स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००५

विकिस्रोतः तः
Jump to navigation Jump to search

पराशर उवाच ।। ।।
ततो ध्यानेन विश्वेशमालोक्य स मुनीश्वरः ।।
सूत प्रोवाच तां पुण्यां लोपामुद्रामिदं वचः ।। १ ।।
अयि पश्य वरारोहे किमेतत्समुपस्थितम् ।।
क्व तत्कार्यं क्व च वयं मुनिमार्गानुसारिणः ।। २ ।।
येन गोत्रभिदा गोत्रा विपक्षा हेलया कृताः ।।
भवेत्कुंठितसामर्थ्यः स कथं गिरिमात्रके ।। ३ ।।
कल्पवृक्षोंऽगणे यस्य कुलिशं यस्य चायुधम् ।।
सिद्ध्यष्टकं हि यद्द्वारि स सिद्ध्यै प्रार्थयेद्द्विजम्।। ४ ।।
क्रियंते व्याकुलाः शैला अहो दावाग्निना प्रिये ।।
तद्वृद्धिस्तंभने शक्तिः क्व गतासाऽऽशुशुक्षणेः ।।५।।
नियन्ता सर्वभूतानां योसौ दण्डधरः प्रभुः ।।
स किं दंडयितुं नालमेकं तं ग्रावमात्रकम् ।। ६ ।।
आदित्या वसवो रुद्रास्तुषिताः स मरुद्गणाः ।।
विश्वेदेवास्तथा दस्रौ ये चान्येपि दिवौकसः ।। ७ ।।
येषां दृक्पातमात्रेण पतंति भुवनान्यपि।।
ते किं समर्था नो कांते नगवृद्धिनिषेधने ।।८।।
आज्ञातं कारणं तच्च स्मृतं वाक्यं सुभाषितम्।।
काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः ।।९।।
अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ।।
किंतु विघ्ना भविष्यंति काश्यां निवसतां सताम् ।। 4.1.5.१० ।।
उपस्थितोयं कल्याणि सोंऽतरायो महानिह ।।
न शक्यतेऽन्यथाकर्तुं विश्वेशो विमुखो यतः ।। ११ ।।
काशीद्विजाशीर्भिरहो यदाप्ता कस्तां मुमुक्षुर्यदिवामुमुक्षुः ।।
ग्रासं करस्थं स विसृज्य हृद्यं स्वकूर्परं लेढि विमूढचेताः ।। १२ ।।
अहो जना बालिशवत्किमेतां काशीं त्यजेयुः सुकृतैकराशिम् ।।
शालूककंदः प्रतिमज्जनं किं लभेत तद्वत्सुलभा किमेषा ।। १३ ।।
भवांतरा वर्जित पुण्यराशिं कृच्छैर्महद्भिर्ह्यवगम् यकाशीम् ।।
प्राप्यापि किं मूढधियोन्यतो वै यियासवो दुर्गतिमुद्यियासवः ।। १४ ।।
क्व काशिका विश्वपदप्रकाशिका क्व कार्यमन्यत्परितोतिदुःखम् ।।
तत्पंडितोन्यत्र कुतः प्रयाति किं याति कूष्मांडफलं ह्यजास्ये ।। १५ ।।
काशीं प्रकाशीं कृतपुण्यराशिं हा शीघ्रनाशी विसृजेन्नरः किम् ।।
नूनं स्वनूनं सुकृतं तदीयं मदीयमेवं विवृणोति चेतः ।। १६ ।।
नरो न रोगी यदिहाविहाय सहायभूतां सकलस्य जंतोः।।।
काशीमनाशी सुकृतैकराशिमन्यत्र यातुं यततां न चान्यः ।। १७ ।।
वित्रस्तपापां त्रिदशैर्दुरापां गंगां सदापां भवपाशशापाम् ।।
शिवाविमुक्ताममृतैकशुक्तिं भुक्ताविमुक्तानपरित्यजन्ति ।। १८ ।।
हंहो किमंहो निचिताः प्रलब्धा बंहीयसायास भरेण काशीम् ।।
प्रभूतपुण्यद्रविणैकपण्यां प्राप्यापि हित्वा क्व च गंतुमुद्यताः ।। १९ ।।
अहो जनानां जडता विहाय काशीं यदन्यत्र न यंति चेतः ।।
परिस्फुरद्गांगजलाभिरामां कामारिशूलाग्रधृतां लयेपि ।। 4.1.5.२० ।।
 रेरे भवे शोकजलैकपूर्णे पापेस्मलोकाः पतिताब्धिमध्ये।।
विद्राणनिद्राणविरोधिपापां काशीं परित्यज्यतरिं किमर्थम्।।२१।।
न सत्पथेनापि न योगयुक्त्या दानैर्नवा नैव तपोभिरुग्रैः ।।
काशी द्विजाशीर्भिरहो सुलभ्या किंवा प्रसादेन च विश्वभर्तुः ।।२२।।
धर्मस्तु संपत्तिभरैः किलोह्यतेप्यर्थो हि कामैर्बहुदानभोगकैः।।
अन्यत्रसर्वं स च मोक्ष एकः काश्यां न चान्यत्र तथायथात्र।।२३।।
क्षेत्रं पवित्रं हि यथाऽविमुक्तं नान्यत्तथायच्छ्रुतिभिः प्रयुक्तम्।।
न धर्मशास्त्रैर्न च तैःपुराणैस्तस्माच्छरण्यं हि सदाऽविमुक्तम्।।२४।।
सहोवाचेति जाबालिरारुणेसिरिडामता।।
वरणापिंगला नाडी तदंतस्त्वविमुक्तकम्।।२५।।
सा सुषुम्णा परानाडी त्रयं वाराणसीत्वसौ।।
तदत्रोत्क्रमणे सर्वजंतूनां हि श्रुतौ हरः।।२६।।
तारकं ब्रह्मव्याचष्टे तेन ब्रह्म भवंति हि।।
एवं श्लोको भवत्येष आहुर्वै वेदवादिनः।।२७।।
भगवानंतकालेऽत्र तारकस्योपदेशतः।।
अविमुक्तेस्थिताञ्जन्तून्मोचयेन्नात्र संशयः।।२८।।
नाविमुक्तसमंक्षेत्रं नाविमुक्तसमा गतिः ।।
नाविमुक्तसमं लिंगं सत्यं सत्यं पुनःपुनः ।। २९ ।।
अविमुक्तं परित्यज्य योन्यत्र कुरुते रतिम् ।।
मुक्तिं करतलान्मुक्त्वा सोन्यां सिद्धिं गवेषयेत् ।।4.1.5.३०।।
इत्थं सुनिश्चित्य मुनिर्महात्मा क्षेत्रप्रभावं श्रुतितः पुराणात्।।
श्रीविश्वनाथेन समं न लिंगं पुरी न काशी सदृशी त्रिकोट्याम्।।३१।।
श्रीकालराजं च ततः प्रणम्य विज्ञापयामास मुनीशवर्यः ।।
आपृच्छनायाहमिहागतोस्मि श्रीकाशिपुर्यास्तु यतः प्रभुस्त्वम् ।।३२ ।।
हा कालराजप्रति भूतमत्र प्रत्यष्टमिप्रत्यवनीसुतार्कम् ।।
नाराधये मूलफलप्रसूनैः किं मय्यनागस्यपराधदृक्स्याः ।। ३३ ।।
हा कालभैरव भवानभितो भयार्तान्माभैष्ट चे तिभणनैः स्वकरं प्रसार्य ।।
मूर्तिं विधाय विकटां कटुपापभोक्त्रीं वाराणसीस्थितजनान्परिपाति किं न ।।३४ ।।
हे यक्षराज रजनीकर चारुमूर्ते श्रीपूर्णभद्रसुतनायक दंडपाणे ।।
त्वं वै तपोजनितदुःखमवैपि सर्वं किं मां बहिर्नयसि काशिनिवासिरक्षिन् ।। ३५ ।।
त्वमन्नदस्त्वं किल जीवदाता त्वं ज्ञानदस्त्वं किल मोक्षदोपि ।।
त्वमंत्यभूषां कुरुषे जनानां जटाकलापैरुरगेंद्रहारैः ।। ३६ ।।
गणौ त्वदीयौ किल संभ्रमोद्भ्रमावत्रस्थवृत्तांत विचारकोविदौ ।।
संभ्रांतिमुत्पाद्यपरामसाधून्क्षेत्रात्क्षणं दूरयतस्त्वमुष्मात् ।। ३७ ।।
शृणु प्रभो ढुंढिविनायक त्वं वाचं मदीयां तुरटाम्यनाथवत् ।।
त्वत्स्थाः समस्ताः किल विघ्नपूगाः किमत्र दुर्वृत्तवदास्थितोहम् । ३८ ।।
शृण्वंत्वमी पंच विनायकाश्च चिंतामणिश्चापि कपर्दिनामा ।।
आशागजाख्यौ च विनायकौ तौ शृणोत्वसौ सिद्धिविनायकश्च।।३९।।
परापवादो न मया किलोक्तः परापकारोपि मया कृतो न ।।
परस्वबुद्धिः परदारबुद्धिः कृता मया नात्र क एष पाकः ।।4.1.5.४०।।
गंगा त्रिकालं परिसेविता मया श्रीविश्वनाथोपि सदा विलोकितः ।।
यात्राः कृतास्ताः प्रतिपर्वसर्वतः कोयंविपाको मम विघ्नहेतुः ।। ४१ ।।
मातर्विशालाक्षि भवानिमंगले ज्येष्ठेशिसौभाग्यविधानसुंदरि।।
विश्वेविधे विश्वभुजे नमोस्तु ते श्रीचित्रघंटे विकटे च दुर्गिके ।। ४२ ।।
साक्षिण्य एता किलकाशिदेवताः शृण्वंतु न स्वार्थमहं व्रजाम्यतः ।।
अभ्यर्थितो देवगणैः करो मि किं परोपकाराय न किं विधीयते ।। ४३ ।।
दधीचिरस्थीनि न किं पुरा ददौ जगत्त्रयं किं न ददेऽर्थिने बलिः ।।
दत्तः स्म किं नो मधुकैटभौ शिरो बभूव तार्क्ष्योपि च विष्णुवाहनम् ।। ४४ ।।
आपृच्छ्य सर्वान्समुनीन्मुनीश्वरः सबालवृद्धानपि तत्रवासिनः ।।
तृणानि वृक्षांश्चलताः समस्ताः पुरीं परिक्रम्य च निर्ययौ च।।४५।।
प्रोषितस्य परितोपि लक्षणैर्नीचवर्त्मपरिवर्तिनोपि वा ।।
चंद्रमौलिमवलोक्य यास्यतः कस्य सिद्धिरिह नो परिस्फुरेत् ।।४६।।
वरं हि काश्यां तृणवृक्षगुल्मकाश्चरंति पापं न चरंति नान्यतः ।।
वयं चराणां प्रथमा धिगस्तु नो वाराणसींहाद्य विहाय गच्छतः ।। ४७ ।।
असिं ह्युपस्पृश्य पुनःपुनर्मुनिः प्रासादमालाः परितो विलोकयन् ।।
उवाच नेत्रे सरले प्रपश्यतं काशीं युवां क्वक्व पुरी त्वियं बत ।। ४८ ।।
स्वैरं हसंत्वद्य विधाय तालिकां मिथःकरेणापि करं प्रगृह्य ।।
सीमाचरा भूतगणा व्रजाम्यहं विहाय काशीं सुकृतैकराशिम् ।। ४९ ।।
इत्थं विलप्य बहुशः स मुनिस्त्वगस्त्यस्तत्क्रौंचयुग्मवदहो अबलासहायः ।।
मूर्च्छामवाप महतीं विरही वजल्पन्हाकाशिकाशि पुनरेहि च देहि दृष्टिम्।। 4.1.5.५० ।।
स्थित्वा क्षणं शिवशिवेति शिवेति चोक्त्वा यावःप्रियेति कठिनाहि दिवौकसस्ते।।
किं न स्मरेस्त्रिजगती सुखदानदक्षं त्र्यक्षं प्रहित्यमदनं यदकारितैस्तु ।। ५१ ।।
यावद्व्रजेत्त्रिचतुराणि पदानि खेदात्स्वेदोदबिंदुकणिकांचितभालदेशः ।।
प्रत्युद्गमाऽकरणतः किल मे विनाशस्तावद्धराभयवरादिव संचुकोच ।। ५२ ।।
तपोयानमिवारुह्य निमेषार्धेन वै मुनिः ।।
अग्रे ददर्श तं विंध्यं रुद्धांबरमथोन्नतम् ।। ५३।।
चकंपे चाचलस्तूर्णं दृष्ट्वैवाग्रस्थितम मुनिम् ।।
तमगस्त्यं सपत्नीकं वातापील्वल वैरिणम् ।। ५४ ।।
तपःक्रोधसमुत्थाभ्यां काशीविरहजन्मना ।।
प्रलयानलवत्तीव्रं ज्वलंतं त्रिभिरग्निभिः ।।५५ ।।
गिरिः खर्वतरो भूत्वा विविक्षुरवनीमिव ।।
आज्ञाप्रसादः क्रियतां किंकरोस्मीति चाब्रवीत।। ५६ ।।
।। अगस्त्य उवाच ।। ।।
विंध्य साधुरसि प्राज्ञ मां च जानासि तत्त्वतः ।।
पुनरागमनं चेन्मे तावत्खर्वतरो भव ।। ५७ ।।
इत्युक्त्वा दक्षिणामाशां सनाथामकरोन्मुनिः ।।
निजैश्चरणविन्यासैस्तया साध्व्या तपोनिधिः ।। ५८ ।।
गते तस्मिन्मुनिवरे वेपमानस्तदा गिरिः ।।
पश्यत्युत्कंठमिव च गतश्चेत्साध्वभूत्ततः ।। ५९ ।।
अद्याजातः पुनरहं न शप्तो यदगस्तिना ।।
न मया सदृशो धन्य इति मेने स वै गिरिः ।। 4.1.5.६० ।।
अरुणोपि च तत्काले कालज्ञो ऽश्वानकालयत् ।।
जगत्स्वास्थ्यमवापोच्चैः पूर्ववद्भानुसंचरैः ।। ६१ ।।
अद्य श्वो वा परश्वो वाप्यागमिप्यति वै मुनिः ।।
इति चिंतामहाभारैर्गिरिराक्रांतवत्स्थितः ।। ६२ ।।
नाद्यापि मुनिरायाति नाद्यापिगिरिरेधते ।।
यथा खलजनानां हि मनोरथमहीरुहः ।। ६३ ।।
विवर्धिषति यो नीचः परासूयां समुद्वहन् ।।
दूरे तद्वृद्धिवार्ताऽस्तां प्राग्वृद्धेरपि संशयः ।। ६४ ।।
मनोरथा न सिद्ध्येयुः सिद्धा नश्यंत्यपि ध्रुवम् ।।
खलानां तेन कुशलि विश्वं विश्वेशरक्षितम् ।। ६५ ।।
विधवानां स्तना यद्वद्धृद्येव विलयंति च ।।
उन्नम्योन्नम्य तत्रोच्चैस्तद्वत्खलमनोरथाः ।। ६६ ।।
भवेत्कूलंकपा यद्वदल्पवर्षेणकन्नदी ।।
खलर्धिरल्पवर्षेण तद्वत्स्यात्स्वकुलंकपा ।। ६७ ।।
अविज्ञायान्य सामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत ।।
उपहासमवाप्नोति तथैवायमिहाचलः ।। ६८ ।।
।। व्यास उवाच ।। ।।
गोदावरीतटं रम्यं विचरन्नपि वै मुनिः ।।
न तत्याज च तं तापं काशीविरहजं परम् ।। ६९ ।।
उदीची दिक्स्पृशमपि स मुनिर्मातरिश्वनम् ।।
प्रसार्य बाहू संश्लिष्य काश्याः पृच्छेदनामयम् ।। 4.1.5.७० ।।
लोपामुद्रे न सा मुद्रा कापीह जगतीतले ।।
वाराणस्याः प्रदृश्येत तत्कर्ता न यतो विधिः ।। ७१ ।।
क्वचित्तिष्ठन्क्वचिज्जल्पन्क्वचिद्धावन्क्वचित्स्खलन् ।।
क्वच्चिचोपविशंश्चेति बभ्रामेतस्ततो मुनिः ।।७२ ।।
ततो व्रजन्ददर्शाग्रे पुण्यराशिस्तपोधनः।।
चंचच्चंद्रगताभासां भाग्यवानिव सुश्रियम् ।। ७३ ।।
विजित्यभानु नाभानुं दिवापि समुदित्वराम् ।।
निर्वापयंतीमिव तां स्वचेतस्तापसंततिम् ।। ७४ ।।
तत्रागस्त्यो महालक्ष्मीं ददृशे सुचिरं स्थिताम्।। ७५।।
रात्रावब्जेषु संकोचो दर्शेष्वब्जः क्वचिद्व्रजेत्।।
क्षीरोदे मंदरत्रासात्तदत्राध्युषितामिव।। ७६।।
यदारभ्य दधारैनां माधवो मानतः किल ।।
तदारभ्य स्थितां नूनं सपत्नीर्ष्यावशादिव ।।७७।।
त्रैलोक्यं कोलरूपेण त्रासयंतं महासुरम्।।
विनिहत्य स्थितां तत्र रम्ये कोलापुरे पुरे ।।७८।।
संप्राप्याथ महालक्ष्मीं मुनिवर्यः प्रणम्य च।।
तुष्टाव वाग्भिरिष्टाभिरिष्टदां हृष्टमानसः ।। ७९ ।।
अगस्तिरुवाच।।
मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।।
क्षीरोदजे कमलकोमलगर्भ गौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। 4.1.5.८० ।।
त्वं श्रीरुपेंद्रसदने मदनैकमातर्ज्योत्स्नासि चंद्रमसि चंद्रमनोहरास्ये।
सूर्ये प्रभासि च जगत्त्रितये प्रभासि लक्ष्मि प्रसीद सततं नमतां शरण्ये।। ८१ ।।
त्वं जातवेदसि सदा दह्नात्मशक्तिर्वेधास्त्वया जगदिदं विविधं विदध्यात् ।।
विश्वंभरोपि बिभृयादखिलं भवत्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। ८२ ।।
त्वत्त्यक्तमेतदमले हरते हरोपि त्वं पासि हंसि विदधासि परावरासि ।।
ईड्यो बभूव हरिरप्यमले त्वदाप्त्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। ८३ ।।
शूरः स एव स गुणी , बुधः धन्यो मान्यः स एव कुलशील कलाकलापैः ।।
एकः शुचिः स हि पुमान्सकलेपि लोके यत्रापतेत्तव शुभे करुणाकटाक्षः ।। ८४ ।।
यस्मिन्वसेः क्षणमहोपुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने।।
रत्ने पतत्त्रिणि पशौ शयने धरायां सश्रीकमेव सकले तदिहास्तिनान्यत् ।। ८५ ।।
त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि ।।
त्वन्नाम यत्र च सुमंगलमेव तत्र श्रीविष्णुपत्नि कमले कमलालयेऽपि ।। ८६ ।।
लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च।
क्षीरोदजाममृतकुंभकरामिरां च विष्णुप्रियामिति सदाजपतां क्व दुःखम् ।। ८७ ।।
इति स्तुत्वा भगवतीं महालक्ष्मीं हरिप्रियाम् ।।
प्रणनाम सपत्नीकः साष्टांगं दंडवन्मुनिः।।८८।।
श्रीरुवाच।।
उत्तिष्ठोत्तिष्ठ भद्रं ते मित्रावरुणसंभव ।।
पतिव्रते त्वमुत्तिष्ठ लोपामुद्रे शुभव्रते ।। ८९ ।।
स्तुत्यानया प्रसन्नोहं व्रियतां यद्धृदीप्सितम् ।।
राजपुत्रि महाभागे त्वमिहोपविशामले ।। 4.1.5.९० ।।
त्वदंगलक्षणैरेभिः सुपवित्रैश्च ते व्रतैः।।
निर्वापयितुमिच्छामि दैत्यास्त्रैस्तापितां तनुम्।।९१।।
इत्युक्त्वा मुनिपत्नीं तां समालिंग्य हरिप्रिया।।
अलंचकार च प्रीत्या बहुसौभाग्यमंडनैः ।। ९२ ।।
पुनराह मुने जाने तव हृत्तापकारणम् ।।
सचेतनं दुनोत्येव काशीविश्लेषजोऽनलः ।। ९३ ।।
यदा स देवो विश्वेशो मंदरं गतवान्पुरा।।
तदा काशीवियोगेन जाता तस्येदृशी दशा।।९४।।
तत्प्रवृत्तिं पुनर्ज्ञातुं ब्रह्माणं केशवं गणान्।।
गणेश्वरं च देवांश्च प्रेषयामास शूलधृक्।।९५।।
ते च काशीगुणान्सर्वे विचार्य च पुनःपुनः।।
व्रजंत्यद्यापि न क्वापि तादृगस्ति क्व वा पुरी।।९६।।
इति श्रुत्वाथ स मुनिः प्रत्युवाच श्रियं ततः।।
प्रणिपत्य महाभागो भक्तिगर्भमिदं वचः ।। ९७ ।।
यदि देयो वरो मह्यं वरयोग्योस्म्यहं यदि ।।
तदा वाराणसी प्राप्तिः पुनरस्त्वेष मे वरः ।। ९८ ।।
ये पठिष्यंति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा।।
तेषां कदाचित्संतापो मास्तु मास्तु दरिद्रता।।९९।।
मास्तु चेष्टवियोगश्च मास्तु संपत्ति संक्षयः।।
सर्वत्र विजयश्चास्तु विच्छेदो मास्तु संततेः ।। 4.1.5.१०० ।।
।। श्रीरुवाच ।। ।।
एवमस्तु मुने सर्वं यत्त्वया परिभाषितम् ।।
एतत्स्तोत्रस्य पठनं मम सान्निध्य कारणम् ।। १ ।।
अलक्ष्मीः कालकर्णी च तद्गेहे न विशेत्क्वचित् ।।
गजाश्वपशुशांत्यर्थमेतत्स्तोत्रं सदा जपेत् ।। २ ।।
बालग्रहाभिभूतानां वालानांशांतिकृत्परम् ।।
भूर्जपत्रे लिखित्वा तु बध्नीयात्कंठदेशतः ।।३।।
इदं बीजरहस्यं मे रक्षणीयं प्रयत्नतः ।।
श्रद्धाहीने न दातव्यं न देयं चाशुचौ क्वचित् ।। ४ ।।
अन्यच्च शृणु विप्रेंद्र भविष्ये द्वापरे भवान् ।।
एकोनत्रिंशके ब्रह्मन्सत्यव्यासो भविष्यति ।। ५ ।।
तदा वाराणसीं प्राप्य सिद्धिं प्राप्स्यस्यभीप्सिताम् ।।
व्यस्य वेदान्पुराणानि धर्मा न्समुपदिश्य च ।। ६ ।।
हितं च ते वदाम्येकं सांप्रतं तत्समाचर ।।
पश्य किंचिदितो गत्वा स्कंदमग्रे स्थितं प्रभुम् ।। ७ ।।
वाराणस्या रहस्यं च यथाव च्छिवभाषितम् ।।
तव तुष्टिकरं ब्रह्मन्कथयिष्यति षण्मुखः ।। ८ ।।
इति लब्ध्वा वरं सोथ महालक्ष्मीं प्रणम्य च ।।
ययावगस्तिर्यत्रास्ति कुमारशिखिवाहनः ।। १०९ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहरुयां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे अगस्त्यप्रस्थानं नाम पंचमो ऽध्यायः ।। ५ ।।