स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००१

विकिस्रोतः तः
Jump to navigation Jump to search
काशीखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

अध्यायः ६३

अध्यायः ६४

अध्यायः ६५

अध्यायः ६६

अध्यायः ६७

अध्यायः ६८

अध्यायः ६९

अध्यायः ७०

अध्यायः ७१

अध्यायः ७२

अध्यायः ७३

अध्यायः ७४

अध्यायः ७५

अध्यायः ७६

अध्यायः ७७

अध्यायः ७८

अध्यायः ७९

अध्यायः ८०

अध्यायः ८१

अध्यायः ८२

अध्यायः ८३

अध्यायः ८४

अध्यायः ८५

अध्यायः ८६

अध्यायः ८७

अध्यायः ८८

अध्यायः ८९

अध्यायः ९०

अध्यायः ९१

अध्यायः ९२

अध्यायः ९३

अध्यायः ९४

अध्यायः ९५

अध्यायः ९६

अध्यायः ९७

अध्यायः ९८

अध्यायः ९९

अध्यायः १००

श्रीगणेशाय नमः ।। ।।
तं मन्महे महेशानं महेशानप्रियार्भकम् ।।
गणेशानं करिगणेशानाननमनामयम् ।। १ ।।
भूमिष्ठापि न यात्रभूस्त्रिदिवतोप्युच्चैरधःस्थापि या या बद्धा भुवि मुक्तिदास्युरमृतं यस्यां मृता जंतवः ।।
या नित्यं त्रिजगत्पवित्रतटिनी तीरे सुरैः सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् ।। २ ।।
नमस्तस्मै महेशाय यस्य संध्यात्त्रयच्छलात् ।।
यातायातं प्रकुर्वंति त्रिजगत्पतयोऽनिशम् ।। ३ ।।
अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः ।।
सूताग्रे कथयामास कथां पापापनोदिनीम् ।। ४ ।।
श्रीव्यास उवाच ।। ।।
कदाचिन्नारदः श्रीमान्स्नात्वा श्रीनर्मदांभसि ।।
श्रीमदोंकारमभ्यर्च्य सर्वदं सर्वदेहिनाम् ।। ५ ।।
व्रजन्विलोकयांचक्रे पुरोविंध्यं धराधरम् ।।
संसारतापसंहारि रेवावारिपरिष्कृतम् ।। ६ ।।
द्वैरूप्येणापि कुर्वंतं स्थावरेण चरेण च ।।
साभिख्येन यथार्थाख्यामुच्चैर्वसु मतीमिमाम् ।। ७ ।।
रसालयं रसालैस्तैरशोकैः शोकहारिणाम् ।।
तालैस्तमालेर्हिंतालैः सालैः सर्वत्रशालितम् ।। ८।।
खपुरैः खपुराकारं श्रीफलं श्रीफलैः किल ।।
गुरुश्रियंत्वगुरुभिः कपिपिंगं कपित्थकैः ।। ९ ।।
वनश्रियः कुचाकारैर्लकुचैश्च मनोहरम् ।।
सुधाफलसमारंभि रंभाभिः परिभासितम् ।।4.1.1.१०।।
सुरंगैश्चापि नारंगैरंगमंडपवच्छियः ।।
वानीरैश्चापि जंबीरैर्बीजपूरैः प्रपूरितम् ।। ११ ।।
अनिलालोल कंकोल वल्लीहल्ली सकायितम् ।।
लवलीलवलीलाभिर्लास्यलीलालयं किल ।। १२ ।।
मंदांदोलितकर्पूर कदलीदल संज्ञया ।।
विश्रमाय श्रमापन्नानाहूयंतमिवाध्वगान् ।। १३ ।।
पुन्नागमिव पुन्नागपल्लवैःकरपल्लवैः ।।
कलयंतमिवाऽलोलैर्मल्लिकास्तबकस्तनम् ।। १४ ।।
विदीर्णदाडिमैः स्वांतं दर्शयंतं तु रागवत् ।।
माधवीं धवरूपेण श्लिष्यंतमिव कानने ।। १५ ।।
उदुंबरैरंबरगैरनंतफलमालितैः ।।
ब्रह्मांडकोटीर्बिभ्रंतमनंतमिव सर्वतः ।। १६ ।।
पनसैर्वनासाभैः शुकनासैः पलाशकैः।।
पलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम्।।१७।।
कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव।।
समंततो भ्राजमानं कदंबककदंबकैः ।। १८ ।।
नमेरुभिश्च मेरूच्चशिखरैरिव राजितम् ।।
राजादनैश्च मदनैः सदनैरिव कामिनाम् ।। १९ ।।
तटेतटेपटुवटैरुच्चैःपटकुटी वृतम् ।।
कुटजस्तबकैर्भांतमधिष्ठितबकैरिव ।। 4.1.1.२० ।।
करमर्दैः करीरैश्च करजैश्चकरंबकैः ।।
सहस्रकरवद्भांतमर्थिप्रत्युद्गतैः करैः ।। २१ ।।
नीराजितमिवोद्दीपैराजचंपककोरकैः ।।
सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम् ।। २२ ।।
क्वचिच्चलदलैरुच्चैः क्वचित्कांचनकेतकैः ।।
कृतमालैर्न क्तमालैः शोभमानं क्वचित्क्वचित् ।। २३ ।।
कर्कंधु बंधुजीवैश्च पुत्रजीवैर्विराजितम् ।।
सतिंदुकेंगुदीभिश्च करुणैःकरुणालयम् ।। २४ !।
गलन्मधू ककुसुमैर्धरारूपधरंहरम् ।।
स्वहस्तमुक्तमुक्ताभिरर्चयंतमिवानिशम् ।। २५ ।।
सर्जार्जुनांजनैर्बीजैर्व्यजनैर्वीज्यमानवत् ।।
नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवांबरे ।। २६ ।।
अमंदैः पिचुमंदैश्च मंदारैः कोविदारकैः ।।
पाटलातिंतिणीघोंटाशाखोटैः करहाटकैः ।। २७ ।।
उद्दंडैश्चापि शेहुंडैरेरंडैर्गुडपुष्पकैः ।।
बकुलैस्तिलकैश्चैव तिलकांकितमस्तकम् ।। २८ ।।
अक्षैः प्लक्षैः शल्लकीभिर्देवदारुहरिद्रुमैः ।।
सदाफलसदापुष्प वृक्षवल्लीविराजितम् ।। २९ ।।
एलालवंग मरिचकुलुं जनवनावृतम् ।।
जंब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम् ।। 4.1.1.३० ।।
शाकशंखवनैरम्यं चदनैरक्तचंदनैः ।।
हरीतकीकर्णिकार धात्रीवनविभूषणम् ।। ३१ ।।
द्राक्षावल्लीनागवल्लीकणावल्लीशतावृतम् ।।
मल्लिकायूथिकाकुंदम दयंती सुगंधिनम् ।।३२।।
भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम् ।।
अलिच्छलागतंकृष्णं गोपीरंतुमनेकशः ।।३३।।
नानामृगगणाकीर्णं नानापक्षिविनादितम् ।।
नानासरित्सरः स्रोतः पल्वलैः परितो वृतम् ।।३४।।
तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव ।।
नानासुरनिकायैश्च विष्वग्भोगेच्छयोषितम् ।।३५।।
उत्सृजंतमिवार्घ्यं वै पत्रपुष्पैरितस्ततः ।।
केकिकेकारवैर्दूरात्कुर्वंतं स्वागतं किल ।। ३६ ।।
अथ सूर्यशताभासं नभसि द्योतितांबरम् ।।
नारदं दृष्टवाञ्छैलो दूरात्प्रत्युज्जगाम तम् ।। ३७ ।।
ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः ।।
तमागच्छंतमालोक्य मानसं तम उज्जहौ ।। ३८ ।।
ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः ।।
कठिनोपि परित्यज्य धत्ते मृदुलतां किल ।। ३९ ।।
दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः ।।
मुमुदे सुतरां संतः प्रश्रयग्राह्यमानसाः ।। 4.1.1.४० ।।
गृहानायांतमालोक्य गुरुंवाऽगुरुमेव वा ।।
योऽगुरुर्नम्रतां धत्ते स गुरुर्न गुरुर्गुरुः ।। ४१ ।।
तं प्रत्युच्चैः शिराःसोपि विनम्रतरकंधरः ।।
शैलस्त्विलामिलन्मौलिः प्रणनाम महामुनिम्।।४२।।
तमुत्थाप्य कराग्राभ्यामाशीर्भिरभिनंद्य च ।।
तदुद्दिष्टासनं भेजे मनसोपि समुच्छ्रितम् ।।४३।।
स दध्नामधुनाज्येन नीरार्द्राक्षतदूर्व या ।।
तिलैः कुशैः प्रसूनैस्तमष्टांगार्घ्यैरपूजयत् ।। ४४ ।।
गृहीतार्घ्यंकिल श्रांतं पादसंवाहनादिभिः ।।
गतश्रममथालोक्य बभाषे ऽवनतो गिरिः ।। ४५ ।।
अद्य सद्यः परिहृतं त्वदंघ्रिरजसारजः ।।
त्वदंगसंगिमहसा सहसाऽप्यांतरंतमः ।। ४६ ।।
सफलर्धिरहं चाद्य सुदिवाद्यच मे मुने ।।
प्राक्कृतैः सुकृतैरद्य फलितं मे चिरार्जितैः ।। ४७ ।।
धराधरत्वं कुलिषुमान्यं मेऽद्य भविष्यति ।।
इति श्रुत्वा तदा किंचिदुच्छुस्य स्थितवान्मुनिः ।। ४८ ।।
पुनरूचे कुलिवरः संभ्रमाप न्नमानसः ।।
उच्छ्वासकारणं ब्रह्मन्ब्रूहि सर्वार्थकोविद ।। ४९ ।।
अदृष्टं तव नोदृष्टं यदिष्टंविष्टपत्रये ।।
अनुक्रोशोत्र मयिचेदुच्यतां प्रणतोस्म्यहम् ।। 4.1.1.५० ।।
त्वदागमनजानन्दसंदोहैर्मे दुरारवः ।।
अलं न वक्तुमसकृत्तथाप्येकं वदाम्यहम् ।। ५१ ।।
धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः ।।
वर्ण्यते समुदायात्तदहमेको दधे धराम् ।। ५२ ।।
गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम् ।।
संबंधित्वात्पशुपतेः स एको मान्यभृत्सताम्।। ५३ ।।
नमेरुः स्वर्णपूर्णत्वाद्रत्नसा नुतयाथवा ।।
सुरसद्मतयावापि क्वापि मान्यो मतो मम ।। ५४ ।।
परं शतं न किंशैला इलाकलनकेलयः ।।
इह संति सतां मान्या मान्यास्ते तु स्वभूमिषु ।। ।।५५ ।।
मन्देहदेहसंदेहादुदयैकदयाश्रितः ।।
निषधोनौषधिधरोऽप्यस्तोप्यस्तमितप्रभः ।। ५६ ।।
नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः ।।
सर्पालयः समलयो रायं नावैति रैवतः ।। ५७ ।।
हेमकूटत्रिकूटाद्याः कृटोत्तरपदास्तुते ।।
किष्किंधक्रौंचसह्याद्या भारसह्या न ते भुवः ।। ५८ ।।
इति विंध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि ।।
अखर्वगर्वसंसर्गो न महत्त्वाय कल्पते ।। ५९ ।।
श्रीशैलमुख्याः किंशैलानेह संत्यमलश्रियः ।।
येषां शिखरमात्रादि दर्शनं मुक्तये सताम् ।। 4.1.1.६० ।।
अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः ।।
सत्यमुक्तं हि भवता गि रिसारंविवृण्वता ।। ६१ ।।
परं शैलेषु शैलेंद्रो मेरुस्त्वामवमन्यते ।।
मया निःश्वसितं चैतत्त्वयि चापि निवेदितम् ।। ६२ ।।
अथवा मद्विधानां हि केयं चिंता महात्मनाम् ।।
स्वस्त्यस्तु तुभ्यमित्युक्त्वा ययौ स व्योमवर्त्मनि ।। ६३ ।।
गते मुनौ निनिंदस्वमतीवोद्विग्नमानसः ।।
चिन्तामवाप महतीं विंध्यो र्वंध्यमनोरथः ।। ६४ ।।
विंध्य उवाच ।। ।।
धिग्जीवितंशास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य ।।
धिग्जीवितं ज्ञातिपराजितस्य धिग्जीवितं व्यथर्मनोरथस्य ।। ६५ ।।
कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ।।
रहः शर्म कथं तस्य यस्याभिभवनं रिपोः ।। ६६ ।।
अहोदवाग्निदवथुस्तथामां न स बाधते ।।
बाधते तु यथा चित्ते चिन्तासंतापसंततिः ।। ६७ ।।
युक्तमुक्तं पुराविद्भिश्चिन्तामूर्तिः सुदारुणा ।।
न भेषजैर्लंघनैर्वा न चान्यैरुपशाम्यति ।।६८।।
चिन्ताज्वरो मनुष्याणां क्षुधांनिद्रांबलं हरेत् ।।
रूपमुत्साहबुद्धिं श्री जीवितं च न संशयः ।। ६९ ।।
ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते ।।
असौ चिन्ताज्वरस्तीव्रः प्रत्यहं नवतां व्रजेत् ।। 4.1.1.७० ।।
धन्यो धन्वतरिर्नात्र चरकश्चरतीह न ।।
नासत्यावपिनाऽ सत्यावत्र चिन्ताज्वरे किल ।। ७१ ।।
किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम् ।।
उत्प्लुत्य तस्य शिरसि पतामि न पताम्यतः ।। ७२ ।।
शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित् ।।
पक्षहीनः कृतो यत्र धिगपक्षस्यचेष्टितम् ।। ७३ ।।
अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया ।।
भूमेर्भारभृतःप्रायो भवंति भ्रांति भूमयः ।। ७४ ।।
अलीकवाक्त्वमथवा संभाव्यं नारदे कथम् ।।
ब्रह्मचारिणि वेदज्ञे सत्यलोकनिवासिनि ।। ७५।।
युक्तायुक्तविचारोथ मादृशेनोपयुज्यते ।।
पराक्रमेष्वशक्तानां विचारं गाहते मनः ।। ७६ ।।
अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम् ।।
विश्वेशं शरणं यायां समे बुद्धिं प्रदास्यति ।। ७७।।
अनाथनाथः सर्वेषां विश्वनाथो हि गीयते ।।
क्षणं मनसि संचित्य भवेदित्थमसंशयम् ।। ७८ ।।
एतदेव करिष्यामि नेष्टं कालविलंबनम् ।।
विचक्षणैरुपेक्ष्यौ न वर्द्धमानौ परामयौ ।।७९।।
मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः ।।
सग्रहर्क्षगणो नूनं मन्यमानो बलाधिकम् ।। 4.1.1.८० ।।
इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः ।।
अनंतगगनस्यांतं कुर्वद्भिः शिखरैरिव ।। ८१ ।।
कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित् ।।
कर्तव्यश्चेत्प्रयत्नेन यथा नोपहसेज्जनः ।। ८२ ।।
निरुध्य ब्राध्नमध्वानं कृतकृत्य इवाद्रिराट् ।।
स्वस्थोऽभवद्भवाधीना प्राणिनां हि भविष्यता ।। ८३ ।।
यमद्ययमकर्तासौ दक्षिणं प्रक्रमिष्यति ।।
सकुलीनः स च श्रीमान्समहान्महितः स च ।। ८४ ।।
यावत्स्वश क्तिं शक्तोपि न दर्शयति कर्हिचित् ।।
तावत्स लंघ्यः सर्वेषां ज्वलनो दारुगो यथा ।। ८५ ।।
इति चिंतामहाभारं त्यक्त्वा तस्थौ स्थिरोद्यमः ।।
आकांक्षमाणस्तरणे रुदयं ब्राह्मणो यथा ।। ८६ ।।
इति श्रीस्कान्देमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे विन्ध्यवर्धनंनाम प्रथमोऽध्यायः ।। १ ।।