ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ७०

विकिस्रोतः तः
← मध्यभागः, अध्यायः ६९ ब्रह्माण्डपुराणम्
अध्यायः ७०
[[लेखकः :|]]
मध्यभागः, अध्यायः ७१ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

ऋषय ऊचुः ।
किमर्थं तु वनं दग्धमापवस्य महात्मनः ।
कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् १ ।
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् ।
कथं स रक्षिता भूत्वा नाशयेत तपोवनम् २ ।
सूत उवाच।
आदित्यो विप्ररूपेण कार्त्तवीर्यमुपस्थितः।
तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ३।
राजोवाच।
भगवन्केन ते तृप्तिर्भवेद् ब्रूहि दिवाकर।
कीदृशं भोजनं दद्मि श्रुत्वा च विदधाम्यहम् ४।
सूर्य उवाच।
स्थावरं देहि मे सर्वमाहारं ददतां वर।
तेन तृप्तो भवेयं वै न तृप्येऽन्येन पार्थिव ५।
राजोवाच।
न शक्यः स्थावरः सर्वस्तेजसा मानुषेण तु।
निर्दग्धुं तपसां श्रेष्ठ त्वामेव प्रणमाम्यहम् ६।
आदित्य उवाच।
तुष्टस्तेऽहं शरान्दद्मि अक्षयान्सर्वतोमुखान्।
ये क्षिप्ताः प्रज्वलिष्यंति मम तेजःसमन्विताः ७।
आविद्धं तेजसा मेऽद्य स्थावरं शोषमेष्यति।
शुष्कं भस्म करिष्यामि क्षणेनैव नराधिपः ८।
ततः शरानथादित्यस्त्वर्जुनायाददात्प्रभुः।
ततः संप्राप्य स शरान्स्थावरं सर्वमेव हि ९।
आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च।
तपोवनानि रम्याणि वनान्युपवनानि च १०।
तच्चापक्षिप्तबाणौघा अदहन्स्थावरान्नृप।
निर्वृक्षा निस्तृणा भूमिर्दग्धा सौरेण तेजसा ११।
एतस्मिन्नेव काले तु आपवोऽनलमाश्रितः।
दशवर्षसहस्राणि जलवासान्महानृषिः १२।
पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः १३।
क्रोधाच्छशाप राजर्षिं कीर्त्तितं वो यथा मया।
क्रोष्टोः शृणुत राजर्षेर्वंशमुत्तमपूरुषम् १४।
यस्यान्ववाये संभूतो वृष्णिर्वृष्णिकुलोद्वहः।
क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवान्महायशाः १५।
वार्जिनीवतमिच्छंति स्वाहिं स्वाहावतां वरम्।
स्वाहेः पुत्रोऽभवद्रा जा रुशेकुर्ददतां वरः १६।
सुतप्रसूतिमिच्छंस्तु रुशेकुः प्रयतात्मवान्।
महाक्रतुभिरीजे स विविधैराप्तदक्षिणैः १७।
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः।
जज्ञे चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः १८।
शशबिंदुः परं वृत्तं राजर्षीणामनुष्ठितः।
चक्रवर्त्ती महासत्त्वो महावीर्यो बहुप्रजः १९।
तत्रानुवंशश्लोकोऽयं यस्मिन्गीतः पुरातनैः।
शशबिंदोस्तु पुत्राणां शतानामभवच्छतम् २०।
श्रीमतामनुरूपाणां भूरिद्र विणतेजसाम्।
तेषां षट् वै प्रधानास्तु पृथुस्वाहा महाबलाः २१।
पृथुःश्रवाः पृथुयशाः पृथुकर्मा पृथुंजयः ।
पृथुकीर्त्तिः पृथुर्दांतो राजानः शशबिंदवः २२।
शंसंति च पुराणज्ञाः पार्थश्रवसमंतरम्।
अक्षरस्य सुयज्ञस्तु उशनास्तत्सुतोऽभवत् २३।
उशनाः स तु धर्मात्मा अवाप्य पृथिवीमिमाम्।
आजहाराश्वमेधानां शतमुत्तमदक्षिणम् २४।
मरुत्तस्तस्य तनयो राजर्षीणामनुव्रतः।
वीरकंबलबर्हिस्तु मरुत्तत्तनयः स्मृतः २५।
पुत्रस्तु रुक्मकवचो विद्वान्कंबलबर्हिषः।
निहत्य रुक्मकवचः पुरा कवचिनो रणे २६।
धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम्।
ब्राह्मणेभ्यो ददौ वित्तमश्वमेधे महायशाः २७।
राज्ञस्तु रुक्मकवचात्परावित्परवीरहा।
जज्ञिरे पंच पुत्रास्तु महासत्त्वा महाबलाः २८।
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः।
परिघं च हरिं चैव विदेहेऽस्थापयत्पिता २९।
रुक्मेषुरभवद्रा जा पृथुरुक्मस्तदाश्रयः।
तेभ्यः पराजितो राजा ज्यामघोऽवसदाश्रमे ३०।
प्रशांतस्तु वने घोरे ब्राह्मणेन विरोधितः।
जगाम धनुरादाय देशमन्यं रथी ध्वजी ३१।
नर्मदां नृप एकाकीमेकलान्मिरिकावनम्।
ऋक्षवंतं गिरिं गत्वा मुक्तिमंतमथाविशत् ३२।
ज्यामघस्याभवद्भार्या शैब्या बलवती भृशम्।
अपुत्रोऽपि स वै राजा भार्यामन्यां न विंदति ३३।
तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः।
भार्यामुवाच भीतः सन्स्नुषेति तु नरेश्वरः ३४।
एवमुक्ताऽब्रवीदेवं कस्येयं ते स्नुषेति सा।
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ३५।
तस्याः सा तपसोग्रेण शैब्या चैव ह्यसूयत।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ३६।
राजपुत्रस्तु विद्वांसौ स्नुषायां क्रथकैशिकौ।
पुत्त्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ ३७।
लोमपादं तृतीयं तु पश्चाज्जज्ञे सुधार्मिकम्।
लोमपादसुतो बभ्रुराकृतिस्तस्य चात्मजः ३८।
कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः।
क्रथो विदर्भपुत्रस्तु कुंतिस्तस्यात्मजोऽभवत् ३९।
कुंतेर्धृष्टः सुतो जज्ञे रणे धृष्टः प्रतापवान्।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ४०।
तस्य पुत्रो दशार्हस्तु महाबलपराक्रमः।
दशार्हस्य सुतो व्योमस्ततो जीमूत उच्यते ४१।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः।
अथ भीमरथस्यासीत्पुत्रो रथवरः किल ४२।
दानधर्मरतो नित्यं शीलश्रुतपरायणः।
तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः ४३।
तस्य चैकादशरथः शकुनिस्तस्य चात्मजः।
तस्मात्करंभको धन्वी देवरातोऽभवत्ततः ४४।
देवक्षत्रोऽभवद्रा जा दैवरातिर्महायशाः।
देवक्षत्रसुतो जज्ञे देवनः क्षत्रनंदनः ४५।
देवनात्स मधुर्जज्ञे यस्य मेधार्थसंभवः।
नंदनश्च महातेजा मधोः पुरुवसुस्तथा ४६।
आसीत्पुरुवसोः पुत्रः पुरुद्वान्पुरुषोत्तमः।
जज्ञे पुरुद्वतः पुत्रो भद्र वत्यां पुरूद्वहः ४७।
ऐक्ष्वाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत।
तस्मात्सत्त्वगुणोपेतः सात्त्वतः कीर्त्तिवर्द्धनः ४८।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ४९।
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्घातपादे सप्ततितमोऽध्यायः ७०।