ऋग्वेदः सूक्तं ७.८
← सूक्तं ७.७ | ऋग्वेदः - मण्डल ७ सूक्तं ७.८ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.९ → |
दे. अग्निः। त्रिष्टुप्। |
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥२॥
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥३॥
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥४॥
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥५॥
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥६॥
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥
सायणभाष्यम्
‘इन्धे राजा' इति सप्तर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । इन्धे राजा' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः । आतिथ्यायां प्रप्रायमग्निः' इति स्विष्टकृतो याज्या। सूत्रितं च –‘प्रप्रायमग्निर्भरतस्य शृण्व इति संयाज्ये' (आश्व. श्रौ. ४.५) इति ॥
इं॒धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ ।
नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥१
इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ ।
नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥१
इन्धे । राजा । सम् । अर्यः । नमःऽभिः । यस्य । प्रतीकम् । आऽहुतम् । घृतेन ।
नरः । हव्येभिः । ईळते । सऽबाधः । आ । अग्निः । अग्रे । उषसाम् । अशोचि ॥१
"राजा दीप्तः "अर्यः स्वामी हविषां प्रेरको वाग्निः "नमोभिः स्तुतिभिः सह "सम् “इन्धे समिध्यते । "यस्य अग्नेः "प्रतीकं रूपं “घृतेन "आहुतं भवति । यं च “नरः अस्मदीयाः “सबाधः संश्लिष्टाः संजातबाधा वा “हव्येभिः हव्यैः सार्धम् "ईळते स्तुवन्ति सः "अग्निः “उषसाम् "अग्रे “आ “अशोचि आदीप्यते ॥
अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ मं॒द्रो मनु॑षो य॒ह्वो अ॒ग्निः ।
वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥२
अ॒यम् । ऊं॒ इति॑ । स्यः । सुऽम॑हान् । अ॒वे॒दि॒ । होता॑ । म॒न्द्रः । मनु॑षः । य॒ह्वः । अ॒ग्निः ।
वि । भाः । अ॒क॒रित्य॑कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्णऽप॑विः । ओष॑धीभिः । व॒व॒क्षे॒ ॥२
अयम् । ऊं इति । स्यः । सुऽमहान् । अवेदि । होता । मन्द्रः । मनुषः । यह्वः । अग्निः ।
वि । भाः । अकरित्यकः । ससृजानः । पृथिव्याम् । कृष्णऽपविः । ओषधीभिः । ववक्षे ॥२
“स्यः सः "अयं "होता देवानामाह्वाता "मन्द्रः मदयिता "यह्वः महान् "अग्निः "मनुषः मनुष्यस्य "सुमहान् “अवेदि सुमहत्त्वेन प्रज्ञायते । अपि च सोऽयं "भाः दीप्तीः “वि “अकः विकरोत्यन्तरिक्षे । किंच सोऽयं "कृष्णपविः कृष्णमार्गोऽग्निः "पृथिव्यां "ससृजानः सृज्यमानः सन् “ओषधीभिर्ववक्षे वर्धते ॥
कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः ।
क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो वं॒तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥३
कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊं॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः ।
क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥३
कया । नः । अग्ने । वि । वसः । सुऽवृक्तिम् । काम् । ऊं इति । स्वधाम् । ऋणवः । शस्यमानः ।
कदा । भवेम । पतयः । सुऽदत्र । रायः । वन्तारः । दुस्तरस्य । साधोः ॥३
हे "अग्ने त्वं “कया स्वधया हविषा “नः अस्माकं "सुवृक्तिं स्तुतिं “वि “वसः व्याप्नुषे आच्छादयसि वा । "कामु कां च "स्वधां “शस्यमानः स्तूयमानस्त्वम् "ऋणवः प्राप्नुयाः । हे "सुदत्र शोभनदानाग्ने । तथा च यास्कः-- सुदत्रः कल्याणदानः ' (निरु. ६.१४ ) इति । वयं "कदा “दुष्टरस्य शत्रुभिर्दुर्हिंसकस्य "साधोः समीचीनस्य “रायः धनस्य “पतयः स्वामिनः "भवेम । “वन्तारः संभक्तारश्च कदा भवेम ॥
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥४
प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ।
अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥४
प्रऽप्र । अयम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत् । भाः ।
अभि । यः । पूरुम् । पृतनासु । तस्थौ । द्युतानः । दैव्यः । अतिथिः । शुशोच ॥४
“अयं प्रसिद्धः "अग्निः "भरतस्य यजमानस्य मम “प्रप्र अत्यन्तं "शृण्वे प्रथितो भवति । कदेत्यत्राह । "यत् यदा "सूर्यो "न सूर्य इव “बृहद्भाः बृहद्भासमानो "वि "रोचते प्रकाशते । किंच "यः अग्निः "पृतनासु संग्रामेषु पूरुं पूरुनामकमसुरम् “अभि “तस्थौ अभिबभूव सोऽयं "द्युतानः दीप्यमानः “दैव्यः "अतिथिः देवानामतिथिवत् पूज्यः सन् “शुशोच जज्वाल ॥
अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।
स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥५
अस॑न् । इत् । त्वे इति॑ । आ॒ऽहव॑नानि । भूरि॑ । भुवः॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ।
स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥५
असन् । इत् । त्वे इति । आऽहवनानि । भूरि । भुवः । विश्वेभिः । सुऽमनाः । अनीकैः ।
स्तुतः । चित् । अग्ने । शृण्विषे । गृणानः । स्वयम् । वर्धस्व । तन्वम् । सुऽजात ॥५
हे अग्ने “त्वे त्वयि "आहवनानि हवींष्याहुतयो वा "भूरि बहूनि "असन्नित् भवन्त्येव । त्वं च "विश्वेभिः विश्वैः "अनीकैः तेजोभिस्त्वद्विभूतिभिरग्निभिर्वा सह "सुमना: “भुवः भव । हे “अग्ने “स्तुत: स्तोतुः । स्तौतीति स्तुत् । स्तोत्रं “ऋण्विषे शृणु । हे "सुजात कल्याणप्रादुर्भावाग्ने "गृणानः स्तूयमानस्त्वं "स्वयं स्वयमेव “तन्वं स्वां तनुं मम तनुं वा "वर्धस्व वर्धयस्व ॥
इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥६
इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥६
इदम् । वचः । शतऽसाः । सम्ऽसहस्रम् । उत् । अग्नये । जनिषीष्ट । द्विऽबर्हाः ।
शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । द्युऽमत् । अमीवऽचातनम् । रक्षःऽहा ॥६
“शतसाः गवां शतस्य संभक्ता "संसहस्रं गवां सहस्रेण च संयुतः "द्विबर्हाः द्वाभ्यां विद्याकर्मभ्यां बृहन् वसिष्ठो द्वयोः स्थानयोर्द्युलोकयोर्महान् वा । तथा च यास्कः-’ द्विबर्हा द्वयोः स्थानयोः परिवृढः ' ( निरु. ६. १७ ) इति । "इदं "वचः इदं स्तोत्रम् "अग्नये “उत् “जनिषीष्ट उदजीजनत् । किं तदित्यत आह । "यत् वचः “द्युमत् दीप्तिमत् । यशस्करमित्यर्थः । "अमीवचातनं रोगाणां निवारकं "रक्षोहा रक्षसां हन्तृ च "स्तोतृभ्यः “आपये तद्बन्धवे पुत्रादिकायापि "शं सुखदं "भवाति भवेत् ॥
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।
इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७
नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।
इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७
नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।
इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
इयमृक् प्रागेव व्याख्याता ॥ ॥ ११ ॥
टिप्पणी
७.८.४ प्रप्रायमग्निरिति
यद् अग्नये प्रवते निर्वपति य एवास्माच् छ्रेयान् भ्रातृव्यस् तं तेन प्र णुदते यद् अग्नये विबाधवते य एवैनेन सदृङ् तं तेन वि बाधते यद् अग्नये प्रतीकवते य एवास्मात् पापीयान् तं तेनाप नुदते - तैसं. २.४.१
मण्डल ७ | ||||||
---|---|---|---|---|---|---|