स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९८

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्यास उवाच।। ।।
शृणु सूत महाभाग यथा स्कंदेन भाषितः।।
महामहोत्सवः शंभोः पृच्छते कुंभसंभवे ।। १ ।।
।। स्कंद उवाच ।। ।।
निशामय महाप्राज्ञ शंभु प्रावेशिकीं कथाम् ।।
त्रैलोक्यानंदजननीं महापातकतंकिनीम् ।। २ ।।
मंदरादागतः शंभुश्चैत्रे दमनपर्वणि ।।
प्राप्याप्यानंदगहनमितश्चेतश्चचार ह ।। ३ ।।
मोक्षलक्ष्मीविलासेथ प्रासादे सिद्धिमागते ।।
देवो विरजसः पीठादंतर्गेहं विवेश ह ।। ४ ।।
ऊर्जशुक्लप्रतिपदि बुधराधासमायुजि ।।
चंद्रे सप्तमराशिस्थे शेषेषूच्चग्रहेषु च ।। ५ ।।
वाद्यमानेषु वाद्येषु प्रसन्नासु हरित्सु च ।।
ब्राह्मणानां श्रुतिरव न्यक्कृतान्यरवांतरे ।। ६ ।।
प्रतिशब्दित भूर्लोक भुवर्लोकांतराध्वनि ।।
सर्वं प्रमुदितं चासीच्छंभोः प्रावेशिकोत्सवे ।। ७ ।।
जगुर्गंधर्वनिकरा ननृतुश्चाप्सरोगणाः ।। २८ ।।
चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः ।।८।।
ववुर्गंधवहा वाता ववृषुः कुसुमैर्घनाः ।।
सर्वे मंगलनेपथ्याः सर्वे मंगलभाषिणः ।।९।।
स्थावरा जंगमाः सर्वे जाता आनंदमेदुराः।।
सुरासुरेषु सर्वेषु गंधर्वेषूरगेषु च ।। 4.2.98.१० ।।
विद्याधरेषु साध्येषु किन्नरेषु नरेषु च ।।
स्त्रीपुंजातेषु सर्वेषु रेजुश्चत्वार एव च ।। ११ ।।
निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे ।।
धूपधूमभरैर्व्योम यद्रक्तं तु तदा मुने ।। १२ ।।
नाद्यापि नीलिमानंतं परित्यजति कर्हिचित् ।।
नीराजनाय ये दीपास्तदा सर्वे प्रबोधिताः ।। १३ ।।
तेषां ज्योतींषि खेद्यापि राजंते तारकाच्छलात् ।।
प्रतिसौधं पताकाश्च नानाकारा विचित्रिताः ।। १४ ।।
रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम् ।।
क्वचिद्गायंति गीतज्ञाः क्वचिन्नृत्यंति नर्तकाः ।। १५ ।।
चतुर्विधानि वाद्यानि वाद्यंते च क्वचित्क्वचित् ।।
प्रत्यध्वं चंदनरसच्छटा पिच्छिलभूमयः ।। १६ ।।
हरित श्वेत मांजिष्ठ नील पीत बहुप्रभाः ।।
प्रत्यंगणं शुभाकारा रंगमालाश्चकाशिरे ।। १७ ।।
रत्नकुट्टिमभूभागा गोपुराग्रेषु रेजिरे ।।
सुधोज्ज्वला हर्म्यमालाः सौधनामप्रपेदिरे ।।१८।।
अचेतनान्यपि तदा चेतनानीव संबभुः ।।
यानि कानीह कीर्त्यंते मंगलानि घटोद्भव ।। १९।।
तेषामेव हि सर्वेषां तत्तु जन्मदिवाभवत् ।।
आगत्य देवदेवोथ मुक्तिमंडपमाविशत् ।। 4.2.98.२० ।।
अथाभिषिक्तश्चतुराननेन महर्षिवृंदैः सह देवदेवः ।।
शुभासनस्थः सहितो भवान्या कुमारवृंदैः परितो वृतश्च।। ।। २१ ।।
रत्नैरसंख्यैर्बहुभिर्दुकूलैर्माल्यैर्विचित्रैर्लसदिष्टगंधैः ।।
अपूपुजन्देवगणा महेशं तदा मुदाते च महोरग्रेंद्राः ।। २२ ।।
रत्नाकरैश्चापि गिरींद्रव्यैर्यथा स्वमन्यैरपि पुण्यधीभिः ।।
संपूजितः कुंभज तत्र शंभुर्नीराजितो मातृगणैरथेशः ।।२३।।
संतोष्य सर्वान्प्रथमं मुनींद्रान्स्वैस्वैर्हृदिस्थैश्च चिराभिलाषैः ।।
ब्रह्माणमाभाष्य शिवोथ विष्णुं जगाद सर्वामरवृंदवंद्यः ।। २४ ।।
इतो निषीदेति समानपूर्वं त्वं मे समस्तप्रभुतैकहेतुः ।।
दूरेपि तिष्ठन्निकटस्त्वमेव त्वत्तो न कश्चिन्मम कार्यकर्ता ।। २५ ।।
त्वया दिवोदास नरेंद्रवर्यः सदूपदेशैश्च तथोपदिष्टः ।।
यथा स सिद्धिं परमामवाप समीहितं मे निखिलं च सिद्धम् ।। २६ ।।
विष्णो वरं ब्रूहि य ईप्सितस्ते नादेयमत्रास्ति किमप्यहो ते।।
इदं मयाऽऽनंदवनं यदाप्तं हेतुस्तु तत्रत्वमसौ गणेशः ।। २७ ।।
न मे प्रियं किंचन विष्टपत्रये तथा यथेयं परसौख्यभूमिः ।।
वाराणसी ब्रह्मरसायनस्य खनिर्जनिर्यत्र न दीर्घशायिनाम् ।। २८ ।।
श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम् ।।
यदि प्रसन्नोसि पिनाकपाणे तदा पदाद्दूरमहं न ते स्याम् ।। २९ ।।
श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः ।।
सदा मुरारे मम सन्निधौ त्वं तिष्ठस्व निर्वाणरमाश्रयेत्र ।। 4.2.98.३० ।।
आदावनाराध्य भवंतमत्र यो मां भजिष्यत्यपि भक्तियुक्तः ।।
समीहितं तस्य न सेत्स्यति ध्रुवं परात्परान्मेंबुज चक्रपाणे ।।३१ ।।
सर्वत्र सौख्यं मम मुक्तिमंडपे संतिष्ठमानस्य भवेदिहाच्युत ।।
न तत्तु कैलासगिरौ सुनिर्मले न भक्तचेतस्यपि निश्चलश्रियि ।। ३२ ।।
निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठंति ये दक्षिणमंडपेत्र मे ।।
अनन्यभावा अपि गाढमानसा न ते पुनर्गर्भदशामुपासते ।। ३३ ।।
संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे ।।
क्षणं विशंतीह निरीहमानसा निरेनसस्ते मम पार्षदा हि ।। ३४ ।।
स्मरंति ये मामपवर्गमंडपे किंचिद्यथाशक्ति ददत्यपि स्वम् ।।
शृण्वंति पुण्याश्च कथाः क्षणं स्थिरास्ते कोटिगोदानफलं भजंति ।। ३५ ।।
उपेंद्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः ।।
स्नात्वेह ये वै मणिकर्णिका ह्रदे समासते मुक्तिजनाश्रयेक्षणम् ।। ३६ ।।
तीर्थानि संतीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः ।।
कतीहनो संति शुभाश्च मंडपाः परंपरोमुक्तिरमाश्रयोयम् ।। ३७ ।।
कैवल्यमंडपस्यास्य भविष्ये द्वापरे हरे ।।
लोके ख्यातिर्भवित्रीयमेष कुक्कुटमंडपः ।। ३८ ।।
।। हरिरुवाच ।। ।।
भालनेत्रसमाख्याहि कथं निर्वाणमंडपः ।।
तथा ख्यातिमसौ गंता यथा देवेन भाषितम् ।। ३९ ।।
।। देवदेव उवाच ।। ।।
महानंदो द्विजो नाम भविष्योत्र चतुर्भुज ।।
अग्रवेदीसमाचारस्त्यक्ततीर्थप्रतिग्रहः ।। 4.2.98.४० ।।
अदांभिकोऽक्रूरमनाः सदैवातिथिवल्लभः ।।
अथ यौवनमासाद्य पितर्युपरते स हि ।। ४१ ।।
विषमेषु शरैस्तीव्रैः कारितस्त्वपदे पदम् ।।
जहार कस्यचिद्भार्या मैत्रीं कृत्वा तु तेन वै ।। ४२ ।।
तया च प्रेरितोऽपेयं पपौ चापि विमोहितः ।।
अभक्ष्यभक्षणरुचिरभून्मदनमोहितः ।।४३।।
वैष्णवान्धनिनो दृष्ट्वा क्षणं वैष्णववेषभृत् ।।
शैवान्निंदति मूढात्मा नरकत्राणकारणम् ।।४४।।
शिवभक्तान्समालोक्य किंचिच्च परिदित्सुकान् ।।
गर्हयेद्वैष्णवान्सर्वाञ्शैवलिंगोपजीवकः ।। ४५ ।।
इति पाखंडधर्मज्ञः संध्यास्नानपराङ्मुखः ।।
विशालतिलकः स्रग्वी शुद्धधौतांबरोज्वलः ।। ४६. ।। २७ ।।
शिखी चोपग्रहकरः सर्वेभ्योऽसत्प्रतिग्रही।।
तस्यापत्यद्वयं जातमुन्मत्तपथवर्तिनः ।। ४७ ।।
एवं तस्य प्रवृत्तस्य कश्चित्पर्वतदेशतः ।।
समागमिष्यति धनी तीर्थयात्रार्थसिद्धये ।। ४८ ।।
स्नात्वा स चक्रसरसि कथयिष्यति चेति वै ।।
अहमस्ति धनोदित्सुर्जात्या चांडालसत्तमः ।।४९।।
अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् ।।
इति तस्य वचः श्रुत्वा कैश्चिच्चांगुलिसंज्ञया ।।4.2.98.५०।।
उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया ।।
एष प्रतिग्रहं त्वत्तो ग्रहीष्यति न चेतरः ।।५१।।
इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः ।।
दंडवत्प्रणिपत्याथ तं बभाषे तदांत्यजः ।।५२।।
मामुद्धर महाविप्र तीर्थं मे सफलीकुरु ।।
किंचिद्वस्त्वस्ति मे तत्त्वं गृहाणानुग्रहं कुरु ।। ५३ ।।
अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च ।।
कियद्धनं तवास्तीह पप्रच्छ करसंज्ञया ।। ५४ ।।
तस्य संज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत् ।।
संतृप्तिर्यावता ते स्यात्तावद्दास्यामि नान्यथा ।। ५५ ।।
इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह ।।
सानंदः स महानंदो निःस्पृहोस्मि प्रतिग्रहे ।। ५६ ।।
परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम् ।।
किंच मे वचनं त्वं चेत्करिष्यस्युत्तमोत्तम ।।५७।।
यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित् ।।
न स्तोकमपि दातव्यं तदाऽऽदास्यामि नान्यथा ।।५८।।
।। चांडाल उवाच ।। ।।
यावदस्ति मयानीतं विश्वेशप्रीतये वसु।।
तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम।।५९।।
ये वसंतीह विश्वेश राजधान्यां द्विजोत्तम ।।
क्षुद्राक्षुद्रा जंतुमात्रा विश्वेशां शास्त एव हि।।4.2.98.६०।।
परोद्धरणशीला ये ये परेच्छाप्रपूरकाः ।।
परोपकृतिशीला ये विश्वेशां शास्त एव हि ।। ६१ ।।
इति तद्वचनं श्रुत्वा प्रहृष्टेंद्रियमानसः ।।
उवाच पार्वतीयं तं सोऽग्रजन्मांत्यजं तदा ।। ६२ ।।
आयाहि दर्भानादेहि कुरूत्सर्गं त्वरान्वितः ।।
तथेति स चकाराशु पार्वतीयो महामनाः ।। ३३ ।।
विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः ।।
स च द्विजो द्विजैरन्यैर्धिक्कृतोपि वसन्निह ।। ६४ ।।
बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते ।।
चांडालब्राह्मणश्चैष चांडालात्त धनस्त्वसौ ।। ६५ ।।
असावेव हि चांडालः सर्वलोकबहिष्कृतः ।।
इत्थं तमनुधावंति थूत्कुर्वंतः परितो हरे ।। ६६ ।।
स च तद्भयतो गेहात्काकभीतदिवांधवत् ।।
न निःसरेत्क्वचिदपि लज्जाकृति नतास्यकः।।६७।।
स एकदा संप्रधार्य गृहिण्या लोकदूषितः ।।
जगाम कीकटान्देशांस्त्यक्त्वा वाराणसीं पुरीम् ।।६८।।
मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकांचनः ।।
अपि कार्पटिकांतस्थः स रुद्धो मार्गरोधिभिः।।६९।।
नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम्।।
उल्लुंठ्य धनमादाय समालोच्य परस्परम्।।4.2.98.७०।।
प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति ।।
असौ धनी प्रयत्नेन वध्यः सपरिचारकः ।। ७१ ।।
संप्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पांथिक ।।
त्वां वयं घातयिष्यामो निश्चितं सपरिच्छदम् ।। ७२ ।।
निशम्येति मनस्येव कथयामास स द्विजः ।।
अहो प्रतिगृहीतं मे यदर्थं वसु भूरिशः ।। ७३ ।।
कुटुंबमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः ।।
जीवितं चापि मे नष्टं नष्टा काशीपुरीस्थितिः ।। ७४ ।।
युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया ।।
न काश्यां मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात् ।। ७५ ।।
प्रांते कुटुंबस्मरणात्तथाकाशीस्मृतेरपि ।।
चोरैर्हतोपि स तदा कीकटे कुक्कुटोऽभवत् ।।७६।।
सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः ।।
प्रांते काशीस्मरणतो जाता जातिस्मृतिः परा ।। ७७ ।।
इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः ।।
तस्मिन्नेवाध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः ।।७८।।
वाराणस्याः कथां प्रोच्चैः कुर्वंतोऽन्योन्यमेव हि ।।
काशीकथां समाकर्ण्य तदा ते चरणायुधाः ।। ७९ ।।
जातिस्मृतिप्रभावेण तत्संगेन तु निर्गताः ।।
तैश्च कार्पटिकश्रेष्ठेः पथि दृष्ट्वा कृपालुभिः ।। 4.2.98.८० ।।
तंदुलादिपरिक्षेपैः प्रापिताः क्षेत्रमुत्तमम् ।।
ते तु क्षेत्रं समासाद्य चत्वारश्चरणायुधाः ।। ८१ ।।
चरिष्यंतोऽत्र परितो मुक्तिमंडपमुत्तमम् ।।
जिताहारान्सनियमान्कामक्रोधपराङ्मुखान् ।। ८२ ।।
प्रहासान्मत्कथालापाँल्लाभमोहविवर्जितान् ।।
स्वर्धुनीस्नानसंक्लिन्न सुनिर्मलशिरोरुहान् ।। ९३ ।।
मन्नामोच्चारणपरान्मत्कथार्पितसुश्रुतीन् ।।
मद्दत्तचित्तसद्वृत्तीन्दृष्ट्वा क्षेत्रनिवासिनः ।।८४ ।।
मानयामासुरथ तान्कुक्कुटान्साधुवर्त्मनः ।।
प्राक्तनां वासनायोगात्संप्रधार्य परस्परम् ।।
क्रमेणाहारमाकुंच्य प्राणांस्त्यक्ष्यंति चात्र वै ।। ८५ ।।
पश्यतां सर्वलोकानां विष्णो ते मदनुग्रहात् ।।
विमानमधिरुह्याशु कैलासं प्राप्य मत्पदम् ।।८६।।
निर्विश्य सुचिरं कालं दिव्यान्भोगाननुत्तमान् ।।
ततोऽत्र ज्ञानिनो भूत्वा मुक्तिं प्राप्स्यंति शाश्वतीम् ।। ८७ ।।
ततो लोकास्तददारभ्य कथयिष्यंति सर्वतः ।।
मुक्तिमंडपनामैतदेष कुक्कुटमंडपः ।। ८८ ।।
चरित्रमपि वै तेषां ये स्मरिष्यंति मानवाः ।।
मुक्तिमंडपमासाद्य श्रेयः प्राप्स्यंति तेपि हि ।। ८९ ।।
इति यावत्कथां शंभुर्भविष्यामग्रतो हरेः ।।
अकरोत्तुमुलो नादो घंटानां तावदुद्गतः ।। 4.2.98.९० ।।
अथनंदिनमाहूय देवदेव उमाधवः ।।
प्रोवाच नंदिन्विज्ञायागत्य ब्रूहि कुतो रवः ।।९१।।
अथ नंदी समागत्य प्रोवाच वृषभध्वजम्।।
नमस्कृत्य प्रहृष्टास्यः प्रबद्धकरसंपुटः ।। ९२ ।।
।। नंद्युवाच ।। ।।
देवदेव त्रिनयन किमपूर्वं ब्रवीमि ते ।।
मोक्षलक्ष्मीविलासोऽत्र कैश्चित्कैश्चित्समर्च्यते।।९३।।
अथ स्मित्वाब्रवीच्छंभुः सिद्धं नस्तु समीहितम् ।।
उत्थाय देवदेवेशः सह देव्या सुमंगलः।।९४।।
ब्रह्मणा हरिणा सार्धं ततोऽगाद्रंगमंडपम् ।।
।। स्कंद उवाच ।। ।।
श्रुत्वाध्यायमिमं पुण्यं परमानंदकारणम् ।।
नरः परां मुदं प्राप्य कैलासं प्राप्स्यति ध्रुवम् ।। ९५ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे मुक्तिमंडपगमनं नामाष्टनवतितमोऽध्यायः ।। ९८ ।।