स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०५६

विकिस्रोतः तः
Jump to navigation Jump to search

।।स्कंद उवाच।। ।।
अथेशाज्ञां समादाय गजवक्त्रः प्रतस्थिवान् ।।
शंभोः काश्यागमोपायं चिंतयन्मंदराद्रितः ।। १ ।।
प्राप्य वाराणसीं तूर्णमाशु स्यंदनगो विभुः ।।
वाडवीं मूर्तिमालंब्य प्राविशच्छकुनैः स्तुतः ।। २ ।।
नक्षत्रपाठको भूत्वा वृद्धः प्रत्यवरोधगः ।।
चचार मध्ये नगरं पौराणां प्रीतिमावहन् ।।३।।
स्वयमेव निशाभागे स्वप्नं संदर्शयन्नृणाम् ।।
प्रातस्तेषां गृहान्गत्वा तेषां वक्ति बलाबलम् ।। ४ ।।
भवद्भिरद्य रात्रौ यद्दृष्टं स्वप्नविचेष्टितम् ।।
भवत्कौतूहलोत्पत्त्यै तदेव कथयाम्यहम् ।। ५ ।।
स्वपता भवता रात्रौ तुर्ये यामे महाह्रदः ।।
अदर्शि तत्र च भवान्मज्जन्मज्जंस्तटंगतः ।। ६ ।।
तदंबुपिच्छिले पंके मग्नोन्मग्नोसि भूरिशः ।।
दुःस्वप्नस्यास्य च महान्विपाकोति भयप्रदः ।। ७ ।।
काषायवसनो मुंडः प्रैक्ष्यहो भवतापि यः ।।
परितापं महानेष जनयिष्यति दारुणम् ।। ८ ।।
रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम् ।।
ऐंद्रधनुर्द्वयं रात्रौ यदलोकि न तच्छुभम् ।। ९ ।।
प्रतीच्यां रविरागत्य प्रोद्यंतं व्योम्नि शीतगुम् ।।
पातयामास भूपृष्ठे तद्राज्यभयसूचकम् ।। 4.2.56.१० ।।
युगपत्केतुयुगलं युध्यमानं परस्परम् ।।
यददर्शि न तद्भद्रं राष्ट्रभंगाय केवलम् ।। ११ ।।
विशीर्यत्केशदशनं नीयमानं च दक्षिणे ।।
आत्मानं यत्समद्राक्षीः कुटुंबस्यापि भीषणम् ।। १२ ।।
प्रासादध्वजभंगोयस्त्वयैक्षत निशाक्षये ।।
राज्यक्षयकरं विद्धि महोत्पाताय निश्चितम् ।। १३ ।।
नगरी प्लाविता स्वप्ने तरंगैः क्षीरनीरधेः ।।
पक्षैस्त्रिचतुरैः शंके महाशंकां पुरौकसाम् ।। १४ ।।
स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम् ।।
अतस्तद्वंचनोपायः पुरत्यागो महामते ।। १५ ।।
रुदती या त्वया दृष्टा महिलैका निशात्यये ।।
मुक्तकेशी विवसना सा नारी श्रीरिवोद्गता ।। १६ ।।
देवालयस्य कलशो यत्त्वया वीक्षितः पतन् ।।
दिनैः कतिपयैरेव राज्यभंगो भविष्यति ।। १७ ।।
पुरी परिवृता स्वप्ने मृगयूथैः समंततः ।।
रोरूयमाणैरत्यर्थं मासेनैवोद्वसी भवेत् ।। १८ ।।
आतायियूकगृध्राद्यैः पुरीमुपरिचारिभिः ।।
सूच्यतेत्याहितं किंचिद्ध्रुवमत्र निवासिनाम् ।।१९।।
स्वप्नोत्पातानिति बहूञ्शंसञ्शंसन्नितस्ततः ।।
बहूनुच्चाटयांचक्रे स विघ्नेशः पुरौकसः ।। 4.2.56.२० ।।
केषांचित्पुरतो वादीद्ग्रहचारं प्रदर्शयन् ।।
एकराशिस्थिताः सौरि सितभौमा न शोभनाः ।। २१ ।।
सोयं धूमग्रहो व्योम्नि भित्त्वा सप्तर्षिमंडलम् ।।
प्रयातः पश्चिमामाशां स नाशाय विशांपतेः ।। २२ ।।
अतिचारगतो मंदः पुनर्वक्राध्व संस्थितः ।।
पापग्रहसमायुक्तो न युक्तोयमिहेष्यते ।। २३ ।।
व्यतीते वासरे योयं भूकंपः समपद्यत ।।
कंपं जनयतेऽतीव हृदो मेपि पुरौकसः ।। २४ ।।
उदीच्यादक्षिणाशायां येयमुल्का प्रधाविता ।।
विलीना च वियत्येव स निर्घातं न सा शुभा ।। २५ ।।
उन्मूलितो महामूलो महानिलरयेण यः ।।
चत्वरे चैत्यवृक्षोयं महोत्पातं प्रशंसति ।। २६ ।।
सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि ।।
करटो रारटीत्येष कटूत्कट भयप्रदः ।। २७ ।।
मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ ।।
मृगौ मृगयतां यातौ पौराणां पुरतोऽहितौ ।।२८।।
रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः ।।
महाकालभयं मन्येप्यकालेपि पुरौकसाम् ।। २९ ।।
साध्वसंजनयित्वेति केचिदुच्चाटिताः पुरः ।।
तेन विघ्नकृतापौराः कपटद्विजरूपिणा।। 4.2.56.३० ।।
अथ मध्येवरोधं स प्रविश्य निजमायया ।।
दृष्टार्थमेव कथयन्स्त्रीणां विस्रंभभूरभूत् ।।३१।।
तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे ।।
तेष्वेकस्तुरगारूढो बाह्याल्यां पतितो मृतः ।। ३२ ।।
अंतर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम् ।।
एषा हि दुर्भगा पूर्वं सांप्रतं सुभगाऽभवत् ।। ३३ ।।
असौ हि राज्ञो राज्ञीनामत्यंतमिहवल्लभा।।
मुक्तालंकृतिरेतस्यै राज्ञा दत्ता निजोरसः ।। ३४ ।।
पंचसप्तदिनान्येव जातानीतीह तर्क्यते ।।
अस्यै राज्ञा प्रसादेन ग्रामौ दातुमुदीरितौ ।। ३५।।
इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः ।।
वर्णयंति च ता राज्ञः परोक्षेपि गुणान्बहून् ।। ३६ ।।
अहो यादृगसौ विप्रः सर्वत्रातिविचक्षणः ।।
सुशीलश्च सुरूपश्च सत्यवाङ्मितभाषणः ।। ३७ ।।
अलोलुप उदारश्च सदाचारो जितेंद्रियः ।।
अपि स्वल्पेन संतुष्टः प्रतिग्रहपराङ्मुखः ।। ३८ ।।
जितक्रोधः प्रसन्नास्यस्त्वनसूयुरवंचकः ।।
कृतज्ञः प्रीतिसुमुखः परिवादपराङ्मुखः ।।३९।।
पुण्योपदेष्टा पुण्यात्मा सर्वव्रतपरायणः ।।
शुचिः शुचिचरित्रश्च श्रुतिस्मृतिविशारदः ।। ।। 4.2.56.४० ।।
धीरः पुण्येतिहासज्ञः सर्वदृक्सर्वसंमतः ।।
कलाकलापकुशलो ज्योतिःशास्त्रविदुत्तमः ।। ४१ ।।
क्षमी कुलीनोऽकृपणो भोक्ता निर्मलमानसः ।।
इत्यादि गुणसंपन्नः कोपि क्वापि न दृग्गतः ।। ४२ ।।
इत्थं तास्तद्गुणग्रामं वर्णयंत्यः पदेपदे ।।
कालं विनोदयंति स्म अंतःपुरचराः स्त्रियः ।। ४३।।
एकदावसरं प्राप्य दिवोदासस्य भूभुजः ।।
राज्ञी लीलावती नाम राज्ञे तं विन्यवेदयत् ।। ४४ ।।
राजन्वृद्धो गुणैर्वृद्धो ब्राह्मणः सुविचक्षणः ।।
एकोस्ति स तु द्रष्टव्यो मूर्तो ब्रह्मनिधिः परः ।। ४५ ।।
राज्ञी राज्ञा कृतानुज्ञा सखीं प्रेष्य विचक्षणाम् ।।
आनिनाय च तं विप्रं ब्राह्मं तेज इवांगवत् ।। ४६ ।।
राजापि दूरादायांतं त विलोक्यमहीसुरम् ।।
यत्राकृतिर्गुणास्तत्र जहर्षेति वदन्हृदि ।। ४७ ।।
पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः ।।
चतुर्निगमजाभिः स तमाशीर्भिरनंदयत् ।। ४८ ।।
कृतप्रणामो राज्ञा स सादरं दत्तमासनम् ।।
भेजेथ कुशलं पृष्टः स राज्ञा तेन भूपतिः ।। ४९ ।।
परस्परं कुशलिनौ कुशलौ च कथागमे ।।
प्रश्नोत्तराभ्यां संतुष्टौ द्विजवर्य क्षमाभृतौ ।। 4.2.56.५० ।।
कथावसाने राज्ञाथ गेहं विससृजे द्विजः ।।
लब्धमानमहापूजः स स्वमाश्रममाविशत् ।। ५१ ।।
गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः ।।
लीलावत्याः पुरो विप्रं वर्णयामास भूरिशः ।। ५२ ।।
महादेवि महाप्राज्ञे लीलावति गुणप्रिये ।।
यथाशंसि तथा विप्रस्ततोपि गुणवत्तरः ।। ५३ ।।
अतीतं वेत्ति सकलं वर्तमानमवैति च ।।
प्रष्टव्यः प्रातराहूय भविष्यं किंचिदेष वै ।। ५४ ।।
महाविभव संभारैर्महाभोगैरनेकधा ।।
व्युष्टायां स नृपो रात्र्यां प्रातराहूतवान्द्विजम् ।। ५५ ।।
सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः ।।
एकांते तं द्विजं राजा पप्रच्छ निजहृत्स्थितम् ।।५६।।
।।राजोवाच ।। ।।
द्विजवर्यो भवानेकः प्रतिभातीति निश्चितम् ।।
यथातत्त्ववती ते धीर्न तथान्यस्य मे मतिः ।।५७।।
दृष्ट्वा त्वां तु महाप्राज्ञं शांतं दांतं तपोनिधिम् ।।
किंचित्प्रष्टुमना विप्र तदाख्याहि यथार्थवत् ।। ५८ ।।
शासितेयं मया पृथ्वी न तथान्यैस्तु पार्थिवैः ।।
यावद्भूति मया भुक्ता दिव्या भोगा अनेकधा ।।५९।।
निजौरसेभ्योप्यधिकं रात्रिंदिवमतंद्रितम् ।।
विनिर्जित्य हठाद्दुष्टान्प्रजेयं परिपालिता ।।4.2.56.६०।।
द्विजपादार्चनात्किंचित्सुकृतं वेद्मि नापरम् ।।
अनेनापरिकथ्येन कथितेनेह किं मम ।। ६१ ।।
निर्विस्ममिव मे चेतः सांप्रतं सर्वकर्मसु ।।
विचार्यार्य शुभोदर्कमत आख्याहि सत्तम ।।६२।।
।। द्विज उवाच ।। ।।
अपि स्वल्पतरं कृत्यं यद्भवेद्भूभुजामिह ।।
एकांते तत्तु पृष्टेन वक्तव्यं सुधिया सदा ।। ६३ ।।
अमात्येनाप्यपृष्टेन न वक्तव्यं नृपाग्रतः ।।
महापमानभीतेन स्तोकमप्यत्र किंचन ।। ६४ ।।
पृष्टश्चेत्कथयामीह मा तत्र कुरु संशयम् ।।
तत्कृते तव गंता वै मनो निर्वेदकारणम् ।।६५।।
शृणु राजन्महाबुद्धे नायथार्थं ब्रवीम्यहम् ।।
विक्रांतोस्यतिशूरोसि भाग्यवानसि सर्वदा ।। ६६ ।।
पुण्येन यशसा बुद्ध्या संपन्नोस्ति भवान्यथा ।।
मन्ये तथामरावत्यां त्रिदशेशोपि नैव हि ।। ६७ ।।
सुधिया त्वां गुरुं मन्ये प्रसादेन सुधाकरम् ।।
तेजसास्ति भवानर्कः प्रतापेनाशुशुक्षणिः ।।६८।।
प्रभंजनो बलेनासि श्रीदोसि श्रीसमर्पणैः ।।
शासनेन भवान्रुद्रो निर्ऋतिस्त्वं रणांगणे ।।६९ ।।
दुष्टपाशयिता पाशी यमो नियमनेऽसताम् ।।
इंदनात्त्वं महेंद्रोसि क्षमया त्वमसि क्षमा ।। 4.2.56.७० ।।
मर्यादया भवानब्धिर्महत्त्वे हिमवानसि ।।
भार्गवो राजनीत्यासि राज्येन मनुना समः ।। ७१ ।।
संतापहर्तांबुदवत्पवित्रो गांगनामवत् ।।
सर्वेषामेव जंतूनां काशीव सुगतिप्रदः ।।७२।।
रुद्रः संहाररूपेण पालनेन चतुर्भुजः ।।
विधिवत्त्वं विधातासि भारती ते मुखांबुजे ।। ७३ ।।
त्वत्पाणिपद्मे कमला त्वत्क्रोधेस्ति हलाहलः ।।
अमृतं तव वागेव त्वद्भुजावश्विनीसुतौ ।। ७४ ।।
तत्किं यत्त्वयि भूजानौ सर्वदेवमयो ह्यसि ।।
तस्मात्तव शुभोदर्को मया ज्ञातोस्ति तत्त्वतः ।। ७५ ।।
आरभ्याद्य दिनाद्भूप ब्राह्मणोऽष्टादशेहनि ।।
उदीच्यः कश्चिदागत्य ध्रुवं त्वामुपदेक्ष्यति।।७६।।
तस्य वाक्यं त्वया राजन्कर्तव्यमविचारितम् ।।
ततस्ते हृत्स्थितं सर्वं सेत्स्यत्येव महामते ।। ७७ ।।
इत्युक्त्वा पृच्छ्य राजानं लब्धानुज्ञो द्विजोत्तमः ।।
विवेश स्वाश्रमं तुष्टो नृपोप्याश्चर्यवानभूत् ।। ७८ ।।
इत्थं विघ्नजिता सर्वा पुरी स्वात्मवशीकृता ।।
सपौरा सावरोधा च सनृपा निजमायया ।। ७९ ।।
कृतकृत्यमिवात्मानं ततो मत्वा स विघ्नजित् ।।
विधाय बहुधात्मानं काश्यां स्थितिमवाप च ।। 4.2.56.८० ।।
यदा स न दिवोदासः प्रागासीत्कुंभसंभव ।।
तदातनं निजं स्थानमलंचक्रे गणाधिपः ।। ८१ ।।
दिवोदासे नरपतौ विष्णुनोच्चाटिते सति ।।
पुनर्नवीकृतायां च नगर्यां विश्वकर्मणा ।। ८२ ।।
स्वयमागत्य देवेन मंदरात्सुंदरां पुरीम् ।।
वाराणसीं प्रथमतस्तुष्टुवे गणनायकम् ।। ८३ ।।
।। अगस्त्य उवाच ।। ।।
कथं स्तुतो भगवता देवदेवेन विघ्नजित् ।।
कथं च बहुधात्मानं स चकार विनायकः ।। ८४ ।।
केनकेन स वै नाम्ना काशिपुर्यां व्यवस्थितः ।।
इति सर्वं समासेन कथयस्व षडानन ।। ८५ ।।
इत्युदीरितमाकर्ण्य कुंभयोनेः षडाननः ।।
यथावत्कथयामास गणराज कथां शुभाम् ।। ८६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे गणेशमाया प्रपंचो नाम षट्पंचाशत्तमोऽध्यायः ।। ५६।।