स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२४
गणावूचतुः ।। ।।
शिवशर्मन्नुदर्कं ते कथयावो निशामय ।।
त्वमत्र वैष्णवे लोके भुक्त्वा भोगान्सुपुष्कलान् ।। १ ।।
ब्रह्मणो वत्सरं पूर्णं रममाणोऽप्सरोगणैः ।।
सुतीर्थमरणोपात्त पुण्यशेषेण वै पुनः ।। २ ।।
भविष्यसि महीपालो नगरे नंदिवर्धने ।।
राज्यं प्राप्यासपत्नं च समृद्धबलवाहनम् ।।३।।
कृष्टिभिर्हृष्टपुष्टैश्च रम्यहाटकभूषणैः ।।
संजुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः।।४।।
सदासंपन्नसस्यं च सूर्वरक्षेत्रसंकुलम्।।
सुदेशं सुप्रजं सुस्थं सुतृणं बहुगोधनम् ।। ५ ।।
देवतायतनानां च राजिभिः परिराजितम् ।।
सुयूपा यत्र वै ग्रामाः सुवित्तर्द्धि विराजिताः ।। ६ ।।
सुपुष्प कृत्रिमोद्यानाः ससदाफलपादपाः ।।
सपद्मिनीककासारा यत्र राजंति भूमयः ।। ७ ।।
सदंभा निम्नगाराजिर्न यत्र जनता क्वचित् ।।
कुलान्येव कुलीनानि न चान्यायधनानि च ।। ८ ।।
विभ्रमो यत्र नारीषु नविद्वत्सु च कर्हिचित् ।।
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः ।। ९ ।।
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ।।
रजोयुजः स्त्रियो यत्र न धर्मबहुला नराः ।। 4.1.24.१० ।।
धनैरनंधो यत्रास्ति मनो नैव च भोजनम् ।।
अनयः स्यंदनं यत्र न च वै राजपूरुषः ।। ११ ।।
दंडः परशुकुद्दाल वालव्य जनराजिषु ।।
आतपत्रेषु नान्यत्र क्वचित्क्रोधापराधजः ।।१२।।
अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम् ।।
आक्षिका एव दृश्यंते यत्र पाशकपाणयः ।। १३ ।।
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ।।
कठोरहृदया यत्र सीमंतिन्यो न मानवाः ।। १४ ।।
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ।।
वेधोप्यंतःसुरत्नेषु शूलं मूर्तिकरेषु वै ।। १५ ।।
कंपःसात्त्विकभावोत्थो न भयात्क्वापि कस्यचित् ।।
संज्वरः कामजो यत्र दारिद्र्यं कलुषस्य च ।। १६ ।।
दुर्लभत्वं सदा कस्य सुकृतेन च वस्तुनः ।।
इभा एव प्रमत्ता वै युद्धं वीच्योर्जलाशये ।। १७ ।।
दानहानिर्गजेष्वेव द्रुमेष्वेव हि कंटकाः ।।
जनेष्वेव विहारा हि न कस्यचिदुरःस्थली ।। १८ ।।
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा ।।
स्नेहत्यागः सदैवास्ति यत्र पाशुपते जने ।। १९ ।।
दंडवार्ता सदा यत्र कृतसंन्यासकर्मणाम् ।।
मार्गणाश्चापकेष्वेव भिक्षुका ब्रह्मचारिणः ।। 4.1.24.२० ।।
यत्र क्षपणका एव दृश्यंते मलधारिणः ।।
प्रायो मधुव्रता एव यत्र चंचलवृत्तयः ।। २१ ।।
इत्यादि गुणवद्देशे त्वयिराज्यं प्रशासति ।।
धर्मेण राजधर्मज्ञ शौंडीर्यगुणशालिनि ।। २२ ।।
सौभाग्यभाजि रूपाढ्ये शौर्यौदार्यगुणान्विते ।।
सीमंतिनीनां रम्याणां लावण्यवर्जित सुश्रियाम् ।। २३ ।।
राज्ञीनामयुतंभावि कुमाराणां शतत्रयम् ।।
वृद्धकाल इति ख्यात उग्रः परपुरंजयः ।। २४ ।।
विजितानेकसमरः श्रीसंतर्पितमार्गणः ।।
अनेकगुणसंपूर्णः पूर्णचंद्रनिभद्युतिः ।। २५ ।।
संततावभृथक्लिन्न मूर्धजः क्षितिषर्षभः ।।
प्रजापालनसंपन्नः कोशप्रीणितभूसुरः ।। २६ ।।
पदारविंदं गौविंदं हृदि ध्यायन्नतंद्रितः ।।
वासुदेवकथालापपरिक्षिप्त दिनक्षपः ।। २७ ।।
कदाचिदुपविष्टःसन्मध्ये राजसभं द्विज ।।
दूरात्कार्पटिकैर्दृष्टो वाराणस्याः समागतैः ।। २८ ।।
तत्कर्मभाविसदृशैस्तदात्वमभिनंदितः ।।
तैः सर्वै राजशार्दूलस्याशीर्वादैरनेकशः ।। २९ ।।
श्रीमद्विश्वेश्वरो देवो विश्वेषां जगतां गुरुः ।।
काशीनाथस्तुते कुर्यात्कुमतेरपवर्जनम् ।। 4.1.24.३० ।।
नैःश्रेयसीं च संपत्तिं यो देयात्स्मरणादपि ।।
काशीनाथः स ते दिश्याज्ज्ञानं मलविवर्जितम् ।। ३१ ।।
येन पुण्येन ते प्राप्तं राज्यं प्राज्यमकंटकम् ।।
तत्पुण्यशेषतोभूयाद्विश्वनाथे मतिस्तव ।। ३२ ।।
यस्य प्रसादात्सुलभमायुः पुत्रांबरागनाः ।।
समृद्धयः स्वर्गमोक्षौ स विश्वेशः प्रसीदतु ।। ३३ ।।
नामश्रवणमात्रेण यस्य विश्वेशितुर्विभोः ।।
महापातकविच्छेदः स विश्वेशोऽस्तु ते हृदि ।। ३४ ।।
त्वं वृद्धकालो भूपालः श्रुत्वेत्याशीः परंपराम् ।।
स्मरिष्यसीदं वृत्तांतं पुलकांकवपुस्तदा ।। ३५ ।।
आकारगोपनं कृत्वा तेभ्यो दत्त्वा धनं बहु ।।
सुमुहूर्तमनुप्राप्य सुते राज्यं विधाय च ।। ३६।।
अनंगलेखया राज्ञ्या ततः काशीं गमिष्यसि ।।
दत्त्वा दानानि भूरीणि प्रीणयित्वाऽर्थिनो जनान् ।। ३७ ।।
स्वनाम्ना तत्र संस्थाप्य लिंगं निर्वाणकारणम् ।।
प्रासादं तत्र कृत्वोच्चैस्तदग्रे कूपमुत्तमम् ।। ३८ ।।
विधाय विधिवत्तत्र कलशारोपणादिकम् ।।
मणिमाणिक्य चांपेय दुकूलेभाश्वगोधनम् ।। ३९ ।।
महाध्वजपताकाश्च च्छत्रचामरदर्पणम् ।।
देवोपकरणं भूरि विश्राण्य श्रमवर्जितः ।। 4.1.24.४० ।।
व्रतोपवासनियमैः परिक्षीणकलेवरः ।।
मध्याह्ने निर्जने तत्र द्रक्ष्यस्येकं तपोधनम् ।। ४१ ।।
अतीवजीर्णवपुषं परिपिंगजटान्वितम् ।।
मूर्तिमंतंमिव प्रांशुं धर्मं जनमनोहरम्।। ४२।।
भारं शरीरयष्टेश्च दृढयष्ट्यां समर्प्य च ।।
गर्भागाराद्विनिष्क्रम्याभ्यायांतंरंगमंडपे ।।४३।।
उपविश्य समीपे ते प्रक्ष्यत्येवमनुक्रमात् ।।
कोसि त्वं किमिहासि त्वं द्वितीय इव कस्त्वयम् ।। ४४ ।।
प्रासादः कारितः केन जानास्येष ततो वद ।।
अस्य लिंगस्य किं नाम प्रायो जाने न वार्धकात् ।। ४५ ।।
पृष्टस्त्वमिति ते नाथ तदा वृद्ध तपस्विना ।।
कथयिष्यस्यहं राजा वृद्धकाल इति श्रुतः ।। ४६ ।।
दाक्षिणात्य इह प्राप्तस्त्वेतया सह कांतया ।।
ध्यायामि लिंगमेतच्च प्रार्थयामि न किंचन ।। ४७ ।।
प्रासादस्यास्य जटिल स्वयंकारयिता शिवः ।।
विशेषतोऽस्यलिंगस्य नाम नो वेद्मि निश्चितम्।। ४८ ।।
इति श्रुत्वा नरपतेर्वाक्यंप्राह जटाधरः ।।
सत्यमुक्तं त्वयैकं हि लिंगनाम न वेत्सि यत् ।। ४९ ।।
पश्येयं त्वामहं नित्यमुपविष्टं सुनिश्चलम् ।।
श्रुतो भविष्यति तव प्रासादो येन कारितः ।। 4.1.24.५० ।।
ममाग्रे तत्समाचक्ष्व यदि जानासि तत्त्वतः ।।
आकर्ण्येति वचस्तस्य पुनः प्राह भवानिति ।।। ५१ ।।
कर्ता कारयिता शंभुः किमतथ्यं ब्रवीम्यहम् ।।
अथवा चिंतया किं मे तपस्विन्ननया विभो ।। ५२ ।।
इति त्वयि स्थिते जोषं स पुनर्वृद्धतापसः ।।
पिपासुरस्मि पानीयमानीयाशु प्रयच्छ मे ।। ५३ ।।
इति तेन च नुन्नस्त्वं वार्यानीय च कूपतः ।।
पाययिष्यसि तं वृद्धं तापसं तत्क्षणाच्च सः ।। ५४ ।।
तदंबुपानतो भूयात्सुपार्वण शशिप्रभः ।।
तरुणो रूपसंपन्नः कोशोन्मुक्तोरगो यथा ।। ५५ ।।
जाताश्चर्येण भवता पुनरेवाभ्यभाषि सः ।।
कः प्रभावो हि भगवन्नेष येन भवान्पुनः ।। ५६ ।।
परित्यज्यात्र जरसं न वो भ्राजसि सांप्रतम् ।।
अस्ति चेदवकाशस्ते ततो ब्रूहि तपोधन ।। ५७ ।।
तपोधन उवाच ।। ।।
वृद्धकालक्षितिपते जाने त्वां सुमहामते ।।
इमामपि च जानेऽहं तव पत्नीं पतिव्रताम्।। ५८ ।।
जन्मनोऽस्मादियं राजन्नासीद्विप्रस्य कन्यका ।।
तुर्वसोर्वेदवपुषः शुभाचारा शुभानना ।। ५९ ।।
तेन दत्ता विवाहार्थं नैध्रुवाय महात्मने ।।
स च कालवशं प्राप्तो नैध्रुवोऽप्राप्तयौवनः ।। 4.1.24.६० ।।
वैधव्यं पालयंत्येषा मृताऽवंत्यां शुभव्रता ।।
तेन पुण्येन संजाता पांड्यस्य नृपतेः सुता ।। ६१ ।।
परिणीता त्वया राजन्पतिव्रतरता सदा ।।
त्वया सहेह संप्राप्ता मुक्तिं प्राप्स्यत्यनुत्तमाम् ।। ६२ ।।
अयोध्यायामथावंत्यां मथुरायामथापि वा ।।
द्वारवत्यां च कांच्यां वा मायापुर्यामथो नृप ।। ६३ ।।
अपि पातकिनो ये च कालेन निधनं गताः ।।
ते हि स्वर्गादिहागत्य काश्यां मोक्षमवाप्नुयुः ।। ६४ ।।
अवैमि त्वामपि नृपद्विजोऽभूः पूर्वजन्मनि ।।
माथुरः शिवशर्माख्यो मायापुर्यां भवान्मृतः ।। ६५ ।।
तत्पुण्यात्प्राप्य वैकुंठं भुक्त्वा भोगान्मनोरमान् ।।
तत्पुण्यशेषात्क्षितिपो जातस्त्वं नंदिवर्धने ।। ६६ ।।
वृद्धकालावनीपाल तेनैव सुकृतेन च ।।
मोक्षक्षेत्रमिदं प्राप्तो मुक्तिं प्राप्स्यस्यनुत्तमाम् ।। ६७ ।।
अन्यच्च शृणु राजेंद्र त्वया यत्समुदीरितम् ।।
कर्ता कारयिता शंभुः प्रासादस्येति तत्स्फुटम् ।। ६८ ।।
सुकृतं नैव सततमाख्यातव्यं कदाचन ।।
कृतं मयेति कथनात्पुण्यं क्षयति तत्क्षणात् ।। ६९ ।।
तस्मात्सर्वप्रयत्नेन गोपनीयं निधानवत् ।।
सुकृतं कीर्तनाद्व्यर्थं भवेद्भस्महुतं तथा।। 4.1.24.७० ।।
निश्चितं विश्वनाथेन प्रेरितेन त्वयाऽनघ ।।
कृतं हि कृतकृत्येन प्रासादादिह वेद्म्यहम् ।। ७१ ।।
वृद्धकालेश्वरं नाम लिंगमेतन्महीपते ।।
जानीह्यनादिसंसिद्धं निमित्तं किंतु वै भवान् ।। ७२ ।।
दर्शनात्स्पर्शनात्तस्य पूजनाच्छ्रवणान्नतेः ।।
वृद्धकालेशलिंगस्य सर्वं प्राप्नोति वांछितम् ।। ७३ ।।
कूपः कालोदको नाम जराव्याधिविघातकृत् ।।
यदीय जलपानेन मातुःस्तन्यमपानवान् ।। ७४ ।।
कृतकूपोदकस्नानः कृतैतल्लिंगपूजनः ।।
वर्षेण सिद्धिमाप्नोति मनोभिलषितां नरः ।। ७५ ।।
न कुष्ठं न च विस्फोटा नरंघा न विचर्चिका ।।
पीतात्स्पृष्टात्प्रतिष्ठंति कफः कालतमोदकात् ।। ७६ ।।
नाग्निमांद्यं नैव शूलं न मेहो न प्रवाहिका ।।
न मूत्रकृच्छ्रं ना पामा पानायस्यास्य सेवनात् ।। ७७ ।।
भूतज्वराश्च ये केचिद्ये केचिद्विषमज्वराः ।।
ते क्षिप्रमुपशाम्यंति ह्येतत्कूपोदसेवनात् ।। ७८ ।।
तवाग्रतो मम जरा पलितं च यथाविधि ।।
एतत्कूपोदपानेन क्षणान्नष्टं नवोऽभवम् ।। ७९ ।।
वृद्धकालेश्वरे लिंगे सेवितेन दरिद्रता ।।
नोपसर्गा न वा रोगा न पापं नाघजं फलम् ।। 4.1.24.८० ।।
उत्तरे कृत्तिवासस्य वाराणस्यां प्रयत्नतः ।।
वृद्धकालेश्वरं लिंगं द्रष्टव्यं सिद्धिकामुकैः ।। ८१ ।।
इत्युक्त्वा तं महीपालं हस्ते धृत्वा तपोधनः ।।
सानंगलेखा राज्ञीकं तस्मिँल्लिंगे लयं ययौ ।। ८२ ।।
महाकाल महाकाल महाकालेति कीर्तनात् ।।
शतधा मुच्यते पापैर्नात्र कार्या विचारणा ।। ८३ ।।
इत्थं भवित्री ते मुक्तिः कैटभारातिदर्शनात् ।।
भोगान्भुक्त्वा बहुविधान्वैकुंठ नगरे शुभे ।। ८४ ।।
इति संहृष्टतनूरुहः स विप्रो भगवत्तद्गणवक्त्रतो निशम्य ।।
स्वमुदर्कमथार्ककोटिरम्यं हरिलोकं परिलोकयांचकार ।। ८५ ।।
।। मैत्रावरुणिरुवाच ।। ।।
लोपामुद्रे स विप्रेंद्रो भोगान्भुक्त्वा मनोरमान् ।।
मायापुर्यां कृतप्राणत्याग पुण्यबलेन च ।। ८६ ।।
वैकुंठलोकादागत्य पत्तने नंदिवर्धने ।।
भौमानि भुक्त्वा सौख्यानि पुत्रानुत्पाद्य सुंदरान् ।। ।। ८७ ।।
तेषु राज्यं विनिक्षिप्य प्राप्य वाराणसीं पुरीम् ।।
विश्वेश्वरं समाराध्य निर्वाणपदमीयिवान् ।। ८८ ।।
एतत्पुण्यतमाख्यानं विप्रस्य शिवशर्मणः ।।
श्रुत्वा पापविनिर्मुक्तो ज्ञानं परममृच्छति।। ।। ८९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे शिवशर्मनिर्वाणप्रापणं नाम चतुर्विंशोध्यायः ।। २४ ।।