स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४०

विकिस्रोतः तः
Jump to navigation Jump to search

।। स्कंद उवाच ।। ।।
अविमुक्तेश माहात्म्यं वर्णितं तेग्रतो मया ।।
अथो किमसि शुश्रूषुः कथयिष्यामि तत्पुनः ।। १ ।।
।। अगस्त्य उवाच ।। ।।
अविमुक्तेश माहात्म्यं श्रावं श्रावं श्रुती मम ।।
अतीव सुश्रुते जाते तथापि न धिनोम्यहम् ।। २ ।।
अविमुक्तेश्वरं लिंगं क्षेत्रं चाप्यविमुक्तकम् ।।
एतयोस्तु कथं प्राप्तिर्भवेत्षण्मुख तद्वद ।। ३ ।।
।। स्कंद उवाच ।। ।।
शृणु कुं भज वक्ष्यामि यथा प्राप्तिर्भवेदिह ।।
स्वश्रेयो दातुरेतस्या विमुक्तस्य महामते ।। ४ ।।
समीहितार्थ संसिद्धिर्लभ्यते पुण्यभारतः ।।
तच्च पुण्यं भवेद्विप्र श्रुतिवर्त्मसभाजनात् ।।५।।
श्रुतिवर्त्मजुषः पुंसः संस्पर्शान्नश्यतो मुने ।।
कलिकालावपि सदा छिद्रं प्राप्य जिघांसतः ।।६।।
वर्जितस्य विधानेन प्रोक्तस्याकरणेन वै ।।
कलिकालावपि हतो ब्राह्मणं रंध्रदर्शनात् ।। ७ ।।
निषिद्धाचरणं तस्मात्कथयिष्ये तवाग्रतः ।।
तद्दूरतः परित्यज्य नरो न निरयी भवेत् ।। ८ ।।
पलांडुं विड्वराहं च शेलुं लशुन गृंजने ।।
गोपीयूषं तंडुलीयं वर्ज्यं च कवकं सदा ।। ९ ।।
व्रश्चनान्वृक्षनिर्यासान्पायसापूपशष्कुलीः ।।
अदेवपित्र्यं पललमवत्सागोपयस्त्यजेत् ।। 4.1.40.१० ।।
पय ऐकशफं हेयं तथा क्रामेलकाविकम् ।।
रात्रौ न दधि भोक्तव्यं दिवा न नवनीतकम् ।। ११ ।।
टिट्टिभं कलविंकं च हंसं चक्रं प्लवंबकम् ।।
त्यजेन्मांसाशिनः सर्वान्सारसं कुक्कुटं शुकम् ।। १२ ।।
जालपादान्खंजरीटान्बुडित्वा मत्स्यभक्षकान् ।।
मत्स्याशी सर्वमांसाशी तन्मत्स्यान्सर्वथा त्यजेत्।। १३ ।।
हव्यकव्यनियुक्तौ तु भक्ष्यौ पाठीनरोहितौ।।
मांसाशिभिस्त्वमी भक्ष्याः शश शल्लक कच्छपाः ।।१४।।
श्वाविद्गोधे प्रशस्ते च ज्ञाताश्च मृगपक्षिणः ।।
आयुष्कामैः स्वर्गकामैस्त्याज्यं मांसं प्रयत्नतः ।। १५ ।।
यज्ञार्थं पशुहिंसा या सा स्वर्ग्या नेतरा क्वचित् ।।
त्यजेत्पर्युषितं सर्वमखंडस्नेह वर्जितम्।। १६ ।।
प्राणात्यये क्रतौ श्राद्धे भैषजे विप्रकाम्यया।।
अलौल्यमित्थं पललं भक्षयन्नैव दोषभाक् ।। १७ ।।
न तादृशं भवेत्पापं मृगयावृत्तिकांक्षिणः ।।
यादृशं भवति प्रेत्य लौल्यान्मांसोपसेविनः ।। १८ ।।
मखार्थं ब्रह्मणा सृष्टाः पशु द्रुम मृगौषधीः ।।
निघ्नन्नहिंसको विप्रस्तासामपि शुभा गतिः ।। १९ ।।
पितृदेवक्रतुकृते मधुपर्कार्थमेव च ।।
तत्र हिंसाप्यहिंसा स्याद्धिंसान्यत्र सुदुस्तरा ।। 4.1.40.२० ।।
यो जंतूनात्मपुष्ट्यर्थं हिनस्ति ज्ञानदुर्बलः ।।
दुराचारस्य तस्येह नामुत्रापि सुखं क्वचित्।। २१ ।।
भोक्तानुमंता संस्कर्ता क्रयिविक्रयि हिंसकाः ।।
उपहर्ता घातयिता हिंसकाश्चाष्टधा स्मृताः ।। २२ ।।
प्रत्यब्दमश्वमेधेन शतं वर्षाणि यो यजेत् ।।
अमांसभक्षको यश्च तयोरंत्यो विशिष्यते ।। २३ ।।
यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता ।।
सुखदुःखानि तुल्यानि यथात्मनि तथा परे ।। २४ ।।
सुखं वा यदि वा चान्यद्यत्किंचित्क्रियते परे।।
तत्कृतं हि पुनः पश्चात्सर्वमात्मनि संभवेत् ।। २५ ।।
न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रियाः ।।
क्रियाहीने कुतो धर्मो धर्महीने कुतः सुखम् ।। ।। २६ ।।
सुखं हि सर्वैराकांक्ष्यं तच्च धर्मसमुद्भवम्।।
तस्माद्धर्मोत्र कर्तव्यश्चातुर्वर्ण्येन यत्नतः ।। २७ ।।
न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् ।।
दानं च विधिना देयं काले पात्रे च भावतः ।। २८ ।।
विधिहीनं तथाऽपात्रे यो ददाति प्रतिग्रहम् ।।
न केवलं हि तद्याति शेषं तस्य च नश्यति ।। २९ ।।
व्यसनार्थे कुटुंबार्थे यदृणार्थे च दीयते ।।
तदक्षयं भवेदत्र परत्र च न संशयः ।।4.1.40.३०।।
मातापितृविहीनं यो मौंजीपाणिग्रहादिभिः ।।
संस्कारयेन्निजैरर्थैस्तस्य श्रेयस्त्वनंतकम् ।। ।।३१ ।।
अग्निहोत्रैर्न तच्छ्रेयो नाग्निष्टोमादिभिर्मखैः ।।
यच्छ्रेयः प्राप्यते मर्त्यैर्द्विजे चैके प्रतिष्ठिते ।। ३२ ।।
यो ह्यनाथस्य विप्रस्य पाणिं ग्राहयते कृती ।।
इह सौख्यमवाप्नोति सोक्षयं स्वर्गमाप्नुयात् ।। ३३ ।।
पितृगेहे तु या कन्या रजः पश्येदसंस्कृता ।।
भ्रूणहा तत्पिता ज्ञेयो वृषली सापि कन्यका ।। ३४ ।।
यस्तां परिणयेन्मोहात्स भवेद्वृषलीपतिः ।।
तेन संभाषणं त्याज्यमपाङ्क्तेयेन सर्वदा ।। ३५ ।।
विज्ञाय दोषमुभयोः कन्यायाश्च वरस्य च ।।
संबंधं रचयेत्पश्चादन्यथा दोषभाक्पिता ।। ३६ ।।
स्त्रियः पवित्राः सततं नैता दुष्यंति केनचित् ।।
मासिमासि रजस्तासां दुष्कृतान्यपकर्षति ।। ३७ ।।
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगंधर्व वह्निभिः ।।
भुंजते मानुषाः पश्चान्नैतादुष्यं ति केनचित् ।। ३८ ।।
स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ।।
कल्याणवाणीं गंधर्वास्तेन मेध्याः सदा स्त्रियः ।। ३९ ।।
कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ।।
स्तनोद्भेदेषु गंधर्वास्तत्प्रागेव प्रदीयते ।।4.1.40.४०।।
दृश्यरोमात्वपत्यघ्नी कुलघ्न्युद्गतयौवना ।।
पितृघ्न्याविष्कतरजास्ततस्ताः परिवर्जयेत् ।।४१।।
कन्यादानफलप्रेप्सुस्तस्माद्द द्यादनग्निकाम् ।।
अन्यथा न फलं दातुः प्रतिग्राही पतेदधः ।।४२।।
कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं लभेत्।।
देवभुक्तां ददद्दाता न स्वर्गमधिगच्छति ।।४३।।
शयनासनयानानि कुणपं स्त्रीमुखं कुशाः।।
यज्ञपात्राणि सर्वाणि न दुष्यंति बुधाः क्वचित् ।। ४४ ।।
वत्सः प्रस्रवणे मध्ये शकुनिः फलपातने ।।
नार्यो रतिप्रयोगेषु श्वा मृग ग्रहणे शुचिः ।। ४१।
अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।।
पादतो ब्राह्मणा मेध्याः स्त्रियो मेध्यास्तु सर्वतः ।। ४५ ।।
बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ।।
न त्याज्या दयिता नारी नास्यास्त्यागो विधीयते ।। ४७ ।।
आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्य भस्मना ।।
संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः ।।४८।।
मनसापि हि या नेह चिंतयेत्पुरुषांतरम् ।।
सोमया सह सौख्यानि भुंक्ते चात्रापि कीर्तिभाक्।।४९।।
पिता पितामहो भ्राता सकुल्यो जननी तथा ।।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परःपरः ।। 4.1.40.५० ।।
अप्रयच्छन्समाप्नोति भूणहत्यामृतावृतौ ।।
स्वयं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्।। ।। ५१ ।।
हृताधिकारां मलिनां पिंडमात्रोपजीविनीम्।।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ।। ५२ ।।
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।।
गर्भभर्तृवधादौ तु महत्यपि च कल्मषे ।। ५३ ।।
शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृते ।।
ते च स्वा चैव राज्ञस्तु ताश्च स्वाचाग्रजन्मनः ।। ५४ ।।
आरोप्य शूद्रां शयने विप्रो गच्छेदधोगतिम्।।
उत्पाद्य पुत्रं शूद्रायां ब्राह्मण्यादेव हीयते।। ५५ ।।
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।।
देवाद्यास्तन्न चाश्नंति स च स्वर्गं न गच्छति ।। ५६ ।।
जामयो यानि गेहानि शपंत्यप्रतिपूजिताः ।।
कृत्याभिर्निहतानीव नश्येयुस्तान्यसंशयम् ।। ५७ ।।
तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ।।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ।।५८।।
यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः ।।
रमंते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः ।। ५९ ।।
यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति ।।
तत्र वेश्मनि कल्याणं संपद्येत पदे पदे ।।4.1.40.६०।।
अहुतं च हुतं चैव प्रहुतं प्राशितं तथा ।।
ब्राह्मं हुतं पंचमं च पंचयज्ञा इमे शुभाः ।। ६१ ।।
जपोऽहुतोहुतो होमः प्रहुतो भौतिको बलिः ।।
प्राशितं पितृसंतृप्तिर्हुतं ब्राह्मं द्विजार्चनम् ।। ६२ ।।
पंचयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति ।।
एतेषामननुष्ठानात्पंचसूना अवाप्नुयात् ।। ६३ ।।
ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम्।।
वैश्यं सुखं समागम्य शूद्रं संतोषमेव च ।। ६४ ।।
जातमात्रः शिशुस्तावद्यावदष्टौ समाः स्मृताः ।।
भक्ष्याभक्ष्येषु नो दु्ष्येद्यावन्नैवोपनीयते ।। ६५ ।।
भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम् ।।
प्रत्यवायो ह्यभरणे भर्तव्यस्तत्प्रयत्नतः ।। ६६ ।।
मातापितागुरुपत्नीः त्वपत्यानि समाश्रिताः ।।
अभ्यागतोतिथिश्चाग्निः पोष्यवर्गा अमी नव ।। ६७ ।।
स जीवति पुमान्योऽत्र बहुभिश्चोपजीव्यते ।।
जीवन्मृतोथ विज्ञेयः पुरुषः स्वोदरंभरिः ।। ६८ ।।
दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया ।।
अदत्तदाना जायंते परभाग्योपजीविनः ।।६९।।
विभागशीलसंयुक्तो दयावांश्च क्षमायुतः ।।
देवतातिथिभक्तस्तु गृहस्थो धार्मिकः स्मृतः ।।4.1.40.७०।।
शर्वरीमध्य यामौ यौ हुतशेषं च यद्धविः ।।
तत्र स्वपंस्तदश्नंश्च ब्राह्मणो नावसीदति ।। ७१ ।।
नवैतानि गृहस्थस्य कार्याण्यभ्यागते सदा ।।
सुधा व्ययानि यत्सौम्यं वाक्यं चक्षुर्मनोमुखम् ।। ७२ ।।
अभ्युत्थानमिहायात सस्नेहं पूर्वभाषणम्।।
उपासनमनुव्रज्या गृहस्थोन्नति हेतवे ।। ७३ ।।
तथेषद्व्यययुक्तानि कार्याण्येतानि वै नव ।।
आसनं पादशौचं च यथाशक्त्याशनं क्षितिः ।। ७४ ।।
शय्यातृणजलाभ्यंग दीपा गार्हस्थ्य सिद्धिदाः ।।
तथा नव विकर्माणि त्याज्यानि गृहमेधिनाम्।।७५।।
पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम् ।।
द्वेषो दंभश्च माया च स्वर्गमार्गार्गलानि हि ।। ७६ ।।
नवावश्यककर्माणि कार्याणि प्रतिवासरम् ।।
स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम् ।। ७७ ।।
वेश्वदेवं तथातिथ्यं नवमं पितृतर्पणम् ।।
नव गोप्यानि यान्यत्र मुने तानि निशामय ।। ७८ ।।
जन्मर्क्षं मैथुनं मंत्रो गृहच्छिद्रं च वंचनम् ।।
आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा ।। ७९ ।।
नवैतानि प्रकाश्यानि रहः पापमकुत्सितम् ।।
प्रायोग्यमृणशुद्धिश्च सान्वयः क्रयविक्रयौ ।।
कन्यादानं गुणोत्कर्षो नान्यत्केनापि कुत्रचित् ।। 4.1.40.८० ।।
पात्र मित्र विनीतेषु दीनानाथोपकारिषु ।।
मातापितुगुरूष्वेतन्नवकं दत्तमक्षयम् ।। ८१ ।।
निष्फलं नवसूत्सृष्टं चाटचारणतस्करे ।।
कुवैद्ये कितवे धूर्ते शठे मल्ले च बंदिनि ।। ८२ ।।
आपस्त्वपि न देयानि नववस्तूनि सर्वथा ।।
अन्वये सति सर्वस्वं दारांश्च शरणागतान् ।। ८३ ।।
न्यासाधीकुलवृत्तिं च निक्षेपं स्त्रीधनं सुतम्।।
यो ददाति स मूढात्मा प्रायश्चित्तैर्विशुध्यति ।। ८४ ।।
एतन्नवानां नवकं ज्ञात्वा प्रियमवाप्नुयात् ।।
अन्यच्च नवकं वच्मि सर्वेषां स्वर्गमार्गदम् ।। ८५ ।।
सत्यं शौचमहिंसा च क्षांतिर्दानं दया दमः ।।
अस्तेयमिंद्रियाकोचः सर्वेषां धर्मसाधनम् ।। ८६ ।।
अभ्यस्य नवतिं चैतां स्वर्गमार्गप्रदीपिकाम्।।
सतामभिमतां पुण्यां गृहस्थो नावसीदति ।। ८७ ।।
जिह्वा भार्या सुतो भ्राता मित्र दास समाश्रिताः ।।
यस्यैते विनयाढ्याश्च तस्य सर्वत्र गौरवम्।। ८८ ।।
पानं दुर्जन संसर्गः पत्या च विरहोटनम् ।।
स्वप्नोन्यगृहवासश्च नारीणां दूषणानि षट् ।।८९।।
समर्घं धान्यमुद्धत्य महर्घं यः प्रयच्छति।।
स हि वार्धुषिको नाम तस्यान्नं नैव भक्षयेत् ।। ।।4.1.40.९०।।
अग्रे माहिषिकं दृष्ट्वा मध्ये च वृषलीपतिम्।।
अंते वार्धुषिकं चैव निराशाः पितरो गताः ।। ९१ ।।
महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी ।।
तां दुष्टां कामयेद्यस्तु स वै माहिषिकः स्मृतः ।।९२।।
स्व वृषं या परित्यज्य परवृषे वृषायते।।
वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ।। ९३ ।।
यावदुष्णं भवत्यन्नं यावन्मौनेन भुज्यते ।।
तावदश्नंति पितरो यावन्नोक्ता हविर्गुणाः ।। ९४ ।।
विद्याविनयसंपन्ने श्रोत्रिये गृहमागते ।।
क्रीडंत्यौषधयः सर्वा यास्यामः परमां गतिम् ।। ९५।।
भ्रष्टशौचवताचारे विप्रे वेदविवर्जिते ।।
रोदित्यन्नं दीयमानं किं मया दुष्कृतं कृतम् ।। ९६ ।।
यस्य कोष्ठगतं चान्नं वेदाभ्यासेन जीर्यति ।।
स तारयति दातारं दशपूर्वान्दशापरान् ।। ९७ ।।
न स्त्रीणां वपनं कार्यं न च गाः समनुव्रजेत् ।।
न च रात्रौ वसेद्गोष्ठे न कुर्याद्वैदिकीं श्रुतिम् ।। ९८ ।।
सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ।।
एवमेव तु नारीणां शिरसो मुंडनं भवेत् ।। ९९ ।।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।।
अकारयित्वा वपनं प्रायश्चित्तं विनिर्दिशेत् ।। ।। 4.1.40.१०० ।।
केशानां रक्षणार्थाय द्विगुणं व्रतमादिशेत् ।।
द्विगुणा दक्षिणा देया ब्राह्मणे वेदपारगे ।। १ ।।
योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ।।
अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः ।। २ ।।
दाराग्निहोत्र दीक्षां च कुरुते योऽग्रजे स्थिते ।।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।। ३ ।।
परिवित्तिः परिवेत्ता यया च परिविद्यते ।।
सर्वे ते नरकं यांति दातृयाजकपंचमाः ।। ४ ।।
क्लीबे देशांतरस्थे च मूके प्रत्रजिते जडे ।।
कुब्जे खर्वे च पतिते न दोषः परिवेदने ।। ५ ।।
वेदाक्षरणि यावंति नियुंज्यादर्थकारणे ।।
तावतीर्वै भ्रूणहत्या वेदविक्रयकृल्लभेत् ।। ६ ।।
यस्तु प्रव्रजितो भूत्वा सेवते मैथुनं पुनः ।।
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।। ७ ।।
शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ।।
शूद्राद्विद्यागमः कश्चिज्ज्वलंतमपि पातयेत् ।। ८ ।।
शूद्रादाहृत्य निर्वापं ये पचंत्यबुधा द्विजाः ।।
ते यांति नरकं घोरं ब्रह्मतेजोविवर्जिताः ।। ९ ।।
माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ।।
हस्तदत्तानि भुक्तानि दिनमेकमभोजनम् ।। ।। 4.1.40.११० ।।
हस्तदत्ताश्च ये स्नेहा लवणं व्यजनानि च ।।
दातारं नोपतिष्ठंते भोक्ता भुंक्ते तु किल्बिषम् ।। ११ ।।
आयसेनैव पात्रेण यदन्नमुपदीयते ।।
भोक्ता तद्विट्समं भुंक्ते दाता च नरकं व्रजेत् ।। १२ ।।
अंगुल्या दंतकाष्ठं च प्रत्यक्षलवणं च यत् ।।
मृत्तिकाभक्षणं यच्च समं गोमांसभक्षणैः ।। १३ ।।
पानीयं पायसं भैक्षं घृतं लवणमेव च ।।
हस्तदत्तं न गृह्णीयात्तुल्यगोमांसभक्षणैः ।। १४ ।।
अग्रतो निवसेन्मूर्खो दूरतश्च गुणान्वितः ।।
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ।।१५।।
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।।
ज्वलंतमग्निमुत्सृज्य नहि भस्मनि हूयते ।। १६ ।।
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।।
भोजने चैव दाने च दहेदासप्तमं कुलम् ।। १७ ।।
गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।।
प्रेष्यान्वार्धुषिकांश्चैव विप्राञ्शूद्रवदाचरेत् ।।१८।।
देवद्रव्यविभागेन ब्रह्मस्व हरणेन च ।।
कुलान्याशु विनश्यंति ब्राह्मणातिक्रमेण च ।। १९ ।।
मा देहीति च यो ब्रूयाद्गवाग्निब्राह्मणेषु च ।।
तिर्यग्योनिशतं गत्वा चांडालेष्वभिजायते ।। 4.1.40.१२० ।।
वाचा यच्च प्रतिज्ञातं कर्मणानोपपादितम् ।।
ऋणं तद्धर्मसंयुक्तमिहलोके परत्र च ।। २१ ।।
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ।।
यज्ञशेषोऽमृतंभुक्तशेषं तु विघसं विदुः ।। २२ ।।
सव्यादंसात्परिभ्रष्टे नाभिदेशे व्यवस्थिते ।।
वस्त्रे स एकवासास्तं देवे पित्र्ये च वर्जयेत् ।। २३ ।।
यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः ।।
तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ।। २४ ।।
हस्तौ प्रक्षाल्य गंडूषं यः पिबेद्भोजनोत्तरम्।।
दैवं पित्र्यं तथात्मानं त्रयं स उपघातयेत् ।। १५ ।।
गणान्नं गणिकान्नं च यदन्नं ग्रामयाजके ।।
स्त्रीणां प्रथमगर्भेषु भुक्त्वा चांद्रायणं चरेत ।। २६ ।।
पक्षे वा यदि वा मासे यस्य गेहेत्ति न द्विजः ।।
भुक्त्वा दुरात्मनस्तस्य चरेच्चांद्रायणव्रतम्।। २७ ।।
सत्रिणां दीक्षितानां च यतीनां ब्रह्मचारिणाम् ।।
एतेषां सूतकं नास्ति ऋत्विजां कर्मकुर्वताम् ।। २८ ।।
अजीर्णेऽभ्युदिते वाते श्मश्रुकर्मणि मैथुने ।।
दुःस्वप्ने दुर्जनस्पर्शे स्नानमेव विधीयते ।। २९ ।।
चैत्यवृक्षं चितिं यूपं शिवनिर्माल्यभोजिनम् ।।
वेदविक्रयिणं स्पृष्ट्वा सचैलो जलमाविशेत् ।। 4.1.40.१३० ।।
अग्न्यगारे गवां गोष्ठे देव ब्राह्मणसन्निधौ ।।
स्वाध्याये भोजने पाने पादुके वै विसर्जयेत् ।। ३१ ।।
खलक्षेत्रगतं धान्यं कूपवापीषु यज्जलम् ।।
अग्राह्यादपि तद्ग्राह्यं यच्च गोष्ठगतं पयः ।। ३२ ।।
यद्वेष्टितशिरा भुंक्ते यो भुंक्ते दक्षिणामुखः ।।
सोपानत्कश्च यद्भुंक्ते तद्वै रक्षांसि भुंजते ।। ३३ ।।
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ।।
हरंति रसमन्नस्य मंडलेन विवर्जितम् ।।३४।।
ब्रह्माद्याश्च सुराः सर्वे वसिष्ठाद्या महर्षयः ।।
मंडलं चोपजीवंति ततः कुर्वीत मंडलम् ।। ३५ ।।
ब्राह्मणे चतुरस्रं स्यात्त्र्यस्रं वै बाहुजन्मनः ।।
वर्तुलं च विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम् ।। ३६ ।।
नोत्संगे भोजनं कृत्वा नो पाणौ नैव कर्पटे ।।
नासनेन च शय्यायां भुंजीत न मलार्दितः ।। ३७ ।।
धर्मशास्त्र रथारूढा वेदखड्गधरा द्विजाः ।।
क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ।। ३८ ।।
रात्रौ धाना दधियुतं धर्मकामो न भक्षयेत् ।।
अश्नतो धर्महानिः स्याद्व्याधिभिश्चोपपीड्यते ।। ३९ ।।
फाणितं गोरसं तोयं लवणं मधुकांजिकम् ।।
हस्तेन ब्राह्मणो दत्त्वा कृच्छ्रं चांद्रायणं चरेत् ।। 4.1.40.१४० ।।
गंधाभरणमाल्यानि यः प्रयच्छति धर्मवित् ।।
ससुगंधिः सदा हृष्टो यत्रयत्रोपजायते ।। ४१ ।।
नीलीरक्तं तु यद्वस्त्रं दूरतः परिवर्जयेत् ।।
स्त्रीणां क्रीडार्थसंयोगे शयनीयेन दुष्यति ।। ४२ ।।
पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात् ।।
अपवित्रो भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति ।। ४३ ।।
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
वृथा तस्य महायज्ञा नीली वासो बिभर्ति यः ।। ४४ ।।
नीलीरक्तं यदावस्त्रं विप्रः स्वांगेषु धारयेत् ।।
तं तु संततिसंख्याके नरके स वसेद्ध्रुवम् ।। ४५ ।।
अहोरात्रोषितो भूत्वा पंचगव्येन शुध्यति ।। ४६ ।।
नीलीरक्तेन वस्त्रेण यदन्नमुपकल्पयेत् ।।
भोक्ता विष्ठासमं भुंक्ते दाता च नरकं व्रजेत् ।। ४७ ।।
अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् ।।
वैश्यस्य चान्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ।। ४८ ।।
वैश्वदेवेन होमेन देवताभ्यर्चनैर्जपैः ।।
अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ।। ४९ ।।
व्यवहारानुरूपेण न्यायेन तु यदर्जनम् ।।
क्षत्रियस्य पयस्तेन प्रजापालनतो भवेत् ।। 4.1.40.१५०
प्रहरानद्धवाहाद्यदन्नमुत्पाद्य यच्छति ।।
सीतायज्ञविधानेन वैश्यान्नं तेन संस्कृतम् ।। ५१ ।।
अज्ञानतिमिरांधस्य मद्यपानरतस्य च ।।
रुधिरं तेन शूद्रान्नं वेदमंत्रविवर्जितम् ।। ५२ ।।
न वृथा शपथं कुर्यात्स्वल्पेप्यर्थे नरोत्तमः ।।
वृथा हि शपथं कुर्वन्प्रेत्य चेह विनश्यति ।। ५३ ।।
कामिनीषु विवाहे च गवां भुक्ते धनक्षये ।।
ब्राह्मणाभ्युपपत्तौ च शपथैर्नास्ति पातकम् ।।५४।।
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।।
गोबीजकांचनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।।५५।।
अग्निं वा हारयेदेनमप्सु चैनं निमज्जयेत् ।।
स्पर्शयेत्पुत्रदाराणां शिरांस्येनं च वा पृथक् ।। ५६ ।।
न यमं यममित्याहुरात्मा वै यम उच्यत ।।
आत्मा संयमितो येन तं यमः किं करिष्यति ।। ५७ ।।
न निस्त्रिंशस्तथा तीक्ष्णः फणी वा दुरतिक्रमः ।।
रिपुर्वा नित्यसंकुद्धो यथात्मा दुरधिष्ठितः ।। ५८ ।।
एकः क्षमावतां दोषो न द्वितीयः कथंचन ।।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ।। ५९ ।।
न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्या वसथप्रियस्य ।।
न भोजनाच्छादन तत्परस्य न लोकवित्त ग्रहणे रतस्य ।। 4.1.40.१६० ।।
एकांतशीलस्य सदैव तस्य सर्वेंद्रियप्रीति निवर्तकस्य ।।
स्वाध्याययोगे गतमानसस्य मोक्षो धुवं नित्यमहिंसकस्य ।। ६१ ।।
क्वैकांतशीलत्वमिहास्ति पुंसः क्व चेंद्रियप्रीतिनिवृत्तिरस्ति ।।
क्व योगयुक्तिः क्व च दैवतेज्या काश्यां विनैभिः सहजेन मुक्तिः ।।६२ ।।
विश्वेश संशीलनमेवयोगस्तपश्च विश्वेशपुरीनिवासः ।।
व्रतानि दानं नियमा यमाश्च स्नानं द्युनद्यां यदुदग्वहायाम् ।।६३।।
।। स्कंद उवाच ।। ।।
न्यायागतधनस्तत्त्वज्ञाननिष्ठोतिथिप्रियः ।।
श्राद्धकृत्सत्यवादी च गृहस्थोपीह मुच्यते ।।६४।।
दीनांधकृपणार्थिभ्यो दत्त्वान्नानि विशेषतः ।।
कृत्वा गार्ह्याणि कर्माणि गृहस्थः श्रेय आप्नुयात् ।। ६५ ।।
इत्थमाचरतां पुंसां काशीनाथः प्रसीदति ।।
काशीनाथप्रसादेन काशीप्राप्तिस्तु मोक्षकृत् ।। ६६ ।।
स सर्वतीर्थसुस्नातः स सर्वक्रतुदीक्षितः ।।
स दत्तसर्वदानस्तु काशी येन निषेविता ।। १६७ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे गृहस्थधर्माख्यानंनाम चत्वारिंशोध्यायः ।।४०।।