स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०८५

विकिस्रोतः तः
Jump to navigation Jump to search

।। स्कंद उवाच ।। ।।
जगज्जनन्याः पार्वत्याः पुरोगस्ते पुरारिणा ।।
यथाख्यायि कथा पुण्या तथा ते कथयाम्यहम् ।। १ ।।
पुरा महीमिमां सर्वां ससमुद्राद्रिकाननाम् ।।
ससरित्कां सार्णवां च सग्रामपुरपत्तनाम् ।। २ ।।
परिभ्रम्य महातेजा महामर्षो महातपाः ।।
दुर्वासाः संपरिप्राप्तः शंभोरानंदकाननम् ।। ३ ।।
विलोक्याक्रीडमखिलं बहुप्रासादमंडितम्।।
बहुकुंडतडागं च शंभोस्तोषमुपागमत्।।।
पदेपदे मुनीनां च जितकाल महाभियाम् ।।
दृष्टोटजानि रम्याणि दुर्वासा विस्मितोभवत्।। ।। ५ ।।
सर्वर्तुकुसुमान्वृक्षान्सुच्छायस्निग्धपल्लवान् ।।
सफलान्सुलताश्लिष्टान्दृष्ट्वा प्रीतिमगान्मुनिः ।। ६ ।।
दुर्वासाश्चातिहृष्टोभू्द्दृष्ट्वा पाशुपतोत्तमान् ।।
भूतिभूषितसर्वांगाञ्जटाजटितमौलिकान् ।। ७ ।।
कौपीनमात्र वसनान्स्मरारि ध्यान तत्परान् ।।
कक्षीकृतमहालाबून्हुडुत्कारजितांबुदान् ।। ८ ।।
करंडदंडपानीय पात्रमात्रपरिग्रहान् ।।
क्वचित्त्रिदंडिनो दृष्ट्वा निःसंगा निष्परिग्रहान् ।। ९ ।।
कालादपि निरातंकान्विश्वेशशरणं गतान् ।।
क्वचिद्वेदरहस्यज्ञानाबाल्यब्रह्मचारिणः ।। 4.2.85.१० ।।
नित्यं भागीरथीस्नानपरिपिंगलमूर्धजान् ।। ५।।
विलोक्य काश्यां दुर्वासा ब्राह्मणान्मुमुदेतराम् ।। ११ ।।
पशुष्वपि च या तुष्टिर्मृगेष्वपि च या द्युतिः ।।
तिर्यक्ष्वपि च या हृष्टिः काश्यां नान्यत्र सा स्फुटम् ।। १२ ।।
इदं सुश्रेयसो व्युष्टिः क्वामरेषु त्रिविष्टपे ।।
यत्रत्येष्वपि तिर्यक्षु परमानंदवर्धिनी।। १३ ।।
वरमेतेपि पशव आनंदवनचारिणः ।।
सदानंदाः पुनर्देवाननंदनवनाश्रिताः ।। १४ ।।
वरं काशीपुरीवासी म्लेच्छोपि हि शुभायतिः ।।
नान्यत्रत्यो दीक्षितोपि स हि मुक्तेरभाजनम्।। १५ ।।
वैश्वेश्वरी पुरी चैषा यथा मे चित्तहारिणी ।।
सर्वापि न तथा क्षोणी न स्वर्गो नैव नागभूः।।१६।।
स्थैर्यं बबंध न क्वापि भ्रमतो मे मनोगतिः ।।
सर्वस्मिन्नपि भूभागे यथा स्थैर्यमगादिह ।। १७ ।।
रम्या पुरी भवेदेषा ब्रह्मांडादखिलादपि ।।
परिष्टुत्येति दुर्वासाश्चेतोवृत्तिमवाप ह ।। १८ ।।
तप्यमानोपि हि तपः सुचिरं स महातपाः।।
यदा नाप फलं किंचिच्चुकोप च तदा भृशम् ।। १९ ।।
धिक्च मां तापसं दुष्टं धिक्च मे दुश्चरं तपः ।।
धिक्च क्षेत्रमिदं शंभोः सर्वेषां च प्रतारकम् ।। 4.2.85.२० ।।
यथा न मुक्तिरत्र स्यात्कस्यापि करवै तथा ।।
इति शप्तुं यदोद्युक्तः संजहास तदा शिवः ।।२१।।
तत्र लिंगमभूदेकं ख्यातं प्रहसितेश्वरम् ।।
तल्लिंगदर्शनात्पुंसामानंदः स्यात्पदेपदे ।। २२ ।।
उवाच विस्मयाविष्टो मनस्येव महेशिता ।।
ईदृशेभ्यस्तपस्विभ्यो नमोस्त्विति पुनःपुनः ।।२३।।
यत्रैव हि तपस्यंति यत्रैव विहिताश्रमाः ।।
लब्धप्रतिष्ठा यत्रैव तत्रैवामर्षिणो द्विजाः।।२४।।
मनाक्चिंतितमात्रं तु चेल्लभंते न तापसाः ।।
क्रुधा तदैव जीयंते हारिण्या तपसां श्रियः ।। २५ ।।
तथापि तापसा मान्याः स्वश्रेयोवृद्धिकांक्षिभिः ।।
अक्रोधनाः क्रोधना वा का चिंता हि तपस्विनाम् ।। २६ ।।
इति यावन्महेशानो मनस्येव विचिंतयेत् ।।
तावत्तत्क्रोधजो वह्निर्व्यानशे व्योममंडलम् ।। २७ ।।
तत्कोधानलधूमोघैर्व्यापितं यन्नभोंगणम् ।।
तद्दधाति नभोद्यापि नीलिमानं महत्तरम् ।। २८ ।।
ततो गणाः परिक्षुब्धाः प्रलयार्णव नीरवत् ।।
आः किमेतत्किमेतद्वै भाषमाणाः परस्परम् ।। २९ ।।
गर्जंतस्तर्जयंतश्च प्रोद्यता युधपाणयः ।।
प्रमथाः परितस्थुस्ते परितो धाम शांभवम् ।।4.2.85.३०।।
को यमः कोथवा कालः को मृत्युः कस्तथांतकः।।
को वा विधाता के लेखाः कुद्धेष्वस्मासु कः परः ।। ३१ ।।
अग्निं पिबामो जलवच्चूर्णीकुर्मोखिलान्गिरीन् ।।
सप्तापि चार्णवांस्तूर्णं करवाम मरुस्थलीम् ।। ३२ ।।
पातालं चानयामोर्ध्वमधो दध्मोथवा दिवम् ।।
एकमेव हि वा ग्रासं गगनं करवामहे ।। ३३ ।।
ब्रह्मांडभांडमथवा स्फोटयामः क्षणेन हि ।।
आस्फालयामो वान्योन्यं कालं मृत्युं च तालवत्।। ३४ ।।
ग्रसामो वाथ भुवनं मुक्त्वा वाराणसीं पुरीम् ।।
यत्र मुक्ता भवंत्येव मृतमात्रेण जंतवः ।। ३५ ।।
कुतोऽयं धूमसंभारो ज्वालावल्यः कुतस्त्वमूः ।।
को वा मृत्युंजयं रुद्रं नो विद्यान्मदमोहितः ।। ३६ ।।
इति पारिषदाः शंभोर्महाभय भयप्रदाः ।। जल्पंतः कल्पयामासुः प्राकारं गगनस्पृशम्।।३७।।
शकलीकृत्य बहुशः शिलावत्प्रलयानलम् ।।
नंदी च नंदिषेणश्च सोमनंदी महोदरः ।। ।। ३८ ।।
महाहनुर्महाग्रीवो महाकालो जितांतकः ।।
मृत्युप्रकंपनो भीमो घंटाकर्णो महाबलः ।।३९।।
क्षोभणो द्रावणो जृंभी पचास्यः पंचलोचनः ।।
द्विशिरास्त्रिशिराः सोमः पंचहस्तो दशाननः ।। 4.2.85.४० ।।
चंडो भृंगिरिटिस्तुंडी प्रचंडस्तांडवप्रियः ।।
पिचिंडिलः स्थूलशिराः स्थूलकेशो गभस्तिमान् ।। ४१ ।।
क्षेमकः क्षेमधन्वा च वीरभद्रो रणप्रियः ।।
चंडपाणिः शूलपाणिः पाशपाणिः करोदरः ।। ४२ ।।
दीर्घग्रीवोथ पिंगाक्षः पिंगलः पिंगमूर्धजः ।।
बहुनेत्रो लंबकर्णः खर्वः पर्वतविग्रहः ।।४३।।
गोकर्णो गजकर्णश्च कोकिलाख्यो गजाननः ।।
अहं वै नैगमेयश्च विकटास्योट्टहासकः ।।४४।।
सीरपाणिः शिवारावो वैणिको वेणुवादनः ।।
दुराधर्षो दुःसहश्च गर्जनो रिपुतर्जनः ।। ४५ ।।
इत्यादयो गणेशानाः शतकोटि दुरासदाः ।।
काश्यां निवारयामासुरपि प्राभंजनीं गतिम् ।। ४६ ।।
क्षुब्धेषु तेषु वीरेषु चकंपे भुवनत्रयम् ।।
दुर्वाससश्च कोपाग्नि ज्वालाभिर्व्याकुलीकृतम् ।। ४७ ।।
तदा विविशतुः काश्यां सूर्याचंद्रमसावपि ।।
न गणैरकृतानुज्ञौ तत्तेजः शमितप्रभौ ।। ४८ ।।
निवार्य प्रमथानीकमतिक्षुब्धमुमाधवः ।।
मदंश एव हि मुनीरानसूये य एष वै ।। ४९ ।।
अथो दुर्वाससे लिंगादाविरासीत्कृपानिधिः ।।
महातेजोमयः शंभुर्मुनिशापात्पुरीमवन् ।।4.2.85.५०।।
माभूच्छापो मुनेः काश्यां निर्वाणप्रतिबंधकः ।।
इत्यनुक्रोशतो देवस्तस्य प्रत्यक्षतां गतः।। ५१ ।।
उवाच च प्रसन्नोस्मि महाक्रोधन तापस ।।
वरयस्व वरः कस्ते मया देयो विशंकितः ।। ५२।।
ततो विलज्जितोगस्त्य शापोद्यतकरो मुनिः ।।
अपराद्धं बहु मया क्रोधांधेनेति दुर्धिया ।। ५३ ।।
उवाच चेति बहुशो धिङ्मां क्रोधवशंगतम् ।।
त्रैलोक्याभयदां काशीं शप्तुमुद्यतचेतसम् ।। ५४ ।।
दुःखार्णव निमग्नानां यातायातेति खेदिनाम् ।।
कर्मपाशितकंठानां काश्येका मुक्तिसाधनम्।। ५५।।
सर्वेषां जंतुजातानां जनन्येकैक्काशिका।
महामृतस्तन्यदात्री नेत्री च परमं पदम् ।। ५६ ।।
जनन्या सह नो काशी लभेदुपमितिं क्वचित्।।
धारयेज्जननी गर्भे काशी गर्भाद्विमोचयेत् ।।५७ ।।
एवंभूतां तु यः काशीमन्योपि हि शपिष्यति ।।
तस्यैव शापो भविता न तु काश्याः कथंचन ।। ५८ ।।
इति दुर्वाससो वाक्यं श्रुत्वा देवस्त्रिलोचनः ।।
अतीव तुषितो जातः काशीस्तवन लब्धमुत् ।।५९।।
यः काशीं स्तौति मेधावी यः काशीं हृदि धारयेत् ।।
तेन तप्तं तपस्तीव्रं तेनेष्टं क्रतुकोटिभिः ।।4.2.85.६०।।
जिह्वाग्रे वर्तते यस्य काशीत्यक्षरयुग्मकम् ।।
न तस्य गर्भवासः स्यात्क्वचिदेव सुमेधसः ।। ६१ ।।
यो मंत्रं जपति प्रातः काशी वर्णद्वयात्मकम्।।
स तु लोकद्वयं जित्वा लोकातीतं व्रजेत्पदम् ।।६२।।
आनुसूयेय ते ज्ञानं काशीस्तवन पुण्यतः ।।
यथेदानीं समुत्पन्नं तथा न तपसः पुरा ।। ६३ ।।
मुने न मे प्रियस्तद्वद्दीक्षितो मम पूजकः ।।
यादृक्प्रियतरः सत्यं काशीस्तवन लालसः ।।६४।।
तादृक्तुष्टिर्न मे दानैस्तादृक्तुष्टिर्न मे मखैः ।।
न तुष्टिस्तपसा तादृग्यादृशी काशिसंस्तवैः ।। ६५ ।।
आनंदकाननं येन स्तुतमेतत्सुचेतसा ।।
तेनाहं संस्तुतः सम्यक्सर्वैः सूक्तैः श्रुतीरितैः ।। ६६ ।।
तव कामाः समृद्धाः स्युरानुसूयेय तापस ।।
ज्ञानं ते परमं भावि महामोहविनाशनम् ।। ६७ ।।
अपरं च वरं ब्रूहि किं दातव्यं तवानघ ।।
त्वादृशा एव मुनयः श्लाघनीया यतः सताम्।। ६८ ।।
यस्यास्त्वेव हि सामर्थ्यं तपसः क्रुद्ध्यतीहसः ।।
कुपितोप्यसमर्थस्तु किं कर्ता क्षीणवृत्तिवत्।।६९।।
इति श्रुत्वा परिष्टुत्य दुर्वासाः कृत्तिवाससम् ।।
वरं च प्रार्थयामास परिहृष्ट तनूरुहः ।। 4.2.85.७० ।।
।।दुर्वासा उवाच ।। ।।
देवदेव जगन्नाथ करुणाकर शंकर ।।
महापराधविध्वंसिन्नंधकारे स्मरांतक ।। ७१ ।।
मृत्युंजयोग्रभूतेश मृडानीश त्रिलोचन ।।
यदि प्रसन्नो मे नाथ यदि देयो वरो मम ।। ७२ ।।
तदिदं कामदं नाम लिगमस्त्विह धूर्जटे ।।
इदं च पल्वलं मेत्र कामकुंडाख्यमस्तु वै ।। ७३ ।।
।। देवदेव उवाच ।। ।।
एवमस्तु महातेजो मुने परमकोपन ।।
यत्त्वया स्थापितं लिंगं दुर्वासेश्वरसंज्ञितम्।। ७४ ।।
तदेव कामकृन्नृणां कामेश्वरमिहास्त्विति ।।
यः प्रदोषे त्रयोदश्यां शनिवासरसंयुजि ।। ७५ ।।
संस्नास्यति नरो धीमान्कामकुंडे त्वदास्पदे ।।
त्वत्स्थापितं च कामेशं लिंगं द्रक्ष्यति मानवः ।। ७६ ।।
स वै कामकृताद्दोषाद्यामीं नाप्स्यति यातनाम् ।।
बहवोपि हि पाप्मानो बहुभिर्जन्मभिः कृताः ।। ७७ ।।
कामतीर्थांबु संस्नानाद्यास्यंति विलयं क्षणात् ।।
 कामाः समृद्धिमाप्स्यंति कामेश्वर निषेवणात् ।। ७८ ।।
इति दत्त्वा वराञ्शंभुस्तल्लिंगे लयमाययौ।। ।।
स्कंद उवाच ।।
तल्लिंगाराधनात्कामाः प्राप्ता दुर्वाससा भृशम् ।। ७९ ।।
तस्मात्सर्वप्रयत्नेन काश्यां कामेश्वरः सदा ।।
पूजनीयः प्रयत्नेन महाकामाभिलाषुकैः ।।4.2.85.८० ।।
कामकुंडकृतस्नानैर्महापातकशांतये ।।
इदं कामेश्वराख्यानं यः पठिष्यति पुण्यवान् ।।
यः श्रोष्यति च मेधावी तौ निष्पापौ भविष्यतः ।। ८१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्वाससो वरप्रदानं नाम पंचाशीतितमोऽध्यायः ।। ८५ ।।