स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६४

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।।
दृष्ट्वा भूदेवताः शंभुं किमाचख्युः षडानन ।।
कानिकानि च लिंगानि तत्र तान्यपिचक्ष्व मे ।। १ ।।
ज्येष्ठस्थाने महापुण्ये देवदेवस्य वल्लभे ।।
आश्चर्यं किमभूत्तत्र तदाचक्ष्व षडानन ।।२ ।।
।। स्कंद उवाच ।। ।।
शृण्वगस्त्य यथा पृच्छि भवता तद्ब्रवीम्यहम् ।।
मंदराद्रिं यदा देवो गतवान्ब्रह्मगौरवात् ।। ३ ।।
तदा निराश्रया विप्राः क्षेत्रसंन्यासिनोनघाः ।।
उपाकृताश्चाविरतं महाक्षेत्रप्रतिग्रहात् ।। ४ ।।
खातंखातं च दंडाग्रैर्भूमिं कंदादिवृत्तयः ।।
चक्रुः पुष्करिणीं रम्यां दंडखाताभिधां मुने ।। ५ ।।
तत्तीर्थं परितः स्थाप्य महालिंगान्यनेकशः ।।
महेशाराधनपरास्तपश्चक्रुः प्रयत्नतः ।। ६ ।।
विभूतिधारिणो नित्यं नित्यरुद्राक्षधारिणः ।।
लिंगपूजारता नित्यं शतरुद्रियजापिनः ।। ७ ।।
ते श्रुत्वा देवदेवस्य पुनरागमनं मुने ।।
तपःकृशा अतितरामासुरानंद मेदुराः ।। ८ ।।
द्विजाः पंचसहस्राणि चरतो विपुलं तपः ।।
दंडखातान्महातीर्थादाजग्मुर्देवदर्शने ।। ९ ।।
तीर्थान्मंदाकिनी नाम्नो द्विजाः पाशुपतव्रताः ।।
शिवैकाराधनपराः समेता अयुतोन्मिताः ।। 4.2.64.१० ।।
हंसतीर्थात्परिप्राप्ता अयुतं त्रिशतोत्तरम् ।।
शतदुर्वाससस्तीर्थादेकादश शताधिकम् ।। ११ ।।
मत्स्योदर्याः परापेतुः सहस्राणि षडेव हि ।।
कपालमोचनात्सप्त शतान्यभ्यागता द्विजाः ।। १२।।
ऋणमोचनतस्तीर्थात्सहस्रं द्विशताधिकम् ।।
वैतरण्या अपि मुने द्विजानामयुतार्धकम् ।।१३।।
ततः पृथूदकात्कुंडात्पृथुना परिखानितात् ।।
अयासिषुर्द्विजानां च शतान्येव त्रयोदश ।।१४।।
तथैवाप्सरसः कुंडान्मेनकाख्याच्छतद्वयम् ।।
उर्वशीकुंडतः प्राप्ताः सहस्रं द्विशताधिकम् ।। १५ ।।
तथैरावतकुंडाच्च ब्राह्मणास्त्रिशतानि च ।।
गंधर्वाप्सरसः सप्त शतानि द्विशतानि च ।। १६ ।।
वृषेशतीर्थादाजग्मुर्नवतिः सशतत्रया ।।
यक्षिणीकुंडतः प्राप्ताः सहस्रं त्रिशतोत्तरम् ।। १७ ।।
लक्ष्मीतीर्थात्परं जग्मुः षोडशैव शतानि च ।।
पिशाचमोचनात्सप्त सहस्राणि द्विजोत्तमाः ।। १८ ।।
पितृकुंडाच्छतंसाग्रं ध्रुवतीर्थाच्छतानि षट् ।।
मानसाख्याच्च सरसो द्विशती सशतत्रया ।। १९ ।।
ब्राह्मणा वासुकिहृदात्सहस्राणि दशैव तु ।।
तथैवाष्टशतं द्रष्टुं जानकीकुंडतो द्विजाः ।। 4.2.64.२० ।।
काशीनाथमनुप्राप्ताः परमानंददायिनम् ।।
तथा गौतमकुंडाच्च शतानिनव चागताः ।।२१।।
तीर्थाद्दुर्गतिसंहर्तुर्बाह्मणाः प्रतिपेदिरे ।।
एकादशशतान्येव द्रष्टुं देवमुमापतिम् ।। २२ ।।
असीसंभेदमारभ्य गंगातीरस्थिता द्विजाः ।।
आसंगमेश्वरात्तत्र परिप्राप्ता घटोद्भव ।। २३ ।।
अष्टादशसहस्राणि तथा पंचशतान्यपि ।।
ब्राह्मणाः पंचपंचाशद्गंगातीरात्समागताः ।। २४ ।।
सार्द्रदूर्वाक्षतकरैः सपुष्पफलपाणिभिः ।।
सुगंधमाल्यहस्तैश्च ब्राह्मणैर्जयवादिभिः ।। २५ ।।
स्तुतो मंगलसूक्तैश्च प्रणतश्च पुनःपुनः ।।
तेभ्यो दत्ताभयः शंभुः पप्रच्छ कुशलं मुदा ।। २६ ।।
ततस्ते ब्राह्मणाः प्रोचुः प्रबद्धकरसंपुटाः ।।
क्षेत्रे निवसतां नाथ सदानः कुशलोदयः ।। २७ ।।
विशेषतः कृतोऽस्माभिः साक्षान्नयनगोचरः।।
त्वं यत्स्वरूपं श्रुतयो न विदुः परमार्थतः ।। २८ ।।
सदैवाकुशलं तेषां ये त्वत्क्षेत्रपराङ्मुखाः ।।
चतुर्दशापि वै लोकास्तेषां नित्यं पराङ्मुखाः ।। २९ ।।
येषां हृदि सदैवास्ते काशीत्वाशीविषां गद ।।
संसाराशीविषविषं न तेषां प्रभवेत्क्वचित् ।। 4.2.64.३० ।।
गर्भरक्षामणिर्मंत्रः काशीवर्णद्वयात्मकः ।।
यस्य कंठे सदा तिष्ठेत्तस्याकुशलता कुतः ।। ३१ ।।
सुधां पिबति यो नित्यं काशीवर्णद्वयात्मिकाम् ।।
स नैर्जरीं दशां हित्वा सुधैव परिजायते ।। ३२ ।।
श्रुतं कर्णामृतं येन काशीत्यक्षरयुग्मकम् ।।
न समाकणर्यत्येव स पुनर्गर्भजां कथाम्।। ३३ ।।
काशी रजोपि यन्मूर्ध्नि पतेदप्यनिलाहतम् ।।
चंद्रशेखरतन्मूर्धा भवेच्चंद्रकलांकितः ।। ३४ ।।
प्रसंगतोपि यन्नेत्रपथमानंदकाननम् ।।
यातं तेत्र न जायंते नेक्षेरन्पितृकान(व?)नम् ।।३५।।
गच्छता तिष्ठता वापि स्वपता जाग्रताथवा ।।
काशीत्येष महामंत्रो येन जप्तः सनिर्भयः ।। ३६ ।।
येन बीजाक्षरयुगं काशीति हृदि धारितम् ।।
अबीजानि भवंत्येव कर्मबीजानि तस्य वै ।। ३७ ।।
काशी काशीति काशीति जपतो यस्य संस्थितिः ।।
अन्यत्रापि सतस्तस्य पुरो मुक्तिः प्रकाशते ।। ३८ ।।
क्षेममूर्तिरियं काशी क्षेममूर्तिर्भवान्भव ।।
क्षेममूर्तिस्त्रिपथगा नान्यत्क्षेमत्रयं क्वचित् ।। ३९ ।।
ब्राह्मणानामिति वचः क्षेत्रभक्तिविबृंहितम् ।।
निशम्य गिरिजाकांतस्तुतोष नितरां हरः ।। 4.2.64.४० ।।
प्रोवाच च प्रसन्नात्मा धन्या यूयं द्विजर्षभाः ।।
येषामिहेदृशी भक्तिर्मम क्षेत्रेतिपावने ।। ४१ ।।
जाने सत्त्वमया जाताः क्षेत्रस्यास्य निषेवणात् ।।
नीरजस्का वितमसः संसारार्णवपारगाः ।। ४२ ।।
वाराणस्यास्तु ये भक्तास्ते भक्ता मम निश्चितम्।।
जीवन्मुक्ता हि ते नूनं मोक्षलक्ष्म्या कटाक्षिताः ।। ४३ ।।
यैश्च काशीस्थितो जंतुरल्पकोपि विरोधितः ।।
तैर्वै विश्वंभरा सर्वा मया सह विरोधिता ।। ।। ४४ ।।
वाराणस्याः स्तुतिमपि यो निशम्यानुमोदते ।।
अपि ब्रह्मांडमखिलं ध्रुवं तेनानुमोदितम् ।।४५।।
निवसंति हि ये मर्त्या अस्मिन्नानंदकानने ।।
ममांतःकरणे ते वै निवसेयुरकल्मषाः ।। ४६ ।।
निवसंति मम क्षेत्रे मम भक्तिं प्रकुर्वते ।।
मम लिंगधरा ये तु तानेवोपदिशाम्यहम् ।। ४७ ।।
निवसंति मम क्षेत्रे मम भक्तिं न कुर्वते ।।
मम लिंगधरा ये नो न तानुपदिशाम्यहम् ।।४८।।
काशी निर्वाणनगरी येषां चित्ते प्रकाशते ।।
ते मत्पुरः प्रकाशंते नैःश्रेयस्या श्रिया वृताः ।। ४९ ।।
मोक्षलक्ष्मीरियं काशी न येभ्यः परिरोचते ।।
स्वर्लक्ष्मीं कांक्षमाणेभ्यः पतितास्ते न संशयः ।। 4.2.64.५० ।।
काथीं संकाक्षमाणानां पुरुषार्थचतुष्टयम् ।।
पुरः किंकरवत्तिष्ठेन्ममानुग्रहतो द्विजाः ।। ५१ ।।
आनंदकानने ह्यत्र ज्वलद्दावानलोस्म्यहम् ।।
कर्मबीजानि जंतूनां ज्वालये न प्ररोहये ।। ५२ ।।
वस्तव्यं सततं काश्यां यष्टव्योहं प्रयत्नतः ।।
जेतव्यौ कलिकालौ च रंतव्या मुक्तिरंगना ।५३।।
प्राप्यापि काशीं दुर्बुद्धिर्यो न मां परिसेवते।।
तस्य हस्तगताप्याशु कैवल्यश्रीः प्रणश्यति ।। ५४ ।।
धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः काशिवासिनः ।।
यूयं यच्चेतसो वृत्तेर्न दूरेहं न काशिका ।। ५५ ।।
दातव्यो वो वरः कोत्र व्रियतां मे यथारुचि ।।
प्रेयांसो मे यतो यूयं क्षेत्रसंन्यासकारिणः ।। ५६ ।।
इति पीत्वा महेशानमुखक्षीराब्धिजां सुधाम् ।।
परितृप्ता द्विजाः सर्वे वव्रुर्वरमनुत्तमम् ।। ५७ ।।
ब्राह्मणा ऊचुः ।। ।।
उमापते महेशान सर्वज्ञ वर एष नः ।।
काशी कदापि न त्याज्या भवता भवतापहृत् ।। ५८ ।।
वचनाद्ब्राह्मणानां तु शापो मा प्रभवत्विह ।।
कदाचिदपि केषांचित्काश्यां मोक्षांतरायकः ।। ५९ ।।
तव पादाबुंजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु नः ।।
आ कलेवरपातं च काशीवासोस्तु नोनिशम् ।।4.2.64.६०।।
किमन्येन वरेणेश देय एष वरो हि नः ।।
अवधेह्यंधकध्वंसिन्वरमन्यं वृणीमहे ।। ६१ ।।
तव प्रतिनिधी कृत्यास्माभिस्त्वद्भक्तिभावितैः ।।
प्रतिष्ठितेषु लिंगेषु सान्निध्यं भवतोऽस्त्विह।।६२।।
श्रुत्वेति तेषां वाक्यानि तथास्त्विति पिनाकिना ।।
प्रोचेऽन्योपि वरो दत्तो ज्ञानं वश्च भविष्यति ।।६३।।
पुनः प्रोवाच देवेशो निशामयत भो द्विजाः ।।
हितं वः कथयाम्यत्र तदनुष्ठीयतां ध्रुवम् ।। ६४ ।।
सेव्योत्तरवहा नित्यं लिंगमर्च्यं प्रयत्नतः ।।
दमो दानं दया नित्यं कर्तव्यं मुक्तिकांक्षिभिः ।। ६५ ।।
इदमेव रहस्यं च कथितं क्षेत्रवासिनाम् ।।
मतिः परहिता कार्या वाच्यं नोद्वेगकृद्वचः ।।६६।।
मनसापि न कर्तव्यमेनोत्र विजिगीषुणा।।
अत्रत्यमक्षयं यस्मात्सुकृतं सुकृतेतरम् ।। ६७ ।।
अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति ।।
वाराणस्यां कृतं पापमंतर्गेहे प्रणश्यति ।। ६८ ।।
अंतर्गेहे कृतं पापं पैशाच्यनरकावहम् ।।
पिशाचनरकप्राप्तिर्गच्छत्येव बहिर्यदि ।। ६९ ।।
न कल्पकोटिभिः काश्यां कृतं कर्म प्रमृज्यते ।।
किंतु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम्.।। 4.2.64.७०. ।।
वाराणस्यां स्थितो यो वै पातकेषु रतः सदा ।।
योनिं प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम् ।। ७१ ।।
पुनरत्रैव निवसञ्ज्ञानं प्राप्स्यत्यनुत्तमम् ।।
तेन ज्ञानेथ संप्राप्ते(?) मोक्षमाप्स्यत्यनुत्तमम् ।। ७२ ।। (संप्रांते)
दुष्कृतानि विधायेह बहिः पंचत्वमागताः ।।
तेषां गतिं प्रवक्ष्यामि शृणुत द्विजसत्तमाः ।। ७३ ।।
यामाख्या मे गणाः संति घोरा विकृतमूर्त्तयः ।।
मूषायां ते धमंत्यादौ क्षेत्रदुष्कृतकारिणः ।। ७४ ।।
नयंत्यनूपप्रायां च ततः प्राचीं दुरासदाम् ।।
वर्षाकाले दुराचारान्पातयंति महाजले ।। ७५ ।।
जलौकाभिः सपक्षाभिर्दंदशूकैर्जलोद्भवैः ।।
दुर्निवारैश्च मशकैर्दश्यंते ते दिवानिशम् ।। ७६ ।।
ततो यामैर्हिमर्तौ ते नीयंतेऽद्रौ हिमालये ।।
अशनावरणैर्हीनाः क्लेश्यंते ते दिवानिशम् ।। ७७ ।।
मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते ।।
दिवाकरकरैस्तीव्रैस्ताप्यंते ते पिपासिताः ।। ७८ ।।
क्लेशितास्ते गणैरुग्रैर्यातनाभिः समंततः ।।
इत्थं कालमसंख्यातमानीयंते ततस्त्विह ।। ७९ ।।
निवेदयंति ते यामाः कालराजांतिके ततः ।।
कालराजोपि तान्द्रष्ट्वा कर्मसंस्मार्य दुष्कृतम् ।। 4.2.64.८० ।।
विवस्त्रान्क्षुत्तृषार्तांश्च लग्नपृष्ठोदरत्वचः ।।
अन्यै रुद्रपिशाचैश्च सहसंयोजयत्यपि ।। ८१ ।।
ततो रुद्रपिशाचास्ते भैरवानुचराः सदा ।।
सहंते क्लममत्यर्थं क्षुत्तृष्णोग्रत्वसंभवम् ।। ८२ ।।
आहारं रुधिरोन्मिश्रं ते लभंते कदाचन ।।
एवं त्र्ययुतसंख्याकं कालं तत्रातिदुःखिताः ।। ८३ ।।
श्मशानस्तंभमभितो नीयंते कंठपाशिताः ।।
पिपासिता अपि न तेंऽबुस्पर्शमपि चाप्नुयुः ।। ८४ ।।
अथ संक्षीणपापास्ते कालभैरवदर्शनात् ।।
इहैव देहिनो भूत्वा मुच्यंते ते ममाज्ञया ।। ८५ ।।
तस्मान्न कामयेतात्र वाङ्मनःकर्मणाप्यघह(?)म् ।।
शुचौ पथि सदा स्थेयं महालाभमभीप्सुभिः ।। ८६ ।।
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।।
ममानुग्रहमासाद्य गच्छत्येव परां गतिम् ।। ८७ ।।
अनाशनं यः कुरुते मद्भक्त इह सुव्रतः ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ८८ ।।
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्विषम् ।।
अविमुक्तं सदा सेव्यं संसारभयमोचकम् ।। ८९ ।।
नान्यत्पश्यामि जंतूनां मुक्त्वा वाराणसीं पुरीम् ।।
सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे ।। 4.2.64.९० ।।
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ।।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।। ९१ ।।
जन्मांतरसहस्रेषु युंजन्योगी यदाप्नुयात् ।।
तदिहैव परो मोक्षो मरणादधि गम्यते ।। ९२ ।।
तिर्यग्योनिगताः सत्त्वा ये विमुक्तकृतालयाः ।।
कालेन निधनं प्राप्तास्तेपि यांति परां गतिम् ।। ९३ ।।
अविमुक्तं न सेवंते ये मूढास्तमसावृताः ।।
विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः ।। ९४ ।।
अविमुक्तं समासाद्य यो लिंगं स्थापयेत्सुधीः ।।
कल्पकोटिशतैर्वापि नास्ति तस्य पुनर्भवः ।। ९५ ।।
ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम् ।।
अविमुक्ते मृतानां तु पतनं नैव विद्यते।। ९६ ।।
ब्रह्महत्यां नरः कृत्वा पश्चात्संयतमानसः ।।
प्राणांस्त्यजति यः काश्यां स मुक्तो नात्र संशयः ।। ९७ ।।
स्त्रियः पतिव्रता याश्च मम भक्तिसमाहिताः ।।
अविमुक्ते मृता विप्रा यांति ताः परमां गतिम् ।। ९८ ।।
अत्रोत्क्रमणकालेहं स्वयमेव द्विजोत्तमाः ।।
दिशामि तारकं ब्रह्म देही स्याद्येन तन्मयः ।। ९९ ।।
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ।।
यथा मोक्षमिहाप्नोति न तथान्यत्रकुत्रचित् ।। 4.2.64.१०० ।।
मरणं निश्चितं ज्ञात्वा गतिं चासुखरूपिणीम् ।।
चलमागंतुकं सर्वं ततः काशीं समाश्रयेत् ।। १ ।।
काशी समाश्रिता यैस्तु मनोवाक्कायकर्मभिः ।।
तानत्र निर्मलधियो निवार्णश्रीः समाश्रयेत् ।। २ ।।
काशीस्थितैकमपि यः प्रीणयेन्न्यायजैर्धनैः ।।
तेन त्रैलोक्यमखिलं प्रीणितं तु मया सह ।। ३ ।।
यः प्रीणयति पुण्यात्मा निर्वाणनगरी नरम् ।।
पुमर्थेन स्थितेर्नित्यं ब्राह्मणाः प्रीणयामि तम् ।। ४ ।।
दिवोदासोपि राजर्षिः काशीं धर्मेण पालयन् ।।
सदेहो मत्पदं प्राप्तो यतो न पुनरागतिः ।। ५।।
अत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।।
अतो विमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम् ।। ६ ।।
मोक्षं सुदुर्लभं ज्ञात्वा संसारं चातिभीषणम् ।।
अश्मना चरणौ हत्वा कालमत्र प्रतीक्षयेत् ।। ७ ।।
अविमुक्तं परित्यज्य यदा यास्यंति दुर्धियः ।।
हसिष्यंति तदा भूतान्यन्योन्यकरताडनैः ।। ८ ।।
प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम् ।।
परिनिष्क्रांतुमन्यत्र कस्य जंतोर्मतिर्भवेत् ।। ९ ।।
महादानेन चान्यत्र यत्फलं लभ्यते नरैः ।।
अविमुक्ते तु काकिण्यां दत्तायां तदवाप्यते ।। 4.2.64.११० ।।
एकं समर्चयेल्लिंगं तपस्तप्येत चापरः ।।
तयोर्मध्ये तु स श्रेष्ठो यो लिंगं पूजयेदिह ।। ११ ।।
तीर्थांतरे गवां कोटिं विधिवद्यः प्रयच्छति।।
एकाहं यो वसेत्काश्यां काशीवासी तयोर्वरः।। ।। १२ ।।
अन्यत्र ब्राह्मणानां तु कोटिं संभोज्य यत्फलम्।।
वाराणस्यां तु चैकेन भोजितेन तदाप्यते।। १३ ।।
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।।
तुलापुरुषदानेन काशीभिक्षा समा भवेत्।। १४ ।।
ममेह परमं ज्योतिरापातालाद्व्यवस्थितम् ।।
अतीत्य सप्तलोकादीननंतं लिंगरूपधृक् ।। १५ ।।
पृथिव्यंतेपि ये लिंगमविमुक्तं स्मरंति मे ।।
कलुषैस्ते विमुच्यंते महद्भिरिति निश्चितम् ।। १६ ।।
अस्मिन्क्षेत्रे तु ये नाहं दृष्टः स्पृष्टः समर्चितः ।।
संप्राप्य तारकं ज्ञानं न स भूयोभिजायते ।। १७ ।।
यो मामिह समभ्यर्च्य म्रियतेन्यत्रकुत्रचित् ।।
जन्मांतरेपि मां प्राप्य स विमुक्तो भविष्यति ।।१८।।
इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतो हरः ।।
पश्यतामेव तेषां तु तत्रैवांतर्हितोभवत् ।। १९ ।।
तेपि साक्षाद्विरूपाक्षं प्रत्यक्षीकृत्य वाडवाः ।।
प्रहृष्टमनसोऽत्यंतं प्रययुः स्वस्वमाश्रयम् ।। 4.2.64.१२० ।।
शंभोर्वाक्यं विनिश्चित्य सर्वज्ञस्य कृपानिधेः ।।
त्यक्त्वा कार्यांतरं विप्रा लिंगान्येव समर्चिषुः ।। २१ ।।
।। स्कंद उवाच ।। ।।
पठित्वा पाठयित्वा च रहस्याख्यानमुत्तमम् ।।
श्रद्धालुः पातकैर्मुक्तः शिवलोके महीयते ।। १२२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे क्षेत्ररहस्यकथनंनाम चतुःषष्टितमोऽध्यायः ।। ६४ ।।