स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२१

विकिस्रोतः तः
Jump to navigation Jump to search

।। ध्रुव उवाच ।। ।।
नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने ।।
हिरण्यरेतसे तुभ्यं सुहिरण्यप्रदायिने ।। १ ।।
नमो हरस्वरूपाय भूतसंहारकारिणे ।।
महाभूतात्मभूताय भूतानां पतये नमः ।। २ ।।
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ।।
तृष्णाहराय कृष्णाय महाभार सहिष्णवे ।। ३ ।।
नमो दैत्यमहारण्य दाववह्निस्वरूपिणे ।।
दैत्यद्रुमकुठाराय नमस्ते शार्ङ्गपाणये ।।४।।
नमः कौमोदकीव्यग्र कराग्राय गदाधर ।।
महादनुजनाशाय नमो नंदकधारिणे ।। ५ ।।
नमः श्रीपतये तुभ्यं नमश्चक्रधराय च ।।
धराधराय वाराह रूपिणे परमात्मने ।। ६ ।।
नमः कमलहस्ताय कमलावल्लभाय ते ।।
नमो मत्स्यादिरूपाय नमः कौस्तुभवक्षसे ।। ७ ।।
नमो वेदांतवेद्याय नमः श्रीवत्सधारिणे ।।
नमो गुणस्वरूपाय गुणिने गुणवर्जिते ।। ८ ।।
नमस्ते पद्मनाभाय पांचजन्यधराय च ।।
वासुदेव नमस्तुभ्यं देवकीनंदनाय च ।। ९ ।।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ।।
नमः कंसविनाशाय नमश्चाणूरमर्दिने ।। 4.1.21.१० ।।
दामोदरहृषीकेश गोर्विदाच्युतमाधव ।।
उपेंद्रकैटभाऽराते मधुहंतरधोक्षज ।। ११ ।।
नारायणाय नरकहारिणे पापहारिणे ।।
वामनाय नमस्तुभ्यं हरये शौरये नमः ।। १२ ।।
अनंताय नमस्तुभ्यमनंतशयनाय च ।।
रुक्मिणीपतये तुभ्यं रुक्मिप्रमथनाय च ।। १३ ।।
चैद्यहंत्रे नमस्तुभ्यं दानवारेसुरारये ।।
मुकुंदपरमानंद नंदगोपप्रियाय च ।। १४ ।।
नमस्ते पुंडरीकाक्ष दनुजेंद्र निषूदिने ।।
नमो गोपालरूपाय वेणुवादनकारिणे ।। १५ ।।
गोपीप्रियाय केशिघ्ने गोवर्धनधराय च ।।
रामाय रघुनाथाय राघवाय नमोनमः ।। १६ ।।
रावणारे नमस्तुभ्यं विभीषणशरण्यद ।।
अजाय जयरूपाय रणांगणविचक्षण ।।१७।।
क्षणादि कालरूपाय नानारूपाय शार्ङ्गिणे ।।
गदिने चक्रिणे तुभ्यं दैत्यचक्रविमर्दिने ।।१८।।
बलाय बलभद्राय बलारातिप्रियाय च ।।
बलियज्ञप्रमथन नमो भक्तवरप्रद ।। १९ ।।
हिरण्यकशिपोर्वक्षो विदारण रणप्रिय ।।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।। 4.1.21.२० ।।
नमस्ते धर्मरूपाय नमः सत्त्वगुणाय च ।।
नमः सहस्रशिरसे पुरुषाय पराय च ।। २१ ।।
सहस्राक्ष सहस्रांघ्रे सहस्रकिरणाय च ।।
सहस्रमूर्ते श्रीकांत नमस्ते यज्ञपूरुष ।।२२।।
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च।।
वेदाय वेदगदिने सदाचाराध्वगामिने ।।२३।।
वैकुंठाय नमस्तुभ्यं नमो वैकुंठवासिने।।
विष्टरश्रवसे तुभ्यं नमो गरुडगामिने ।।२४।।
विष्वक्सेन नमस्तुभ्यं जगन्मय जनार्दन।।
त्रिविक्रमाय सत्याय नमः सत्यप्रियाय च।।२५।।
केशवाय नमस्तुभ्यं मायिने ब्रह्मागायिने।।
तपोरूपाय तपसां नमस्ते फलदायिने ।। २६ ।।
स्तुत्याय स्तुतिरूपाय भक्तस्तुतिरताय च ।।
नमस्ते श्रुतिरूपाय श्रुत्याचार प्रियाय च ।। २७ ।।
अंडजाय नमस्तुभ्यं स्वेदजाय नमोस्तु ते ।।
जरायुज स्वरूपाय नम उद्भिज्जरूपिणे ।। २८ ।।
देवानामिंद्ररूपोसि ग्रहाणामसि भानुमान् ।।
लोकानां सत्यलोकोऽसि सिंधूनां क्षीरसागरः ।। २९ ।।
सुरापगाऽसि सरितां सरसां मानसं सरः ।।
हिमवानसि शैलानां धेनूनां कामधुग्भवान् ।। 4.1.21.३० ।।
धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि ।।
नीलोत्पलं प्रसूनेषु वृक्षेषु तुलसी भवान् ।। ३१ ।।
सर्वपूज्यशिलानां वै शालग्राम शिला भवान् ।।
मुक्तिक्षेत्रेषु काशी त्वं प्रयागस्तीर्थपंक्तिषु ।।३२।।
वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान् ।।
गरुडोस्यंडजेष्वीश व्यवहारेषु वाग्भवान् ।। ३३ ।।
वेदेषूपनिषद्रूपा मंत्राणां प्रणवोह्यसि ।।
अक्षराणामकारोसि यज्वनां सोमरूपधृक् ।। ३४ ।।
प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम् ।।
दातॄणामसि पर्जन्यः पवित्राणां परोह्यसि ।। ३५ ।।
चापोसि सर्वशस्त्राणां वातो वेगवतामसि ।।
मनोसींद्रियवर्गेषु निर्भयाणां करोह्यसि ।। ३६ ।।
व्योमव्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम् ।।
संध्योपास्तिर्भवान्देव सर्वनित्येषु कर्मसु।। ३७ ।।
क्रतूनामश्वमेधोसि दानानामभयं भवान् ।।
लाभानां पुत्रलाभोसि वसंतस्त्वमृतुष्वहो ।।३८।।
युगानां प्रथमोसि त्वं तिथीनां त्वं कुहूर्ह्यसि ।।
पुष्योसि नक्षत्रगणे संक्रमः सर्वपर्वसु ।। ३९ ।।
योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् ।।
उद्यमानां हि सर्वेषां निर्वाणं त्वमसि प्रभो ।। 4.1.21.४० ।।
सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज ।।
अश्वत्थः सर्ववृक्षेषु सोमवल्ली लतासु च ।। ४१ ।।
प्राणायामोसि सर्वेपु साधनेषु शुचिष्वहो ।।
सर्वदः सर्वलिंगेषु श्रीमान्विश्वेश्वरो भवान् ।। ४२ ।।
मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबंधुषु ।।
त्वत्तो नान्यज्जगत्यस्मिन्नारायण चराचरे ।। ४३ ।।
त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम् ।।
त्वमेव सौख्यसंपत्तिस्त्वमायुर्जीवनेश्वरः ।। ४४ ।।
सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम् ।।
तत्कर्म यत्त्वदर्थं वै तत्तपो यद्भवत्स्मृतिः ।।४५।।
तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम् ।।
स एव सकलः कालो यस्मिञ्जिष्णो त्वमर्च्यसे ।। ४६ ।।
तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे ।।
रोगाः प्रशममायांति त्वत्पादोदक सेवनात् ।। ४७ ।।
महापापानि गोविंद बहुजन्मार्जितान्यपि ।।
सद्यो विलयमायांति वासुदेवेति कीर्तनात् ।। ४८ ।।
अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता ।।
वासुदेवमनादृत्य यदन्यत्र कृतश्रमाः ।। ४९ ।।
इदमेव हि मांगल्यमिदमेव धनार्जनम् ।।
जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ।। 4.1.21.५० ।।
अधोक्षजात्परोधर्मो नार्थो नारायणात्परः ।।
न कामः केशवादन्यो नापवर्गो हरिं विना ।। ५१ ।।
इयमेव परा हानिरुपसर्गो यमेवहि ।।
अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत् ।। ५२ ।।
हरेराराधनं पुंसां किं किं न कुरुते बत ।।
पुत्रमित्रकलत्रार्थ राज्यस्वर्गापवर्गदम् ।। ५३ ।।
हरत्यघं ध्वंसयति व्याधीनाधीन्नियच्छति ।।
धर्मं विवर्धयेत्क्षिप्रं प्रयच्छति मनोरथम् ।। ५४ ।।
भगवच्चरणद्वंद्वं निर्द्द्वंद्व ध्यानमुत्तमम् ।।
पापिनापि प्रसंगेन विहितं स्वहितं परम् ।। ५५ ।।
पापिनां यानि पापानि महोपपदभांज्यपि ।।
सुलीनध्यानसंपन्नो नामोच्चारो हरेर्हरेत् ।।५६।।
प्रमादादपि संस्पृष्टो यथाऽनलकणो दहेत् ।।
तथौष्ठपुटसंस्पृष्ट हरिनाम हरेदघम् ।। ५७ ।।
नितांतं कमलाकांते शांतचित्तं विधाय यः ।।
संशीलयेत्क्षणं नूनं कमला तत्र निश्चला ।।५८।।
अयमेव परोधर्मस्त्विदमेव परं तपः ।।
इदमेव परं तीर्थं विष्णुपादांबु यत्पिबेत ।। ५९ ।।
तवोपहारं भक्त्याय सेवते यजपूरुष ।।
सेवितस्तेन नियतं पुरोडाशो महाधिया ।। 4.1.21.६० ।।
स चैवावभृथस्नातः स च गंगाजलाप्लुतः ।।
विष्णुपादोदकं कृत्वा शंखे यः स्नाति मानवः ।। ६१ ।।
शालग्राम शिला येन पूजिता तुलसी दलैः ।।
स पारिजातमालाभिः पूज्यते सुरसद्मनि ।। ६२ ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।।
विष्णुभक्ति समायुक्तो ज्ञेयः सर्वोत्तमश्च सः ।। ६३ ।।
शंखचक्रांकिततनुः शिरसां मंजरीधरः ।।
गोपीचंदनलिप्तांगो दृष्टश्चेत्तदघं कुतः ।। ६४ ।।
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ।।
द्वारवत्याः शिलायुक्तः स वैकुंठे महीयते ।। ६५ ।।
तुलसी यस्य भवने प्रत्यहं परिपूज्यते ।।
तद्गृहं नोपसर्पंति कदाचिद्यमकिंकराः ।। ६६ ।।
हरिनामाक्षरमुखं भाले गोपीमृदांकितम् ।।
तुलसीमालितोरस्कं स्पृशेयुर्नयमानुगाः ।। ६७ ।।
गोपीमृत्तुलसी शंखः शालग्रामः सचक्रकः ।।
गृहेपि यस्य पंचैते तस्य पापभयं कुत. ।। ६८ ।।
ये मुहूर्ताः क्षणा ये च या काष्ठा ये निमेषकाः ।।
ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः ।। ६९ ।।
क्व द्वयक्षरं हरेर्नाम स्फुलिंगसदृशं ज्वलेत ।।
महती पातकानां च राशिस्तूलोपमा क्व च ।। 4.1.21.७० ।।
गोविंद परमानंदं मुकुंदं मधुसूदनम ।।
त्यक्त्वान्यं नैव जानामि न भजामि स्मरामि न ।। ७१ ।।
न नमामि न च स्तौमि न पश्यामीह चक्षुषा ।।
न स्पृशामि न वायामि गायामि न न हरिं विना ।। ७२ ।।
जले स्थले च पातालेप्यनिले चानलेऽचले ।।
विद्याधरासुरसुरे किं नरे वानरे नरे ।। ७३ ।।
तृणेस्त्रैणे च पाषाणे तरुगुल्मलतासु च ।।
सर्वत्र श्यामलतनुं वीक्षे श्रीवत्सवक्षसम् ।। ७४ ।।
सर्वेषां हृदयावासः साक्षात्साक्षी त्वमेव हि ।।
बहिरंतर्विना त्वां तु नह्यन्यं वेद्मि सर्वगम् ।। ७५ ।।
इत्युक्त्वा विररामासौ शिवशर्मन्ध्रुवस्तदा ।।
देवोपि भगवान्विष्णुस्तमुवाच प्रसन्नदृक् ।। ७६ ।।
।। श्रीभगवानुवाच ।। ।।
अपि बाल विशालाक्ष ध्रुव ध्रुवमतेऽनघ ।।
परिज्ञातो मया सम्यक्तवहृत्स्थो मनोरथः ।। ७७ ।।
अन्नाद्भवंति भूतानि वृष्टेरन्नसमुद्भवः ।।
तद्वृष्टेः कारणं सूर्यः सूर्याधारो ध्रुवैधि भोः ।।७८।।
ज्योतिश्चक्रस्य सर्वस्य ग्रहर्क्षादेः समंततः ।।
गगने भ्रमतो नित्यं त्वमाधारो भविष्यसि ।। ७९ ।।
मेढीभूतस्तु वै सर्वान्वायुपाशैर्नियंत्रितान् ।।
आकल्पं तत्पदं तिष्ठ भ्रामयञ्ज्योतिषांगणान् ।। 4.1.21.८० ।।
आराध्य श्री महादेवं पुरापदमिदं मया ।।
आसादियत्तदेतत्ते तपसा प्रतिपादितम् ।। ८१ ।।
केचिच्चतुर्युगं यावत्केचिन्मन्वंतरं ध्रुव ।।
तिष्ठंति त्वं तु वै कल्पं पदमेतत्प्रशास्यसि ।। ८२ ।।
मनुनापि न यत्प्रापि किमन्यैर्मानवैर्ध्रुव ।।
तत्पदं विहितं त्वत्साच्छक्राद्यैरपि दुर्लभम् ।। ८३ ।।
अन्यान्वरान्प्रयच्छामि स्तवेनानेन तोषितः ।।
सुनीतिरपि ते माता त्वत्समीपे चरिष्यति ।। ८४ ।।
इदं स्तोत्रवरं यस्तु पठिष्यति समाहितः ।।
त्रिसंध्यं मनुजस्तस्य पापं यास्यति संक्षयम्।।८५।।
न तस्य सदनं लक्ष्मीः परित्यक्ष्यत्यसंशयम् ।।
न जनन्या वियोगश्च न बंधुकलहोदयः ।। ८६ ।।
ध्रुवस्तुतिरियं पुण्या महापातकनाशिनी ।।
ब्रह्महापि विशुद्ध्येत का कथेतर पापिनाम् ।। ८७ ।।
महापुण्यस्य जननी महासंपत्तिदायिनी ।।
महोपसर्गशमनी महाव्याधिविनाशिनी ।। ८८ !।
यस्याऽस्तिपरमा भक्तिर्मयि निर्मलचेतसः ।।
ध्रुवस्तुतिरियं तेन जप्या मत्प्रीतिकारिणी ।। ८९ ।।
समस्त तीर्थस्नानेन यत्फलं लभते नरः ।।
तत्फलं सम्यगाप्नोति जपन्स्तुत्यानया मुदा ।। 4.1.21.९० ।।
संति स्तोत्राण्यनेकानि मम प्रीतिकराणि च ।।
ध्रुवस्तुतेर्न चैतस्याः कलामर्हंति षोडशीम् ।। ९१ ।।
श्रुत्वापीमां स्तुतिं मर्त्यः श्रद्धया परया मुदा ।।
पातकैर्मुच्यते सद्यो महत्पुण्यमवाप्नुयात् ।। ९२ ।।
अपुत्रः पुत्रमाप्नोति निर्धनो धनमाप्नुयात् ।।
अभक्तो भक्तिमाप्नोति कीर्तनाच्च ध्रुवस्तुतेः ।। ।। ९३ ।।
दत्त्वा दानान्यनेकानि कृत्वा नाना व्रतानि च ।।
यथालाभानवाप्नोति तथा स्तुत्याऽनया नरः ।। ९४ ।।
त्यक्त्वा सर्वाणि कार्याणि त्यक्त्वा जप्यान्यनेकशः ।।
ध्रुवस्तुतिरियं जप्या सर्वकामप्रदायिनी ।। ९५ ।।
श्रीभगवानुवाच ।। ।।
ध्रुवावधेहि वक्ष्यामि हितं तव महामते ।।
येन ते निश्चलं सम्यक्पदमेतद्भविष्यति ।। ९६ ।।
अहं जिगमिषुस्त्वासं पुरीं वाराणसीं शुभाम् ।।
साक्षाद्विश्वेश्वरो यत्र तिष्ठते मोक्षकारणम् ।। ९७ ।।
विपन्नानां च जंतूनां यत्र विश्वेश्वरः स्वयम् ।।
कर्णे जापं प्रकुरुते कर्मनिर्मूलन क्षमम् ।। ९८ ।।
अस्य संसारदुःखस्य सर्वोपद्रवदायिनः ।।
उपाय एक एवास्ति काशिकानंदभूमिका ।। ९९ ।।
इदं रम्यमिदं नेति बीजं दुःखमहातरोः ।।
तस्मिन्काश्यग्निना दग्धे दुःखस्यावसरः कुतः ।।4.1.21.१००।।
प्राप्य संप्राप्यते येन न भूयो येन शोच्यते ।।
परायानिर्वृतेः स्थानं यत्तदानंदकाननम् ।। १ ।।
अमृतायनमुत्सृज्य पुरुषोन्यत्र यो वसेत् ।।
आनंदकाननं शंभोः कुतस्तस्य सुखोदयः ।। २ ।।
वरं शरावहस्तस्य चांडालागारवीथिषु ।।
भिक्षार्थमटनं काश्यां राज्यं नान्यत्र नीरिषु ।। ३ ।।
वैकुंठनगरात्काशीं नित्यं विश्वेशमर्चितुम् ।।
अहमायामि नियमाज्जगदर्च्यं तदर्चिताम् ।। ४ ।।
मयि या परमा शक्तिस्त्रिलोक्या रक्षणक्षमा ।।
तत्र हेतुर्महेशानः स सुदर्शनचक्रदः ।। ५ ।।
पुरा जालंधरं दैत्यं ममापि परिकंपनम् ।।
पादांगुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत् ।। ६ ।।
तच्च चक्रं मया लब्धं नेत्रपद्मार्चनाद्विभोः ।।
एतत्सुदर्शनाख्यं वै दैत्यचक्रप्रमर्दनम् ।। ७ ।।
तन्मया तव रक्षार्थं भूतविद्रावणं परम् ।।
तावत्प्रणुन्नं पुरतस्ततश्चाहमिहागतः ।।८।।
काशीमिदानीं यास्यामि विश्वेश्वर विलोकने।।
अद्य यात्राऽस्ति महती कार्तिक्यां बहुपुण्यदा ।। ९ ।।
कार्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् ।।
स्नात्वा चोत्तरवाहिन्यां न तस्य पुनरागतिः ।। 4.1.21.११० ।।
इत्युक्त्वा तार्क्ष्यमारोप्य ध्रुवमानंदमेदुरम् ।।
क्षणाद्वाराणसीं प्राप हरिः स्मरहरोषिताम् ।। ११ ।।
पंचक्रोश्याश्च सीमानं प्राप्य देवो जनार्दनः ।।
वैनतेयादवारुह्य करे धृत्वा ध्रुवं ततः ।। १२ ।।
मणिकर्ण्यां परिस्नाय विश्वेशमभिपूज्य च ।।
ध्रुवं बभाषे भगवान्हितं तस्य चिकीर्षयन् ।। १३ ।।
लिंगं स्थापय यत्नेन क्षेत्रेऽत्रैवाविमुक्तके ।।
त्रैलोक्यस्थापनं पुण्यं यथा भवति तेऽक्षयम् ।। १४ ।।
नियुतं यत्परिस्थाप्य लिंगानि फलमाप्यते ।।
अन्यत्र तदिहैकेन लिंगेन परिलभ्यते ।। १५ ।।
कालेन भंगमापन्नं जीर्णोद्धारं करोति यः ।।
इह तस्य फलस्यांतः प्रलयेपि न जायते ।। १६ ।।
वित्तशाठ्यं परित्यज्य प्रासादं योऽत्र कारयेत् ।।
तेन दत्तो भवेत्सर्वो मेरुर्नियुतयोजनः ।। १७ ।।
कूपवापीतडागानि शक्त्या योऽत्र तु कारयेत् ।।
अन्यत्र करणात्तस्य पुण्यं कोटिगुणाधिकम् ।। १८ ।।
इज्यार्थमत्र यः कुर्यात्सुरम्यां पुष्पवाटिकाम् ।।
पुष्पेपुष्पे फलं तस्य सुवर्णकुसुमाधिकम् ।। १९ ।।
अत्र ब्रह्मपुरीं कृत्वा यो विप्रेभ्यः प्रयच्छति ।।
वर्षाशनेन संयुक्तां तस्य पुण्यफलं शृणु ।। 4.1.21.१२० ।।
क्षीयंते सलिलान्यब्धेर्भौमाश्च त्रसरेणवः ।।
क्षयो न तस्य पुण्यस्य शिवलोके समासतः ।। २१ ।।
मठानपि तपस्विभ्यः कारयित्वाऽत्र योर्पयेत् ।।
जीवनोपायसंयुक्तान्सोपि पूर्वफलाश्रयः ।। २२ ।।
कृत्वा महांति पुण्यानि योऽत्र विश्वेश्वरेऽर्पयेत् ।।
न तस्य पुनरावृरत्ति घोरे संसारसागरे ।।२३।।
अनंत इति वादोयं मयिलोकेऽत्र गीयते ।।
परं काशी गुणानां हि मयाप्यंतो न लभ्यते ।।२४।।
तस्मात्प्रयत्नतः काश्यां धुव श्रेयः समाश्रयेत् ।।
काशी श्रेयः फलं पुंसामक्षया योपजायते ।।२५।।
गणावूचतुः ।। ।।
ध्रुवमित्युपदिश्याथ जगाम गरुडध्वजः ।।
ध्रुवोपि लिंगं संस्थाप्य वैद्यनाथसमीपतः ।। २६ ।।
प्रासादं सुमहत्क्रृत्वा कृत्वा कुंडं तदग्रतः ।।
विश्वेश्वरं समभ्यर्च्य कृतकृत्यो गृहं ययौ ।। २७ ।।
ध्रुवेश्वरं समभ्यर्च्य ध्रुवकुंडे कृतोदकः ।।
ध्रुवलोकमवाप्नोति नरो भोगसमन्वितः ।। २८ ।।
ध्रुवस्य परमाख्यानं यः पठेत्पाठयेदपि ।।
स विष्णुलोकमासाद्य जायते विष्णुवल्लभः ।। २९ ।।
नरो ध्रुवस्य चरितं प्रसंगेन स्मरन्नपि ।।
न पापैरभिभूयेत महत्पुण्यमवाप्नुयात् ।। 4.1.21.१३० ।।
डति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवस्तुतिर्नामैकविंशतितमोऽध्यायः ।। २१ ।।