स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२७

विकिस्रोतः तः
Jump to navigation Jump to search

स्कंद उवाच ।।
वाराणसीति प्रथितं यथा चानंदकाननम् ।।
तथा च कथयामीह देवदेवेनभाषितम् ।। १ ।।
।। ईश्वर उवाच ।। ।।
निशामय महाबाहो विष्णो त्रैलोक्यसुंदर ।।
प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा ।। २ ।।
निर्दग्धान्सागराञ्छ्रुत्वा कपिलक्रोधवह्निना ।।
अश्वमेधाश्वसंयुक्तान्पूर्वजान्स्वान्भगीरथः ।। ३ ।।
सूर्यवंशे महातेजा राजा परमधार्मिकः ।।
आरिराधयिषुर्गंगां तपसे कृतनिश्चयः ।।४।।
हिमवंतं नगश्रेष्ठममात्य न्यस्तराज्यधूः ।।
जगाम यशसां राशिरुद्दिधीर्षुः पितामहान् ।। ५ ।।
ब्रह्मशापाग्निनिर्दग्धान्महादुर्गतिगानपि ।।
विना त्रिमार्गगां विष्णो को जंतूंस्त्रिदिवं नयेत् ।। ६ ।।
ममैव सा परामूर्तिस्तोयरूपा शिवात्मिका ।।
ब्रह्मांडानामनेकानामाधारः प्रकृतिः परा ।। ७ ।।
शुद्धविद्यास्वरूपा च त्रिशक्तिः करुणात्मिका ।।
आनंदामृतरूपा च शुद्धधर्मस्वरूपिणी ।। ८ ।।
यामेतां जगतां धात्रीं धारयामि स्वलीलया ।।
विश्वस्य रक्षणार्थाय परब्रह्मस्वरूपिणीम् ।। ९ ।।
त्रैलोक्ये यानि तीर्थानि पुण्यक्षेत्राणि यानि च ।।
सर्वत्र सर्वे ये धर्माः सर्वयज्ञाः सदक्षिणाः ।। 4.1.27.१० ।।
तपांसि विष्णो सर्वाणि श्रुतिः सांगा चतुर्विधा ।।
अहं च त्वं च कश्चापि देवतानां गणाश्च ये ।। ।। ११ ।।
पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः ।।
गंगायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः ।। १२ ।।
स स्नातः सर्वतीर्थेषु सर्वक्रतुषु दीक्षितः ।।
चीर्णसर्वव्रतः सोपि यस्तु गंगां निषेवते ।। १३ ।।
तपांसि तेन तप्तानि सर्वदानप्रदः स च ।।
स प्राप्त योगनियमो यस्तु गंगां निषेवते ।।१४।।
सर्ववर्णाश्रमेभ्यश्च वेदविद्भ्यश्च वै तथा ।।
शास्त्रार्थपारगेभ्यश्च गंगास्नायी विशिष्यते ।। १५ ।।
मनोवाक्कायजैर्दोषैर्दुष्टो बहुविधैरपि ।।
वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः ।।१६।।
कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं परम् ।।
द्वापरे तु कुरुक्षेत्रं कलौ गंगैव केवलम् ।। १७ ।।
पूर्वजन्मांतराभ्यास वासनावशतो हरे ।।
गंगातीरे निवासः स्यान्मदनुग्रहतः परात् ।। १८ ।।
ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः ।।
द्वापरे तद्द्वयं यज्ञाः कलौ गंगैव केवलम् ।। १९ ।।
यो देहपतनाद्यावद्गंगातीरं न मुंचति ।।
स हि वेदांतविद्योगी ब्रह्मचर्यव्रती सदा ।। 4.1.27.२० ।।
कलौ कलुषचित्तानां परद्रव्यरतात्मनाम् ।।
विधिहीनक्रियाणां च गतिर्गंगा विना नहि ।। २१ ।।
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् ।।
गंगागंगेति जपनात्तानि नोपविशंति हि ।। २२ ।।
गंगा हि सर्वभूतानामिहामुत्र फलप्रदा ।।
भावानुरूपतो विष्णो सदा सर्वजगद्धिता ।। २३ ।।
यज्ञ दान तपो योग जपाः सनियमा यमाः ।।
गंगासेवासहस्रांशं न लभंते कलौ हरे ।। २४ ।।
किमष्टांगेन योगेन किं तपोभिः किमध्वरैः ।।
वास एव हि गंगायां ब्रह्मज्ञानस्य कारणम् ।। २५ ।।
अपि दूरस्थितस्यापि गंगामाहात्म्यवेदिनः ।।
अयोग्यस्यापि गोविंदभक्त्या गंगा प्रसीदति ।। २६ ।।
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः ।।
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति ।। २७ ।।
अज्ञानरागलोभाद्यैः पुंसां संमूढचेतसाम् ।।
श्रद्धा न जायते धर्मे गंगायां च विशेषतः ।। २८ ।।
बहिः स्थितं जलंयद्वन्नारिकेलांतरे स्थितम् ।।
तथा ब्रह्मांडबाह्यस्थं परब्रह्मांबु जाह्नवी ।। २९ ।।
गंगालाभात्परो लाभः क्वचिदन्यो न विद्यते ।।
तस्माद्गंगामुपासीत गंगैव परमः पुमान् ।।4.1.27.३०।।
शक्तस्य पंडितस्यापि गुणिनो दानशीलिनः ।।
गंगास्नानविहीनस्य हरे जन्म निरर्थकम् ।। ३१ ।।
वृथा कुल वृथा विद्या वृथा यज्ञा वृथातपः ।।
वृथा दानानि तस्येह कलौ गंगां न यो भजेत् ।। ३२ ।।
गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम् ।।
यथा गंगाजलस्नान पूजने विधिना फलम् ।। ३३ ।।
ममतेजोग्निगर्भेयं ममवीर्यातिसंवृता ।।
दाहिका सर्वदोषाणां सर्वपापविनाशिनी ।। ३४ ।।
स्मरणादेव गंगायाः पापसंघातपंजरम् ।।
शतधा भेदमायाति गिरिर्वज्रहतो यथा ।। ३५ ।।
गंगां गच्छति यस्त्वेको यस्तु भक्त्यानुमोदयेत् ।।
तयोस्तुल्यफलं प्राहुर्भक्तिरेवात्र कारणम्।। ।। ३६ ।।
गच्छंस्तिष्ठञ्जपन्ध्यान्भुंजञ्जाग्रत्स्वपन्वदन् ।।
यः स्मरेत्सततं गंगां स हि मुच्येत बंधनात् ।। ३७ ।।
पितॄनुद्दिश्य योभक्त्या पायसं मधुसंयुतम् ।।
गुडसर्पिस्तिलैःसार्धं गंगांभसि विनिक्षिपेत् ।। ३८ ।।
तृप्ता भवंति पितरस्तस्य वर्षशतं हरे ।।
यच्छंति विविधान्कामान्परितुष्टाः पितामहाः ।। ।। ३९ ।।
लिंगे संपूजिते सर्वमर्चितं स्याज्जगद्यथा ।।
गंगास्नानेन लभते सर्वतीर्थफलं तथा ।। 4.1.27.४० ।।
गंगायां तु नरः स्नात्वा यो लिंगं नित्यमर्चति ।।
एकेन जन्मना मुक्तिं परां प्राप्नोति स ध्रुवम् ।। ४१ ।।
अग्निहोत्रं च यज्ञाश्च व्रतदानतपांसि च ।।
गंगायां लिंगपूजायाः कोट्यंशेनापि नो समाः ।। ४२ ।।
गंगां गंतुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे ।।
स्थितस्य सम्यक्संकल्पात्तस्य नंदंति पूर्वजाः ।। ४३ ।।
पापानि च रुदंत्याशु हा क्व यास्याम इत्यलम् ।।
लोभमोहादिभिः सार्धं मंत्रयंति पुनःपुनः ।। ४४ ।।
यथा न गंगां यात्येष तथा विघ्नं प्रकुर्महे ।।
गंगां गतो यथा चैष न उच्छित्तिं विधास्यति ।। ४५ ।।
गृहाद्गंगावगाहार्थं गच्छतस्तु पदेपदे ।।
निराशानि व्रजंत्येव पापान्यस्य शरीरतः ।। ४६।।
पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे ।।
व्युदस्य सर्वविघ्नौघान्गंगां प्राप्नोति पुण्यवान् ।। ४७ ।।
अनुषंगेण मौल्येन वाणिज्येनापि सेवया ।।
कामासक्तोपि वा मर्त्यो गंगास्नातो दिवं व्रजेत् ।। ४८ ।।
अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत् ।।
अनिच्छयापि संस्नाता गंगा पापं तथा दहेत् ।। ४९ ।।
तावद्धमति संसारे यावद्गंगां न सेवते ।।
संसेव्य गंगां नो जंतुर्भवक्लेशं प्रपश्यति ।। 4.1.27.५० ।।
यो गंगांभसि निस्नातो भक्त्या संत्यक्तसंशयः ।।
मनुष्यचर्मणा नद्धः स देवो नात्र संशयः ।। ५१ ।।
गंगास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि ।।
गंगास्नानफलं सोपि तदाप्नोति न संशयः ।। ५२ ।।
माहात्म्यं ये च गंगायाः शृण्वंति च पठंति च ।।
तेप्यशेषैर्महापापैर्मुच्यंते नात्र संशयः ।। ५३ ।।
दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः ।।
पश्यंति मोहिता विष्णो गंगामन्य नदीमिव ।। ५४ ।।
जन्मांतरकृतैर्दानैस्तपोभिर्नियमैर्व्रतैः ।।
इह जन्मनि गंगायां नृणां भक्तिः प्रजायते ।। ५५ ।।
गंगाभक्तिमतामर्थे महेंद्रादि पुरेषु च ।।
हर्म्याणि रम्यभोगानि निर्मितानि स्वयंभुवा ।। ५६ ।।
सिद्धयः सिद्धिलिंगानि स्पर्शलिंगान्यनेकशः ।।
प्रासादा रत्नरचिताश्चिंतामणिगणा अपि ।। ५७ ।।
गंगाजलांतस्तिष्ठंति कलिकल्मषभीतितः ।।
अतएव हि संसेव्या कलौ गंगेष्टसिद्धिदा ।। ५८ ।।
सूर्योदये तमांसीव वज्रपातभयान्नगाः ।।
तार्क्ष्येक्षणाद्यथासर्पा मेघा वाताहता इव ।। ५९ ।।
तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः ।।
तथा सर्वाणि पापानि यांति गंगेक्षणात्क्षयम् ।। 4.1.27.६० ।।
दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः ।।
यथा ग्रीष्मोष्मसंपत्तिरगाधह्रद मज्जनात् ।। ६१ ।।
तूलशैलः स्फुलिंगेन यथा नश्यति तत्क्षणात् ।।
तथा दोषाः प्रणश्यंति गंगांभः स्पर्शनाद्ध्रुवम् ।। ६२ ।।
क्रोधेन च तपो यद्वत्कामेन च यथा मतिः ।।
अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा ।। ६३ ।।
दंभ कौटिल्य मायाभिर्यथाधर्मो विनश्यति ।।
तथा नश्यंति पापानि गंगाया दर्शनेन तु ।। ६४ ।।
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम् ।।
गंगां यः सेवते सोत्र बुद्धेः पारं परं गतः ।। ६५ ।।
विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम् ।।
सहस्रसूर्यप्रतिमां गंगां पश्यंति ते भुवि ।। ६६ ।।
साधारणांभसा पूर्णां साधारण नदीमिव।।
पश्यंति नास्तिका गंगां पापोपहतलोचनाः ।। ६७ ।।
संसारमोचकश्चाहं जनानामनुकंपया ।।
गंगातरंगरूपेण सोपानं निर्ममे दिवः ।। ६८ ।।
सर्व एव शुभः कालः सर्वो देशस्तथा शुभः ।।
सर्वो जनो दानपात्रं श्रीमती जाह्नवी तटे ।। ६९ ।।
यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा ।।
व्रतानां च यथा सत्यं दानानामभयं यथा ।। 4.1.27.७० ।।
प्राणायामश्च तपसां मंत्राणां प्रणवो यथा ।।
धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा ।। ७१ ।।
यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा ।।
सर्वर्दवेगणानां च यथा त्वं पुरुषोत्तम ।।। ७२ ।।
सर्वषामेव पात्राणां शिवभक्तो यथा वरः ।।
तथा सर्वेषु तीर्थेषु गंगातीर्थं विशिष्यते ।। ७३ ।।
हरेयश्चावयोर्भेदं न करोति महामतिः ।।
शिवभक्तः स विज्ञेयो महापाशुपतश्च सः ।। ७४ ।।
पापपांसुमहावात्या पापद्रुमकुठारिका ।।
पापेंधनदवाग्निश्च गंगेयं पुण्यवाहिनी ।। ७५ ।।
नानारूपाश्च पितरो गाथा गायंति सर्वदा ।।
अपि कश्चित्कुलेस्माकं गंगास्नायी भविष्यति ।। ७६ ।।
देवर्षीन्परिसंतर्प्य दीनानाथांश्च दुःखितान् ।।
श्रद्धया विधिना स्नात्वा दास्यते सलिलांजलिम् ।। ७७ ।।
अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक् ।।
तदालयकरो भक्त्या तस्य संमार्जनादिकृत् ।। ७८ ।।
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ।।
गंगायां यो मृतो मर्त्यो नरकं स न पश्यति ।।७९।।
तीर्थमन्यत्प्रशंसंति गंगातीरे स्थिताश्च ये ।।
गंगां न बहु मन्यंते ते स्युर्निरयगामिनः ।।4.1.27.८०।।
मां च त्वां चैव यो द्वेष्टि गंगां च पुरुषाधमः।।
स्वकीयैः पुरुषैः सार्धं स घोरं नरकं व्रजेत् ।। ८१ ।।
षष्टिर्गणसहस्राणि गंगां रक्षंति सर्वदा ।।
अभक्तानां च पापानां वासे विघ्नं प्रकुर्वते ।। ८२ ।।
कामक्रोधमहामोहलोभादि निशितैः शरैः ।।
घ्नंति तेषां मनस्तत्र स्थितिं चापनयंति च ।। ८३ ।।
गंगां समाश्रयेद्यस्तु स मुनिः स च पंडितः ।।
कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये ।। ८४ ।।
गंगायां च सकृत्स्नातो हयमेधफलं लभेत् ।।
तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात् ।। ८५ ।।
नैरंतर्येण गंगायां मासं यः स्नाति पुण्यवान् ।।
शक्रलोके स वसति यावच्छक्रः सपूर्वजः ।। ८६ ।।
अब्दं यः स्नाति गंगायां नैरंतर्येण पुण्यभाक् ।।
विष्णोर्लोकं समासाद्य स सुखं संवसेन्नरः ।। ८७ ।।
गंगायां स्नाति यो मर्त्यो यावज्जीवं दिनेदिने ।।
जीवन्मुक्तः स विज्ञेयो देहांते मुक्त एव सः ।। ।।८८ ।।
तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवी जले ।।
स्नानमात्रेण गंगायां संचिताघं विनश्यति ।। ८९ ।।
पंडितोपि स मूर्खः स्याच्छक्तियुक्तोप्यशक्तिकः ।।
यस्तु भागीरथीतीरं सुखसेव्यं न संश्रयेत् ।। 4.1.27.९० ।।
किंवायुपाप्यरोगेण विकासिन्याथ किं श्रिया ।।
किं वा बुद्ध्या विमलया यदि गंगां न सेवते ।। ९१ ।।
यः कारयेदायतनं गंगाप्रतिकृतेर्नरः ।।
भुक्त्वा स भोगान्प्रेत्यापि याति गंगा सलोकताम् ।। ९२।।
शृण्वंति महिमानं ये गंगाया नित्यमादरात् ।।
गंगास्नानफलं तेषां वाचकप्रीणनाद्धनैः ।।९३।।
पितॄनुद्दिश्य यो लिंगं स्नपयेद्गांग वारिणा ।।
तृप्ताः स्युस्तस्य पितरो महानिरयगा अपि ।। ९४ ।।
अष्टकृत्वो मंत्रजप्तैर्वस्त्रपूतैः सुगंधिभिः ।।
प्रोचुर्गांगजलैः स्नानं घृतस्नानाधिकं बुधाः ।। ९५ ।।
अष्टद्रव्यविमिश्रेण गंगातोयेन यः सकृत् ।।
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ।। ९६ ।।
भानवेऽर्घं प्रदद्याच्च स्वकीय पितृभिः सह ।।
सोतितेजो विमानेन सूर्यलोके महीयते ।। ९७ ।।
आपः क्षीरं कुशाग्राणि घृतं मधुगवांदधि ।।
रक्तानि करवीराणि रक्तचंदनमित्यपि ।। ९८ ।।
अष्टांगार्घो यमुद्दिष्टस्त्वतीव रवितोषणः ।।
गांगैर्वार्भिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः ।। ९९ ।।
गंगातीरे स्वशक्त्या यः कुर्याद्देवालयं सुधीः ।।
अन्यतीर्थप्रतिष्ठातो भवेत्कोटिगुणं फलं ।। 4.1.27.१०० ।।
अश्वत्थवटचूतादि वृक्षारोपेण यत्फलम् ।।
कूपवापीतडागादि प्रपा सत्रादिभिस्तथा ।। १ ।।
अन्यत्र यद्भवेत्पुण्यं तद्गंगादर्शनाद्भवेत् ।।
पुष्पवाट्यादिभिश्चापि गंगास्पर्शं ततोऽधिकम् ।।२।।
कन्यादानेन यत्पुण्यं यत्पुण्यं गोऽन्नदानतः ।।
तत्पुण्यं स्याच्छतगुणं गंगागंडूषपानतः ।। ३ ।।
चांद्रायणसहस्रेण यत्पुण्यं स्याज्जनार्दन ।।
ततोऽधिकफलं गंगाऽमृतपानादवाप्नुयात् ।। ४ ।।
भक्त्या गंगावगाहस्य किमन्यत्फलमुच्यते ।।
अक्षयः स्वर्गवासोपि निर्वाणमथवा हरे ।। ५ ।।
गंगायाः पादुकायुग्मं नित्यमर्चति यो नरः ।।
आयुः पुण्यं धनं पुत्रान्स्वर्गमोक्षौ च विंदति ।। ६ ।।
नास्ति गंगासमं तीर्थं कलिकल्मषनाशनम् ।।
नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे ।। ७ ।।
गंगास्नानरतं मर्त्यं दृष्ट्वैव यमकिकराः ।।
दिशो दश पलायंते सिंहं दृष्ट्वा यथा मृगाः ।। ८ ।।
गंगाभजनशीलस्य गंगातटनिवासिनः ।।
अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत् ।। ९ ।।
गोभूहिरण्यदानेन भक्त्या गंगातटे शुभे ।।
नरो न जायते भूयः संसारे दुःखकंटके ।।4.1.27.११० ।।
दीर्घायुष्यं च वासोभिर्ज्ञानं पुस्तकदानतः ।।
अन्नदानेन संपत्तिं कीर्तिं कन्याप्रदानतः ।। ११ ।।
अन्यत्र यत्कृतं कर्म व्रतं दानं जपस्तपः ।।
गंगातटे तु तत्सर्वं हरे कोटिगुणं भवेत् ।। १२ ।।
धेनुं सवत्सा यो दद्याद् गंगातीरे विधानतः ।।
गोरोमसंख्यया विष्णो युगान्सर्वसमृद्धिमान् ।। १३ ।।
गोलोके मम लोके वा कामधेनुप्रदानतः ।।
भुंजानः सर्वकामांस्तु दिव्यान्नानाविधान्बहून् ।। १४ ।।
देवानामप्यलभ्यांश्च भुक्त्वा तु सह बांधवैः ।।
पितृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः ।। १५ ।।
जायते सत्कुले पश्चाद्धनधान्यसमाकुले ।।
रत्नकांचनसंपन्ने शीलविद्यासमन्विते ।। १६ ।।
भुक्त्वा स विपुलान्भोगान्पुत्रपौत्रसमन्वितः ।।
पुनर्गंगां समासाद्य काश्यामुत्तरवाहिनीम् ।। १७ ।।
विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात् ।।
कालाद्देहांतमासाद्य ब्रह्म संपद्यते ततः ।। १८ ।।
विवर्तनद्वयमपि भूमेर्भागीरथीतटे ।।
नरो ददाति यो भक्त्या तस्य पुण्यफलं शृणु ।। १९ ।।
तद्भूमित्रसरेणूनां संख्यया युगमानया ।।
महेंद्र चंद्रलोकेषु भुक्त्वा भोगान्मनःप्रियान् ।। 4.1.27.१२० ।।
सप्तद्वीपपतिर्भूत्वा महाधर्मपरायणः ।।
नरकस्थान्पितॄन्सर्वान्प्रापयेत्त्रिदिवं हरे ।।२१।।
स्वर्गस्थांश्च पितॄन्सर्वान्मोचयित्वा महाद्युतिः ।।
अंते ज्ञानासिना छित्त्वा ह्यविद्यां पांचभौतिकीम् ।। २२ ।।
परवैंराग्यमापन्नो युंजानो योगमुत्तमम् ।।
प्राप्याथवा विमुक्तं च परं ब्रह्माधिगच्छति ।। ।। २३ ।।
सुवर्णमात्रमपि यः सुवर्णं संप्रयच्छति ।।
सुवर्णाय सुवर्णं च हरे भागीरथीतटे ।। २४ ।।
स हेमरत्नखचिते विमाने सर्वगे शुभे ।।
सर्वैश्वर्यसमायुक्तः सर्वलोकेषु पूजितः ।। २५ ।।
ब्रह्मांडांतरसंस्थेषु भुंजन्भोगान्मनोरमान् ।।
सर्वैः संपूजितो विष्णो यावदाभूतसंप्लवम् ।। २०५ ।।
एकराट्च ततो भूत्वा जंबूद्वीपे प्रतापवान् ।।
ततोऽविमुक्तमासाद्य पदं निर्वाणमृच्छति ।। २७ ।।
जन्मर्क्षे तु कृते स्नाने गंगायां भक्तिपूर्वकम् ।।
जन्मप्रभृतिपापौघात्संचितान्मुच्यते क्षणात् ।। २८ ।।
वैशाखे कार्तिके माघे गंगास्नानं सुदुर्लभम् ।।
दर्शे शतगुणं पुण्यं संक्रातौ च सहस्रकम् ।।२९।।
चंद्रसूर्यग्रहे लक्षं व्यतीपातेत्वनंतकम् ।।
अयुतं विषुवे चैव नियुतं त्वयनद्वये ।। 4.1.27.१३० ।।
सोमग्रहः सोमदिने रविवाररवग्रहः ।।
तच्चूडामणिपर्वाख्यं तत्रस्नानमसंख्यकम् ।। ३१ ।।
स्नानं दानं जपो होमो यद्यच्चूडामणौ कृतम् ।।
तदक्षयं सर्वमिह विष्णो भागीरथीतटे ।। ३२ ।।
श्रद्धया भक्तियुक्तस्तु गंगां स्नात्वा विधानतः ।।
ब्रह्महापि विशुद्ध्येत किंपुनस्त्वन्य पातकी ।। ३३ ।।
कृमिकीटपतंगाद्या ये मृता जाह्नवीतटे ।।
कूलात्पतंति ये वृक्षास्तेपि यांति परां गतिम् ।। ३४ ।।
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ।।
गंगातीरे तु पुरुषो नारी वा भक्तिभावतः ।।. ३५ ।।
निशायां जागरं कुयाद्गंगां दशविधैर्हरे ।।
पुष्पैः सुगंधैर्नैवेद्यैः फलैर्दशदशोन्मितैः ।।३६।।
प्रदीपैर्दशभिर्धूपैर्दशांगैर्गरुडध्वज ।।
पूजयेच्छ्रद्धया धीमान्दशकृत्वो विधानतः ।। ३७ ।।
साज्यांस्तिलान्क्षिपेत्तोये गंगायाः प्रसृतीर्दश ।।
गुडसक्तुमयान्पिंडान्दद्याच्च दशमंत्रतः ।। ३८ ।।
नमः शिवायै प्रथमं नारायण्यै पदं ततः ।।
दशहरायै पदमिति गंगायै मंत्र एष वै ।। ३९ ।।
स्वाहांतः प्रणावादिश्च भवेद्विंशाक्षरो मनुः ।।
पूजादानं जपो होमो ऽनेनैव मनुना स्मृतः ।। 4.1.27.१४० ।।
हेम्ना रूप्येण वा शक्त्या गंगामूर्तिं विधाय च ।।
वस्त्राच्छादितवक्त्रस्य पूर्णकुंभस्य चोपरि ।। ४१ ।।
प्रतिष्ठाप्यार्चयेद्देवीं पंचामृतविशोधिताम् ।।
चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ।। ४२ ।।
लावण्यामृतनिष्पंद संशीलद्गात्रयष्टिकाम् ।।
पूर्णकुंभसितांभोज वरदाभयसत्कराम् ।। ४३ ।।
ततो ध्यायेत्सुसौम्या च चंद्रायुतसमप्रभाम् ।।
चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम ।। ४४ ।।
सुधाप्लावितभूपृष्ठां दिव्यगंधानुलेपनाम् ।।
त्रैलौक्यपूजितपदां देवर्षिभिरभिष्टुताम् ।। ४५ ।।
ध्यात्वा समर्च्य मंत्रेण धूपदीपोपहारतः ।।
मां च त्वां च विधिं ब्रध्नं हिमवंतं भगीरथम् ।। ४६ ।।
प्रतिमाग्रे समभ्यर्च्य चंदनाक्षतनिर्मितान् ।।
दशप्रस्थतिलान्दद्याद्दशविप्रेभ्य आदरात् ।। ४७ ।।
पलं च कुडवः प्रस्थ आढको द्रोण एव च ।।
धान्यमानेन बोद्धव्याः क्रमशोमी चतुर्गुणाः ।। ४८ ।।
मत्स्य कच्छप मंडूक मकरादि जलेचरान् ।।
हंसकारंडव बक चक्रटिट्टिभसारसान् ।। ४९ ।।
यथाशक्ति स्वर्णरूप्य ताम्रपृष्ठविनिर्मितान् ।।
अभ्यर्च्य गंधकुसुमैर्गंगायां प्रक्षिपेद्व्रती ।। 4.1.27.१५० ।।
एवं कृत्वा विधानेन वित्तशाठ्यं विवर्जितः ।।
उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते ।। ५१ ।।
अदत्तानामुपादानं हिंसाचैवाविधानतः ।।
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ।। ५२ ।।
पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ।।
असंबद्ध प्रलापश्च वाङ्मयंस्याच्चतुर्विधम् ।। ५३ ।।
परद्रव्येष्वभिध्यानं मनसानिष्टचिंतनम् ।।
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ।। ।। ५४ ।।
एतैर्दशविधैः पापैर्दशजन्मसमुद्भवैः ।।
मुच्यते नात्र संदेहः सत्यं सत्यं गदाधर ।। ५५ ।।
उत्तरेन्नरकात्पूर्वान्दशघोराद्दशावरान् ।।
वक्ष्यमाणमिदं स्तोत्रं गंगाग्रे श्रद्धया जपेत् ।। ५६ ।।
ॐ नमः शिवायै गंगायै शिवदायै नमोनमः ।।
नमस्ते विष्णुरूपिण्यै ब्रह्ममूर्त्त्यै नमोस्तु ते ।। ५७ ।।
नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः ।।
सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये ।। ५८ ।।
सर्वस्यसर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते ।।
स्थास्नुजंगमसंभूत विषहंत्र्यै नमोस्तु ते ।। ५९ ।।
संसारविषनाशिन्यै जीवनायै नमोस्तु ते ।।
तापत्रितय संहंत्र्यै प्राणेश्यै ते नमोनमः ।। 4.1.27.१६० ।।
शांति संतानकारिण्यै नमस्ते शुद्धमूर्तये ।।
सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये ।।६१।।
भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमोनमः ।।
भोगोपभोगदायिन्यै भोगवत्यै नमोस्तु ते ।। ६२ ।।
मंदाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः ।।
नमस्त्रैलोक्यभूषायै त्रिपथायै नमोनमः ।। ६३ ।।
नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमोनमः ।।
त्रिहुताशनसंस्थायै तेजोवत्यै नमोनमः ।। ६४ ।।
नंदायै लिंगधारिण्यै सुधाधारात्मने नमः ।।
नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ।। ६५ ।।
बृहत्यै ते नमस्तेस्तु लोकधात्र्यै नमोस्तु ते ।।
नमस्ते विश्वमित्रायै नंदिन्यै ते नमोनमः ।। ६६ ।।
पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ।।
परापरशताढ्यायै तारायै ते नमोनमः ।। ६७ ।।
पाशजालनिकृंतिन्यै अभिन्नायै नमोस्तु ते ।।
शांतायै च वरिष्ठायै वरदायै नमोनमः ।।६८।।
उग्रायै सुखजग्ध्यै च संजीविन्यै नमोस्तु ते ।।
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ।। ६९ ।।
प्रणतार्ति प्रभंजिन्यै जगन्मात्रे नमोस्तुते ।।
सर्वापत्प्रतिपक्षायै मंगलायै नमोनमः ।। 4.1.27.१७० ।।
शरणागतदीनार्त परित्राणपरायणे ।।
सर्वस्यार्ति हरे देवि नारायणि नमोस्तु ते ।। ७१ ।।
निर्लेपायै दुर्गहंत्र्यै दक्षायै ते नमोनमः ।।
परापरपरायै च गंगे निर्वाणदायिनि ।। ७२ ।।
गंगे ममाग्रतो भूया गंगे मे तिष्ठ पृष्ठतः ।।
गंगे मे पार्श्वयोरेधि गंगे त्वय्यस्तु मे स्थितिः ।। ७३ । ।
आदौ त्वमंते मध्ये च सर्वं त्वं गां गते शिवे ।।
त्वमेव मूलप्रकृतिस्त्वं पुमान्पर एव हि ।।
गंगे त्वं परमात्मा च शिवस्वतुभ्यं नमः शिवे ।। ७४ ।।
य इदं पठते स्तोत्रं शृणुयाच्छ्रद्धयापि यः ।।
दशधा मुच्यते पापैः कायवाक्चित्तसंभवैः ।। ।। ७५ ।।
रोगस्थो रोगतो मुच्येद्विपद्भ्यश्च विपद्युतः ।।
मुच्यते बंधनाद्बद्धो भीतो भीतः प्रमुच्यते ।। ७६ ।।
सर्वान्कामानवाप्नोति प्रेत्य च त्रिदिवं व्रजेत् ।।
दिव्यं विमानमारुह्य दिव्यस्त्रीपरिवीजितः ।। ७७ ।।
गृहेपि लिखितं यस्य सदा तिष्ठति धारितम ।।
नाग्निचोरभयं तस्य न सर्पादि भयं क्वचित ।। ७८ ।।
ज्येष्ठे मासे सिते पक्षे दशमी हस्तसंयुता ।।
संहरेत्त्रिविधं पापं बुधवारेण संयुता ।। ७९ ।।
तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः ।।
यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ।। 4.1.27.१८० । ।
सोपि तत्फलमाप्नोति गंगां संपूज्य यत्नतः ।।
पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम ।। ८१ ।।
यथा गौरी तथा गंगा तस्माद्गौर्यास्तु पूजने ।।
यो विधिर्विहितः सम्यक्सोपि गंगाप्रपूजने ।। ८२ ।।
यथाऽहं त्वं तथा विष्णो यथा त्वं तु तथाह्युमा ।।
उमा यथा तथा गंगा चतूरूपं न भिद्यते ।। ८३ ।।
विष्णुरुद्रां तरं चैव श्रीगौर्योरंतरं तथा ।।
गंगागौर्यंतरं चैव यो ब्रूते मूढधीस्तु सः ।। ८४ ।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमवर्णनपूर्वक दशहरा स्तोत्रकथनंनाम सप्तविंशतितमोऽध्यायः ।। २७ ।।