स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१५

विकिस्रोतः तः
Jump to navigation Jump to search

अगस्तिरुवाच ।।
शृणु पत्नि महाभागे लोपामुद्रे सधर्मिणि ।।
कथा विष्णुगणाभ्यां च कथितां शिवशर्मणे ।। १ ।।
शिवशर्मोवाच ।।
अहो गणौ विचित्रेयं श्रुता चांद्रमसी कथा ।।
उडुलोककथां ख्यातं विष्वगाख्यानकोविदौ ।। २ ।।
गणावूचतुः ।।
पुरा सिसृक्षतः सृष्टिं स्रष्टुरंगुष्ठपृष्ठतः ।।
दक्षः प्रजाविनिर्माणे दक्षो जातः प्रजापतिः।।
षष्टिर्दुहितरस्तस्य तपोलावण्यभूषणाः ।।
सर्वलावण्यरोहिण्यो रोहिणीप्रमुखाः शुभाः ।। ४ ।।
ताभिस्तप्त्वा तपस्तीव्रं प्राप्य वैश्वेश्वरीं पुरीम् ।।
आराधितो महादेवः सोमः सोमविभूपणः ।। ५ ।।
यदा तुष्टोयमीशानो दातुं वरमथाययौ ।।
उवाच च प्रसन्नात्मा याचध्वं वरमुत्तमम् ।। ६ ।।
शंभोर्वाक्यमथाकर्ण्य ऊचुस्ताश्च कुमारिकाः ।।
यदि देयो वरोऽस्माकं वरयोग्याः स्म शंकर ।। ७ ।।
भवतोपि महादेव भवतापहरो हि यः ।।
रूपेण भवता तुल्यः स नो भर्ता भवत्विति ।। ८ ।।
लिंगं संस्थाप्य सुमहन्नक्षत्रेश्वर संज्ञितम् ।।
वारणायास्तटे रम्ये संगमेश्वरसन्निधौ। ।। ९ ।।
दिव्यं वर्ष सहस्रं तु पुरुषायितसंज्ञितम् ।।
तपस्तप्तं महत्ताभिः पुरुषैरपि दुष्करम् ।। 4.1.15.१० ।।
ततस्तुष्टो हि विश्वेशो व्यतरद्वरमुत्तमम् ।।
सर्वासामेकपत्नीनामकत्रे(?) स्थिरचेतसाम् ।। ११ ।।
श्री विश्वेश्वर उवाच ।। ।।
न क्षांतं हि तपोत्युग्रमेतदन्याभिरीदृशम् ।।
पुराऽबलाभिस्तस्माद्वो नाम नक्षत्रमत्र वै ।। १२ ।।
पुरुषायितसंज्ञेन तप्तं यत्तपसाधुना ।।
भवतीभिस्ततः पुंस्त्वमिच्छया वो भविष्यति ।। १३ ।।
ज्योतिश्चक्रे समस्तेऽस्मिन्नग्रगण्या भविष्यथ ।।
मेषादीनां च राशीनां योनयो यूयमुत्तमाः ।। १४ ।।
ओषधीनां सुधायाश्च ब्राह्मणानां च यः पतिः ।।
पतिमत्यो भवत्योपि तेन पत्या शुभाननाः।। १५ ।।
भवतीनामिदं लिंगं नक्षत्रेश्वर संज्ञितम् ।।
पूजयित्वा नरो गंता भवतीलोकमुत्तमम् ।। १६ ।।
उपरिष्टान्मृगांकस्य लोको वस्तु भविष्यति ।।
सर्वासां तारकाणां च मध्ये मान्या भविष्यथ ।। १७ ।।
नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः ।।
ते वो लोके वसिष्यंति नक्षत्र सदृशप्रभाः ।। १८ ।।
नक्षत्रग्रहराशीनां बाधास्तेषां कदाचन ।।
न भविष्यंति ये काश्यां नक्षत्रेश्वरवीक्षकाः ।। १९ ।।
अगस्त्य उवाच ।। ।।
अतिथित्वमवाप नेत्रयोर्बुधलोकः शिवशर्मणस्त्वथ ।।
गणयोर्भगणस्य संकथां कथयित्रो रिति विष्णुचेतसोः ।। 4.1.15.२० ।।
शिवशर्मोवाच ।। ।।
कस्य लोकोयमतुलो ब्रूतं श्रीभगवद्गणौ ।।
पीयूषभानोरिव मे मनः प्रीणयतेतराम् ।। २१ ।।
।। गणावूचतुः ।। ।।
शिवशर्मञ्छृणु कथामेतां पापापहारिणीम्।।
स्वर्गमार्गविनोदाय तापत्रयविनाशिनीम् ।। २२ ।।
योसौ पूर्वं महाकांतिरावाभ्यां परिवर्णितः ।।
साम्राज्यपदमापन्नो द्विजराजस्तवाग्रतः ।। २३ ।।
दक्षिणा राजसूयस्य येन त्रिभुवनं कृता ।।
तपस्तताप योत्युग्रं पद्मानां दशतीर्दश ।।२४।।
अत्रिनेत्रसमुद्भूतः पौत्रो वै द्रुहिणस्य यः ।।
नाथः सर्वौषधीनां च ज्योतिषां पतिरेव च ।। २५ ।।
निर्मलानां कलानां च शेवधिर्यश्च गीयते ।।
उद्यन्परोपतापं यः स्वकरैर्गलहस्तयेत् ।। २६ ।।
मुदंकुमुदिनीनांयस्तनोति जगता सह ।।
दिग्वधू चारु शृंगारदर्शनादर्शमंडलः ।। २७ ।।
किमन्यैर्गुणसंभारैरतोपि न समं विधोः ।।
निजोत्तमांगे सर्वज्ञः कलां यस्यावतंसयेत् ।। २८ ।।
बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः ।।
पुरोहितस्यापिगुरोर्भ्रातुरांगिरसस्य वै ।। २९ ।।
जहार तरसा तारां रूपवान्रूपशालिनीम्।।
वार्यमाणोपि गीर्वाणैर्बहुदेवर्षिभिः पुनः ।। 4.1.15.३० ।।
नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै ।।
हित्वा त्रिनेत्रं कामेन कस्य नो खडितं मनः ।।३१।।
ध्वांतमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम्।।
दीपभास्करकरामहौषधं नाधिपत्य तमसस्तुकिंचन ।। ३२ ।।
आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम् ।।
दुर्जनविहिततीर्थमज्जनैः शुद्धधीरिव विरुद्धमानसम्।। ३३ ।।
धिग्धिगेतदधिकर्द्धि चेष्टितं चंक्रमेक्षणविलक्षितं यतः ।।
वीक्षते क्षणमचारुचक्षुषा घातितेन विपदःपदेन च ।। ३४ ।।
कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशंगतो ननच को लोभेन संमोहितः ।।
योषिल्लोचनभल्लभिन्नहृदयः को नाप्तवानापदं को राज्यश्रियमाप्यनांधपदवीं यातोपि सल्लोचनः ।। ३५ ।।
आधिपत्यकमलातिचंचला प्राप्यतां च यदिहार्जितं किल ।।
निश्चलं सदसदुच्चकैर्हितं कार्यमार्यचरितैः सदैव तत् ।। ३६ ।।
न यदांगिरसे तारां स व्यसर्जयदुल्बणः ।।
रुद्रोथ पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ।। ३७ ।।
तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना ।।
उत्सृष्टं देवदेवायतेन तन्नाशितं ततः ।। ३८ ।।
तयोस्तद्युद्धमभवद्घोरं वै तारकामयम् ।।
ततस्त्वकांड ब्रह्मांड भंगाद्भीतोभवद्विधिः ।।३९।।
निवार्य रुद्रं समरात्संवर्तानलवर्चसम् ।।
ददावांगिरसे तारां स्वयमेव पितामहः ।।4.1.15.४०।।
अथांतर्गर्भमालोक्य तारां प्राह बृहस्पतिः ।।
मदीयायां न ते योनौ गर्भो धार्यः कथंचन ।।४१।।
इषीकास्तंबमासाद्य गर्भं सा चोत्ससर्ज ह ।।
जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ।। ४२ ।।
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।।
सत्यं बूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।। ४३ ।।
पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा ।।
तदा सा शप्तुमारब्धा कुमारेणातितेजसा ।। ४४ ।।
तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम्।।
प्रोवाच प्रांजलिः सा तं सोमस्येति पितामहम् ।। ४५ ।।
तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः ।।
बुध इत्यकरोन्नाम तस्य बालस्य धीमतः ।। ४६ ।।
ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः ।।
बुधः सोमं समापृच्छय तपसे कृतनिश्चयः ।।४७।।
जगाम काशीं निर्वाणराशिं विश्वेशपालिताम् ।।
तत्र लिगं प्रतिष्ठाप्य स स्वनाम्ना बुधेश्वरम् ।। ४८ ।।
तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि ।।
वर्षाणामयुतं बालो बालेंदुतिलकं शिवम् ।। ४९ ।।
ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः ।।
बुधेश्वरान्महालिंगादाविरासीन्महोदयः ।। 4.1.15.५० ।।
उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः ।।
वरं ब्रूहि महाबुद्धे बुधान्य विबुधोत्तमः ।। ५१ ।।
तवानेनाति तपसा लिंगसंशीलनेन च ।।
प्रसन्नोस्मि महासौम्य नादेयं त्वयि विद्यते ।। ५२ ।।
इति श्रुत्वा वचः सोथ मेघगंभीर निःस्वनम्।।
अवग्रहपरिम्लान सस्यसंजीवनोपमम्।। ५३ ।।
उन्मील्यलोचने यावत्पुरः पश्यति बालकः ।।
तावल्लिंगे ददर्शाथ त्र्यंबकं शशिशेखरम्।।५४।।
बुध उवाच ।। ।।
नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते ।।
विश्वरूप नमस्तुभ्यं रूपातीताय ते नमः ।।५५ ।।
नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने ।।
सर्वज्ञाय नमस्तुभ्यं सर्वकर्त्रे नमोस्तु ते ।। ५६ ।।
कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः ।।
फलदात्रे च तपसां तपोरूपाय ते नमः ।। ५७ ।।
शंभो शिवशिवाकांत शांतश्री कंठशूलभृत् ।।
शशिशेखरशर्वेश शंकरेश्वर धूर्जटे ।। ५८ ।।
पिनाकपाणे गिरिश शितिकंठ सदाशिव ।।
महादेव नमस्तुभ्यं देवदेव नमोस्तु ते ।। ५९ ।।
स्तुतिकर्तुं न जानामि स्तुतिप्रिय महेश्वर ।।
तव पादांबुजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे ।। 4.1.15.६० ।।
अयमेव वरो नाथ प्रसन्नोसि यदीश्वर ।।
नान्यं वरं वृणे त्वत्तः करुणामृतवारिधे ।। ६१ ।।
ततः प्राह महेशानस्तत्स्तुत्या परितोषितः ।।
रौहिणेय महाभाग सौम्यसौम्यवचोनिधे ।। ६२ ।।
नक्षत्रलोकादुपरि तव लोको भविष्यति ।।
मध्ये सर्वग्रहाणां च सपर्यां लप्स्यसे पराम् ।। ६३ ।।
त्वयेदं स्थापितं लिंगं सर्वेषां बुद्धिदायकम् ।।
दुर्बुद्धिहरणं सौम्य त्वल्लोकवसतिप्रदम् ।। ६४ ।।
इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ।।
बुधः स्वर्लोकमगमद्देवदेवप्रसादतः ।। ६५ ।।
गणावूचतुः ।। ।।
काश्यां बुधेश्वरसमर्चनलब्धबुद्धिः संसारसिंधुमधिगम्य नरो ह्यगाधम् ।।
मज्जेन्न सज्जनविलोचन चंद्रकांतिः कांताननस्त्वधिवसेच्च बुधेऽत्र लोके ।। ६६ ।।
चंद्रेश्वरात्पूर्वभागे दृष्ट्वा लिंगं बुधेश्वरम् ।।
न बुद्ध्या हीयते जंतुरंतकालेपि जातुचित् ।।६७।।
गणौ यावत्कथामित्थं चक्राते बुधलोकगाम् ।।
तावद्विमानं संप्राप्तं शुक्रलोकमनुत्तमम् ।। ६८ ।। ।।
इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे नक्षत्रबुधलोकयोर्वर्णनं नाम पंचदशोध्यायः ।। १५ ।।