स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। स्कंद उवाच ।।
आनंदबाष्पसलिलरुद्धकंठं विलोक्य तम्।।
मृडः पस्पर्श पाणिभ्यां सौधाभ्यां तु सुधांबुधिः ।। १ ।।
अथ तत्स्पर्शसौख्येन धर्मराजो महातपाः ।।
पुनरंकुरयामास तपोग्नि ज्वलितां तनुम् ।। २ ।।
ततः प्रोवाच स ब्राध्निर्देव देवमुमापतिम् ।।
प्रसन्नवदनं शांतं शांतपारिषदावृतम् ।। ३ ।।
प्रसन्नोसि यदीशान सर्वज्ञ करुणानिधे ।।
किमन्येन वरेणात्र यत्त्वं साक्षात्कृतो मया ।। ४ ।।
यं न वेदा विदुः सम्यङ्न च तौ वेदपूरुषौ ।।
ततोपि वरयोग्योस्मि तन्नाथ प्रार्थयाम्यहम् ।। ५ ।।
श्रीकंठांडज डिंभानाममीषां मधुरब्रुवाम् ।।
मत्तपश्चिरसाक्षीणां मत्पुरः प्राप्तजन्मनाम् ।। ६ ।।
पितृभ्यां परिहीनानामितिहास कथाविदाम् ।।
त्यक्ताहारविहाराणां कीराणां वरदो भव ।।७।।
एतत्प्रसूतिसमये आमयेन प्रपीडिता ।।
शुकी पंचत्वमापन्ना शुकः श्येनेन भक्षितः ।। ८ ।।
रक्षितानामनाथानां सदा मन्मुखदर्शिनाम् ।।
अनाथनाथ भवता ह्यायुःशेषस्वरूपिणा ।। ९ ।।
इति धर्मवचः श्रुत्वा परोपकृतिनिर्मलम् ।।
तानाहूय मुने शंभुर्विनयावनताननान् ।।4.2.79.१ ०।।
उवाच धर्मेति प्रीतः शुकशावानिदं वचः ।।
अयि पत्त्ररथा ब्रूत साधवो धर्मसंगताः ।। ११ ।।
को वरो भवता देयो धर्मेश परिचारिणाम् ।।
साधुसंसर्गसंक्षीण जन्मांतरमहैनसाम् ।। १२ ।।
इति श्रुत्वा महेशस्य वचनं ते पतत्त्रिणः ।।
प्रोचुः प्रणम्य देवेशं नमस्ते भवनाशन ।। १३ ।।
।। पक्षिण ऊचुः ।। ।।
अनाथनाथ सर्वज्ञ को वरो नः समीहितः ।।
इतोपि त्र्यक्ष यत्साक्षात्तिर्यक्त्वेपि समीक्षिताः ।। १४ ।।
लाभाः संतूद्यमवतां गिरीशेह परः शताः ।।
परं परोयं लाभोत्र यत्त्वं दृग्गोचरी भवेः ।। १५ ।।
यदेतद्दृश्यते नाथ तत्सर्वं क्षणभंगुरम् ।।
अभंगुरो भवानेकस्त्वत्सपर्याप्यभंगुरा ।। १६ ।।
विचित्रजन्मकोटीनां स्मृतिर्नोत्र परिस्फुरेत् ।।
एतत्तपस्विरचितलिंगपूजा विलोकनात् ।। १७ ।।
देवयोनिरपि प्राप्ता चिरमस्माभिरीशितः ।।
दिव्यांगना सहस्राणि तत्र भुक्त्वा स्वलीलया।। १८ ।।
आसुरी दानवी नागी नैर्ऋती चापि कैन्नरी ।।
विद्याधरी च गांधर्वी योनिरस्माभिरर्जिता ।। ।। १९ ।।
नरत्वे भूपतित्वं च परिप्राप्तमनेकशः ।।
जले जलचरत्वं च स्थले च स्थलचारिता ।। 4.2.79.२० ।।
वने वनौकसो जाता ग्रामेषु ग्रामवासिनः ।।
दातारो याचितारश्च रक्षितारश्च घातुकाः ।। २१ ।।
सुखिनोपि वयं जाता दुःखिनो वयमास्म च ।।
जेतारश्च वयं जाताः पराजेतार एव च ।। २२ ।।
अधीतिनोपि मूर्खाश्च स्वामिनः सेवका अपि ।।
चतुर्षु भूतग्रामेषु उत्तमाधममध्यमाः ।। २३ ।।
अभूम भूरिशः शंभो न क्वापि स्थैर्यमागताः ।।
इतोयोनेस्ततो योनौ ततो योनेस्ततोन्यतः ।। २४ ।।
पिनाकिन्क्वापि न प्रापि सुखलेशो मनागपि ।।
इदानीं पुण्यसंभारैर्धर्मेश्वरविलोकनात् ।।२५।।
तापनेःसुतपो वह्निज्वालाप्रज्वलितैनसः ।।
संवीक्ष्य त्र्यक्ष साक्षात्त्वां कृतकृत्या बभूविम ।। २६ ।।
तथापि चेद्वरो देयस्तिर्यक्ष्वस्मासु धूर्जटे ।।
कृपणेष्वपि शोच्येषु ज्ञानं सर्वज्ञ देहि तत् ।। २७ ।।
येन ज्ञानेन मुक्ताः स्मोऽमुष्मात्संसारबंधनात् ।।
यंत्रिताः प्राकृतैः पाशैरदुर्भेद्यैश्च मादृशैः ।। २८ ।।
ऐंद्रं पदं न वांछामो न चांद्रं नान्यदेव हि ।।
वाञ्छामः केवलं मृत्युं काश्यां शंभोऽपुनर्भवम् ।। २९ ।।
त्वत्सान्निध्याद्विजानीमः सर्वज्ञ सकलं वयम् ।।
यथा चंदनसंसर्गात्सर्वे सुरभयो द्रुमाः ।। 4.2.79.३० ।।
एतदेव परं ज्ञानं संसारोच्छित्तिकारणम् ।।
वपुर्विसर्जनं काले यत्तवानंदकानने ।। ३१ ।।
निर्मथ्य विष्वग्वाग्जालं सारभूतमिदं परम् ।।
ब्रह्मणोदीरितं पूर्वं काश्यां मुक्तिस्तनुत्यजाम् ।।३२।।
यद्वाच्यं बहुभिर्ग्रंथैस्तदष्टाभिरिहाक्षरैः ।।
हरिणोक्तं रविपुरः कैवल्यं काशिसंस्थितौ ।। ३३ ।।
याज्ञवल्क्यो मुनिवरः प्रोक्तवान्मुनिसंसदि ।।
रवेरधीत्य निगमान्काश्यामंते परं पदम् ।। ३४ ।।
स्वामिनापि जगद्धात्री पुरतो मंदराचले ।।
इदमेव पुरा प्रोक्तं काशीनिर्वाणजन्मभूः ।। ३५ ।।
कृष्णद्वैपायनोप्येवं शंभो वक्ष्यति नान्यथा।।
यत्रविश्वेश्वरः साक्षान्मुक्तिस्तत्र पदेपदे ।।३६।।
वदंत्यन्येपि मुनयस्तीर्थसंन्यासकारिणः।।
चिरंतना लोमशाद्याः काशिका मुक्तिकाशिका ।। ३७ ।।
वयमप्येवं जानीमो यत्र स्वर्गतरंगिणी।।
आनंदकानने शंर्भोमोक्षस्तत्रैव निश्चितम् ।। ३८ ।।
भूतं भावि भविष्यं यत्स्वर्गे मर्त्ये रसातले ।।
तत्सर्वमेव जानीमो धर्मेशानुग्रहात्परात् ।।३९।।
अतो हिरण्यगर्भोक्तं हरिप्रोक्तं मुनीरितम् ।।
भवतोक्तं च निखिलं शंभो जानीमहे वयम्।।4.2.79.४०।।
करामलकवत्सर्वमेतद्ब्रह्मांडगोलकम् ।।
अस्मद्वाग्गोचरेऽस्त्येव धर्मपीठनिषेवणात् ।। ४१ ।।
धर्मराजस्य तपसा तिर्यञ्चोपि वयं विभो ।।
जाताः स्म निर्विकल्पं हि सर्वज्ञानस्य भाजनम् ।। ४२ ।।
मधुरं मृदुलं सत्यं स्वप्रमाणं सुसंस्कृतम् ।।
हितं मितं सदृष्टांतं श्रुत्वा पक्षिसुभाषितम् ।। ४३ ।।
देवोतिविस्मयापन्नो ऽवर्णयत्पीठगौरवम् ।।
त्रैलोक्यनगरे चात्र काशीराजगृहं मम ।। ४४ ।।
तत्रापि भोगभवनमनर्घ्यमणिनिर्मितम् ।।
मोक्षलक्ष्मीविलासाख्यः प्रासादो मेति शर्मभूः ।। ४५ ।।
पतत्त्रिणो पिमुच्यंते यं कुर्वाणाः प्रदक्षिणम् ।।
स्वेच्छया विचरंतः खे खेचरा अपि देवताः ।।४६।।
मोक्षलक्ष्मीविलासाख्य प्रासादस्य विलोकनात् ।।
शरीराद्दूरतो याति ब्रह्महत्यापि नान्यथा ।। ४७ ।।
मोक्षलक्ष्मीविलासस्य कलशो यैर्निरीक्षतः ।।
निधानकलशास्तांस्तु न मुंचंति पदेपदे ।। ४८ ।।
दूरतोपि पताकापि मम प्रासादमूर्धगा ।।
नेत्रातिथी कृता यैस्तु नित्यं तेऽतिथयो मम ।। ४९ ।।
भूमिं भित्त्वा स्वयं जातस्तत्प्रासादमिषेण हि ।।
आनंदाख्यस्य कंदस्य कोप्येष परमोंकुरः ।।4.2.79.५०।।
ब्रह्मादिस्थावरांतानि यत्र रूपण्यनेकशः ।।
मामेवोपासते नित्यं चित्रं चित्रगतान्यपि ।।५१।।
ससौधो मेखिले लोके स्थानं परमनिर्वृतेः ।।
रतिशाला स मे रम्या स मे विश्वासभूमिका ।।५२।।
मम सर्वगतस्यापि प्रासादोयं परास्पदम् ।।
परं ब्रह्म यदाम्नातं परमोपनिषद्गिरा ।।
अमूर्तं तदहं मूर्तो भूयां भक्तकृपावशात् ।। ५३ ।।
नैःश्रेयस्याः श्रियो धाम तद्याम्यां मंडपोस्ति मे ।।
तत्राहं सततं तिष्ठे तत्सदोमंडपं मम ।। ५४ ।।
निमेषार्धप्रमाणं च कालं तिष्ठति निश्चलः ।।
तत्र यस्तेन वै योगः समभ्यस्तः समाः शतम् ।। ५५ ।।
निर्वाणमंडपं नाम तत्स्थानं जगतीतले ।।
तत्रर्चं संजपन्नेकां लभेत्सर्वश्रुतेः फलम् ।। ।। ५६ ।।
प्राणायामं तु यः कुर्यादप्येकं मुक्तिमंडपे ।।
तेनाष्टांगः समभ्यस्तो योगोऽन्यत्रायुतं समाः ।। ५७ ।।
निर्वाणमंडपे यस्तु जपेदेकं षडक्षरम् ।।
कोटिरुद्रेण जप्तेन यत्फलं तस्य तद्भवेत् ।।५८।।
शुचिर्गंगांभसि स्नातो यो जपेच्छतरुद्रियम् ।।
निर्वाणमंडपे ज्ञेयः स रुद्रो द्विजवेषभृत् ।। ५९ ।।
ब्रह्मयज्ञसकृत्कृत्वा मम दक्षिणमंडपे ।।
ब्रह्मलोकमवाप्याथ परं ब्रह्माधिगच्छति ।। 4.2.79.६० ।।
धर्मशास्त्रं पुराणानि सेतिहासानि तत्र यः ।।
पठेन्निरभिलाषुः सन्स वसेन्मम वेश्मनि ।। ६१ ।।
तिष्ठेदिंद्रियचापल्यं यो निवार्य क्षणं कृती ।।
निर्वाणमंडपेन्यत्र तेन तप्तं महत्तपः ।। ६२ ।।
वायुभक्षणतोन्यत्र यत्पुण्यं शरदां शतम् ।।
तत्पुण्यं घटिकार्धेन मौनं दक्षिणमंडपे ।। ६३ ।।
मितं कृष्णलकेनापि योदद्यान्मुक्तिमंडपे ।।
स्वर्णं सौवर्णयानेन स तु संचरते दिवि ।। ६४ ।।
तत्रैकं जागरं कुर्याद्यस्मिन्कस्मिन्दिनेपि यः ।।
उपोषितोर्चयेल्लिंगं स सर्वव्रतपुण्यभाक् ।। ६५ ।।
तत्र दत्त्वा महादानं तत्र कृत्वा महाव्रतम् ।।
तत्राधीत्याखिलं वेदं च्यवते न नरो दिवः ।। ६६ ।।
प्रयाणं कुर्वते यस्य प्राणा मे मुक्तिमंडपे ।।
समामनुप्रविष्टोत्र तिष्ठेद्यावदहं खलु ।। ६७ ।।
जलक्रीडां सदा कुर्यां ज्ञानवाप्यां सहोमया ।।
यदंबुपानमात्रेण ज्ञानं जायेत निमर्लम् ।। ६८ ।।
तज्जलक्रीडनस्थानं मम प्रीतिकरं महत् ।।
अमुष्मिन्राजसदने जाड्यहृज्जलपूरितम् ।। ६९ ।।
तत्प्रासादपुरोभागे मम शृंगारमंडपः ।। श्री
पीठं तद्धि विज्ञेयं निःश्रीकश्रीसमर्पणम् ।।4.2.79.७०।।
मदर्थं तत्र यो दद्याद्दुकूलानि शुचीन्यहो ।।
माल्यानि सुविचित्राणि यक्षकर्दमवंति च ।। ७१ ।।
नाना नेपथ्यवस्तूनि पूजोपकरणाऽन्यपि ।।
स श्रियालंकृतस्तिष्ठेद्यत्र कुत्रापि सत्तमः ।।७२।।
निर्वाणलक्ष्मीर्वृणुते तं निर्वाणपदाप्तये ।।
यत्र कुत्रापि निधनं प्राप्नुयादपि स ध्रुवम् ।। ७३ ।।
मोक्षलक्ष्मीविलासाख्य प्रासादस्योत्तरे मम ।।
ऐश्वर्यमडपं रम्यं तत्रैश्वर्यं ददाम्यहम् ।। ७४ ।।
मत्प्रासादैंद्रदिग्भागे ज्ञानमंडपमस्ति यत् ।।
ज्ञानं दिशामि सततं तत्र मां ध्यायतां सताम् ।। ७५ ।।
भवानि राजसदने ममास्ति हि महानसम् ।।
यत्तत्रोपहृतं पुण्यं निर्विशामि मुदैव तत् ।। ७६ ।।
विशालाक्ष्या महासौधे मम विश्रामभूमिका ।।
तत्र संसृतिखिन्नानां विश्रामं श्राणयाम्यहम् ।। ।। ७७ ।।
नियमस्नानतीर्थं च चक्रपुष्करिणी मम ।।
तत्र स्नानवतां पुंसां तन्नैर्मल्यं दिशाम्यहम् ।। ७८ ।।
यदाहुः परमं तत्त्वं यदाहुर्ब्रह्मसत्तमम् ।।
स्वसंवेद्यं यदाहुश्च तत्तत्रांते दिशाम्यहम् ।।७९।।
यदाहुस्तारकं ज्ञानं यदाहुरतिनिर्मलम् ।।
स्वात्मारामं यदाहुश्च तत्तत्रांते दिशाम्यहम् ।। 4.2.79.८० ।।
जगन्मंगलभूर्यात्र परमा मणिकर्णिका ।।
विपाशयामि तत्राहं कर्मभिः पाशितान्पशून् ।। ८१ ।।
निर्वाणश्राणने यत्र पात्रापात्रं न चिंतये ।।
आनंदकानने तन्मे दानस्थानं दिवानिशम् ।। ८२ ।।
भवांबुधौ महागाधे प्राणिनः परिमज्जतः ।।
भूत्वैव कर्णधारोंते यत्र संतारयाम्यहम् ।। ८३ ।।
सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका ।।
ददामि तस्यां सर्वस्वमग्रजायांत्यजाय वा ।।८४।।
महासमाधिसंपन्नैर्वेदांतार्थ निषेविभिः ।।
दुष्प्रापोन्यत्र यो मोक्षः शोच्यैरपि स लभ्यते ।। ८५ ।।
दीक्षितो वा दिवाकीर्तिः पंडितो वाप्यपंडितः ।।
तुल्यो मे मोक्षदीक्षायां संप्राप्य मणिकर्णिकाम् ।। ८६ ।।
यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम् ।।
ददामि जंतुमात्राय सर्वस्वं चिरसंचितम् ।। ८७ ।।
यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः ।।
अविचारं तदा देयं सर्वस्वं चिरसंचितम् ।। ८८ ।।
शरीरमथ संपत्तिरथ सा मणिकर्णिका ।।
त्रिसंयोगोयमप्राप्यो देवैरिंद्रादिकैरपि ।। ८९ ।।
पुनः पुनर्विचार्येति जंतुमात्रेभ्य एव च ।।
निर्वाणलक्ष्मीं यच्छामि सदोपमणिकर्णिकम् ।। 4.2.79.९० ।।
मुक्तिदा न मही सा मे वाराणस्यां महीयसी ।।
तन्मही रजसा साम्यं त्रिलोक्यपि न चोद्वहेत् ।। ९१ ।।
परं लिंगार्चनस्थानमविमुक्तेश्वरेश्वरम् ।।
तत्र पूजां सकृत्कृत्वा कृतकृत्यो नरो भवेत् ।। ९२ ।।
सायं पाशुपतीं संध्यां कुर्यां पशुपतीश्वरे ।।
विभूतिधारणात्तत्र पशुपाशैर्न बध्यते ।। ९३ ।।
प्रातःसध्याकरोम्येव सदोंकारनिकेतने ।।
तत्रैकापि कृता संध्या सर्वपातककृंतनी ।। ९४ ।।
वसामि कृत्तिवासेहं सदा प्रति चतुर्दशि ।।
अत्र जागरणं कृत्वा चतुर्दश्यां न गर्भभाक् ।। ९९ ।।
रत्नेश्वरोर्चितो दद्यान्महारत्नानि भक्तितः ।।
रत्नैः समर्च्य तल्लिंगं स्त्रीरत्नादि लभेन्नरः ।। ९६ ।।
विष्टपत्रितयांतःस्थोप्यहं लिंगे त्रिविष्टपे ।।
तिष्ठामि सततं भक्तमनोरथसमृद्धये ।। ९७ ।।
विरजस्कं महापीठं तत्र संसेव्य मानवः ।।
विरजा जायते नूनं चतुर्नद कृतोदकः ।। ९८ ।।
महादेवे महापीठं मम साधकसिद्धिदम् ।।
तत्पीठदर्शनादेव महापापैः प्रमुच्यते ।। ९९ ।।
पितृप्रीतिप्रदं पीठं वृषभध्वजसंज्ञकम् ।।
पितृतर्पणकृत्तत्र पितॄंस्तारयति क्षणात् ।। 4.2.79.१०० ।।
आदिकेशवपीठेहमादिकेशवरूपधृक् ।।
श्वेतद्वीपं नये भक्तान्वैष्णवानतिवल्लभान् ।। १ ।।
तत्रैव मंगलापीठे सर्वमंगलदायिनि ।।
उप पंचनदे तीर्थे भक्तान्संतारयाम्यहम् ।। २ ।।
बिंदुमाधवरूपेण यत्राहं वैष्णवाञ्जनान् ।।
नये पंचनदस्नातांस्तद्विष्णोः परमं पदम् ।। ३ ।।
पंचमुद्रे महापीठे ये वीरेश्वरसेवकाः ।।
तेषां परमनिर्वाणं कालेनाल्पेन जायते ।।।। ४ ।।
तत्र सिद्धेश्वरीपीठे चंद्रेश्वर समीपतः ।।
तत्र संनिधिकर्तॄणां सिद्धिः षण्मासतो भवेत् ।। ५ ।।
काश्यां च योगिनीपीठे योगसिद्धिविधायिनि ।।
सिद्धीरुच्चाटनाद्याश्च कैर्न लब्धाः सुसाधकैः ।। ६ ।।
अनेकानीह पीठानि संति काश्यां पदेपदे ।।
परं धर्मेशपीठस्य काचिच्छक्तिरनुत्तमा ।। ७ ।।
यत्रामी बालकीराश्च निर्मलज्ञानभाजनम् ।।
आसुः सदुपदेशान्मे त्रातत्रातेति भाषिणः ।। ८ ।।
एतद्धर्मेश्वरं पीठं त्यजाम्यद्यदिनावधि ।।
न कदाचित्तरणिजत्वत्तपोवनमुत्तमम् ।। ९ ।।
ममानुग्रहतः कीरानेतान्पश्य रवेः सुत ।।
दिव्यविमानमारुह्य गंतारो मत्पुरं महत् ।। 4.2.79.११० ।।
तत्र भुक्त्वा चिरं भोगाञ्ज्ञानं प्राप्य मयेरितम् ।।
इह मुक्तिमवाप्स्यंति त्वत्संसर्गातिनिर्मलाः ।। ११ ।।
इत्युक्तवति देवेशे कैलासशिखरोपमम् ।।
दिव्यं विमानमापन्नं रुद्रकन्यापरिष्कृतम् ।। १२ ।।
आरुह्यते न यानेन दिव्यरूपवराः खगाः ।।
कैलासमभिसंजग्मुर्धर्ममापृच्छ्यतेऽमलाः ।।११३।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशाख्याननामैकोनाशीतितमोऽध्यायः ।। ७९ ।।