर्गेत्र मोक्षं दास्यति नान्यथा ।। ५५ ।।
ततस्तदुपरोधेन तथेति च मयोदितम् ।।
तदारभ्य महादेवि स्नानात्केदारकुंडतः।।।। ५६ ।।
समर्चनाच्च भक्त्या वै मम नाम जपादपि ।।
नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम ।। ५७ ।।
केदारतीर्थे यः स्नात्वा पिंडान्दास्यति चात्वरः ।।
एकोत्तरशतं वंश्यास्तस्य तीर्णा भवांबुधिम्।। ५८ ।।
भौमवारे यदा दर्शस्तदा यः श्राद्धदो नरः ।।
केदारकुंडमासाद्य गयाश्राद्धेन किं ततः ।। ५९ ।।
केदारं गंतुकामस्य बुद्धिर्देया नरैरियम् ।।
काश्यां स्पृशंस्त्वं केदारं कृतकृत्यो भविष्यसि ।। 4.2.77.६० ।।
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ।।
त्रिगंडूषान्पिबन्प्रातर्हृल्लिंगमधितिष्ठति ।। ६१ ।।
केदारोदकपानेन यथा तत्र फलं भवेत् ।।
तथात्र जायते पुंसां स्त्रीणां चापि न संशयः ।। ६२ ।।
केदारभक्तं संपूज्य वासोन्नद्रविणादिभिः ।।
आजन्मजनितं पापं त्यक्त्वा याति ममालयम् ।। ।। ६३ ।।
आषण्मासं त्रिकालं यः केदारेशं नमस्यति ।।
तं नमस्यंति सततं लोकपाला यमादयः ।। ६४ ।।
कलौ केदारमाहात्म्यं योपि कोपि न वेत्स्यति ।।
यो वेत्स्यति सुपुण्यात्मा सर्वं वेत्स्यति स ध्रुवम् ।। ६५ ।।
केदारेशं सकृद्दृष्ट्वा देवि मेऽनुचरो भवेत् ।।
तस्मात्काश्यां प्रयत्नेन केदारेशं विलोकयेत् ।।६६।।
चित्रांगदेश्वरं लिंगं केदारादुत्तरे शुभम् ।।
तस्यार्चनान्नरो नित्यं स्वर्गभोगानुपाश्नुते ।। ६७ ।।
केदाराद्दक्षिणे भागे नीलकंठ विलोकनात् ।।
संसारोरगदष्टस्य तस्य नास्ति विषाद्भयम् ।। ६८ ।।
तद्वायव्यंबरीषेशो नरस्तदवलोकनात् ।।
गर्भवासं न चाप्नोति संसारे दुःखसंकुले ।।६९।।
इंद्रद्युम्नेश्वरं लिंगं तत्समीपे समर्च्य च ।।
तेजोमयेन यानेन स स्वर्ग भुवि मोदते ।। 4.2.77.७० ।।
तद्दक्षिणे नरो दृष्ट्वा लिंगं कालंजरेश्वरम् ।।
जरां कालं विनिर्जित्य मम लोके वसेच्चिरम् ।।७१।।
दृष्ट्वा क्षेमेश्वरं लिंगमुद्क्चित्रांगदेश्वरात् ।।
सर्वत्र क्षेममाप्नोति लोकेऽत्र च परत्र च ।।७२।।
।। स्कंद उवाच ।। ।।
देवदेवेन विंध्यारे केदार महिमा महान् ।।
इत्याख्यायि पुरांबायै मया तेपि निरूपितः ।। ७३ ।।
केदारेश्वरलिंगस्य श्रुत्वोत्पत्तिं कृती नरः ।।
शिवलोकमवाप्नोति निष्पापो जायते क्षणात् ।। ७४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे केदारमहिमाख्यानं नाम सप्तसप्ततितमोऽध्यायः ।।७७।।