स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१३

विकिस्रोतः तः
Jump to navigation Jump to search

गणावूचतुः ।। ।।
इमां गंधवतीं पुण्यां पुरीं वायोर्विलोकय ।।
वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज ।। १ ।।
अस्यां प्रभंजनो नाम जगत्प्राणोदिगीश्वरः ।।
आराध्य श्रीमहादेवं दिक्पालत्वमवाप्तवान् ।। २ ।।
पुरा कश्यपदायादः पूतात्मेति च विश्रुतः ।।
धूर्जटे राजधान्यां स चचार विपुलं तपः ।। ३ ।।
वाराणस्यां महाभागो वर्षाणामयुतं शतम् ।।
स्थापयित्वा महालिंगं पावनं पवनेश्वरम् ।। ४ ।।
यस्य दर्शनमात्रेण पूतात्मा जायते नरः ।।
पापकंचुकमुत्सृज्य स वसेत्पावने पुरे ।। ५ ।।
ततस्तस्योग्रतपसा तपसाफलदः शिवः ।।
आविरासीत्ततो लिंगाज्ज्योतीरूपो महेश्वरः ।। ५ ।।
उवाच च प्रसन्नात्मा करुणामृतसागरः ।।
उत्तिष्ठोत्तिष्ठ पूतात्मन्वरं वरय सुव्रत ।। ७ ।।
अनेन तपसोग्रेण लिंगस्याराधनेन च ।।
तवादेयं न पूतात्मंस्त्रैलोक्ये सचराचरे ।।८।।
।। पूतात्मोवाच ।।
देवदेवमहादेव देवानामभयप्रद ।।
ब्रह्मनारायणेंद्रादि सर्वदेवपदप्रद ।। ९ ।।
वेदास्त्वां न च विंदंति किमात्मक इति प्रभो।।
प्राप्ताः शतपथत्वं च नेतिनेतीतिवादिनः ।।4.1.13.१०।।
ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः।।
प्रमथेशं कथं स्तोतुं मादृशः प्रभवेत्प्रभो ।।११।।
प्रसह्य प्रमिमीतेश भक्तिर्मांस्तुतिकर्मणि ।।
करोमि किं जगन्नाथ न वश्यानींद्रियाणि मे ।। १२ ।।
विश्वं त्वं नास्ति वै भेदस्त्वमेकः सर्वगो यतः ।।
स्तुत्यं स्तोता स्तुतिस्त्वं च सगुणो निर्गुणो भवान् ।।१३।।
सर्गात्पुरा भवानेको रूपनाम विवर्जितः ।।
योगिनोपि न ते तत्त्वं विंदंति परमार्थतः ।। १४ ।।
यदैकलो न शक्नोषि रंतुं स्वैरचर प्रभो ।।
तदिच्छा तवयोत्पन्ना सेव्या शक्तिरभूत्तव ।। १५ ।।
त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः ।।
त्वं ज्ञानरूपो भगवान्स्वेच्छा शक्तिस्वरूपिणी ।। १६ ।।
उभाभ्यां शिवशक्तिभ्या युवाभ्यां निजलीलया ।।
उत्पादिता क्रियाशक्तिस्ततः सर्वमिदं जगत् ।। १७ ।।
ज्ञानशक्तिर्भवानीश इच्छाशक्तिरुमा स्मृता ।।
क्रियाशक्तिरिदं विश्वमस्य त्वं कारणं ततः ।। १८ ।।
दक्षिणांगं तव विधिर्वामांगं तव चाच्युतः ।।
चंद्रसूर्याग्निनेत्रस्त्वं त्वन्निःश्वासः श्रुतित्रयम् ।। १९ ।।
त्वत्स्वेदादंबुनिधयस्तव श्रोत्रं समीरणः ।।
बाहवस्ते दशदिशो मुखं ते ब्राह्मणाः स्मृताः ।। 4.1.13.२० ।।
राजन्यवर्यास्ते बाहु वैश्या ऊरुसमुद्भवाः ।।
पद्भ्यां शूद्रस्तवेशान केशास्ते जलदाः प्रभो ।। २१ ।।
त्वं पुं प्रकृतिरूपेण ब्रह्मांडमसृजः पुरा।।
मध्ये ब्रह्मांडमखिलं विश्वमेतच्चराचरम्।। २२ ।।
अतस्त्वत्तो न मन्येऽहं किंचिद्भिन्नं जगन्मय ।।
त्वयि सर्वाणि भूतानि सर्वभूतमयो भवान् ।। २३ ।।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुऽभ्यं नमोनमः ।।
अयमेव वरो नाथ त्वयि मेऽस्तु स्थिरा मतिः ।। २४ ।।
इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः ।।
स्वमूर्तित्वं समारोप्य दिक्पालपदमादधे ।। २५ ।।
सर्वगो मम रूपेण सर्वतत्त्वावबोधकः ।।
सर्वेषामायुषोरूपं भवानेव भविष्यति ।। २६ ।।
तव लिंगमिदं दिव्यं ये द्रक्ष्यंतीह मानवाः ।।
सर्वभोगसमृद्धास्ते त्वल्लोकसुखभागिनः ।। २७ ।।
पवमानेश्वरं लिंगं मध्ये जन्मसकृन्नरः ।।
यथोक्तविधिना पूज्य सुगंधस्नपनादिभिः ।। २८ ।।
सुगंधचंदनैः पुष्पैर्मम लोके महीयते ।।
ज्येष्ठेशात्पश्चिमेभागे वायुकुंडोत्तरेण तु ।। २९ ।।
पावमानं समाराध्य पूतो भवति तत्क्षणात् ।।
इति दत्त्वा वरान्देवस्तस्मिँल्लिंगे लयं ययौ ।।4.1.13.३०।।
गणावूचतुः ।।
इति गंधवती पुर्याः स्वरूपं ते निरूपितम् ।।
तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी ।। ३१ ।।
शंभोः सखित्वमापेदे नाथोस्या भक्तियोगतः ।।
निधीनां पद्ममुख्यानां दाता भोक्ता हरार्चनात् ।। ३२ ।।
।। शिवशर्मोवाच ।। ।।
कोसौ कस्य पुनः कीदृग्भक्तिरस्य सदाशिवे ।।
यया सखित्वमापन्नो देवदेवस्यधूर्जटेः ।। ३३ ।।
इति श्रोतुं मम मनः श्रुतिगोचरतां गतम् ।।
युवयोर्वाक्सुधास्वाद मेदुरोदरमंथरम् ।। ३४ ।।
गणावूचतुः ।। ।।
शिवशर्मन्महाप्राज्ञ परिशुद्धेंद्रियेश्वर ।।
सुतीर्थक्षालिताशेषजन्मजातमहामल ।। ३५ ।।
सुहृदि प्रेमसंपन्ने त्वय्यनुद्यं न किंचन ।।
साधुभिः सह संवादः सर्वश्रेयोऽभिवृद्धये ।। ३६ ।।
आसीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः ।।
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ।। ३७ ।।
वेदवेदांगवेदार्थान्वेदोक्ताचारचंचुरः ।।
राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम् ।। ३८ ।।
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ।।
तस्य पुत्रो गुणनिधिश्चंद्रबिंबसमाकृतिः ।। ३९ ।।
कृतोपनयनः सोथ विद्यां जग्राह भूरिशः ।।
अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत् ।। 4.1.13.४० ।।
आदायादाय बहुशो धनं मातुः सकाशतः ।।
ददाति द्यूतकारेभ्यो मैत्री तैश्च चकार सः ।। ४१ ।।
संत्यक्त ब्राह्मणाचारः संध्यास्नानपराङ्मुखः ।।
निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः ।।।४२।।।
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ।।
नटपाखंडिभंडैश्च बद्धप्रेमपरंपरः ।। ४३ ।।
प्रेरितोपि जनन्या स न याति पितुरंतिकम् ।।
गृहकार्यांतरव्यग्रो दीक्षितो दीक्षितायिनीम् ।। ४४ ।।
यदा यदैव तां पृच्छेदयेगुणनिधिः सुतः ।।
न दृश्यते मया गेहे क्व याति विदधाति किम् ।। ४५ ।।
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।।
स्नात्वा समर्च्य वै देवानेतावंतमनेहसम् ।। ४६ ।।
अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ ।।
एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ।। ४७ ।।
न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ।।
स च केशांतकर्मास्य कृत्वा वर्षेऽथ षोडशे ।। ४८ ।।
गृह्योक्तेन विधानेन पाणिग्राहमकारयत् ।।
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु ।। ४९ ।।
शास्ति स्नेहार्द्रहृदया क्रोधनस्ते पितेत्यलम् ।।
यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ।।4.1.13.५०।।
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ।।
लोकमान्योस्ति ते तातः सदाचारैर्न वै धनैः ।। ५१ ।।
ब्राह्मणानां धनं पुत्र सद्विद्या साधुसंगमः ।।
सच्छ्रोत्रियास्त्वनूचाना दीक्षिताः सोमयाजिनः ।। ।। ५२ ।।
इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ।।
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ।। ५३ ।।
सद्विद्या सुमनो धेहि ब्राह्मणाचारमाचर ।।
तवानुरूपारूपेण वयसाकुलशीलतः ।। ५४ ।।
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।।
तव पत्नी गुणनिधे साध्वी मधुरभाषिणी ।। ५५ ।।
एतां संवृणु सद्वृत्तां पितृभक्तियुता भव ।।
श्वशुरोपि हि ते मान्यः सर्वत्र गुणशीलतः ।। ५६ ।।
ततोऽपत्रपसे किं न त्यज दुर्वृत्ततां शिशो ।।
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः।। ।। ५७ ।।
तेभ्योपि न बिभेषि त्वं शुद्धोस्युभय वंशतः ।।
पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान् ।। ५८ ।।
गृहेपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ।।
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।। ५९ ।।
श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ।।
बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ।। 4.1.13.६० ।।
अनंतरं हसिष्यंति युक्तं दीक्षिततास्त्विति ।।
सर्वेप्याक्षारयिष्यंति तव विप्रं च मां च वै ।।६१।।
मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ।।
पिता पितेन पापीयाञ्च्छ्रुतिस्मृतिपथीनकिम् ।। ६२ ।।
तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ।।
न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम् ।।६३।।
अहो बलीयान्सविधिर्येन जाता भवानिति ।।
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मदः ।। ६४ ।।
न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ।।
मृगया मद्य पैशुन्य वेश्याचौर्यदुरोदरैः ।। ६५ ।।
सपारदारैर्व्यसनैरेभिः कोत्र न खंडितः ।।
यद्यन्मध्ये गृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।। ६६ ।।
अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ।।
नवरत्नमयीं मातुः करतः पितुरूर्मिकाम ।। ६७ ।।
स्वपंत्यास्त्वेकदाऽऽदाय दुरोदरिकरेऽर्पयत् ।।
एकदा गच्छता राजभवनान्निजमुद्रिका ।। ६८ ।।
दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे ।।
उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ।।
पृष्टस्तेनाथ निर्बंधादसकृत्प्रत्युवाच किम् ।। ६९ ।।
ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा ।।
लब्धा मुद्रा त्वदीयेन पुत्रेणैषा ममार्पिता ।। 4.1.13.७० ।।
मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः ।।
न केवलं ममाप्येतदंगुलीयं समर्पितम् ।। ७१ ।।
अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु ।।
रत्नकुप्यदुकूलानि भृंगारुप्रभृतीनि च ।। ७२ ।।
भाजनानि विचित्राणि कांस्य ताम्रमयानि च ।।
नग्नीकृत्यप्रति दिनं बद्ध्यंते द्यूतकारिभिः ।। ७३ ।।
न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ।।
अद्य यावत्त्वया विप्र दुरोदरशिरोमणिः ।। ७४ ।।
कथं नाज्ञायि तनयो ऽविनयानयकोविदः ।।
इति श्रुत्वा त्रपाभार विनम्रतरकंधरः ।। ७५ ।।
प्रावृत्य वाससा मौलिं प्राविशन्निजमंदिरम् ।।
महापतिव्रतामास्य पत्नीं प्रोवाच तामथ ।। ७६ ।।
दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः ।।
अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ।। ७७ ।।
अंगोद्वर्तन काले या त्वया मेंऽगुलितो हृता ।।
नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ।। ७८ ।।
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी ।।
प्रोवाच सा तु माध्याह्नीं क्रियां निष्पादयत्वथ ।। ७९ ।।
व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि ।।
समयोयमतिक्रामेदतिथीनां प्रियातिथे ।। 4.1.13.८० ।।
इदानीमेव पक्वान्नकरणव्यग्रया मया ।।
स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ।। ८१ ।।
दीक्षित उवाच ।। ।।
हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।।
यदायदा त्वां संपृच्छे तनयः क्व गतस्त्विति ।। ८२ ।।
तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः ।।
अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः ।। ८३ ।।
कुतस्त्वच्छाटकः पत्नि मांजिष्ठो यो मयाऽर्पितः ।।
लंबते वस्त्रधान्यांयस्तथ्यं ब्रूहि भयं त्यज ।। ८४ ।।
सांप्रतं नेक्ष्यते सोपि भृंगारुर्मणिमंडितः ।।
पट्टसूत्रमयीसापि त्रिपटी क्व नृपार्पिता ।। ८५ ।।
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।।
नागदंतमयी सा क्व सुखकौतुकमंचिका ।। ८६ ।।
क्व सा पर्वतदेशीया चंद्रकांतशिलोद्भवा ।।
दीपिका व्यग्रहस्ताग्रा सालंकृच्छालभंजिका ।। ८७ ।।
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।।
तदाभ्यवहरिष्येहमुपयंस्याम्यहं यदा ।। ८८ ।।
अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा ।।
उत्तिष्ठानय दर्भांबु तस्मै दद्यां तिलांजलिम् ।। ८९ ।।
अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् ।।
त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ।। 4.1.13.९० ।।
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित् ।।
श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ।। ९१ ।।
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ।।
कांचिद्दिशं समालोच्य निर्ययौ दीक्षितांगजः ।।९२।।
चिंतामवाप महतीं क्व यामि करवाणि किम् ।।
नाहमभ्यस्तविद्योस्मि न चैवास्ति धनोस्म्यहम् ।। ९३ ।।
देशांतरे ह्यस्ति धनः सद्विद्यः सुखमेधते ।।
भयमस्ति धने चौरात्सविद्यः सर्वतोऽभयः ।। ९४ ।।
यायजूके कुले जन्म क्वक्व मे व्यसनं तथा ।।
अहो बलीयान्स विधिर्भाविकर्मानुसंधयेत् ।।९५।।
भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् ।।
न च पार्श्वे धनं किंचित्किमत्र शरणं भवेत् ।। ९६ ।।
सदाभ्युदिते भानौ प्रसूर्मे मृष्टभोजनम्।।
दद्यादद्यात्र कं याचे याचेह जननी न मे ।।९७।।
इति चिंतयतस्तस्य भानुरस्ताचलं गतः ।।
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः।।९८।।
महोपहारानादाय नगराद्बहिरभ्यगात् ।।
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ।। ९९ ।।
पक्वान्नगंधमाघ्राय क्षुधितः स तमन्वगात् ।।
इदमन्नं मया ग्राह्यं शिवायोपस्कृतं निशि ।। 4.1.13.१०० ।।
इत्याशामवलंब्याथ द्वारि शंभोरुपाविशत् ।।
ददर्श च महापूजां तेन भक्तेन निर्मिताम् ।। १ ।।
विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणं यदा ।।
नैवेद्यं स तदाऽऽदातुं गर्भागारं विवेश ह ।। २ ।।
दीपं मंदप्रभं दृष्ट्वा पक्वान्नावेक्षणाय सः ।।
निजचैलांचलाद्वर्तिं दत्त्वा समुददीपयत् ।। ३ ।।
ततः पक्कान्नमादाय त्वरितं गच्छतो बहिः ।।
तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ।। ४ ।।
कोयंकोयं त्वरापन्नश्चोरोयं गृह्यतामिति ।।
यावद्भूयात्समागत्य तावत्स पुररक्षकैः ।। ५ ।।
पलायमानो निहतः क्षणात्पंचत्वमागतः ।।
अभक्षयच्च नैवेद्यं भाविपुण्यबलान्न सः ।। ६ ।।
अथ बद्धः समागत्य पाशमुद्गरपाणिभिः ।।
निनीषुभिः सयमिनीं यामैः स विकटैर्भटैः ।। ७ ।।
तावत्पारिषदाः प्राप्ताः किंकिणीजालमालितम् ।।
दिव्यंविमानमादाय तं नेतुं शूलपाणयः ।। ८ ।।
शंभोर्गणान्समालोक्य भीतैस्तैर्यमकिंकरैः ।।
अवादिप्रणतैरित्थं दुर्वृत्तोयं गणा द्विजः ।। ९ ।।
कुलाचारप्रतीपोयं पित्रोर्वाक्यपराङ्मुखः ।।
सत्यशौचपरिभ्रष्टःसंध्यास्नानविवर्जितः ।। 4.1.13.११० ।।
आस्तां दूरेऽस्य कर्माणि शिवनिर्माल्यहारकः ।।
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योयं भवादृशाम् ।। ११ ।।
शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलंघकाः(?) ।।
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ।।१२।।
विषमालोड्य वापे यं श्रेयोवाऽनशनं परम् ।।
सेवितव्यं शिवस्वं न प्राणः कंठगतैरपि ।। १३ ।।
यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ।।
अस्ति चेद्धर्मलेशोस्य गणास्तच्छृणुमो वयम् ।। १४ ।।
इत्थं तद्वाक्यमाकर्ण्य प्रोचुः पारिषदास्ततः ।।
किंकराः शिवधर्मा ये सूक्ष्मास्ते वै भवादृशैः ।। १५ ।।
स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ।।
अनेनानेन सा कर्म यत्कृतं शृणुतेह तत् ।। १६ ।।
पतंती लिंगशिरसि दीपच्छाया निवारिता ।।
स्वचैलांचलतोऽनेन दत्त्वादीपे दशां निशि ।।१७।।
अपरोपि परो धर्मो जातस्तत्रास्य किंकराः ।।
शृण्वता शिवनामानि प्रसंगादपिगृह्णतः ।। १८ ।।
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ।।
उपोषिते न भूतायामनेन स्थिरचेतसा ।। १९ ।।
कलिंगराजोभविताऽधुनाविधुतकल्मषः ।।
एष द्विजवरो दूता यूयं यात यथागताः ।। 4.1.13.१२० ।।
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः ।।
अरिंदमस्य तनयः कलिंगाधितेर्दमः ।। २१ ।।
क्रमाद्राज्यमवाप्याथ पितर्युपरते युवा ।।
नान्यं धर्मं विजानाति दुर्दमो भूपतिर्दमः ।।२२।।
शिवालयेषु सर्वेषु दीपदानादृते द्विज।।
ग्रामाधीशान्समाहूय सर्वान्त्स्वविषयस्थितान् ।।२३।।
इत्थमाज्ञापयामास स मे दंड्यो भविष्यति ।।
यस्य यस्याभितो ग्रामं यावंतश्च शिवालयाः ।। २४ ।।
तत्र तत्र सदा दीपो द्योतनीयोऽविचारितम् ।।
ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम् ।। २५ ।।
इति तद्भयतो दीप्ता दीपाः प्रति शिवालयम् ।।
अनेनैव स धर्मेण यावज्जीवं दमो नृपः ।। २६ ।।
धर्मर्द्धि महतीं प्राप्य कालधर्मवशं गतः ।।
सदीपवासनायागोद्बहून्दीपान्प्रदीप्य वै ।। २७ ।।
अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ।।
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ।। २८ ।।
इति ज्ञात्वा शिवे कार्यं भजनं स्वसुखार्थिभिः ।।
क्व स दीक्षितदायादः सर्वधर्म पराङ्मुखः ।। २९ ।।
स्वार्थदीपदशोद्योत लिंगमौलि तमोहरः ।।
कलिंगविषये राज्यं प्राप्तो धर्मरतिः सदा ।। 4.1.13.१३० ।।
शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ।।
क्वैषा दिक्पालपदवी शिवशर्मन्विलोकय ।।
मनुष्यधर्मणानेन सांप्रतं येह भुज्यते ।। ३१ ।।
गणावूचतुः ।। ।।
सर्वदैव शिवेनासौ सखित्वं च यथेयिवान् ।।
तदप्येकमना विप्र संशृणुष्व ब्रवावहै ।। ३२ ।।
पाद्मे कल्पे पुरा विप्र ब्रह्मणो मानसात्सुतात् ।।
पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणः सुतः।।३३।।
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।।
आराध्यं त्र्यंबकं देवमत्युग्रतपसा पुरा ।। ३४ ।।
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।।
याज्ञदत्तिरसौश्रीदस्तपस्तेपे सुदुःसहम् ।। ३५ ।।
भक्तिप्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ।।
पुरीं पुरारेः संप्राप्य काशिकां चित्प्रकाशिकाम् ।। ३६ ।।
शिवैकदशमुद्बोध्य चित्ररत्नप्रदीपकम् ।।
अनन्यभक्तिस्नेहाढ्यं तन्महोध्याननिश्चलम् ।। ३७ ।।
शिवैक्यसुमहापात्रं तपोग्निपरिबृंहितम् ।।
कामक्रोधमहाविघ्नपतंगाघातवर्जितम् ।। ३८ ।।
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात्।।
संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ।।३९।।
तावत्तताप स तपस्त्वगस्थिपरिशेषितम्।।
यावद्बभूव तद्वर्ष्म वर्षाणामयुतं शतम्।।4.1.13.१४०।।
ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् ।।
अलकापतिमालोक्य प्रसन्नेनांतरात्मना ।। ४१ ।।
लिंगे मनः समाधाय स्थितं स्थाणुस्वरूपिणम् ।।
उवाच वरदोस्मीति तप्त्वालमलकापते ।। ४२ ।।
उन्मील्य नयने यावत्स पश्यति तपोधनः ।।
तावदुद्यत्सहस्रांशु सहस्राधिक तेजसम् ।। ४३ ।।
पुरो ददर्श श्रीकंठं चंद्रचूडमुमाधवम् ।।
तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ।। ४४ ।।
उवाच देवदेवेशं मनोरथपथातिगम् ।।
निजांघ्रिदर्शनेनाथ दृक्सामर्थ्यं प्रयच्छ मे ।।४५।।
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।।
किमन्येन वरेणेश नमस्ते शशिशेखर ।। ४६ ।।
इति तद्वचनं श्रुत्वा देवदेव उमापतिः ।।
ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ।। ४७ ।।
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ।।
शंभोः समीपे कायोषिदेषा सर्वांगसुंदरी ।। ४८ ।।
अनया किंतपस्तप्तं ममापि तपसोधिकम् ।।
अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् ।। ४९ ।।
क्रूरदृग्वीक्षते यावत्पुनःपुनरिदं वदन् ।।
तावत्पुस्फोट तन्नेत्रं वामं वामा विलोकनात ।। 4.1.13.१५० ।।
अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः ।।
असकृद्वीक्ष्य मां वक्ति न्यक्कुर्वन्मे तपःप्रभाम् ।। ५१ ।।
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेवपश्यति ।।
असूयमानो मे रूपं प्रेमसौभाग्यसंपदः ।। ५२ ।।
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।।
उमे त्वदीयः पुत्रोयं न च क्रूरेण चक्षुषा ।। ५३ ।।
संपश्यते तपो लक्ष्मीं तव किं त्वधिवर्णयेत् ।।
इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ।। ५४ ।।
वरान्ददामि ते वत्स तपसानेन तोषितः ।।
निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः ।। ५५ ।।
यक्षाणां किन्नराणां च राजा राज्ञां च सुव्रत ।।
पतिः पुण्यजनानां च सर्वेषां धनदो भव ।। ५६ ।।
मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ।।
अलकां निकषामित्र तव प्रीतिविवृद्धये ।। ५७ ।।
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।।
प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ।। ५८ ।।
देव्युवाच ।। ।।
वत्स ते निश्चला भक्तिर्भवे भवतु सर्वदा ।।
भवैकांषेंगो(?)गोनेत्रेण वामेन स्फुटितेन ह ।। ५९ ।।
देवेन दत्ता ये तुभ्यं वराः संतु तथैव ते ।।
कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ।। 4.1.13.१६० ।।
त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ।।
सिद्धिदं साधकानां च सर्वपापहरं परम् ।। ६१ ।।
न धनेन वियुज्येत न सख्या न च बांधवैः ।।
कुबेरेश्वरलिंगस्य कुर्याद्यो दर्शनं नरः ।। ६२ ।।
विश्वेशाद्दक्षिणेभागे कुबेरेशं समर्चयेत् ।।
नरो लिप्येत नो पापैर्न दारिद्र्येण नोऽसुखैः ।। ६३ ।।
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।।
धनदाया विवेशाथ धाम वैश्वेश्वरं परम् ।। ६४ ।।
।। गणावूचतुः ।।
इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः परम् ।।
अलकां निकषाचैष कैलासः शंकरालयः ।। ६५ ।।
पुर्यां यक्षेश्वराणां ते स्वरूपमिति वर्णितम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो नरो मुच्येदसंशयम् ।।१६६।। ।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंधवत्यलकावर्णनं नाम त्रयोदशोध्यायः ।। १३ ।।