स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१२

विकिस्रोतः तः
Jump to navigation Jump to search

शिवशर्मोवाच ।।
नैर्ऋतादीन् क्रमाल्लोकानाख्यातं पुरुषोत्तमौ ।।
पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ ।। १ ।।
गणावूचतुः ।।
आकर्णय महाभाग संयमिन्याः पुरीं पराम् ।।
दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता ।। २ ।।
राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा ।।
जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे ।। ३ ।।
स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि ।।
नाद्रियंतेऽन्नपानानामस्मृत्युक्तं कदाचन ।। ४ ।।
परदार परद्रव्य परद्रोहपराङ्मुखाः ।।
जाताजातौ निकृष्टायामपिपुण्यानुसारिणः ।। ५ ।।
द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये ।।
सदा संकुचितांगाश्च द्विजसंभाषणादिषु ।। ६ ।।
आहूता वस्त्रवदना वदंति द्विजसंनिधौ ।।
जयजीवभगोनाथ स्वामिन्निति हि वादिनः ।। ७ ।।
तीर्थस्नानपरानित्यं नित्यं देवपरायणाः ।।
द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम् ।। ८ ।।
दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः ।।
अस्तेय सत्याहिंसाश्च सर्वेषां धर्महेतवः ।। ९ ।।
आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् ।।
सर्वभोगसमृद्धास्ते वसंत्यत्र पुरोत्तमे ।।4.1.12.१०।।
म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः ।।
विहाय काशीं निर्वाण विश्राणांतेऽत्र भोगिनः ।। ।। ११ ।।
अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः ।।
भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामसूकराः ।। १२ ।।
आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता ।।
इहापि च परत्रापि न शुभान्यात्मघातिनाम् ।। १३ ।।
यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः ।।
प्रयागे सर्वतीर्थानां राज्ञिसर्वाभिलाषदे ।। १४ ।।
अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः ।।
परोपकृतिनिष्ठास्ते वसंत्यत्र तु सत्तमाः ।। १५ ।।
अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु ।।
मध्ये विंध्याटवि पुरा पक्कणस्थजनाग्रणीः ।। १५ ।।
पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः ।।
निर्विंध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः ।। १७ ।।
घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः ।।
व्याघ्रादीन् दुष्टसत्त्वांश्च स हिनस्ति प्रयत्नतः ।। १८ ।।
जीवेन्मृगयु धर्मेण तत्रापि करुणापरः ।।
न विश्वस्तान्पक्षिमृगान्न सुप्तान्न व्यवायिनः ।। १९ ।।
न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् ।।
स घातयति धर्मज्ञो जातिधर्मपराङ्मुखः ।। 4.1.12.२० ।।
श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति ।।
हरेत्क्षुधा क्षुधार्तानामुपानद्दोऽनुपानहे ।। २१ ।।
मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति ।।
अनुव्रजति कांतारे प्रांतरे पथिकान्पथि ।। २२ ।।
न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति ।।
आविंध्याटवि मे नाम ग्राह्यं दुष्टभयापहम् ।। २३ ।।
नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति ।।
तेपि च प्रतितीर्थं हि तमाशीर्वादयं ति वै ।।२४।।
इति तिष्ठति पिंगाक्षे साटवी नगरायिता ।।
अध्वनीने ऽध्वगान्कोपि न रुणद्धि ससाध्वसः ।।२५।।
कदाचित्तत्पितृव्येण समीप ग्रामवासिना ।।
श्रुतः कार्पटिकानां हि सार्थः सार्थो महास्वनः ।। २०५ ।।
लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः ।।
स रुरोध तमध्वानमग्रे गत्वाऽतिगूढवत् ।। २७ ।।
तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः ।।
तस्मिन्नरण्ये तन्मार्गं निकषाध्युषितो निशि ।। २८ ।।
परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः ।।
विश्वं कुशलितेनैतद्विश्वेशपरिरक्षितम् ।। २९ ।।
न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन ।।
विधिदृष्टं यतो भावि कलुषंभावि केवलम् ।।4.1.12.३०।।
तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत् ।।
चिंतयेच्चेत्तदाचिंत्यो मोक्षोपायो न चेतरः ।।३१।।
व्युष्टायामथयामिन्यामभूत्कोलाहलो महान् ।।
घातयध्वं पातयध्वं नग्नयध्वं द्रुतं भटाः ।।३२।।
मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम् ।।
अनायासं लुंठयध्वं नयध्वं च यदस्ति नः ।। ३३ ।।
वयं पांथा अनाथाः स्मो विश्वनाथपरायणाः ।।
सनाथास्ते न दूरं सनाथतां पथिकोऽपरः ।। ३४ ।।
वयं पिंगाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः ।।
यातायातं सदा कुर्मः स च दूर इतो वनात् ।।३५।।
इति श्रुत्वाऽथ पिंगाक्षो भटः कार्पटिकेरितम ।।
दूरान्मा भैष्ट माभैष्ट ब्रुवन्निति समागतः ।। ३६ ।।
तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः ।।
तूर्णं तदायुष्यमिव तत्रोपस्थितवान् क्षणात् ।। ३७ ।।
कोयंकोयं दुराचारः पिंगाक्षे मयि जीवति ।।
उल्लुलुंठयिषुः पांथान्प्राणलिंगसमान्मम ।। ३८ ।।
इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः ।।
धनलोभेन पिंगाक्षे पापं पापो व्यचिंतयत् ।।३९।।
कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः ।।
चिरं चिंतितमद्यामुं घातयिष्याम्यसंशयम् ।। 4.1.12.४० ।।
विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा ।।
आदावेनं घातयंतु ततः कार्पटिकानिमान् ।। ४१ ।।
ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः ।।
यथाकथंचित्ताननयत्स च स्वावसथांतिकम् ।। ४२ ।।
आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः ।।
असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः ।। ४३ ।।
अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः ।।
तेपि कार्पटिकाः प्राप्तास्तत्पल्लीं गतसाध्वसाः ।। ४४ ।।
या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः ।।
दिगीशत्वमतः प्राप्तो निर्ऋत्यां नैर्ऋतेश्वरः ।। ४५ ।।
इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम् ।।
एतस्योत्तरतो लोको वरुणस्यायमद्भुतः ।।४६।।
कूपवापीतडागानां कर्तारो निर्मलैर्धनैः ।।
इह लोके महीयंते वारुणे वरुणप्रभाः ।।४७।।
निर्जले जलदातारः परसंतापहारिणः ।।
अर्थिभ्यो ये प्रयच्छंति चित्रच्छत्रकमंडलून् ।।४८।।
पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः ।।
दद्युर्धर्मघटांश्चापि सुगंधोदकपूरितान् ।।४९।।
अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः ।।
विश्रामशालाकर्तारः श्रांतसंतापनोदकाः ।।4.1.12.५०।।
ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि ।।
चित्राणि तालवृंतानि वितरंति तपागमे ।।५१।।
रसवंति सुगंधीनि हिमवंति तपर्तुषु ।।
विश्राणयंति वा तृप्ति पानकानि प्रयत्नतः ।। ५२ ।।
इक्षुक्षेत्राणि संकल्प्य ब्राह्मणेभ्यो ददत्यपि ।।
तथा नानाप्रकारांश्च विकारानैक्षवान्बहून् ।। ५३ ।।
गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः ।।
धारामंडपकर्तारश्छायामंडपकारिणः ।।५४।।
देवालयेषु ये दद्युर्बहुधारागलंतिकाः ।।
तीर्थे वा करहर्तारस्तीर्थमार्गावनेजका. ।। ५५ ।।
अभयं ये प्रयच्छंति भयार्तोद्यत पाणयः ।।
निर्भया वारुणे लोके ते वसंति लसंति च ।। ५६ ।।
विपाशयंति ये पुण्या दुर्वृतैः कंठपाशितान् ।।
ते पाशपाणे लोकेस्मिन्निवसंत्यकुतोभयाः ।। ५७ ।।
नौकाद्युपायैर्न द्यादौ पांथान्ये तारयंत्यपि ।।
तारयंत्यपि दुःखाब्धेस्तत्र नागरिका द्विज ।।५८ ।।
घट्टान्पुण्यतटिन्यादेर्बंधयंति शिलादिभिः ।।
तोयार्थिसुखसिद्ध्यर्थं ये नरास्तेत्र भोगिनः ।। ५९ ।।
वितर्पयंति ये पुण्यास्तृषिताञ्शीतलैर्जलैः ।।
तेऽत्र वै वारुणे लोके सुखसंततिभागिनः ।। 4.1.12.६० ।।
जलाशयानां सर्वेषामयमेकतमः पतिः ।।
प्रचेता यादसांनाथः साक्षी सर्वेषुकर्मसु ।। ६१ ।।
अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः ।।
आसीन्मुनिरमेयात्मा कर्दमस्य प्रजापतेः ।। ६२।।
शुचिष्मानिति विख्यातस्तनयो विनयोचितः ।।
स्थैर्य माधुर्य धैर्याद्यैर्गुणैरुपचितोहितः ।। ६३ ।।
अच्छोदे सरसि स्नातुं स गतो बालकैः सह ।।
जलक्रीडनसंसक्तं शिशुमारो हरच्च तम् ।।६४।।
ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः ।।
तैः समागत्य शिशुभिः कथितं तत्पितुः पुरः ।। ६५ ।।
हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः ।।
श्रुतबालविपत्तेश्च चचाल न मनोहरात् ।। ६६ ।।
अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम् ।।
पश्यञ्शंभोः समीपे स भुवनानि चतुर्दश ।। ६७ ।।
नाना भूतानि भूतानि ब्रह्मांडांतर्गतानि च ।।
चंद्रसूर्यर्क्षताराश्च पर्वतान्सरितो द्रुमान् ।। ६८ ।।
समुद्रानंतरीयाणि ह्यरण्यानीस्सरांसि च ।।
नाना देवनिकायांश्च बह्वीर्दिविषदां पुरीः ।। ६९ ।।
वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु ।।
एकस्मिन्क्वापि सरसि जलक्रीडापरायणान् ।। 4.1.12.७० ।।
बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः ।।
करयंत्रविनिर्मुक्ततोयधाराभिषेचनैः ।। ७१ ।।
करताडितपानीयशब्ददिङ्मुखनादिभिः ।।
जलखेलनकैरित्थं संसक्तान्बहुबालकान् ।।७२।।
तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः ।।
स्वं शिशुं शिशुमारेण नीयमानं सुविह्वलम् ।। ७३ ।।
कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः ।।
प्रसह्य नीत्वोदधये दृष्टवांस्तं समर्पितम् ।। ७४ ।।
निर्भर्त्स्य सरितांनाथं केनचिद्रुद्ररूपिणा ।।
त्रिशूलपाणिनेत्युक्तं क्रोधताम्राननेनच ।। ७५ ।।
कुतो जलानामधिप शिवभक्तस्य बालकः ।।
प्रजापतेः कर्दमस्य महाभागस्य धीमतः ।। ७६।।
अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः ।।
भयत्रस्तेन तद्वाक्यश्रवणात्तमुदन्वता ।।७७।।
बालं रत्नैरलंकृत्य बद्ध्वा तं शिशुमारकम् ।।
समर्पितं समानीय शंभुपादाब्जसंनिधौ ।। ।। ७८ ।।
नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो ।।
अनाथनाथविश्वेश भक्तापत्तिविनाशन ।। ७९ ।।
भक्तकल्पतरो शंभोऽनेनायं दुष्टयादसा ।।
अनायिन मया नाथ भवद्भक्तजनार्भकः ।। 4.1.12.८० ।।
गणेन तेन विज्ञाय शंभोरथ मनोगतम् ।।
पाशेन बद्ध्वा तद्यादः शिशुहस्ते समर्पितम् ।। ८१ ।।
गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया ।।
याहि स्वभवनं वत्स ब्रुवतीति स कर्दमः ।। ८२।।
समाधिसमये सर्वमिति शृण्वन्नुदारधीः।।
उन्मील्य नयने यावत्प्रणिधानं विसृज्य च।।८३।।
संपश्यते शिशुं तावत्पुरतः समवैक्षत ।।
गृहीतशिशुमारं च पार्श्वेऽलंकृतकर्णिकम् ।। ८४ ।।
तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम् ।।
किंचिद्विरूक्षं त्वक्क्षोभं संभ्रमापन्नमानसम् ।। ८५ ।।
कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम् ।।
पुनर्जातमिवामंस्त पश्यंश्चापि मुहुर्मुहुः ।। ८६ ।।
शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि ।।
कर्दमस्य व्यतीतानि शंभुमर्चयतस्तदा ।। ८७ ।।
कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम् ।।
यतो न प्रभवेत्कालो महाकालस्य संनिधौ ।। ८८ ।।
ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च ।।
जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् ।। ८९ ।।
तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् ।।
पंचवर्षसहस्राणि स्थितः पाषाणनिश्चलः ।। 4.1.12.९० ।।
आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः ।।
उवाच कार्दमे ब्रूहि कं ददामि वरोत्तमम् ।। ९१ ।।
कार्दमिरुवाच ।। ।।
यदि नाथ प्रसन्नोसि भक्तानामनुकंपक ।।
सर्वासामाधिपत्यं मे देह्यपां यादसामपि ।। ९२ ।।
इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः ।।
अभ्यषिंचत तं तत्र वारुणे परमे पदे ।। ९३ ।।
रत्नानामब्धिजातानामब्धीनां सरितामपि ।।
सरसां पल्वलानां च वाप्यंबु स्रोतसा पुनः ।। ९४ ।।
जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः ।।
अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः ।। ९५ ।।
ददामि वरमन्यं च सर्वेषां हितकारकम् ।।
त्वयैतत्स्थापितं लिंगं तव नाम्ना भविष्यति ।। ९६ ।।
वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम् ।।
मणिकर्णेश लिंगस्य नैर्ऋत्यां दिशि संस्थितम् ।। ९७ ।।
आराधितं सदा पुंसां सर्वजाड्यविनाशकृत् ।।
वरुणेशस्य ये भक्ता न तेषामब्भयं क्वचित् ।। ९८ ।।
न संतापभयं तेषां नापायमरणं क्वचित् ।।
जलोदरभयं नैव न भयं वै तृषः क्वचित् ।। ९९ ।।
नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः ।।
सरसानि भविष्यंति नात्र कार्या विचारणा ।। 4.1.12.१०० ।।
इत्युक्त्वांतर्दधे शंभुर्वरुणोपि स्वबंधुभिः ।।
इमं लोकमलंकुर्वंस्तदारभ्य स्थितो द्विजः ।। १ ।।
इदं वरुणलोकस्य स्वरूपं ते निरूपितम् ।।
यच्छ्रुत्वा न नरः क्वापि दुरपायैः प्रबाध्यते ।। १०२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे निर्ऋतिवरुणलोकवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।।