स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२६

विकिस्रोतः तः
Jump to navigation Jump to search

अगस्तिरुवाच ।। ।।
प्रसन्नोसि यदि स्कंद मयि प्रीतिरनुत्तमा ।।
तत्समाचक्ष्व भगवंश्चिरं यन्मे हृदिस्थितम् ।। १ ।।
अविमुक्तमिदं क्षेत्रं कदारभ्य भुवस्तले ।।
परां प्रथितिमापन्नं मोक्षदं चाभवत्कथम् ।। २ ।।
कथमेषा त्रिलोकीड्या गीयते मणिकर्णिका ।।
तत्रासीत्किं पुरास्वामिन्यदा नामरनिम्नगा ।। ३ ।।
वाराणसीति काशीति रुद्रावास इति प्रभो ।।
अवाप नामधेयानि कथमेतानि सा पुरी ।।
आनंदकाननं रम्यमविमुक्तमनंतरम् ।। ४ ।।
महाश्मशान इति च कथं ख्यातं शिखिध्वज ।।
एतदिच्छाम्यहं श्रोतुं संदेहं मेऽपनोदय ।। ५ ।।
।। स्कंद उवाच ।।
प्रश्नभारोयमतुलस्त्वया यः समुदाहृतः ।।
कुंभयोनेऽमुमेवार्थमप्राक्षीदंबिका हरम् ।। ६ ।।
यथा च देवदेवेन सर्वज्ञेन निवेदितम् ।।
जगन्मातुः पुरस्ताच्च तथैव कथयामि ते ।। ७ ।।
महाप्रलय काले च नष्टे स्थावरजंगमे ।।
आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ।। ८ ।।
अचंद्रमनहोरात्रमनग्न्यनिलभूतलम् ।।
अप्रधानं वियच्छून्यमन्यतेजोविवर्धितम् ।। ९ ।।
द्रष्टृत्वादि विहीनं च शब्दस्पर्शसमुज्झितम् ।।
व्यपेतगंधरूपं च रसत्यक्तमदिङ्मुखम् ।। 4.1.26.१० ।।
इत्थं सत्यंधतमसि सूचीभेद्ये निरंतरे ।।
तत्सद्ब्रह्मेति यच्छ्रुत्या सदैकं प्रतिपाद्यते ।। ११ ।।
अमनोगोचरोवाचां विषयं न कथंचन ।।
अनामरूपवर्णं च न स्थूलं न च यत्कृशम् ।। १२ ।।
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ।।
न यत्रोपचयः कश्चित्तथा चापचयोपि च ।। १३ ।।
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ।।
सत्यं ज्ञानमनंतं च यदानंदं परं महः ।। १४ ।।
अप्रमेयमनाधारमविकारमनाकृति ।।
निर्गुणं योगिगम्यं च सर्वव्याप्येककारणम् ।। १५ ।।
निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ।।
यस्येत्थं संविकल्प्यंते संज्ञाः संज्ञोदितस्य वै ।। १६ ।।
तस्यैकलस्य चरतो द्वितीयेच्छा भवत्किल ।।
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।। १७ ।।
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ।।
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।। १८ ।।
सर्वैकवंद्या सर्वाद्या सर्वदा सर्वसंकृतिः ।।
परिकल्प्येति तां मूर्तिमीश्वरीं शुद्धरूपिणीम् ।। १९ ।।
अंतर्दधे पराख्यं यद्ब्रह्मसर्वंगमव्ययम् ।। 4.1.26.२० ।।
अमूर्तं यत्पराख्यं वै तस्य मूर्तिरहं प्रिये ।।
अर्वाचीनपराचीना ईश्वरं मां जगुर्बुधाः ।।२१।।
ततस्तदैकलेनापि स्वैरं विहरतामया ।।
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ।। २२ ।।
प्रधानं प्रकृतिं त्वां च मायां गुणवतीं पराम् ।।
बुद्धि तत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ।। २३ ।।
युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा।।
मयाऽऽद्य पुरुषेणैतत्क्षेत्रं चापि विनिर्मितम्।।२४।।
सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः ।।
ताभ्यां च रममाणाभ्यां तस्मिन्क्षेत्रे घटोद्भव ।।२५।।
परमानंदरूपाभ्यां परमानंदरूपिणी ।।
पंचक्रोशपरीमाणे स्वपादतलनिर्मिते।।२६ ।।
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन।।
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ।। २७ ।।
न यदा भूमिवलयं न यदाऽपां समुद्भवः ।।
तदा विहर्तुमीशेन क्षेत्रमेतद्विनि र्मितम्।। २८ ।।
इदं रहस्यं क्षेत्रस्य वेद कोपि न कुंभज।।
नास्तिकाय न वक्तव्यं कदाचिच्चर्मचक्षुषे ।। २९ ।।
श्रद्धालवे विनीताय त्रिकालज्ञानचक्षुषे ।।
शिवभक्ताय शांताय वक्तव्यं च मुमुक्षवे ।। 4.1.26.३० ।।
अविमुक्तं तदरभ्य क्षेत्रमेतदुदीर्यते ।।
पर्यंक(?)भूतं शिवयोर्निरंतरसुखास्पदम् ।। ३१ ।। (पयक)
अभावः कल्प्यते मूढैर्यदा च शिवयोस्तयोः।।
क्षेत्रस्यास्य तदाभावः कल्प्यो निर्वाणकारिणः।। ३२ ।।
अनाराध्य महेशानमनवाप्य च काशिकाम्।।
योगाद्युपायविज्ञोपि न निर्वाणमवाप्नुयात् ।।३३।।
अस्यानंदवनं नाम पुरा कारि पिनाकिना ।।
क्षेत्रस्यानंदहेतुत्वादविमुक्तमंनतरम् ।। ३४ ।।
आनंदकंदबीजानामंकुराणि यतस्ततः ।।
ज्ञेयानि सर्वलिंगानि तस्मिन्नानंदकानने ।। ३५ ।।
अविमुक्तमिति ख्यातमासीदित्थं घटोद्भव ।।
तथा चाख्याम्यथ मुने यथासीन्मणिकर्णिका ।। ३६ ।।
प्रागानंदवने तत्र शिवयो रममाणयोः ।।
इच्छेत्यभूत्कलशज सृज्यः कोप्यपरः किल ।। ३७ ।।
यस्मिन्न्यस्ते महाभारे आवां स्वः स्वैरचारिणौ ।।
निर्वाणश्राणनं कुर्वः केवलं काशिशायिनाम् ।। ३८ ।।
स एव सर्वं कुरुते स एव परिपाति च ।।
स एव संवृणोत्यंते सर्वैश्वर्यनिधिः स च ।। ३९ ।।
चेतःसमुद्रमाकुंच्य चिंताकल्लोलदोलितम् ।।
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ।। 4.1.26.४० ।।
यस्य प्रसादात्तिष्ठावः सुखमानंदकानने ।।
परिक्षिप्त मनोवृत्तौ क्व हि चिंतातुरे सुखम् ।। ४१ ।।
संप्रधार्येति स विभुः सर्वतश्चित्स्वरूपया ।।
तया सह जगद्धात्र्या जगद्धाताऽथ धूर्जटिः ।। ४२ ।।
सव्ये व्यापारयांचक्रे दृशमंगे सुधामुचम् ।।
ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ।। ४३ ।।
शांतः सत्त्वगुणोद्रिक्तो गांभीर्य जितसागरः ।।
तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् ।। ४४ ।।
इंद्रनीलद्युतिःश्रीमान्पुंडरीकोत्तमेक्षणः ।।
सुवर्णाकृति सुच्छाय दुकूलयुगलावृतः ।। ४५ ।।
लसत्प्रचंडदोर्दंड युगलद्वयराजितः ।।
उल्लसत्परमामोदनाभीह्रदकुशेशयः ।। ४६ ।।
एकः सर्वगुणावासस्त्वेकः सर्वकलानिधिः ।।
एकः सर्वोत्तमो यस्मात्ततो यः पुरुषोत्तमः ।। ४७ ।।
ततो महांतं तं वीक्ष्य महामहिमभूषणम् ।।
महादेव उवाचेदं महाविष्णुर्भवाच्युत ।। ४८ ।।
तव निःश्वसितं वेदास्तेभ्यः सर्वमवैष्यसि ।।
वेददृष्टेन मार्गेण कुरु सर्वं यथोचितम्।। ४९ ।।
इत्युक्त्वा तं महेशानो बुद्धितत्त्वस्वरूपिणम् ।।
शिवया सहितो रुद्रो विवेशानंदकाननम् ।। 4.1.26.५० ।।
ततः स भगवान्विष्णुर्मौलावाज्ञां निधाय च ।।
क्षणं ध्यानपरो भूत्वा तपस्येव मनो दधौ ।। ५१ ।।
खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः ।।
निजांगस्वेदसंदोह सलिलैस्तामपूरयत् ।। ५२ ।।
समाः सहस्रं पंचाशत्तप उग्रं चचार सः ।।
चक्रपुष्कीरणी तीरे तत्र स्थाणुसमाकृतिः ।। ५३ ।।
ततः स भगवानीशो मृडान्या सहितो मृडः ।।
दृष्ट्वा ज्वलंतं तपसा निश्चलं मीलितेक्षणम्।। ५४ ।।
तमुवाच हृषीकेशं मौलिमांदोलयन्मुहुः ।।
अहो महत्त्वं तपसस्त्वहो धैर्यं च चेतसः ।। ५५ ।।
अहो अनिंधनो वह्निर्ज्वलत्येष निरंतरम्।।
अलं तप्त्वा महाविष्णो वरं वरय सत्तम ।। ५६ ।।
मृडस्याम्रोडितमिदं प्रत्यभिज्ञाय भाषितम् ।।
उन्मीलित दृगंभोजः समुत्तस्थौ चतुर्भुजः ।। ५७ ।।
श्रीविष्णुरुवाच ।। ।।
यदि प्रसन्नो देवेश देवदेव महेश्वर ।।
भवान्या सहितं त्वां तु द्रष्टुमिच्छामि सर्वदा ।। ५८ ।।
सर्वकर्मसु सर्वत्र त्वामेव शशिशेखर ।।
पुरश्चरं तं पश्यामि यथा तन्मे वरस्तथा ।। ५९ ।।
त्वदीय चरणांभोज मकरंदमधूत्सुकः ।।
मच्चेतो भ्रमरो भ्रांतिं विहायास्तु सुनिश्चलः ।।4.1.26.६०।।
।। श्रीशिव उवाच ।।
एवमस्तु हृषीकेश यत्त्वयोक्तं जनार्दन ।।
अन्यं वरं प्रयच्छामि तमाकर्णय सुव्रत ।। ६१ ।।
त्वदीयस्यास्य तपसो महोपचय दर्शनात् ।।
यन्मयांदोलितो मौलिरहिश्रवणभूषणः ।। ६२ ।।
तदांदोलनतः कर्णात्पपात मणिकर्णिका ।।
मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका ।। ६३ ।।
चक्रपुष्करिणी तीर्थं पुराख्यातमिदं शुभम् ।।
त्वया चक्रेण खननाच्छंखचक्रगदाधर ।। ६४ ।।
मम कर्णात्पपातेयं यदा च मणिकर्णिका ।।
तदाप्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका ।।६५।।
।। श्रीविष्णुरुवाच ।। ।।
मुक्ताकुंडलपातेन तवाद्रितनयाप्रिय ।।
तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै ।।६६।।
काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वरः ।।
अतो नामापरं चास्तु काशीति प्रथितं विभो ।। ६७ ।।
अन्यं वरं वरे देव देयः सोप्यविचारितम् ।।
स ते परोपकारार्थं जगद्रक्षामणे शिव ।। ६८ ।।
आब्रह्मस्तंबपर्यंतं यत्किंचिज्जंतुसंज्ञितम् ।।
चतुर्षु भूतग्रामेषु काश्यां तन्मुक्तिमाप्स्यतु ।।६९।।
अस्मिंस्तीर्थवरे शंभो मणिश्रव णभूषणे ।।
संध्यां स्नानं जपं होमं वेदाध्ययनमुत्तमम् ।।
तर्पण पिंडदानं च देवतानां च पूजनम् ।। 4.1.26.७० ।।
गोभूतिलहिरण्याश्वदीपान्नांबरभूषणम् ।।
कन्यादानं प्रयत्नेन सप्ततंतूननेकशः ।। ७१ ।।
व्रतोत्सर्गं वृषोत्सर्गं लिंगादि स्थापनं तथा ।।
करोति यो महाप्राज्ञो ज्ञात्वायुःक्षणगत्वरम् ।। ७२ ।।
विपत्तिं विपुलां चापि संपत्तिमतिभंगुराम् ।।
अक्षया मुक्तिरेकास्तु विपाकस्तस्य कर्मणः ।।७३।।
अन्यच्चापि शुभं कर्म यदत्र श्रद्धयायुतम् ।।
विनात्मघातमीशान त्यक्त्वा प्रायोपवेशनम्।।७४।।
नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर ।।
नानुशोचति नाख्याति कृत्वा कालांतरेपि यत् ।।७५।।
तदिहाक्षयतामेतु तस्येश त्वदनुग्रहात्।।
तव प्रसादात्तस्येश सर्वमक्षयमस्तु तत् ।। ७६ ।।
यदस्ति यद्भविष्यच्च यद्भूतं च सदाशिव ।।
तस्मादेतच्च सर्वस्मात्क्षेत्रमस्तु शुभोदयम् ।। ७७ ।।
यथा सदाशिव त्वत्तो न किंचिदधिकं शिवम् ।।
तथानंदवनादस्मात्किंचिन्मास्त्वधिकं क्वचित् ।। ७८ ।।
विना सांख्येन योगेन विना स्वात्मावलोकनम्।।
विना व्रत तपो दानैः श्रेयोऽस्तु प्राणिनामिह ।। ७९ ।।
शशका मशका कीटाः पतं गास्तुरगोरगाः ।।
पंचक्रोश्यां मृताः काश्यां संतु निर्वाणदीक्षिताः ।। 4.1.26.८० ।।
नामापि गृह्णतां काश्याः सदैवास्त्वेनसः क्षयः ।। ८१ ।।
सदा कृतयुगं चास्तु सदाचास्तूत्तरायणम्।।
सदा महोदयश्चास्तु काश्यां निवसतां सताम् ।। ८२ ।।
यानि कानि पवित्राणि श्रुत्युक्तानि सदाशिव ।।
तेभ्योऽधिकतरं चास्तु क्षेत्रमेतत्त्रिलोचन ।। ८३ ।।
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ।।
तत्पुण्यं जायतां काश्यां गायत्रीलक्ष जाप्यतः ।। ८४ ।।
अष्टांगयोगाभ्यासेन यत्पुण्यमपि जायतेः ।।
तत्पुण्यं साधिकं भूयाच्छ्रद्धाकाशीनिषेवणात् ।। ८५ ।।
कृच्छ्रचांद्रायणाद्यैश्च यच्छ्रेयः समुपार्ज्यते ।।
तदेकेनोपवासेन भवत्वानंदकानने ।। ८६ ।।
अन्यत्र यत्तपस्तप्त्वा श्रेयः स्याच्छरदां शतम् ।।
तदस्तु काश्यां वर्षेण भूमिशय्या व्रतेन हि ।। ८७ ।।
आजन्म मौनव्रततो यदन्यत्रफलं स्मृतम् ।।
तदस्तु काश्यां पक्षाहः सत्यवाक्परिभाषणात् ।। ८८ ।।
अन्यत्र दत्त्वा सर्वस्वं सुकृतं यत्समीरितम् ।।
सहस्रभोजनात्काश्यां तद्भूयादयुताधिकम् ।। ८९ ।।
मुक्तिक्षेत्राणि सर्वाणि यत्संसेव्योदितं फलम् ।।
पंचरात्रात्तदत्रास्तु निषेव्य मणिकर्णिकाम् ।। 4.1.26.९० ।।
प्रयागस्नानपुण्येन यत्पुण्यं स्याच्छिवप्रदम् ।।
काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्त्विह ।। ९१ ।।
यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयतः ।।
काश्यां तत्पुण्यमाप्नोतु त्रिरात्रशयनाद्यमी ।। ९२ ।।
तुलापुरुषदानेन यत्पुण्यं सम्यगाप्यते ।।
काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्तु वै ।। ९३ ।।
इति विष्णोर्वरं श्रुत्वा देवदेवो जगत्पतिः ।।
उवाच च प्रसन्नात्मा तथाऽस्तु मधुसूदन ।। ९४ ।।
।। श्रीमहादेव उवाच ।। ।।
शृणु विष्णो महाबाहो जगतः प्रभवाप्यय ।।
विधेहि सृष्टिं विविधां यथावत्त्वं श्रुतीरिताम् ।। ९५ ।।
पितेव सर्वभूतानां धर्मतः पालको भव ।।
विध्वंसनीया विविधा धर्मध्वंसविधायिनः ।। ९६ ।।
धर्मेतरपथस्थानामुपसंहृतये हरे ।।
हेतुमात्रं भवान्यस्मात्स्वकर्मनिहता हि ते ।। ९७ ।।
यथा परिणतं सस्यं पतेत्प्रसवबंधनात् ।।
ते परीणतपाप्मानः पतिष्यंति तथा स्वयम् ।। ९८ ।।
ये च त्वामवमन्यंते दर्पिताः स्वतपोबलैः ।।
तेषां चैवोपसंहृत्यै प्रभविष्याम्यहं हरे ।। ९९ ।।
उपपातकिनो ये च महापातकिनश्च ये ।।
तेपि काशीं समासाद्य भविष्यंति गतैनसः ।। 4.1.26.१०० ।।
इदं मम प्रियं क्षेत्रं पंचक्रोशीपरीमितम् ।।
ममाज्ञा प्रभवेदत्र नान्याज्ञा प्रभवेदिह ।। १ ।।
पुनर्विष्णुर्मया प्रोक्तो मृडानि शुभलोचने ।।
अत्युग्रतेजसा तेजो भ्रमंस्त्रैलोक्यविभ्रमः ।। २ ।।
पापिनामपि जंतूनामविमुक्तनिवासिनाम् ।।
नान्यः शासयिता विप्णो तेषां शास्ताऽहमेव हि ।। ३ ।।
योजनानां शतस्थोपि यो(?)ऽविमुक्तं स्मरेद्धृदि ।।
बहुपातकपूर्णोपि न स पापैः प्रबाध्यते ।।४।।
मम प्रियस्य क्षेत्रस्य योऽविमुक्तस्य संस्मरेत् ।।
प्राण प्रयाणसमये दूरगोप्यघवानपि ।।५।।
स पापपूगमुत्सृज्य स्वर्गभोगान्समश्नुते ।।
काशीस्मरणपुण्येन स्वर्गाद्भ्रष्टो हि जायते।।६।।
पृथिव्यामेकराड्भूत्वा भुक्त्वा भोगाननेकशः ।।
प्राप्याविमुक्तं तत्पुण्यान्निर्वाणपदभाग्भवेत् ।। ७ ।।
बहुकालमुषित्वाऽत्र नियतेंद्रियमानसः ।।
यद्यन्यत्र विपद्येत दैवयोगाच्छुचिस्मिते ।। ८ ।।
सोपि स्वर्गसुखं भुक्त्वा भूत्वा क्षितिपतीश्वरः ।।
पुनः काशीमवाप्याथ विंदेन्नैःश्रेयसीं श्रियम् ।। ९ ।।
विष्णोऽविमुक्ते संवासः कर्मनिर्मूलनक्षमः ।।
द्वित्राणां हि पवित्राणां निर्वाणा येह जायते ।। 4.1.26.११० ।।
विष्णुरुवाच ।। ।।
देवेशक्षेत्रमाहात्म्यं यो न जानाति तत्त्वतः ।।
न श्रद्दधाति म्रियते मृते तस्येह का गतिः ।।११।।
।। शिव उवाच ।। ।।
अन्यत्र कृत्वा पापानि बहूनि सुमहांति च ।।
अश्रद्दधानोऽतत्त्वज्ञो यद्यत्र च विपद्यते ।। १२ ।।
महिमन्यनभिज्ञोपि क्षेत्रस्यास्य जनार्दन।।
तस्य या गतिरुद्दिष्टा तां निशामय सुव्रत ।। १३ ।।
पंचक्रोशीं प्रविशतस्तस्य पातकसंततिः ।।
बहिरेव प्रतिष्ठेत नांतर्निर्विशते क्वचित् ।। १४ ।।
भयाद्बहिः स्थितायां च तस्य पातकसंततौ ।।
त्रिशूलपाशपाणीनां गणानां सीमचारिणाम् ।। १५ ।।
प्रवेशमात्रादनघ सर्वैरेनोभिरुज्झितः ।।
संस्नाय मणिकर्णिक्यां पुण्यं प्राप्नोत्यनुत्तमम् ।। १६ ।।
सर्वतीर्थेषुसंस्नानाद्यत्पुण्यं समवाप्यते ।।
तत्पुण्यमाप्यते सम्यङ्मणिकर्ण्येक मज्जनात् ।। १७ ।।
विधिना तत्र संस्नाय मृद्गोमयकुशादिभिः ।।
स्वशाखावारुणैर्मंत्रैर्दूर्वापामार्गदर्भकैः ।। १८ ।।
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।।
मणिकर्ण्यां विधिस्नातः श्रद्धया तदवाप्नुयात् ।। १९ ।।
अश्रद्धयापि यः स्नातो मणिकर्ण्यां विधानतः ।।
सोपि पुण्यमवाप्नोति स्वर्गप्राप्तिकरं परम् ।। 4.1.26.१२० ।।
श्रद्धया विधिवत्स्नात्वा कृत्वा देवादितर्पणम् ।।
तिलबर्हिर्यवैः सम्यक्सर्वयज्ञफलं लभेत् ।। २१ ।।
श्रद्दधानो विधिस्नातः कृत सर्वोदकक्रियः ।।
जपन्देवान्समभ्यर्च्य सर्वमंत्रफलं लभेत् ।। २२ ।।
स्नात्वा मौनेन विश्वेश दर्शना न्नियतेंद्रियः ।।
सर्वव्रतकृतं श्रेयो लभेद्वाचंयमः शिवे ।। २३ ।।
स्नाने देवार्चने जप्ये मलमूत्रविसर्जने ।।
मौनं कुर्यात्प्रयत्नेन दंतधावनहोमयोः ।। २४ ।।
विश्वेश्वरं समभ्यर्च्य सूपचारैर्विधानतः ।।
यावज्जीवं शिवार्चायाः फलमाप्नोति वै सकृत् ।। २५ ।।
दत्त्वाल्पमपि देवेशि न्यायेनोपार्जितं धनम् ।।
अविमुक्ते मम क्षेत्रे न दरिद्रो भवेत्क्वचित् ।। २६ ।।
विविधं धनमावर्ज्य योऽविमुक्ते न यच्छति ।।
संप्राप्य निधनं मूढोऽन्यत्र शोचति सर्वदा ।। २७ ।।
रम्याणि यानि रत्नानि गोगजाश्वांबराण्यपि ।।
कृतानि तानि श्रेयोर्थमविमुक्तनिवासिनाम् ।। २८ ।।
विश्वेशप्रीणनार्थाय धनं निधनमेव वा ।।
न्यायेन काश्यां यः कुर्यात्स धन्यः स च धर्मवित् ।। २९ ।।
योसौ विश्वेश्वरो देवः काशीपुर्यामुमे स्थितः ।।
लिंगरूपधरः साक्षान्मम श्रेयास्पदं हि तत् ।। 4.1.26.१३० ।।
अविमुक्तं महत्क्षेत्रं पंचक्रोशपरीमितम् ।।
ज्योतिर्लिगं तदेकं हि ज्ञेयं विश्वेश्वराभिधम् ।। ३१ ।।
एकदेशस्थितमपि यथा मार्तंडमंडलम् ।।
दृश्यते सर्वगं सर्वैः काश्यां विश्वेश्वरस्तथा ।। ३२ ।।
निष्प्रत्यूहेन योगेन नानाजन्मार्जितेन च ।।
यत्फलं लभ्यतेऽन्यत्र तत्काश्यां त्यजतस्तनुम ।। ३३ ।।
तप्त्वा तपांसि सर्वाणि बहुकालं जितेंद्रियैः ।।
यत्फलं लभ्यतेऽन्यत्र तत्काश्यामेकरात्रतः ।। ३४ ।।
अक्षेत्रमहिमज्ञोपि श्रद्धाहीनोपि कालतः ।।
काशीप्रवेशादनघोऽमृतत्वं लभतेमृतः ।। ३५ ।।
कृत्वाप्येनांसि चोग्राणि कालात्प्राप्याथ काशिकाम् ।।
त्यक्त्वा तनुं प्रसादान्मे मामेव प्रतिपद्यते ।। ३६ ।।
विना मम प्रसादं वै कः काशीं प्रतिपद्यते ।।
विना ब्रध्नं विशालाक्षि दिनकृत्क इहोच्यते ।। ३७ ।।
अप्राप्य काशीं को देवि निरंतर सुखं लभेत् ।।
बह्माद्याः प्राकृतैः पाशैर्यतो बद्धा निरंतरम् ।। ३८ ।।
चतुर्विंशतिभिः पाशैस्त्रिगुणैः क्रियया दृढैः ।।
कंठे बद्धा विमुच्यंते कथं काशीं विना जनाः ।। ।। ३९ ।।
बहूपसर्गो योगोयं कृच्छ्रसाध्यं तपो हि यत् ।।
योगाद्भ्रष्टस्तपोभ्रष्टो गर्भक्लेशसहःपुनः ।। 4.1.26.१४० ।।
कृत्वापि काश्यां पापानि काश्यामेव म्रियेत चेत् ।।
भूत्वा रुद्रपिशाचोपि पुनर्मुक्तिमवाप्स्यति ।। ४१ ।।
काश्यां मृतानां जंतूनां दैवात्पापकृतामपि ।।
न पातो नरके तेषां तेषां शास्ताहमेव यत् ।। ४२ ।।
कायं विज्ञाय सापायं स्मृत्वा गर्भस्य वेदनाम् ।।
त्यक्त्वा राज्यमपि प्राज्यं सेव्या काशी निरंतरम् ।। ४३ ।।
अतर्कितं समभ्येत्य यमदूताः सुदारुणाः ।।
बद्ध्वा पाशैर्हनिष्यंति क्षिप्रं काशीं ततः श्रयेत ।। ४४ ।।
न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ।।
न गर्भवासभीर्यत्र तां काशीं को न संश्रयेत् ।। ४५ ।।
अद्य प्रातः परश्वो वा मरणं प्राप्यमेव च ।।
यावत्कालविलंबोस्ति तावत्काशीं समाश्रयेत् ।। ४६ ।।
प्राप्ते तु मरणे पुंसां पुनर्जन्म पुनर्मृतिः ।।
अपुनर्भवभूमिं च तस्मात्काशीं श्रयेद्बुधः ।। ४७ ।।
पुत्रक्षेत्रकलत्राख्यां त्यक्त्वा मायां हि वैष्णवीम् ।।
भवांतरेनेकरूपां भवघ्नीं काशिकां श्रयेत् ।।४८।।
।। स्कंद उवाच ।।
दूरं मे मरणंयुवाहमधुना धार्यं न चित्तेत्विति श्रोतव्यो निभृतं कृतांत महिषग्रैवेयघंटारवः ।।
नैकट्यात्प्रकटोत्कटश्रमघटामप्राप्य हित्वा द्रुतं जीर्णां पर्णकुटीं ततः पटुमतिर्गच्छेत्पुरीं धूर्जटेः ।। ४९ ।।
व्यास उवाच ।।
अगस्त्यस्य पुरः सूत कथयित्वा कथामिमाम् ।।
सर्वपापप्रशमनीं पुनः स्कंद उवाच ह ।। 4.1.26.१५० ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे मणिकर्णिकाख्यानं नाम षड्विंशोऽध्यायः ।। २६ ।।