ऋग्वेदः सूक्तं ७.१०२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.१०२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.१०१ ऋग्वेदः - मण्डल ७
सूक्तं ७.१०२
मैत्रावरुणिर्वसिष्ठः(वृष्टिकामः), कुमार आग्नेयो वा।
सूक्तं ७.१०३ →
दे. पर्जन्यः। गायत्री, २ पादनिचृत्


पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे ।
स नो यवसमिच्छतु ॥१॥
यो गर्भमोषधीनां गवां कृणोत्यर्वताम् ।
पर्जन्यः पुरुषीणाम् ॥२॥
तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् ।
इळां नः संयतं करत् ॥३॥


सायणभाष्यम्

‘पर्जन्याय' इति तृचं त्रयोदशं सूक्तं गायत्रम् । पूर्ववदृषिदेवते । तथा चानुक्रान्तं - पर्जन्याय तृचं गायत्रम्' इति । वैश्वानरपार्जन्यायामन्वारम्भणीयायां पार्जन्यस्य चरोः ‘ पर्जन्याय ' इत्यनुवाक्या । सूत्र्यते हि - ‘ पर्जन्याय प्र गायत प्र वाता वान्ति पतयन्ति विद्युतः ' ( आश्व. श्रौ. २. १५) इति ।।


प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ ।

स नो॒ यव॑समिच्छतु ॥१

प॒र्जन्या॑य । प्र । गा॒य॒त॒ । दि॒वः । पु॒त्राय॑ । मी॒ळ्हुषे॑ ।

सः । नः॒ । यव॑सम् । इ॒च्छ॒तु॒ ॥१

पर्जन्याय । प्र । गायत । दिवः । पुत्राय । मीळ्हुषे ।

सः । नः । यवसम् । इच्छतु ॥१

हे स्तोतारः पर्जन्याय देवाय “प्र “गायत प्रकर्षेण स्तोत्रमुच्चारयत । कीदृशाय । “दिवः अन्तरिक्षस्य “पुत्राय । तत्र हि पर्जन्यः प्रादुर्भवति । "मीळ्हुषे सेक्त्रे । “सः तादृशः पर्जन्यः “नः अस्मभ्यं "यवसम् ओषध्यादिलक्षणमन्नं दातुम् “इच्छतु ।।


यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑ताम् ।

प॒र्जन्य॑ः पुरु॒षीणा॑म् ॥२

यः । गर्भ॑म् । ओष॑धीनाम् । गवा॑म् । कृ॒णोति॑ । अर्व॑ताम् ।

प॒र्जन्यः॑ । पु॒रु॒षीणा॑म् ॥२

यः । गर्भम् । ओषधीनाम् । गवाम् । कृणोति । अर्वताम् ।

पर्जन्यः । पुरुषीणाम् ॥२

"यः पर्जन्यः “ओषधीनां व्रीह्यादीनां “गवाम् “अर्वताम् अर्वतीनां वडवानां “पुरुषीणां नारीणां च यः “पर्जन्यः “गर्भं प्रसूतिहेतुं बीजमुदकरूपं “कृणोति करोति तस्मै पर्जन्यायेत्युत्तरत्र संबन्धः ॥


तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् ।

इळां॑ नः सं॒यतं॑ करत् ॥३

तस्मै॑ । इत् । आ॒स्ये॑ । ह॒विः । जु॒होत॑ । मधु॑मत्ऽतमम् ।

इळा॑म् । नः॒ । स॒म्ऽयत॑म् । क॒र॒त् ॥३

तस्मै । इत् । आस्ये । हविः । जुहोत । मधुमत्ऽतमम् ।

इळाम् । नः । सम्ऽयतम् । करत् ॥३

“तस्मा “इत् तस्मा एव पर्जन्याय "आस्ये देवानामास्यभूतेऽग्नौ “मधुमत्तमं रसवत्तमं “हविः “जुहोत जुहुत हे ऋत्विजः । स च पर्जन्यः “नः अस्मभ्यम् "इळाम् अन्नं “संयतं सम्यग्नियतं यथा भवति तथा “करत् करोतु । ददात्विति यावत् ॥ ॥ २ ॥

[सम्पाद्यताम्]

टिप्पणी

मैसं ४.१२.५

काठक सं २०.१५

तै.ब्रा. २.४.५.५

तै.आ. १.२९.१

चातुर्मास्ये पूर्वेद्युर्वैश्वानरपार्जन्यां - आश्व.श्रौ.सू. २.१५

चातुर्मास्य (वैश्वदेव ) - आप.श्रौ.सू. ८.१.४

त्रैधातव्येष्टिः- पार्जन्यं चरुं निर्वपेद्वृष्टिकामः १९ पर्जन्याय प्रगायतेति द्वे हविषः २० - मानव श्रौ.सू. ५.२.५.२०

चातुर्मास्यान्तर्गतवैश्वदेवपर्वप्रकरणम् -- वैश्वानरीयपार्जन्येष्टिः पूर्वस्यां पौर्णमास्याम् ३ पर्जन्याय यस्य व्रते ४ उत्तरस्यां वैश्वदेवम् ५ -शां.श्रौ.सू. ३.१३.४


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१०२&oldid=400500" इत्यस्माद् प्रतिप्राप्तम्