स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०३५

विकिस्रोतः तः
Jump to navigation Jump to search

।। कुंभयोनिरुवाच ।। ।।
अविमुक्तं महाक्षेत्रं परनिर्वाणकारणम् ।।
क्षेत्राणां परमं क्षेत्रं मंगलानां च मंगलम् ।। १ ।।
श्मशानानां च सर्वेषां श्मशानं परमं महत् ।।
पीठानां परमं पीठमूषराणां महोषरम् ।। २ ।।
धर्माभिलाषिबुद्धीनां धर्मराशिकरं परम् ।।
अर्थार्थिनां शिखिरथ परमार्थ प्रकाशकम् ।। ३ ।।
कामिनां कामजननं मुमुक्षूणां च मोक्षदम् ।।
श्रूयते यत्र यत्रैतत्तत्र तत्र परामृतम् ।। ४ ।।
क्षेत्रैकदेशवर्तिन्या ज्ञानवाप्याः कथां पराम् ।।
श्रुत्वेमामिति मन्येहं गौरीहृदयनंदन ।। ५ ।।
अणुप्रमाणमपि या मध्ये काशिविकासिनी ।।
मही महीयसी ज्ञेया सा सिद्ध्यै न मुधा क्वचित् ।। ६ ।।
कियंति संति तीर्थानि नेह क्षोणीतलेऽखिले ।।
परं काशीरजोमात्र तुलासाम्यं क्व तेष्वपि ।। ७ ।।
कियंत्यो न स्रवंत्योत्र रत्नाकर मुदावहाः ।।
परं स्वर्गतरंगिण्याः काश्यां का साम्यमुद्वहेत् ।। ८ ।।
कियंति संति नो भूम्यां मोक्षक्षेत्राणि षण्मुख ।।
परं मन्येऽविमुक्तस्य कोट्यंशोपि न तेष्वहो ।। ९ ।।
गंगा विश्वेश्वरः काशी जागर्ति त्रितयं यतः ।।
तत्र नैःश्रेयसी लक्ष्मीर्लभ्यते चित्रमत्र किम् ।। 4.1.35.१० ।।
कथमेषा त्रयी स्कंद प्राप्यते नियतं नरैः ।।
तिष्ये युगे विशेषेण नितरां चंचलेंद्रियैः ।। ११ ।।
तपस्तादृक्क्व वा तिष्ये तिष्ये योगः क्व तादृशः ।।
क्व वा व्रतं क्व वा दानं तिष्ये मोक्षस्त्वतः कुतः ।। १२।।
विनापि तपसा स्कंद विनायोगेन षण्मुख ।।
विना व्रतैर्विना दानैः काश्यां मोक्षस्त्वयेरितः ।। १३ ।।
किं किमाचरता स्कंद काशी प्राप्येत तद्वद ।।
मन्ये विना सदाचारं न सिद्ध्येयुर्मनोरथाः ।। १४ ।।
आचारः परमो धर्म आचारः परमं तपः ।।
आचाराद्वर्धते ह्यायुराचारात्पापसंक्षयः ।। १५ ।।
आचारमेव प्रथमं तस्मादाचक्ष्व षण्मुख ।।
देवदेवो यथा प्राह तवाग्रे त्वं तथा वद ।। १६ ।।
।। स्कंद उवाच।। ।।
मित्रावरुणजाख्यामि सदाचारं सतां हितम् ।।
यदाचरन्नरो नित्यं सर्वान्कामानवाप्नुयात् ।।१७।।
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।।
क्रमेण धार्मिकास्त्वेते ह्येतेभ्यो धार्मिकाः सुराः ।। १८ ।।
सहस्रभागः प्रथमा द्वितीयोनुक्रमात्तथा ।।
सर्व एते महाभागा यावन्मुक्ति समाश्रयाः ।। १९ ।।
चतुर्णामपि भूतानां प्राणिनोऽतीव चोत्तमाः ।।
प्राणिभ्यामपि मुने श्रेष्ठाः सर्वे बुद्ध्युपजीविनः ।। 4.1.35.२० ।।
मतिमद्भ्यो नराः श्रेष्ठास्तेभ्यः श्रेष्ठास्तु वाडवाः ।।
विप्रेभ्योपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः ।। २१ ।।
कृतधीभ्योपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ।।
न तेषामर्चनीयोऽन्यस्त्रिषु लोकेषु कुंभज ।। २२ ।।
अन्योन्यमर्चकास्ते वै तपोविद्याऽविशेषतः ।।
ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः ।। २३ ।।
अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ।।
सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ।।
तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ।। २४ ।।
विद्वेष रागरहिता अनुतिष्ठंति यं मुने ।।
विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ।।२५।।
लक्षणैः परिहीनोपि सम्यगाचारतत्परः ।।
श्रद्धालुरनसूयुश्च नरो जीवेत्समाः शतम ।। २६ ।।
श्रुतिस्मृतिभ्यामुदितं स्वेषु स्वेषु च कर्मसु ।।
सदाचारं निषेवेत धर्ममूलमतंद्रितः ।। २७ ।।
दुराचाररतो लोके गर्हणीयः पुमान्भवेत् ।।
व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ।। २८ ।।
त्याज्यं कर्म पराधीनं कायमात्मवशं सदा ।।
दुःखी यतः पराधीनः सदैवात्मवशः सुखी ।। २९ ।।
यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति ।।
तदेव कर्म कर्तव्यं विपरीतं न च क्वचित् ।। 4.1.35.३० ।।
प्रथमं धर्मसर्वस्वं प्रोक्ता यन्नियमा यमाः ।।
अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ।। ३१ ।।
सत्यं क्षमार्जवं ध्यानमानृशंस्यमहिंसनम् ।।
दमः प्रसादो माधुर्यं मृदुतेति यमा दश ।। ३२ ।।
शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ।।
उपोषणोपस्थ दंडौ दशैते नियमाः स्मृताः ।। ३३ ।।
कामं क्रोधं मदं मोहं मात्सर्यं लोभमेव च ।।
अमून्षड्वै(?)रिणो जित्वा सर्वत्र विजयी भवेत् ।। ३४ ।।
शनैः शनैः स चिनुयाद्धर्मं वल्मीक शृंगवत् ।।
परपीडामकुर्वाणः परलोकसहायिनम् ।। ३५ ।।
धर्म एव सहायी स्यादमुत्र न परिच्छदः ।।
पितृ मातृ सुत भ्रातृ योषिद्बंधुजनादिकः ।। ३६ ।।
जायते चैकलः प्राणी प्रम्रियेत तथैकलः ।।
एकलः सुकृतं भुंक्ते भुंक्ते दुष्कृतमेकलः ।। ३७ ।।
देहं पंचत्वमापन्नं त्यक्त्वा कौ काष्ठलोष्ठवत् ।।
बांधवा विमुखा यांति धर्मो यांतमनुव्रजेत् ।।३८।।
कृती संचिनुयाद्धर्मं ततोऽमुत्र सहायिनम् ।।
धर्मं सहायिनं लब्द्ध्वा संतरेद्दुस्तरं तमः ।। ३९ ।।
संबंधानाचरेन्नित्यमुत्तमैरुत्तमैः सुधीः ।।
अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत्।। 4.1.35.४० ।।
उत्तमानुत्तमानेव गच्छन्हीनांश्च वर्जयन् ।।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवाये न शूद्रताम् ।। ४१ ।।
अनध्ययनशीलं च सदाचारविलंघिनम्।।
सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः ।। ४२ ।।
ततोऽभ्यसेत्प्रयत्नेन सदाचारं सदा द्विजः ।।
तीर्थान्यप्यभिलष्यंति सदाचारिसमागमम्।। ४३ ।।
रजनीप्रांतयामार्धं बाह्मः समय उच्यते ।।
स्वहितं चिंतयेत्प्राज्ञस्तस्मिंश्चोत्थाय सवर्दा ।। ४४ ।।
गजास्यं संस्मरेदादौ तत ईशं सहांबया।।
श्रीरंगं श्रीसमेतं तु ब्रह्माण्या कमलोद्भवम्।। ४५ ।।
इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ।।
गंगाद्याः सरितः सर्वाः श्रीशैलाद्यखिलान्गिरीन् ।। ४६ ।।
क्षीरोदादीन्समुद्रांश्च मानसादि सरांसि च ।।
वनानि नंदनादीनि धेनूः कामदुघादिकाः ।। ४७ ।।
कल्पवृक्षादि वृक्षांश्च धातून्कांचनमुख्यतः ।।
दिव्यस्त्रीरुर्वशीमुख्या गरुडादीन्पतत्त्रिणः ।। ४८ ।।
नागाश्च शेषप्रमुखान्गजानैरावतादिकान्।।
अश्वानुच्चैःश्रवो मुख्यान्कौस्तुभादीन्मणीञ्छुभान् ।। ४९ ।।
स्मरेदरुंधतीमुख्याः पतिव्रतवतीर्वधूः ।।
नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः ।। 4.1.35.५० ।।
विश्वेशादीनि लिंगानि वेदानृक्प्रमुखानपि ।।
गायत्रीप्रमुखान्मंत्रान्योगिनः सनकादिकान् ।। ५१ ।।
प्रणवादिमहाबीजं नारदादींश्च वैष्णवान् ।।
शिवभक्तांश्च बाणादीन्प्रह्लादादीन्दृढव्रतान् ।। ५२ ।।
वदान्यांश्च दधीच्यादीन्हरिश्चंद्रादि भूपतीन् ।।
जननी चरणौ स्मृत्वा सर्वतीर्थोत्तमोत्तमौ ।। ५३ ।।
पितरं च गुरूंश्चापि हृदि ध्यात्वा प्रसन्नधीः ।।
ततश्चावश्यकं कर्तुं नैर्ऋतीं दिशमाश्रयेत् ।। ५४ ।।
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् ।।
तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ।।५५ ।।
कर्णोपवीत्युदग्वक्त्रो दिवसे संध्ययोरपि ।।
विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ।। ५६ ।।
न तिष्ठन्नाप्सु नो विप्र गो वह्न्यनिल संमुखः ।।
न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ।। ५७ ।।
नालोकयेद्दिशोभागाञ्ज्योतिश्चक्रं नभोमलम् ।।
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ।। ५८ ।।
अथो मृदं समादाय जंतुकर्करवर्जिताम् ।।
विहाय मूषकोत्खातां शौचोच्छिष्टां च नाकुलाम् ।। ५९ ।।
गुह्ये दद्यान्मृदं चैकां पायौ पंचांबुसां तराः ।।
दश वामकरे चापि सप्त पाणिद्वये मृदः ।। 4.1.35.६० ।।
एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ।।
इत्थं शौचं गृही कुर्याद्गंधलेपक्षयावधि ।। ६१ ।।
क्रमाद्द्वैगुण्यमेतस्माद्ब्रह्मचर्यादिषु त्रिषु ।।
दिवाविहित शौचस्य रात्रावर्धं समाचरेत् ।। ६२ ।।
रुज्यर्धं च तदर्धं च पथि चौरादि बाधिते ।।
तदर्धं योषितां चापि सुस्थे न्यूनं न कारयेत् ।।६३।।
अपि सर्वनदीतोयैर्मृत्कूटैश्चापि गोमयैः ।।
आपादमाचरच्छौचं भावदुष्टो न शुद्धिभाक् ।।६४।।
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः।।
सर्वाश्चाहुतयोप्येवं ग्रासाश्चांद्रायणेपि च ।।
प्रागास्य उदगास्योवा सूपविष्टः शुचौ भुवि।।
उपस्पृशेद्विहीनायां तुषांगारास्थिभस्मभिः ।। ६६।।
अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः ।।
ब्राह्मणो ब्राह्मतीर्थेन दृष्टिपूताभिराचमेत् ।। ६७।।
कंठगाभिर्नृपः शुद्ध्येत्तालुगाभिस्तथोरुजः ।।
स्त्रीशूद्रावास्य संस्पर्शमात्रेणापि विशुद्ध्यतः ।। ६८ ।।
शिरः प्रावृत्य कंठं वा जले मुक्तशिखोऽपि च ।।
अक्षालितपदद्वंद्व आचांतोप्यशुचिर्मतः ।। ६९ ।।
त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत् ।।
अंगुष्ठमूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत् ।। 4.1.35.७० ।।
अंगुलीभिस्त्रिभिः पश्चात्पुनरास्यं स्पृशेत्सुधीः ।।
तर्जन्यंगुष्ठकोट्या च घ्राणरंध्रे पुनः पुनः ।। ७१ ।।
अंगुष्ठानामिकाग्राभ्यां चक्षुः श्रोत्रे पुनः पुनः ।।
कनिष्ठांगुष्ठयोगेन नाभिरंध्रमुपस्पृशेत् ।। ७२ ।।
स्पृष्ट्वा तलेन हृदयं समस्ताभिः शिरः स्पृशेत् ।।
अंगुल्यग्रैस्तथा स्कंधौ सांबु सर्वत्र संस्पृशेत् ।। ७३ ।।
आचांतः पुनराचामेत्कृते रथ्योपसर्पणे ।।
स्नात्वा भुक्त्वा पयः पीत्वा प्रारंभे शुभकर्मणाम् ।। ७४ ।।
सुप्त्वा वासः परीधाय तथा दृष्ट्वाप्यमंगलम् ।।
प्रमादादशुचिं स्पृष्ट्वा द्विराचांतः शुचिर्भवेत् ।। ७५ ।।
अथो मुखविशुद्ध्यर्थं गृह्णीयाद्दंतधावनम् ।।
आचांतोप्यशुचिर्यस्मादकृत्वा दंतधावनम्।। ७६ ।।
प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ।।
दंतानां काष्ठसंयोगो दहेदासप्तमं कुलम् ।। ७७।।
अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे ।।
गंडूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ।। ७८ ।।
कनिष्ठाग्र परीमाणं सत्वचं निर्व्रणं ऋजुम् ।।
द्वादशांगुलमानं च सार्धं स्याद्दंतधावनम् ।। ७९ ।।
एकैकांगुलह्रासेन वर्णेष्वन्येषु कीर्तितम् ।।
आम्राम्रातक धात्रीणां कंकोल खदिरोद्भवम् ।। 4.1.35.८० ।।
शम्यपामार्गखर्जूरीशेलुश्रीपर्णिपीलुजम्।।
राजादनं च नारंगं कषायकटुकंटकम्।।८१।।
क्षीरवृक्षोद्भवं वापि प्रशस्तं दंतधावनम्।।
जिह्वोल्लेखनिकां चापि कुर्याच्चापाकृतिं शुभाम्।। ८२।।
अन्नाद्याय व्यूहध्वं सोमोराजाय मा गमत् ।।
समे मुखं प्रमार्क्ष्यते यशसा च भगेन च ।। ८३ ।।
आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च ।।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ।। ८४ ।।
मंत्रावेतौ समुच्चार्य यः कुर्याद्दंतधावनम् ।।
वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति ।। ८५ ।।
मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः ।।
ततः कुर्यात्प्रयत्नेन शुद्ध्यर्थं दंतधावनम् ।। ८६ ।।
उपवासेपि नो दुष्येद्दंतधावनमंजनम् ।।
गंधालंकारसद्वस्त्रपुष्पमालानुलेपनम् ।। ८७ ।।
प्रातःसंध्यां ततः कुर्याद्दंतधावनपूर्विकाम् ।।
प्रातःस्नानं चरित्वा च शुद्धे तीर्थे विशेषतः ।। ८८ ।।
प्रातःस्नानाद्यतःशुद्ध्येत्कायोयं मलिनः सदा ।।
छिद्रितो नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ।। ८९ ।।
उत्साह मेधा सौभाग्य रूप संपत्प्रवर्तकम् ।।
मनः प्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते ।। 4.1.35.९० ।।
प्रस्वेद लालाद्याक्लिन्नो निद्राधीनो यतो नरः ।।
प्रातःस्नानात्ततोर्हः स्यान्मंत्रस्तोत्रजपादिषु।।९१।।
प्रातःप्रातस्तु यत्स्नानं संजाते चारुणोदये ।।
प्राजापत्यसमं प्राहुस्तन्महाघविघातकृत् ।। ९२ ।।
प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ।।
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ।। ९३ ।।
नोपसर्पंति वै दुष्टाः प्रातःस्नायिजन क्वचित् ।।
दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत् ।। ९४ ।।
प्रसंगतः स्नानविधिं वक्ष्यामि कलशोद्भव ।।
विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम् ।। ९५ ।।
विशुद्धां मृदमादाय बर्हींषि तिल गोमयम् ।।
शुचौ देशे परिस्थाप्य त्वाचम्य स्नानमाचरेत् ।। ९६ ।।
उपग्रही बद्धशिखो जलमध्ये समाविशेत् ।।
उरुँ हीति मंत्रेण तोयमावर्त्य सृष्टितः ।। ९७ ।।
ये ते शतं ततो जप्त्वा तोयस्यामंत्रणाय च ।।
सुमित्रिया नो मंत्रेण पूर्वं कृत्वा जलांजलिम् ।।
क्षिपेद्द्वेष्यं समुद्दिश्य जपन्दुर्मित्रिया इति ।। ९८ ।।
इदं विष्णुरिमं जप्त्वा लिंपेदंगानि मृत्स्नया ।।
मृदैकया शिरः क्षाल्य द्वाभ्यां नाभेस्तथोपरि ।। ९९ ।।
नाभेरधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत् ।। ।।
मज्जेत्प्रवाहाभिमुख आपो अस्मानिमं जपन् ।।4.1.35.१००।।
उदिदाभ्यः शुचिरिति मंत्र उन्मज्जने मतः ।।
मानस्तोक इमं जप्त्वा लिंपेद्गात्राणि गोमयैः ।। १ ।।
इमं मे वरुणेत्यादि मंत्रः स्वात्माभिषेचनम् ।।
तत्त्वायामि तथात्वन्नः सत्वं नश्चाप्युदुत्तमम् ।। २ ।।
धाम्नोधाम्नस्तथा मापो मौषधीरिति संजपेत् ।।
यदाहुरघ्न्या मुंचंतु मेति चावभृथेति च ।। ३ ।।
अब्दैवता इमे मंत्राः प्रोक्ताः स्वात्माभिषेचने ।।
प्रणवेन ततो विप्रो महाव्याहृतिभिस्ततः ।। ४ ।।
आत्मानं पावयेद्विद्वान्गायत्र्या च ततः कृती ।।
आपो हिष्ठेति तिसृभिः प्रत्यृचं पावनं स्मृतम् ।। ५ ।।
एतेपि पावना मंत्रा इदमापो हविष्मतीः ।।
देवीराप अपो देवा द्रुपदादिव संज्ञकाः ।। ६ ।।
शन्नो देवीरपोदेवीस्तथापाँरसमित्यपि ।।
पुनंतु मेति च नव पावमान्यः प्रकीर्तिताः ।। ७ ।।
ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो जपेत् ।।
प्राणायामं च विधिवदथवांतर्जले जपेत् ।। ८ ।।
प्रणवं त्रिर्जपेद्वापि विष्णुं वा संस्मरेत्सुधीः।।
स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ।।
आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्विताम्।।
यो न संध्यामुपासीत ब्राह्मणो हि विशेषतः ।। 4.1.35.११० ।।
स जीवन्नेव शूद्रस्तु मृतः श्वा जायते ध्रुवम् ।।
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।। ११ ।।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ।।
प्रणवं प्राग्दिशि स्मृत्वा ततो दत्त्वा कुशासनम् ।। १२ ।।
चतुःस्रक्तिरिमं मंत्रं पठित्वा नान्यदृङ्मनाः ।। १३ ।।
प्राङ्मुखो बद्धचूडो वाप्युपविष्ट उदङ्मुखः ।।
प्रदक्षिणं स्वमभ्युक्ष्य प्राणायामं समाचरेत् ।। १४ ।।
गायत्रीं शिरसा सार्धंं सप्तव्याहृतिपूर्विकाम् ।।
त्रिर्जपेत्सदशोंकारः प्राणायामोयमुच्यते ।।१५।।
प्राणायामांश्चरन्विप्रो नियतेंद्रिय मानसः ।।
अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात् ।।१६।।
दशद्वादश संख्या वा प्राणायामाः कृता यदि ।।
नियम्य मानसं तेन तदा तप्तं महत्तपः ।। १७ ।।
सव्याहृति प्रणवकाः प्राणायामास्तु षोडश ।।
अपि भ्रूणहनं मासात्पुनंत्यहरहः कृताः ।। १८ ।।
यथा पार्थिवधातूनां दह्यंते धमनान्मलाः ।।
तथेंद्रियैः कृता दोषा ज्वाल्यंते प्राणसंयमात् ।। १९ ।।
एकं संभोज्य विधिवद्ब्राह्मणं यत्फलं लभेत् ।।
प्राणायामैर्द्वादशभिस्तत्फलं श्रद्धयाप्यते ।। 4.1.35.१२० ।।
वेदादि वाङ्मयं सर्वं प्रणवे यत्प्रतिष्ठितम्।।
ततः प्रणवमभ्यस्येद्वेदादिं वेदजापकः ।। २१ ।।
प्रणवे नित्ययुक्तस्य सप्तसु व्याहृतिष्वपि ।।
त्रिपदायां तु गायत्र्यां न भयं जायते क्वचित् ।।२२।।
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।।
गायत्र्यास्तु परं नास्ति पावनं कलशोद्भव ।। २३ ।।
कर्मणा मनसा वाचा यद्रात्रौ कुरुतेत्वघम् ।।
उत्तिष्ठन्पूर्वसंध्यायां प्राणायामैर्विशोधयेत्।। २४।।
यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ।।
आसीनः पश्चिमां संध्यां तत्प्राणायामतो हरेत् ।। २५ ।।
पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् ।।
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ।। २६ ।।
पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।।
पश्चिमां तु समासीनो मलं हंति दिवाकृतम् ।। २७ ।।
नोपतिष्ठेत्तु यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ।। २८ ।।
अपां समीपमासाद्य नित्यकर्म समाचरेत् ।।
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ।। २९ ।।
गृहाद्बहुगुणा यस्मात्संध्या बहिरुपासिता ।।
गायत्र्यभ्यासमात्रोपि वरं विप्रो जितेंद्रियः ।। 4.1.35.१३० ।।
त्रिवेद्यपि च नो मान्यः सर्वभुक्सर्वविक्रयी ।।
सविता देवता यस्या मुखमग्निस्त्रिपाच्च या ।। ३१ ।।
विश्वामित्रे ऋषिश्छंदो गायत्री सा विशिष्यते ।।
गायत्रीमुषसि ध्यायेल्लोहितां ब्रह्मदैवताम् ।। ३२ ।।
हंसारूढामष्टवर्षां रक्तस्रगनुलेपनाम् ।।
ऋक्स्वरूपामभयदामक्षमालावलंबिनीम् ।। ३३ ।।
व्यासर्षिणा स्तूयमानां छंदसानुष्टुभायुताम् ।।
एतद्ध्यानादुषर्देव्या नैशमेनो व्यपोहति ।। ३४ ।।
सूर्यश्चेति च मंत्रेण स्यादाचमनमुत्तमम् ।।
आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ।। ३५ ।।
भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ।।
मस्तके च तथाकाशे भूमौ च नवधा क्षिपेत् ।। ३६ ।।
भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ।।
शिरस्येव शिरः शब्दो मार्जनज्ञैरुदाहृतः ।। ३७ ।।
वारुणादपि चाग्नेयाद्वायव्यादपि चैंद्रतः ।।
मंत्रस्नानादपि परं ब्राह्मं स्नानमिदं परम् ।। ३८ ।।
ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यंतरे शुचिः ।।
सर्वत्र चार्हतामेति देवपूजादिकर्मणि ।।३९ ।।
नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ।।
शतशोपि तथा स्नाता न शुद्धा भावदूषिता ।। 4.1.35.१४० ।।
अंतःकरणशुद्धा ये तान्विभूतिः पवित्रयेत् ।।
किं पावनाः प्रकीर्त्यंते रासभा भस्मधूसराः ।। ४१ ।।
स स्नातः सर्वतीर्थेषु स सर्वमलवर्जितः ।।
तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ।। ४२ ।।
तदेव निर्मलं चेतो यथास्यात्तन्मुने शृणु ।।
विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ।। ४३ ।।
तस्माच्चेतोविशुद्ध्यर्थं काशीनाथं समाश्रयेत् ।।
तदाश्रयेण नियतं संक्षीयंते मनोमलाः ।। ४४ ।।
संक्षीणमान स मलो विश्वेशानु ग्रहात्परात् ।।
इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति ।। ४५ ।।
विश्वेशानुग्रहे हेतुः सदाचारो मतो नृणाम् ।।
श्रुतिस्मृतिभ्यामुदितं तस्मात्तमनु संश्रयेत् ।। ।। ४६ ।।
द्रुपदां तु ततो जप्त्वा जलमादाय पाणिना ।।
कुर्यादृतं च मंत्रेण विधिज्ञस्त्वघमर्षणम् ।। ४७ ।।
निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ।।
यथाश्वमेधावभृथस्तस्य स्यात्तत्तथा ध्रुवम् ।। ४८ ।।
जले वापि स्थले वापि यः कुयार्दघमषर्णम् ।।
तस्याघौघो विनश्येत यथा सूर्योदये तमः ।। ४९ ।।
इमं मंत्रं ततश्चोक्त्वा कुर्यादाचमनं द्विजः ।।
आचार्याः केचिदिच्छंति शाखाभेदेन चापरे ।। 4.1.35.१५० ।।
अंतश्चरसि भूतेषु गुहायां विश्वतोमुखः ।।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतम् ।। ५१ ।।
गायत्रीं शिरसा हीनां महाव्याहृतिपूर्विकाम् ।।
प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदंभोंजलि त्रयम् ।। ५२ ।।
तेन वज्रोदकेनाशु मंदेहा नाम राक्षसाः ।।
सूर्यारयः प्रलीयंते शैला वज्रहता इव ।।५३।।
विवस्वतः सहायार्थं यो द्विजो नांजलित्रयम् ।।
क्षिपेन्मंदेहनाशाय सोपि मंदेहतां व्रजेत्।।५४।।
प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम्।।
उपविष्टो जपेत्सायमृक्षाणामाविलोकनात्।।५५।।
काललोपो न कर्तव्यो द्विजेन स्वहितेप्सुना।।
अर्धोदयास्त समये तस्माद्वज्रोदकं क्षिपेत् ।।५६ ।।
विधिनापि कृता संध्या कालातीताऽफला भवेत् ।।
अयमेव हि दृष्टांतो वंध्या स्त्री मैथुनं यथा ।।५७।।
जलं वामकरे कृत्वा यासंध्या चरिता द्विजैः ।।
वृषली सा परिज्ञेया रक्षोगण मुदावहा ।।५८।।
उद्वयं तमुदुत्यं च चित्रं देवेति तत्परम् ।।
तच्चक्षुरित्युपस्थानमंत्रा ब्रध्नस्य सिद्धिदाः ।।५९।।
सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ।।
दशकृत्वोथ देव्यैव कुर्यात्सौरीमुपस्थितिम् ।। 4.1.35.१६० ।।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।।
गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ।। ६१ ।।
विभ्राडित्यनुवाकं वा सूक्तं वा पौरुषं जपेत् ।।
शिवसंकल्पमथवा ब्राह्मणं मंडलं तु वा ।। ६२ ।।
एतानि चोपस्थानानि रविप्रीतिकराणि च ।।
रक्तचंदनमिश्राद्भिरक्षतैः कुसुमैः कुशैः ।।६३।।
वेदोक्तैरागमोक्तैर्वा मंत्रैरर्घं प्रदापयेत् ।।
अर्चितः सविता येन तेन त्रैलोक्यमर्चितम्।।६४।।
अर्चितः सविता सूते सुतान्पशु वसूनि च ।।
व्याधीन्हरेद्ददात्यायुः पूरयेद्वांछितान्यपि ।। ६५ ।।
अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ।।
रविर्हिरण्यगर्भोसौ त्रयीरूपोयमर्यमा ।। ६६ ।।
रवेस्तु तोषणात्तुष्टा ब्रह्मविष्णुमहेश्वराः ।।
इंद्रादयोखिला देवा मरीच्याद्या महर्षयः ।। ६७ ।।
मानवा मनुमुख्याश्च सोमपाद्याः पितामहाः ।।
रवेरर्चां विधायेत्थं ततस्तर्पणमारभेत् ।। ६८ ।।
 दर्भानगर्भानादाय नव सप्त च पंच वा ।।
साग्रान्समूलानच्छिन्नान्द्विजो दक्षिणपाणिना ।। ६९ ।।
अन्वारब्धेन सव्येन तर्पयेत्षड्विनायकान् ।।
ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन् ।। 4.1.35.१७० ।।
चंदनागुरुकस्तूरी गंधवत्कुसुमैरपि ।।
तर्पयेच्छुचिभिस्तोयैस्तृप्यंत्विति समुच्चरन् ।। ७१ ।।
सनकादीन्मनुष्याँश्च निवीती तर्पयेद्यवैः ।।
अंगुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः ।। ७२ ।।
कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्पयेत् ।।
प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः ।। ७३ ।।
रवौ शुक्रे त्रयोदश्यां सप्तम्यां निशि संध्ययोः ।।
श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्पणम् ।। ७४ ।।
यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ।।
चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन् ।। ७५ ।।
ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वपितॄन्मुदा ।।
सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः ।। ७६ ।।
एकैकमंजलिं देवा द्वौ द्वौ तु सनकादिकाः ।।
पितरस्त्रीन्प्रवांछंति स्त्रिय एकैकमंजलिम् ।। ७७ ।।
अंगुल्यग्रे भवेद्दैवमार्षमंगुलि मूलगम् ।।
ब्राह्ममंगुष्ठमूले तु पाणिमध्ये प्रजापतेः ।। ७८ ।।
मध्येंगुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ।।
नवर्चमुच्चरन्विद्वान्विदध्यात्पितृतर्पणम् ।। ७९ ।।
उदीरतामगिंरस आयंतुन इतीष्यते ।।
ऊर्जं वहंती पितृभ्यः स्वधायिभ्यस्ततः पठेत् ।। 4.1.35.१८० ।।
ये चेह पितरस्तद्वन्मधुवाता इति तृचम् ।।
नमो वः पितरश्चोक्त्वा पठन्सिंचेज्जलं भुवि ।। ८१ ।।
आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ।।
तृप्यंतु पितरः सर्वे मातृमातामहादयः ।।८२ ।।
अतीतकुलकोटीनां सप्तद्वीप निवासिनाम् ।।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।। ६३ ।।
ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ।।
सर्वे ते तृप्तिमायांतु वस्त्रनिष्पीडनोदकैः ।।८४ ।।
अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ।।
श्रुत्यभ्यासः पंचधा स्यात्स्वीकारोर्थविचारणम् ।। ८५ ।।
अभ्यासश्च जपश्चापि शिष्येभ्यः प्रतिपादनम् ।।
लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ।। ८६ ।।
दातारं समुपेयाद्वै स्वगुरुत्वं च वर्धयेत् ।।
प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां द्विजोत्तम ।। ८७ ।।
अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ।।
शौचाचमनमादाय भक्षयेद्दंतधावनम् ।। ८८ ।।
विशोध्य सर्वगात्राणि प्रातःसंध्यां समाचरेत् ।।
वेदार्थानधिगच्छेच्च शास्त्राणि विविधान्यपि ।। ८९ ।।
अध्यापयेच्छुचीञ्शिष्यान्हितान्मेधासमन्वितान् ।।
उपेयादीश्वरं चैव योगक्षेमादि सिद्धये ।। 4.1.35.१९० ।।
ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ।।
स्नात्वा माध्याह्निका संध्यामुपासीत विचक्षणः ।। ९१ ।।
नवयौवनभिन्नांगीं शुद्धस्फटिकनिर्मलाम् ।।
त्रिष्टुप्छंदः समायुक्तां सावित्रीं रुद्रदैवताम् ।। ९२ ।।
कश्यपर्षिसमायुक्तां यजुर्वेदस्वरूपिणीम् ।।
त्र्यक्षरां वृषभारूढां भक्ताभयकरां पराम् ।। ९३ ।।
देवतां परिपूज्याथ नैत्यिकं विधिमाचरेत् ।।
पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् ।। ९४ ।।
निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् ।।
तैलपक्वं च पक्वान्नं सर्वं लवणयुक्त्यजेत् ।। ९५ ।।
आढकीश्च मसूरांश्च वर्तुलान्वरटांस्तथा ।।
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् ।। ९६ ।।
दर्भपाणिः समाचम्य प्राणायामं विधाय च ।।
पृष्ठो दिवीति मंत्रेण पर्युक्षणमथाचरेत् ।। ९७ ।।
प्रदक्षिणं च पर्युक्ष्य त्रिःपरिस्तीर्य वै कुशान् ।।
एषो ह देव मंत्रेण कुर्याद्वह्निं सुसंमुखम् ।। ९८ ।।
वैश्वानरं समभ्यर्च्य साज्यपुष्पाक्षतैरथ ।।
भूराद्याश्चाहुतीस्तिस्रः स्वाहांताः प्रणवादिकाः ।। ९९ ।।
ॐभूर्भुवःस्वःस्वाहेति विप्रो दद्यात्तथाहुतिम् ।।
तथा देवकृतस्याद्या जुहुयाच्च षडाहुतीः ।। 4.1.35.२०० ।।
यमाय तूष्णीमेकां च तथा स्विष्टकृतीद्वयम् ।।
विश्वेभ्यश्चापि देवेभ्यो भूमौ दद्यात्ततो बलिम् ।। १ ।।
सर्वेभ्यश्चापि भूतेभ्यो नमो दद्यात्तदुत्तरे ।।
तद्दक्षिणे पितृभ्यश्च प्राचीनावीतिको ददेत् ।। २ ।।
निर्णेजनोदकान्नं चैशान्यां वै यक्ष्मणेऽर्पयेत् ।।
ततो ब्रह्मादि देवेभ्यो नमो दद्यात्तदुत्तरे ।। ३ ।।
निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान् ।।
हंतः षोडशभिर्ग्रासश्चतुर्भिः पुष्कलं स्मृतम् ।। ४ ।।
ग्रासमात्राभवेद्भिक्षा गृहस्थसुकृतप्रदा ।।
अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ।। ५ ।।
यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः ।।
अतिथिः पथिको ज्ञेयो ऽनूचानः श्रुतिपारगः ।। ६ ।।
मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ।।
अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ।। ७ ।।
अन्नार्थिनि समायाते पात्रापात्रं न चिंतयेत् ।।
शुनां च पतितानां च श्वपचां पापरोगिणाम्।। ८ ।।
काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ।।
ऐंद्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ।। ९ ।।
प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम् ।।
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।। 4.1.35.२१० ।।
ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ ।।
देवा मनुष्याः पशवो रक्षो यक्षोरगाः खगाः ।। ११ ।।
दैत्याः सिद्धाः पिशाचाश्च प्रेता भूताश्च दानवाः ।।
तृणानि तरवश्चापि मद्दत्तान्नाभिलाषुकाः ।। १२ ।।
कृमि कीट पतंगाद्याः कर्मबद्धा बुभुक्षिताः ।।
तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेस्तु वै ।। १३ ।।
इत्थं भूतबलिं दत्त्वा कालं गोदोहमात्रकम् ।।
प्रतीक्ष्यातिथिमायांतं विशेद्भोज्यगृहं ततः ।। १४ ।।
अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ।।
नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा ।। १५ ।।
भोजयेत्पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः ।।
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ।। १६ ।।
दक्षिणारहितं त्वेतद्दातृभोक्तृ व्रतोज्झितम् ।।
पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः ।। १७ ।।
अदुष्टासनमध्यास्य भुंजीत शिशुभिः सह ।।
सुगंधिः सुमनाः स्रग्वी शुचिवासो द्वयान्वितः ।। १८ ।।
प्रागास्य उदगास्यो वा भुंजीत पितृसेवितम् ।। १९ ।।
विधायान्नमनग्नं तदुपरिष्टादधस्तथा ।।
आपोशनविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ।।4.1.35.२२०।।
प्रदद्याद्भुवःपतये भुवनपतये तथा।।
भूतानांपतये स्वाहेत्युक्त्वा भूमौ बलित्रयम् ।।२१।।
सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपंचकम् ।।
दद्याज्जठरकुंडाग्नौ दर्भपाणिः प्रसन्नधीः ।। २२ ।।
दर्भपाणिस्तु यो भुंक्ते तस्य दोषो न विद्यते ।।
केशकीटादि संभूतस्तदश्नीयात्सदर्भकः ।। २३ ।।
यावद्रुच्यन्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् ।।
भुंजते पितरस्तावद्यावन्नोक्ता गुणागुणाः ।। २४ ।।
अतो मौनेन यो भुंक्ते स भुंक्ते केवलामृतम् ।।
अनुपीय ततः क्षीरं तक्रं पानीयमेव वा ।। २५ ।।
अमृतापिधानमसीत्येवं प्राश्योदकं सकृत् ।।
पीतशेषं क्षिपेद्भूमौ तोयं मंत्रमिमं पठन्।। २६ ।।
अप्रक्षालितहस्तस्य दक्षिणांगुष्ठमूलतः ।।
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।। २७ ।।
उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् ।। ।। २८ ।।
पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ।।
हस्तेनोदकमादाय मंत्रमेतमुदीरयेत्।।२९।।
अंगुष्ठमात्रः पुरुषस्त्वंगुष्ठं च समाश्रितः ।।
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ।। 4.1.35.२३० ।।
इत्यन्नं परिसंकल्प्य प्रक्षाल्य चरणौ करौ ।।
ततोन्नपरिणामार्थं मंत्रानेतानुदीरयेत् ।। ३१ ।।
अग्निराप्याययन्धातून्पार्थिवान्पवनेरितः ।।
दत्तावकाशो नभसा जरयत्वस्तु मे सुखम् ।।३२।।
प्राणापानसमानानामुदानव्यानयोस्तथा।।
अन्नपुष्टिकरं चास्तु ममास्त्वव्याहतं सुखम् ।। ३३।।
समुद्रो वडवाग्निश्च ब्रध्नो ब्रध्नस्यनंदनः ।।
मयाभ्यवहृतं यत्तदशेषं जरयंत्विमे ।। ३४ ।।
मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ।।
अतिवाह्य दिवाशेषं ततः संध्यां समारभेत् ।। ३५।।
गृहे गोष्ठे नदीतीरे संध्या दशगुणा क्रमात् ।।
संभेदे स्याच्छतगुणा ह्यनंता शिवसन्निधौ ।। ३६ ।।
उपासिता बहिः संध्या दिवामैथुनपातकम् ।।
शमयेदनृतोक्ताघं मद्यगंधजमेव च ।। ३७ ।।
सामवेदस्वरूपां च वसिष्ठर्षि समायुताम् ।।
कृष्णांगीं कृष्णवसनां मनाक्स्खलित यौवनाम् ।। ३८ ।।
सरस्वतीं तार्क्ष्ययानां विघ्नघ्नीं विष्णुदैवताम् ।।
जगतीच्छंदसा युक्तां ध्यायेदेकाक्षरां पराम् ।। ३९ ।।
अग्निश्चेति च मंत्रेण विधायाचमने सुधीः ।।
पश्चिमास्यो जपेत्तावद्यावन्नक्षत्रदर्शनम् ।। 4.1.35.२४० ।।
अतिथिं सायमायांतमपिवाग्भूतृणोदकैः ।।
संभाव्य परिकल्प्येत्थं निशःप्राक्प्रहरं सुधीः ।। ४१ ।।
इत्थं दिवाकर्म कृत्वा श्रुतेः पठनपाठनैः ।।
एककाष्ठमयीं शय्यां नातितृप्तोथ संविशेत् ।। ४२ ।।
उद्देशतः समाख्यातो ह्येष नित्यतमो विधिः ।।
इत्थं समाचरन्विप्रो नावसीदति कर्हिचित् ।। २४३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सदाचारो नाम पंचत्रिंशोऽध्यायः ।। ३५ ।। ।।