स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०३८

विकिस्रोतः तः
Jump to navigation Jump to search

स्कंद उवाच ।।
विवाहा ब्राह्म दैवार्षाः प्राजापत्यासुरौ तथा ।।
गांधर्वो राक्षसश्चापि पैशाचोऽष्टम उच्यते ।। १ ।।
स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता ।।
दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम् ।। २ ।।
यज्ञस्थायर्त्विजे दैवस्तज्जःपाति चतुर्दश ।।
वरादादाय गोद्वंद्वमार्षस्तज्जः पुनाति षट् ।। ३ ।।
सहोभौ चरतां धर्ममित्युक्त्वा दीयतेर्थिने ।।
यत्र कन्या प्राजापत्यस्तज्जो वंशान्पुनाति षट् ।। ४ ।।
चत्वार एते विप्राणां धर्म्याः पाणिग्रहाः स्मृताः ।।
आसुरः क्रयणाद्द्रव्यैर्गांधर्वोन्योन्य मैत्रतः ।। ५ ।।
प्रसह्यकन्याहरणाद्राक्षसो निंदितः सताम् ।।
छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः ।। ६ ।।
प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः ।।
अष्टमस्त्वेष पापिष्ठः पापिष्ठानां च संभवेत् ।। ७ ।।
सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः ।।
प्रतोदो वैश्यया धार्यो वासोंतः पज्जया तथा ।। ८ ।।
असवर्णस्त्वेष विधिः स्मृतो दृष्टश्च वेदने ।।
सवर्णाभिस्तु सर्वाभिः पाणिर्ग्राह्यस्त्वयं विधिः ।। ९ ।।
धर्म्यैर्विवाहैर्जायंते धर्म्या एव शतायुषः ।।
अधर्म्यैर्धर्मरहिता मंदभाग्यधनायुषः ।। 4.1.38.१० ।।
ऋतुकालाभिगमनं धर्मोयं गृहिणः परः ।।
स्त्रीणां वरमनुस्मृत्य यथाकाम्यथवा भवेत् ।। ११ ।।
दिवाभिगमनं पुंसामनायुष्यं परं मतम् ।।
श्राद्धाहः सर्वपर्वाणि यत्नात्त्याज्यानि धीमता ।। १२ ।।
तत्र गच्छन्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात् ।। १३ ।।
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ।।
स सदा ब्रह्मचारी च विज्ञेयः सद्गृहाश्रमी ।। १४।।
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ।।
पुत्रास्तास्वपि या युग्मा अयुग्माः कन्यका प्रजाः ।। १५ ।।
त्यक्त्वा चंद्रमसं दुःस्थं मघां पौष्णं विहाय च ।।
शुचिः सन्निर्विशेत्पत्नीं पुन्नामर्क्षे विशेषतः ।।
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम् ।। १६ ।।
आर्षे विवाहे गोद्वंद्वं यदुक्तं तन्न शस्यते ।।
शुल्कमण्वपि कन्यायाः कन्या विक्रयपापकृत् ।। १७ ।।
अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने ।।
अतो नाण्वपि कन्याया उपजीवेत्पिता धनम् ।। १८ ।।
स्त्रीधनान्युपजीवंति ये मोहादिह बांधवाः ।।
न केवलं निरयगास्तेषामपि हि पूर्वजाः ।। १९ ।।
पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र स्त्रिया पतिः ।।
तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवाऽरिणा ।। 4.1.38.२० ।।
वाणिज्यं नृपतेः सेवा वेदानध्यापनं तथा ।।
कुविवाहः क्रियालोपः कुले पतनहेतवः ।। २१ ।।
कुर्याद्वैवाहिके वह्नौ गृह्यकर्मान्वहं गृही ।।
पंचयज्ञक्रियां चापि पक्तिं दैनंदिनीमपि ।। २२ ।।
गृहस्थाश्रमिणः पंच सूना कर्म दिने दिने ।।
कंडनी पेषणी चुल्ली ह्युदकुंभस्तु मार्जनी ।। २३ ।।
तासां च पंचसूनानां निराकरणहेतवः ।।
क्रतवः पंच निर्दिष्टा गृहि श्रेयोभिवर्धनाः ।। २४ ।।
पाठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृ क्रतुः ।।
होमो दैवो बलिर्भौतोऽतिथ्यर्चा नृक्रतुः क्रमात् ।। २५ ।।
पितृप्रीतिं प्रकुर्वाणः कुर्वीत श्राद्धमन्वहम् ।।
अन्नोदकपयोमूलैः फलैर्वापि गृहाश्रमी।।२६।।
गोदानेन च यत्पुण्यं पात्राय विधिपूर्वकम् ।।
सत्कृत्य भिक्षवे भिक्षां दत्त्वा तत्फलमाप्नुयात् ।। २७ ।।
तपोविद्यासमिद्दीप्ते हुतं विप्रास्य पावके ।।
तारयेद्विघ्नसंघेभ्यः पापाब्धेरपि दुस्तरात् ।। २८ ।।
अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति ।।
आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ।। २९ ।।
सांत्वपूर्वाणि वाक्यानि शय्यार्थे भूस्तृणोदके ।।
एतान्यपि प्रदेयानि सदाभ्यागत तुष्टये ।। 4.1.38.३० ।।
गृहस्थः परपाकादी प्रेत्य तत्पशुतां व्रजेत् ।।
श्रेयः परान्नपुष्टस्य गृह्णीयादन्नदो यतः ।। ३१ ।।
आदित्योढोऽतिथिः सायं सत्कर्तव्यः प्रयत्नतः ।।
असत्कृतोन्यतो गच्छन्दुष्कृतं भूरि यच्छति ।। ३२ ।।
भुंजानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत् ।।
प्रणोद्यातिथिमन्नाशी किल्बिषी च गृहाश्रमी ।। ३३ ।।
वैश्वदेवांत संप्राप्तः सूर्योढो वातिथिः स्मृतः।।
न पूर्वकाल आयातो न च दृष्टचरः क्वचित् ।। ३४ ।।
बलिपात्रकरे विप्रे यद्यन्योतिथिरागतः ।।
अदत्त्वा तं बलिं तस्मै यथाशक्त्यान्नमर्पयेत् ।। ३५ ।।
कुमाराश्च स्ववासिन्यो गर्भिण्योऽतिरुजान्विताः ।।
अतिथेरादितोप्येते भोज्या नात्र विचारणा ।। ३६ ।।
पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही ।।
स्वार्थं पचन्नघं भुंक्ते केवलं स्वोदरंभरिः ।। ३७ ।।
माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाचरेत् ।।
पत्नी सायं बलिं दद्यात्सिद्धान्नैर्मंत्रवर्जितम् ।। ३८ ।।
एतत्सायंतनं नाम वैश्वदेवं गृहाश्रमे ।।
सायंप्रातर्भवेदेव वैश्वदेवं प्रयत्नतः ।। ३९ ।।
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ।।
सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ।। 4.1.38.४० ।।
अकृत्वा वैश्वदेवं तु भुंजते ये द्विजाधमाः ।।
इह लोकेन्नहीनाः स्युः काकयोनिं व्रजंत्यथ ।। ४१ ।।
वेदोदितं स्वकं कर्म नित्यं कुर्यादतंद्रितः ।।
तद्धि कुर्वन्यथाशक्ति प्राप्नुयात्सद्गतिं पराम् ।। ४२ ।।
षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि ।।
पंचदश्यां चतुर्दश्यां तथैव च भगेक्षुरे ।। ४३ ।।
उदयं तं न चेक्षेत नास्तं यंतं न मध्यगम् ।।
न राहुणोपसृष्टं च नांबुसंस्थं दिवाकरम्।। ४४ ।।
न वीक्षेतात्ममनोरूपमाशुधावेन्न वर्षति ।।
नोल्लंघयेद्वत्सतंत्रीं न नग्नो जलमाविशेत् ।। ४५ ।।
देवतायतनं विप्रं धेनुं मधुमृदं घृतम् ।।
जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम् ।। ४६ ।।
अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम् ।।
सिद्धान्नं दधिसिद्धार्थं गच्छन्कुर्यात्प्रदक्षिणम् ।। ४७ ।।
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया।।
एकवासा न भुंजीत न भुंजीतोत्कटासने।। ४८ ।।
नाश्नंतीं स्त्रीं समीक्षेत तेजस्कामो द्विजोत्तमः ।।
असंतर्प्य पितॄन्देवान्नाद्यादन्नं नवं क्वचित् ।। ४९ ।।
पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः ।।
न मूत्रं गोव्रजे कुर्यान्न वल्मीके न भस्मनि ।। 4.1.38.५० ।।
न गर्तेषु ससत्वेषु न तिष्ठन्न व्रजन्नपि ।।
गोविप्रसूर्यवाय्वग्नि चंद्रर्क्षांबु गुरूनपि ।। ५१ ।।
अभिपश्यन्न कुर्वीत मलमूत्रविसर्जनम्।।
तिरस्कृत्यावनिं लोष्टकाष्ठपर्णतृणादिभिः ।। ५२ ।।
प्रावृत्य वाससा मौलिं मौनी विण्मूत्रमुत्सृजेत् ।।
यथासुखमुखो रात्रौ दिनेच्छायांधकारयोः ।। ५३ ।।
भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम् ।।
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ।। ५४ ।।
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्।।
प्राणिहिंसां न कुर्वीत नाश्नीयात्सँध्ययोर्द्वयोः।।५५।।
न संविशेत संध्यायां प्रत्यक्सौम्यशिरा अपि।।
विण्मूत्रष्ठीवनं नाप्सु कुर्याद्दीर्घजिजीविषुः।। ५६।।
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्।।
नैकः सुप्यात्क्वचिच्छून्ये न शयानं प्रबोधयेत्।। ५७।।
पंथानं नैकलो यायान्न वार्यंजलिना पिबेत् ।।
न दिवोद्भूत सारं च भक्षयेद्दधिनो निशि ।। ५८ ।।
स्त्रीधर्मिण्या नाभिवदेन्नाद्यादातृप्ति रात्रिषु ।।
तौर्यत्रिक प्रियो न स्यात्कांस्ये पादौ न धावयेत् ।। ५९ ।।
श्राद्धं कृत्वा पर श्राद्धे योऽश्नीयाज्ज्ञानवर्जितः ।।
दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत् ।। 4.1.38.६० ।।
न धारयेदन्यभुक्तं वासश्चो पानहावपि ।।
न भिन्न भाजनेश्नीयान्नासीताग्न्यादि दूषिते।। ६१।।
आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम्।।
बालातपं दिवास्वापं द्यजेद्दीर्घं जिजीविषुः।। ६२।।
स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि।।
हस्तौ शिरो न धुनुयान्नाकर्षेदासनं पदा।। ६३।।
नोत्पाटयेल्लोमनखं दशनेन कदाचन।।
करजैः करजच्छेदं तृणच्छेदं विवर्जयेत्।।६४।।
शुभायन यदायत्यां त्यजेत्तत्कर्म यत्नतः।।
अद्वारेण न गंतव्यं स्ववेश्मपरवेश्मनोः।। ६५।।
क्रीडेन्नाक्षैः सहासीत न धर्मघ्नैर्न रोगिभिः ।।
न शयीत क्वचिन्नग्नः पाणौ भुंजीत नैव च ।। ६६ ।।
आर्द्रपादकरास्योश्नन्दीर्घकालं च जीवति ।।
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ।। ६७ ।।
शयनस्थो न चाश्नीयान्नपिबेन्न जपेद्द्विजः ।।
सोपानत्कश्चनाचामेन्न तिष्ठन्धारया पिबेत् ।। ६८ ।।
सर्वं तिलमयं नाद्यात्सायं शर्माभिलाषुकः।।
न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः ।। ६९ ।।
नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः ।।
पतितैः सह संवासः पतनायैव जायते ।। 4.1.38.७० ।।
श्रावयेद्वैदिकं मंत्रं न शूद्राय कदाचन ।।
ब्राह्मण्याद्धीयते विप्रः शूद्रो धर्माच्च हीयते ।। ७१ ।।
धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत् ।।
द्विजशुश्रूषणं धर्मः शूद्राणां हि परो मतः ।। ७२ ।।
कंडूयनं हि शिरसः पाणिभ्यां न शुभं मतम् ।।
आताडनं कराभ्यां च क्रोशनं केशलुंचनम् ।।७३ ।।
अशास्त्रवर्तिनो भूपाल्लुब्धात्कृत्वा प्रतिग्रहम् ।।
ब्राह्मणः सान्वयो याति नरकानेकविंशतिम् ।। ७४ ।।
अकालविद्युत्स्तनिते वर्षर्तौ पांसुवर्षणे ।।
महावातध्वनौ रात्रावनध्यायाः प्रकीर्तिताः ।। ७५ ।।
उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु ।।
संध्ययोर्वृषलोपांते राज्ञोराहोश्च सूतके ।। ७६ ।।
दर्शाष्टकासु भूतायां श्राद्धिकं प्रतिगृह्य च ।।
प्रतिपद्यपि पूर्णायां गजोष्ट्राभ्यां कृतांतरे ।। ७७ ।।
खरोष्ट्रक्रोष्ट्र विरुते समवाये रुदत्यपि ।।
उपाकर्मणि चोत्सर्गे नाविमार्गे तरौ जले ।। ७८ ।।
आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ ।।
अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित् ।। ७९ ।।
कृतांतरायो न पठेद्भेकाखु श्वाहि बभ्रुभिः ।।
भूताष्टम्योः पंचदश्योर्ब्रह्मचारी सदा भवेत् ।। 4.1.38.८० ।।
अनायुष्यकरं चैव परदारोपसर्पणम् ।।
तस्मात्तद्दूरतस्त्याज्यं वैरिणां चोपसेवनम् ।। ८१ ।।
पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् ।।
सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः ।। ८२ ।।
सत्यं ब्रूयात्प्रियं ब्रूयान्नब्रूयात्सत्यमप्रियम् ।।
प्रियं च नानृतं ब्रूयादेष धर्मो घटोद्भव ।। ८३ ।।
भद्रमेव वदेन्नित्यं भद्रमेव विचिंतयेत् ।।
भद्रैरेवेह संसर्गो नाभद्रैश्च कदाचन ।। ८४ ।।
रूपवित्तकुलैर्हीनान्सुधीर्नाधिक्षिपेन्नरान् ।।
पुप्पवंतौ न चेक्षेत त्वशुचिर्ज्योतिषां गणम् ।। ८५ ।।
वाचोवेगं मनोवेगं जिह्वावेगं च वर्जयेत् ।।
उत्कोच द्यूत दौत्यार्त द्रव्यं दूरात्परित्यजेत् ।।८६।।
गोब्राह्मणाग्नीनुच्छिष्ट पाणिना नैव संस्पृशेत्।।
न स्पृशेदनिमित्ते नखानि स्वानि त्वनातुरः ।। ८७ ।।
गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत् ।।
पादधौतोदकं मूत्रमुच्छिष्टान्नोदकानि च।। ८८।।
निष्ठीवनं च श्लेष्माणं गृहाद्दूरं विनिक्षिपेत् ।।
अहर्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात् ।।
अद्रोहवत्या बुद्ध्या च पूर्वं जन्म स्मरेद्द्विजः ।। ८९ ।।
वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम् ।।
विनम्रधमनिस्तस्मादनुयायात्ततश्च तान् ।।4.1.38.९० ।।
श्रुति भूदेव देवानां नृप साधु तपस्विनाम्।।
पतिव्रतानां नारीणां निंदां कुर्यान्न कर्हिचित्।। ९१ ।।
न मनुष्यस्तुतिं कुर्यान्नात्मानमपमानयेत् ।।
अभ्युद्यतं न प्रणुदेत्परमर्माणि नोच्चरेत् ।। ९२।।
अधर्मादेधते पूर्वं विद्वेष्टॄनपि संजयेत्।।
सर्वतोभद्रमाप्यापि ततो नश्येच्च सान्वयः ।। ९३ ।।
उद्धृत्य पंच मृत्पिंडान्स्नायात्परजलाशये ।।
अनुद्धृत्य च तत्कर्तुरेनसः स्यात्तुरीयभाक् ।। ९४ ।।
श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु ।।
देशे काले च विधिना तदानंत्याय कल्पते ।। ९५ ।।
भूप्रदो मंडलाधीशः सर्वत्रसुखिनोन्नदाः ।।
तोयदाता सदा तृप्तो रूपवान्रूप्यदो भवेत् ।। ९६ ।।
प्रदीपदो निर्मलाक्षो गोदाताऽर्यमलोकभाक् ।।
स्वर्णदाता च दीर्घायुस्तिलदः स्यात्तु सुप्रजाः ।। ९७ ।।
वेश्मदो ऽत्युच्चसौधेशो वस्त्रदश्चंद्रलो कभाक् ।।
हयप्रदो दिव्ययानो लक्ष्मीवान्वृषभप्रदः ।। ९८।।
सुभार्यः शिबिका दाता सुपर्यंक प्रदोपि च ।।
धान्यैः समृद्धिमान्नित्यमभयप्रद ईशिता ।।९९।।
ब्रह्मदो ब्रह्मलोकेज्यो ब्रह्मदः सर्वदो मतः ।।
उपायेनापि यो ब्रह्म दापयेत्सोपि तत्समः ।। 4.1.38.१०० ।।
श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति ।।
स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्धयात्यधः ।। १ ।।
अनृतेन क्षरेद्यज्ञस्तपो विस्मयतः क्षरेत् ।।
क्षरेत्कीर्तनतोदानमायुर्विप्रापवादतः ।। २ ।।
गंधपुष्पकुशाञ्छय्यां शाकं मांसं पयो दधि ।।
मणि मत्स्य गृहं धान्यं ग्राह्यमेतदुपस्थितम् ।। ३ ।।
मधूदकं फलं मूलमेधांस्यभयदक्षिणा ।।
अभ्युद्यतानि ग्राह्याणि त्वेतान्यपिनिकृष्टतः ।। ४ ।।
दास नापित गोपाल कुलमित्रार्धसीरिणः ।।
भोज्यान्नाः शूद्रवर्गेमी तथात्मविनिवेदकः ।। ५ ।।
इत्थमानृण्यमासाद्य देवर्षिपितृजादृणात् ।।
माध्यस्थ्यमाश्रयेद्गेहे सुते विष्वग्विसृज्य च ।। ६ ।।
गेहेपि ज्ञानमभ्यस्येत्काशीं वाथ समाश्रयेत् ।।
सम्यग्ज्ञानेन वा मुक्तिः किंवा विश्वेशवेश्मनि ।। ७ ।।
सम्यग्ज्ञानं भवेत्पुंसां कुत एकेन जन्मना ।।
वाराणस्यां ध्रुवा मुक्तिः शरीरत्यागमात्रतः ।। ८ ।।
अद्य श्वो वा परश्वो वा कालाद्वाथ परःशतात् ।।
सत्वरो गत्वरो देहः काश्यां चेदमृती भवेत् ।। ९ ।।
सा च वाराणसी लभ्या सदाचारवता सदा ।।
मनसापि सदाचारमतो विद्वान्न लंघयेत् ।। 4.1.38.११० ।।
आकर्ण्येति ततोगस्त्यः पुनः प्राह षडाननम् ।।
पुनः काशीं समाचक्ष्व सदाचारेण याप्यते ।। ।। ११ ।।
कानि कानि च लिंगानि स्कंद ज्ञानप्रदानि च ।।
वाराणस्यां परिब्रूहि तानि मे परिपृच्छतः ।। १२ ।।
विना काशीं न मे प्रीतिर्विनाकाशीं न मे रतिः ।।
चित्रपुत्रकवच्चास्मि विना काशी षडानन ।। १३ ।।
न निद्रामि न जागर्मि नाश्नामि न पिबाम्यपः ।।
काशीं द्व्यक्षरपीयूषं पिबामि हि च केवलम् ।। १४ ।।
इति श्रुत्वा वचः स्कंदो मैत्रावरुणिभाषितम् ।।
अविमुक्तस्य माहात्म्यं वक्तुं समुपचक्रमे ।। ११५ ।।
इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां काशीखंडे पूर्वार्द्धे सदाचारवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।