ऋग्वेदः सूक्तं ७.८५
← सूक्तं ७.८४ | ऋग्वेदः - मण्डल ७ सूक्तं ७.८५ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.८६ → |
दे. इन्द्रावरुणौ। त्रिष्टुप्। |
पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् ।
घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥१॥
स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति ।
युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥२॥
आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः ।
कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति ॥३॥
स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान् ।
आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥४॥
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘ पुनीषे वाम्' इति पञ्चर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । पुनीषे' इत्यनुक्रान्तम् । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ प्रशास्तुरिदमावापार्थम् । सूत्रितं च --- ‘ युवां नरा पुनीषे वाम्' (आश्व. श्रौ. ७. ९) इति ॥
पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् ।
घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥१
पु॒नी॒षे । वा॒म् । अ॒र॒क्षस॑म् । म॒नी॒षाम् । सोम॑म् । इन्द्रा॑य । वरु॑णाय । जुह्व॑त् ।
घृ॒तऽप्र॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ । याम॑न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके॑ ॥१
पुनीषे । वाम् । अरक्षसम् । मनीषाम् । सोमम् । इन्द्राय । वरुणाय । जुह्वत् ।
घृतऽप्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके ॥१
हे इन्द्रावरुणौ “वां युवाभ्यां युवयोरर्थम् “अरक्षसं रक्षोरहितां राक्षसैरसंस्पृष्टां “मनीषां स्तुतिं “पुनीषे शोधयामि । किं कुर्वन् । “इन्द्राय “वरुणाय च “सोमं “जुह्वत् इन्द्रं वरुणं चोद्दिश्य सोममग्नौ प्रक्षिपन् । कीदृशीं मनीषाम् । “देवीं द्योतमानाम् “उषसं “न उषसमिव “घृतप्रतीकां दीप्तावयवाम् । शिष्टः परोक्षकृतः । “ता ताविन्द्रावरुणौ “अभीके अभिगते युद्धे “यामन् यामनि युद्धार्थं गमने सति “नः अस्मान् “उरुष्यतां रक्षताम् ॥
स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यव॒ः पत॑न्ति ।
यु॒वं ताँ इ॑न्द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑च॒ः शर्वा॒ विषू॑चः ॥२
स्पर्ध॑न्ते । वै । ऊं॒ इति॑ । दे॒व॒ऽहूये॑ । अत्र॑ । येषु॑ । ध्व॒जेषु॑ । दि॒द्यवः॑ । पत॑न्ति ।
यु॒वम् । तान् । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒मित्रा॑न् । ह॒तम् । परा॑चः । शर्वा॑ । विषू॑चः ॥२
स्पर्धन्ते । वै । ऊं इति । देवऽहूये । अत्र । येषु । ध्वजेषु । दिद्यवः । पतन्ति ।
युवम् । तान् । इन्द्रावरुणौ । अमित्रान् । हतम् । पराचः । शर्वा । विषूचः ॥२
"देवहूये । देवा विजिगीषवो योद्धारो हूयन्ते युद्धार्थं परस्परमाहूयन्त इति देवहूयः संग्रामः । “अत्र अस्मिन् देवहूये संग्रामे “स्पर्धन्ते “वै शत्रवोऽस्माभिः स्पर्धन्ते खलु । “उ इति पूरकः । “येषु संग्रामेषु “ध्वजेषु पताकासु “दिद्यवः शत्रुक्षिप्तान्यायुधानि "पतन्ति “तान् तेषु संग्रामेषु विद्यमानान् “अमित्रान् शत्रून् हे “इन्द्रावरुणौ “युवं युवां “शर्वा शरुणा हिंसकेनायुधेन “पराचः पराङ्मुखान् “विषूचः विविधगतींश्च “हतं हिंस्तम् । यथा ते शत्रवः पराङ्मुखा इतस्ततः पलायमानाश्च भवन्ति तथा तान् बाधेथामित्यर्थः ॥
आप॑श्चि॒द्धि स्वय॑शस॒ः सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः ।
कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हन्ति ॥३
आपः॑ । चि॒त् । हि । स्वऽय॑शसः । सदः॑ऽसु । दे॒वीः । इन्द्र॑म् । वरु॑णम् । दे॒वता॑ । धुरिति॒ धुः ।
कृ॒ष्टीः । अ॒न्यः । धा॒रय॑ति । प्रऽवि॑क्ताः । वृ॒त्राणि॑ । अ॒न्यः । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ॥३
आपः । चित् । हि । स्वऽयशसः । सदःऽसु । देवीः । इन्द्रम् । वरुणम् । देवता । धुरिति धुः ।
कृष्टीः । अन्यः । धारयति । प्रऽविक्ताः । वृत्राणि । अन्यः । अप्रतीनि । हन्ति ॥३
“आपश्चित् अब्विकाराः सोमाश्च “स्वयशसः स्वायत्तयशस्काः "देवीः द्योतमानाः सन्तः “सदःसु सदनेषु स्थानेषु "इन्द्रं “वरुणं च “देवता एते द्वे देवते “धुः धारयन्ति अवस्थापयन्ति । सोमेनाप्यायिता हि देवताः स्वे स्वे स्थानेऽवतिष्ठन्ते । यद्वा । वसतीवर्याख्या आप एव सोमाभिषवद्वारा सदनेष्विन्द्रं वरुणं च धारयन्ति । तयोरिन्द्रावरुणयोः “अन्यः एकः “प्रविक्ताः पृथक्कृताः पुण्यापुण्य विवेकेन विचित्रफलभोक्त्रीः “कृष्टीः प्रजा असांकर्येण “धारयति । “अन्यः इन्द्रः “वृत्राणि शत्रुजातानि “अप्रतीनि अन्यैरप्रतिगतानि “हन्ति हिनस्ति ।
स सु॒क्रतु॑रृत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् ।
आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥४
सः । सु॒ऽक्रतुः॑ । ऋ॒त॒ऽचित् । अ॒स्तु॒ । होता॑ । यः । आ॒दि॒त्या॒ । शव॑सा । वा॒म् । नम॑स्वान् ।
आ॒ऽव॒वर्त॑त् । अव॑से । वा॒म् । ह॒विष्मा॑न् । अस॑त् । इत् । सः । सु॒वि॒ताय॑ । प्रय॑स्वान् ॥४
सः । सुऽक्रतुः । ऋतऽचित् । अस्तु । होता । यः । आदित्या । शवसा । वाम् । नमस्वान् ।
आऽववर्तत् । अवसे । वाम् । हविष्मान् । असत् । इत् । सः । सुविताय । प्रयस्वान् ॥४
“सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा “सः “होता स्तोता “ऋतचित् ऋतस्योदकस्य यज्ञस्य वा चेता निचेता “अस्तु भवतु । हे “आदित्या अदितेः पुत्राविन्द्रावरुणौ । छान्दसः सांहितिको ह्रस्वः । “यः “नमस्वान् नमसा नमस्कारेण स्तोत्रेण वा युक्तः सन् "शवसा बलेन युक्तौ “वां युवां परिचरतीति शेषः । स सुक्रतुरित्यन्वयः । अपि च यः "हविष्मान् हविर्भिर्युक्तः सन् “अवसे तर्पणार्थं “वां युवाम् “आववर्तत् आवर्तयेत् “सः यजमानः “प्रयस्वान् अन्नवान् भूत्वा “सुविताय सुष्ठु प्राप्तव्याय फलाय "असदित् भवेदेव ॥
इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।
सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।
सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना ।
सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
व्याख्यातेयम् । मदीया स्तुतिरिन्द्रं वरुणं चाश्नुताम् । मया प्रेर्यमाणा सा पुत्रे पौत्रे च विषयेऽस्मान् प्ररक्षतु । वयं शोभनधनाः सन्त उत्तरोत्तरं यागं प्राप्नुयाम । हे इन्द्रावरुणादयो देवाः अस्मान् सर्वदा कल्याणै रक्षत ॥ ॥ ७ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|