स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१७

विकिस्रोतः तः
Jump to navigation Jump to search

।। शिवशर्मोवाच ।। ।।
शुक्रसंबंधिनी देवौ कथा श्रावि मया शुभा ।।
यस्याः श्रवणमात्रेण प्रीणिते श्रवणे मम ।। १ ।।
कस्य पुण्यनिधेर्लोकः शोकहृत्त्वेष निर्मलः ।।
एतदाख्यातुमुद्युक्तौ भवंतौ भवतां मम ।। २ ।।
धयित्वा श्रोत्रपात्राभ्यां वाणीममृतरूपिणीम् ।।
न तृप्तिमधिगच्छामि भवन्मुखसुखोद्गताम् ।।३।।
।। गणावूचतुः ।। ।।
लोहितांगस्य लोकोयं शिवशर्मन्निबोध ह ।।
उत्पत्तिं चास्य वक्ष्यावो भूसुतोयं यथाभवत् ।। ४ ।।
पुरा तपस्यतः शंभोर्दाक्षायण्या वियोगतः ।।
भालस्थलात्पपातैकः स्वेदबिंदुर्महीतले ।। ५ ।।
ततः कुमारः संजज्ञे लोहितांगो महीतलात् ।।
स्नेहसंवर्धितः सोथ धात्र्या धात्रीस्वरूपया ।। ६ ।।
माहेय इत्यतः ख्यातिं परामेष गतः सदा ।।
ततस्तेपे तपोत्युग्रमुग्रपुर्यां पुरानघ ।। ७ ।।
असिश्च वरणा चापि सरितौ यत्र शोभने ।।
द्युनद्योत्तरवाहिन्या मिलितेऽत्र जगद्धिते ।। ८ ।।
सर्वगोपि हि विश्वेशो यत्र नित्यं प्रकाशते ।।
मुक्तये सर्वजंतूनां कालोज्ज्ञित स्ववर्ष्मणाम् ।। ९ ।।
अमृतं हि भवंत्येव मृता यत्र शरीरिणः ।।
अनुग्रहं समासाद्य परं विश्वेश्वरस्य ह ।। 4.1.17.१० ।।
अपुनर्भवदेहास्ते येऽविमुक्रेतनुत्यजः ।।
विना सांख्येन योगेन विना नानाव्रतादिभिः ।। ११ ।।
संस्थाप्य लिंगं विधिना स्वनाम्नांगारकेश्वरम् ।।
पांचमुद्रे महास्थाने कंबलाश्वतरोत्तरे ।। १२ ।।
ज्वलदंगारवत्तेजो यावत्तस्यशरीरतः ।।
विनिर्ययौ तपस्तावत्तेन तप्तं महात्मना ।। १३ ।।
ततोंगारक नाम्ना स सर्वलोकेषु गीयते ।।
तस्य तुष्टो महादेवो ददौ ग्रहपदं महत् ।। १४ ।।
अंगारक चतुर्थ्यां ये स्नात्वोत्तरवहांभसि ।।
अभ्यर्च्यांगारकेशानं नमस्यंति नरोत्तमाः ।।१५ ।।
न तेषां ग्रहपीडा च कदाचित्क्वापि जायते ।।
अंगांरकेन संयुक्ता चतुर्थी लभ्यते यदि ।।१६।।
उपरागसमं पर्व तदुक्तं कालवेदिभिः ।।
तस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ।।१७।।
श्रद्धया श्राद्धदा ये वै चतुर्थ्यंगारयोगतः ।।
तेषां पितॄणां भविता तृप्तिर्द्वादशवार्षिकी ।। १८ ।।
अंगारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः ।।
अतएव तु तत्पर्व प्रोक्तं पुण्यसमृद्धये ।। १९।।
एकभक्तव्रती तत्र संपूज्य गणनायकम्।।
किंचिद्दत्त्वा तमुद्दिश्य न विघ्नैरभिभूयते ।। 4.1.17.२० ।।
अंगारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः ।।
तेऽस्मिन्नंगारके लोके वसंति परमर्द्धयः ।।२१।।
अगस्त्य उवाच ।। ।।
इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम् ।।
भगवद्गणयोः प्राप नेत्रातिथ्यं गुरोः पुरी ।। २२ ।।
नेत्रानंदकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम् ।।
पप्रच्छाचार्यवर्यस्य कस्येयं पूरनुत्तमा ।। २३ ।।
।। गणावूचतुः ।। ।।
सखे सुखं समाख्यावो नानाख्येयं तवाग्रतः ।।
अध्वखेदापनोदाय पुनरस्याः पुरः कथाम्।। २४ ।।
विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा ।।
आविरासुः सुताः सप्त मानसाः स्वस्यसंनिभाः ।। २५ ।।
मरीच्यत्र्यंगिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः ।।
प्रजापतेरंगिरसस्तेष्वभूद्देवसत्तमः ।। २६ ।।
सुतश्चांगिरसो नाम बुद्ध्या विबुधसत्तमः ।।
शांतो दांतो जितक्रोधो मृदुवाङ्निर्मलाशयः ।। २७ ।।
वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः ।।
पारदृश्वा तु सर्वेषां शास्त्राणां नीतिवित्तमः ।। २८ ।।
हितोपदेष्टा हितकृदहितात्यहितः सदा ।।
रूपवाञ्छीलसंपन्नो गुणवान्देशकालवित् ।। २९ ।।
सर्वलक्षणसंभार संभृतो गुरुवत्सलः ।।
तताप तापसीं वृत्तिं काश्यां स महतीं दधत ।। 4.1.17.३० ।।
महल्लिंगं प्रतिष्ठाप्य शांभवं भूरिभावनः ।।
अयुतं शरदां दिव्यं दिव्यतेजा महातपाः ।।३१।।
ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः ।।
आविर्भूय ततो लिंगान्महसां राशिरब्रवीत् ।।३२।।
प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते ।।
इति शंभुं समालोक्य तुष्टावेति स हृष्टवान् ।। ३३ ।।
।। आंगिरस उवाच ।। ।।
जय शंकर शांत शशांकरुचे रुचिरार्थद सर्वद सर्वशुचे ।।
शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते ।। ३४ ।।
ततसर्वहृदंबर वरदनते नतवृजिनमहावन दाहकृते ।।
कृतविविधचरित्रतनोसुतनो तनुविशिखविशोषणधैर्यनिधे ।। ३५ ।।
निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत् ।।
नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ।। ३६ ।।
त्रिजगन्मयरूपविरूपसुदृग्दृगुदंचनकुंचन कृतहुतभुक् ।।
भवभूतपतेप्रमथैकपते पतितेष्वपिदत्तकरप्रसृते ।। ३७ ।।
प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ।।
वरराजकुमारिकया परया परितः परितुष्ट नतोस्मि शिव ।। ३८ ।।
शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड ।।
मृडयोडुपतिध्र जगत्त्रितयं कृतयंत्रणभक्तिविघातकृताम् ।। ३९ ।।
न कृतांत त एष बिभेभि हरप्रहराशु महाघममोघमते ।।
नमतांतरमन्यदवैनि शिवं शिवपादनतेः प्रणतोस्मि ततः ।। 4.1.17.४० ।।
विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन् ।।
गुणहीनमहीन महावलयं प्रलयांतकमीश नतोस्मि ततः ।। ४१ ।।
इति स्तुत्वा महादेवं विररामांगिरः सुतः ।।
व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ।।४२।।
।। श्रीमहादेव उवाच ।। ।।
बृहता तपसानेन बृहतां पतिरेध्यहो ।।
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज ।। ४३ ।।
अस्माल्लिंगार्चनान्नित्यं जीवभूतोसि मे यतः ।।
अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ।।४४।।
वाचां प्रपंचैश्चतुरैर्निष्प्रपंचो यतः स्तुतः ।।
अतो वाचां प्रपंचस्य पतिर्वाचस्पतिर्भव ।।४५।।
अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् ।।
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ।। ४६ ।।
समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते ।।
यः पठिष्यत्यदः स्तोत्रं वायव्याख्यं दिनेदिने ।। ४७ ।।
अस्यस्तोत्रस्य पठनान्नियतं मम संनिधौ ।।
न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ।। ४८ ।।
अदः स्तोत्रं पठञ्जंतुर्जातुपीडां ग्रहोद्भवाम् ।।
न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ।। ४९ ।।
नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः ।।
इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ।। 4.1.17.५० ।।
त्वत्प्रतिष्ठितलिंगस्य पूजां कृत्वा प्रयत्नतः ।।
इमां स्तुतिमधीयानो मनोवांछामवाप्स्यति ।। ५१ ।।
इति दत्त्वा वराञ्छंभुः पुनर्ब्रह्माणमाह्वयत् ।।
सेंद्रान्देवगणान्सर्वान्सयक्षोरगकिन्नरान् ।। ५२ ।।
तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत् ।।
विधेविधेहि मद्वाक्यादमुं वाचस्पतिं मुनिम् ।। ५३ ।।
गुरुं सर्वसुरेंद्राणां परितः स्वगुणैर्गुरुम् ।।
अभिषिंच विधानेन देवाचार्य पदे मुदे ।। ५४ ।।
अतीव धिषणाधीशो ममप्रीतोभविष्यति ।।
महाप्रसाद इत्याज्ञां शिरस्याधाय तत्क्षणात् ।। ५५ ।।
सुरज्येष्ठः सुराचार्यं चकारांगिरसं तदा ।।
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।। ५६ ।।
गुरुपूजां व्यधुः सर्वे गीर्वाणा मुदिताननाः ।।
अभिषिक्तो वसिष्ठाद्यैर्मंत्रपूतेन वारिणा ।। ५७ ।।
पुनरन्यं वरं प्रादाद्गिरीशः पतये गिराम् ।।
शृण्वांगिरस धर्मात्मन् देवेज्यकुलनंदन ।। ५८ ।।
भवतास्थापितं लिंगं सुबुद्धिपरिवर्धनम् ।।
 बृहस्पतीश्वर इति ख्यातं काश्यां भविष्यति ।। ५९ ।।
गुरुपुष्यसमायोगे लिंगमेतत्समर्च्य च ।।
यत्करिष्यंति मनुजास्तत्सिद्धिमधियास्यति ।। 4.1.17.६० ।।
बृहस्पतीश्वरं लिंगं मया गोप्यं कलौ युगे ।।
अस्य संदर्शनादेव प्रतिभा प्रतिलभ्यते ।।६१।।
चंद्रेश्वराद्दक्षिणतो वीरेशान्नैर्ऋते स्थितम् ।।
आराध्य धिषणेशं वै गुरुलोके महीयते ।।६२।।
गुर्वंगना गमनजं पापं षण्मास सेवनात् ।।
अवश्यं विलयं याति तमः सूर्योदयाद्यथा ।। ६३ ।।
अतएव हि गोप्तव्यं महापातकनाशनम् ।।
बृहस्पतीश्वरं लिंगं नाख्येयं यस्यकस्यचित् ।।६४ ।।
इति दत्त्वा वरान्देवस्तत्रैवांतर्हितो भवत् ।।
द्रुहिणो गुरुणा सार्धं सेंद्रोपेंद्रो बृहस्पतिम् ।। ६५ ।।
अस्मिन्पुरेभिषिच्याथ विसृज्येंद्रादिकान्सुरान् ।।
अलंचकार स्वं लोकं विष्णुनाऽनुमतो द्विज ।। ६६ ।।
।। अगस्त्य उवाच ।। ।।
अतिक्रम्य गुरोर्लोकं लोपामुद्रे ददर्श सः ।।
शिवशर्मा पुरी सौरेः प्रभामंडल मंडिताम् ।। ६७ ।।
पृष्टौ तेन च तौ तत्र तां पुरीं प्रददर्शतुः ।।
द्विजेन द्विजवर्याय गणवर्यौ शुचिस्मिते ।।६८।।
गणावूचतुः ।। ।।
मारीचेः कश्यपाज्जज्ञे दाक्षायण्यां द्विजोष्णगुः ।।
तस्यभार्याभवत्संज्ञा पुत्री त्वष्टुः प्रजापतेः ।। ६९ ।।
भर्तुरिष्टा ततस्तस्माद्रूपयौवनशालिनी ।।
संज्ञा बभूव तपसा सुदीप्तेन समन्विता ।। 4.1.17.७० ।।
आदित्यस्य हि तद्रूपं मंडलस्य तु तेजसा ।।
गात्रेषु परिदध्यौ वै नातिकांतमिवाभवत् ।। ७१ ।।
न खल्वयमृतोंऽडस्थ इति स्नेहादभाषत ।।
तदा प्रभृति लोकेयं मार्तंड इति चोच्यते ।। ७२ ।।
तेजस्त्वभ्यधिकं तस्य साऽसहिष्णुर्विवस्वतः ।।
येनातितापयामास त्रैलोक्यं तिग्मरश्मिभृत् ।। ७३ ।।
त्रीण्यपत्यानि भो ब्रह्मन्संज्ञायां महसां निधिः ।।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ।। ७४ ।।
वैवस्वतं मनुं ज्येष्ठं यमं च यमुनां ततः ।।
नातितेजोमयं रूपं सोढुं साऽलं विवस्वतः ।। ७५ ।।
मायामयीं ततश्छायां सवर्णां निर्ममे स्वतः ।।
प्रांजलिः प्रणता भूत्वा संज्ञां छाया तदाब्रवीत् ।। ७६ ।।
तवाज्ञाकारिणीं देवि शाधि मां करवाणि किम् ।।
संज्ञोवाच ततश्छायां सवर्णे शृणु सुंदरि ।। ७७ ।।
अहं यास्यामि सदनं त्वष्टुस्त्वं पुनरत्र मे ।।
भवने वस कल्याणि निर्विशंकं ममाज्ञया ।। ७८ ।।
मनुरेष यमावेतौ यमुना यम संज्ञकौ ।।
स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ।। ७९ ।।
अनाख्येयमिदं वृत्तं त्वया पत्यौ शुचिस्मिते ।।
इत्याकर्ण्याथ सा त्वाष्ट्रीं देवीं छाया जगाद ह ।। 4.1.17.८० ।।
आकचग्रहणान्नाहमाशापाच्च कदाचन ।।
आख्यास्यामि चरित्रं ते याहि देवि यथासुखम् ।। ८१ ।।
इत्यादिश्य सवर्णां सा तथेत्युक्ता सवर्णया ।।
पितुरंतिकमासाद्य नत्वा त्वष्टारमब्रवीत् ।।।। ८२ ।।
पितः सोढुं न शक्नोमि तेजस्तेजोनिधेरहम् ।।
तीव्रं तस्यार्यपुत्रस्य काश्यपस्य महात्मनः ।। ।। ८३ ।।
निशम्योदीरितं तस्याः पित्रानिर्भर्त्सिता बहु ।।
भर्तुः समीपं याहीति नियुक्ता सा पुनःपुनः ।। ८४ ।।
चिंतामवाप महतीं स्त्रीणां धिक्चेष्टितं त्विति ।।
निनिंद बहुधात्मानं स्त्रीत्वं चाति निनिंद सा ।।८५।।
स्वातंत्र्यं न क्वचित्स्त्रीणां धिगस्वातंत्र्यजीवितम् ।।
शैशवे यौवने प्रांते पितृभर्तृसुताद्भयम् ।।८६।।
त्यक्तं भर्तृगृहं मौग्ध्याद्धंत दुवृर्त्तया मया ।।
अविज्ञातापि चेद्यायामथ पत्युर्निकेतनम् ।।८७ ।।
तत्रास्ति सा सवर्णा वै परिपूर्णमनोरथा ।।
अथावतिष्ठे सात्रैव पित्रा निर्भर्त्सिताप्यहम् ।। ८८ ।।
ततोति चंडश्चंडाशुः पित्रोरतिभयंकरः ।।
अहो यदुच्यते लोकैरुपाख्यानमिदं हि तत् ।। ८९ ।।
स्फुटं दृष्टं मयाद्येति स्वकरांगारकर्ष(र्प?)णम् ।।
नष्टं भर्तृगृहं मौग्ध्याच्छ्रेयो वा न पितुर्गृहम् ।।।। 4.1.17.९० ।।
वयश्च प्रथमं चारु रूपं त्रैलोक्यकांक्षितम् ।।
सर्वाभिभवनं स्त्रीत्वं कुलं चातीव निर्मलम् ।। ९१ ।।
पतिश्च तादृक्सर्वज्ञो लोकचक्षुस्तमोपहः ।।
सर्वेषां कर्मणां साक्षी सर्वः सर्वत्रसंचरः ।। ९२ ।।
मह्यं श्रेयः कथं वा स्यादिति सा परिचिंत्य च ।।
अगच्छद्वडवा भूत्वा तपसे पर्यनिंदिता ।। ९३ ।।
उत्तरांश्च कुरून्प्राप चरंती नीरसंतृणम् ।।
व्युत्तेपे च तपस्तीव्रं पतिमाधाय चेतसि ।।
तपोबलेन तत्पत्युः सहिष्ये तेज इत्यलम् ।। ९४ ।।
मन्यमानोथ तां संज्ञां सवर्णायां तदा रविः ।।
सावर्णिं जनयामास मनुमष्टममुत्तमम् ।। ९५ ।।
शनैश्चरं द्वितीयं च सुतां भद्रां तृतीयिकाम् ।।
सवर्णा स्वेष्वपत्येषु सापत्न्यात्स्त्रीस्वभावतः ।। ९६।।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेष्वथ ।।
मनुस्तत्क्षांतवाञ्ज्येष्ठो भक्ष्यालंकारलालने ।। ९७ ।।
कनिष्ठेष्वधिकं दृष्ट्वा सावर्ण्यादिषु नो यमः ।।
कदाचिद्रोषतो बाल्याद्भाविनोर्थस्य गौरवात् ।। ९८ ।।
पदा संतर्जयामास यमः संज्ञासरूपिणीम् ।।
तं शशाप च सा क्रोधात्सावर्णेर्जननी तदा ।। ९९ ।।
जिघांसता त्वया पाप मां यदंघ्रिः समुद्यतः।।
अचिरात्तत्पतत्वेष तवेति भृशदुःखिता ।। 4.1.17.१०० ।।
मातृशाप परित्रस्तो यमोपि पितुरग्रतः ।।
शशंस सर्वं तद्वृत्तं रक्षरक्षेत्युवाच च ।। १ ।।
मात्रासु तेषु सर्वेषु वर्तनीयं समं यतः ।।
तस्यां मयोद्यतः पादो न देहे परिपातितः ।। २ ।।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हसि ।।
गोपते शापतो मातुर्मा पतत्वंघ्रिरेष मे ।।३।।
।। विवस्वानुवाच ।। ।।
अपराधसहस्रेपि जननी न शपेत्सुतम् ।।
तस्मात्किमपि भो बाल भविष्यत्यत्र कारणम् ।। ४ ।।
येन त्वां साऽशपत्क्रोधाद्धर्मज्ञं सत्यवादिनम् ।।
मातृशापोन्यथाकर्तुं न शक्यः केनचित्क्वचित् ।। ५ ।।
कृमयो मांसमादाय यास्यंत्यस्मान्महीतलम् ।।
इत्थं तु चरितार्थः स्याच्छापस्त्रातो भवानपि ।। ६ ।।
इति पुत्रं समाश्वास्य रविरंतःपुरं ययौ ।।
चिरमालोक्य तां भार्यामुवाच सविता वचः ।। ७ ।।
अयि भामिनि बालेषु समेष्वपि कुतस्त्वया ।।
विधीयतेऽधिकः स्नेहः सावर्ण्यादिष्वनादिषु ।। ८ ।।
नाचचक्षे यदासाऽथ भास्वते परिपृच्छते ।।
तदात्मानं समाधाय सोज्ञासीत्सर्वमेव हि ।। ९ ।।
ततो भगवते शप्तुमुद्यते सा शशंस ह ।।
यथावृत्तं तथा तथ्यं तुतोष भगवानपि ।। 4.1.17.११० ।।
तथ्यभाषणतस्तां तु रविर्ज्ञात्वा निरागसम् ।।
न शशाप च संक्रुद्धो ययौ च त्वष्टुरंतिकम् ।।११।।
त्वष्टापि च यथान्यायं सान्वयं तिग्मतेजसम्।।
निर्दग्धुकामं कोपेन प्रागानर्च मुदा तदा ।।
विज्ञाय तदभिप्रायं त्वष्टोवाचाऽशु तं रविम् ।। १२ ।।
त्वष्टोवाच ।। ।।
तवातितेजसो भीता प्राप्योत्तरकुरून् रवे ।।
वडवारूपमास्थाय वने चरति शाद्वले।। १३ ।।
द्रष्टा हि तां भवानद्य स्वां भार्यामार्यचारिणीम् ।।
अधृष्यां सर्वभूतानां तेजसा नियमेन च ।। १४ ।।
त्वष्ट्रा यत्तक्षितः सूर्यस्तस्यैवानुमतेन च ।।
भ्रमिमारोप्य यत्नेन सोतिकांततरोऽभवत् ।। १५ ।।
लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनरम् ।।
साक्षात्तपोमयीं लक्ष्मीं चरंतीं च तपो महत् ।। १६ ।।
ददर्श वडवारूपां वाडवानलतेजसम् ।।
नीरसा नितृणान्येव वृण्वंतीं योगमायया ।। १७ ।।
अनेनसं स विज्ञाय तां त्वाष्ट्रीमश्वरूपिणीम् ।।
सहरिर्हरिरूपेण मुखेन समभावयद् ।। १८ ।।
त्वरमाणा च परितः परपूरुषशंकया ।।
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ।। १९ ।।
देवौ तस्मादजायेतामश्विनौ भिषजांवरौ ।।
स्वरूपमनुरूपं च द्युमणिस्तामदर्शयत ।। 4.1.17.१२० ।।
तुतोष सापि तं दृष्ट्वा मित्रं नेत्रमुदावहम् ।।
पतिं पतिव्रता कां तं स्वांतसंतापहारिणम् ।। २१ ।।
निर्वृत्तिं च परां प्राप दुष्प्रापं तपसाथ किम् ।।
तप एव परं श्रेयस्तप एव परं धनम् ।। २२ ।।
तप एव हि देवत्वे कारणं परमं मतम् ।।
शिवशर्मन्यदेतद्वै दृश्यते चातिदीप्तिमत् ।। २३ ।।
ज्योतिश्चक्रस्वरूपं च व्योम्न्युपर्यध एव च ।।
तत्सर्वमिह जानीहि सुमहत्तापसं महः ।।२४।।
एवं शनैश्चरो जज्ञे सवर्णायां विवस्वतः ।।
सोऽथ वाराणसीं गत्वा सर्वत्रिदशवंदिताम् ।। २५ ।।
तप्त्वा तपोऽतिविपुलं लिंगं संस्थाप्य शांकरम् ।।
इमं लोकमवापोच्चैर्ग्रहत्वं च हरार्चनात ।।२६।।
शनैश्चरेश्वरं दृष्ट्वा वाराणस्यां सुशोभनम् ।।
शनिबाधा न जायेत शनिवारे तदर्चनात् ।।२७।।
विश्वेशाद्दक्षिणेभागे शुक्रेशादुत्तरेण हि ।।
शनैश्चरेशमभ्यर्च्य लोकेऽत्र परिमोदते ।। २८ ।।
श्रुत्वाऽध्यायमिमं पुण्यं ग्रहपीडा न जायते ।।
नोपसर्गभयं तस्य काश्यां निवसतः सतः ।। १२९ ।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भौमगुरुशनिलोकवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।। ।।