ऋग्वेदः सूक्तं ७.८४
← सूक्तं ७.८३ | ऋग्वेदः - मण्डल ७ सूक्तं ७.८४ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.८५ → |
दे. इन्द्रावरुणौ। त्रिष्टुप् । |
आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः ।
प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥१॥
युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।
परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥२॥
कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता ।
उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम् ॥३॥
अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् ।
प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥४॥
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘ आ वाम्' इति पञ्चर्चं चतुर्दशं सूक्तं वासिष्ठं त्रैष्टुभमैन्द्रावरुणम् । अनुक्रान्तं च --- ‘आ वां पञ्च' इति । उक्थ्ये तृतीयसवने मैत्रावरुणशस्त्र इदं सूक्तम् । सूत्रितं च - ‘ आ वां राजानाविन्द्रावरुणा मधुमत्तमस्येति याज्या ' (आश्व. श्रौ. ६. १) इति ॥
आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।
प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥१
आ । वा॒म् । रा॒जा॒नौ॒ । अ॒ध्व॒रे । व॒वृ॒त्या॒म् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
प्र । वा॒म् । घृ॒ताची॑ । बा॒ह्वोः । दधा॑ना । परि॑ । त्मना॑ । विषु॑ऽरूपा । जि॒गा॒ति॒ ॥१
आ । वाम् । राजानौ । अध्वरे । ववृत्याम् । हव्येभिः । इन्द्रावरुणा । नमःऽभिः ।
प्र । वाम् । घृताची । बाह्वोः । दधाना । परि । त्मना । विषुऽरूपा । जिगाति ॥१
हे “राजानौ राजमानावीश्वरौ वेन्द्रावरुणौ अध्वरे हिंसारहितेऽस्मिन् यागे “वां युवां “हव्येभिः हविर्भिः “नमोभिः स्तोत्रैश्च “आ “ववृत्याम् अविर्तयामि । अपि च “बाह्वोः हस्तयोः “दधाना धार्यमाणा "विषुरूपा । रूप्यत इति रूपं हविः । विविधहविर्युक्ता “घृताची घृतमञ्चन्ती जुहूः “त्मना आत्मना स्वयमेव “वां युवां “परि “प्र “जिगाति अभिप्रगच्छति । यद्वा । विषुरूपा नानाविधरूपौ वामिति योज्यम् ॥
यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभि॑ः सिनी॒थः ।
परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्र॑ः कृणवदु लो॒कम् ॥२
यु॒वोः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृऽभिः॑ । अ॒र॒ज्जुऽभिः॑ । सि॒नी॒थः ।
परि॑ । नः॒ । हेळः॑ । वरु॑णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः॑ । कृ॒ण॒व॒त् । ऊं॒ इति॑ । लो॒कम् ॥२
युवोः । राष्ट्रम् । बृहत् । इन्वति । द्यौः । यौ । सेतृऽभिः । अरज्जुऽभिः । सिनीथः ।
परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ऊं इति । लोकम् ॥२
हे इन्द्रावरुणौ “युवोः युवयोः “बृहत् महत् "राष्ट्रं राज्यं “द्यौः द्युलोकरूपम् “इन्वति वृष्ट्या सर्वान् प्रीणयति । "यौ युवां “सेतृभिः बन्धकैः "अरज्जुभिः रज्जुरहितैः रोगादिभिः “सिनीथः पापकृतो बध्नीथः। ‘षिञ् बन्धने' इति धातुः । तयोर्मध्ये “वरुणस्य वारयितुर्देवस्य “हेळः क्रोधः “नः अस्मान् “परि “वृज्याः परिवृणक्तु । परित्यज्यान्यत्र गच्छतु । “इन्द्रः “उ इन्द्रश्च “उरुं विस्तीर्णं “लोकं स्थानं "कृणवत् करोतु ॥
कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता ।
उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र ण॑ः स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥३
कृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे॑षु । चारु॑म् । कृ॒तम् । ब्रह्मा॑णि । सू॒रिषु॑ । प्र॒ऽश॒स्ता ।
उपो॒ इति॑ । र॒यिः । दे॒वऽजू॑तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒म् ॥३
कृतम् । नः । यज्ञम् । विदथेषु । चारुम् । कृतम् । ब्रह्माणि । सूरिषु । प्रऽशस्ता ।
उपो इति । रयिः । देवऽजूतः । नः । एतु । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेतम् ॥३
हे इन्द्रावरुणौ “नः अस्माकं “विदथेषु गृहेषु क्रियमाणं “यज्ञं “चारु शोभनं फलसहितं “कृतं कुरुतम् । तथा “सूरिषु स्तोतृष्वस्मासु विद्यमानानि “ब्रह्माणि परिवृढानि स्तोत्राणि “प्रशस्ता प्रशस्तान्युत्कृष्टानि फलभाञ्जि “कृतं कुरुतम् । अपि च “देवजूतः देवाभ्यां युवाभ्यां प्रेरितः “रयिः धनं “नः अस्मान् “उपैतु प्राप्नोतु । तथा “स्पार्हाभिः स्पृहणीयाभिः “ऊतिभिः रक्षाभिः “नः अस्मान् “प्र “तिरेतं युवां वर्धयेथाम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥
अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् ।
प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥४
अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।
प्र । यः । आ॒दि॒त्यः । अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूरः॑ । द॒य॒ते॒ । वसू॑नि ॥४
अस्मे इति । इन्द्रावरुणा । विश्वऽवारम् । रयिम् । धत्तम् । वसुऽमन्तम् । पुरुऽक्षुम् ।
प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि ॥४
हे इन्द्रावरुणौ “अस्मे अस्मभ्यं “रयिं धनं “धत्तं प्रयच्छतम् । कीदृशम् । “विश्ववारं विश्वैः सर्वैर्वरणीयं संभजनीयं “वसुमन्तं निवासयुक्तं “पुरुक्षुं बह्वन्नं पुरुभिर्बहुभिः प्रशस्यं वा । “आदित्यः अदितेः पुत्रः “यः वरुणः “अनृता अनृतानि सत्यरहितानि भूतानि “प्र “मिनाति प्रहिनस्ति । ‘ मीञ् हिंसायाम्' इति धातुः । “शूरः शौर्यवान् स वरुणः “अमिता अमितान्यपरिमितानि “वसूनि धनानि “दयते स्तोतृभ्यो ददाति ॥
इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।
सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।
सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना ।
सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
“मे मदीया “इयं “गीः स्तुतिः “इन्द्रं “वरुणं च "अष्ट अश्नुतां व्याप्नोतु । तथा “तूतुजाना मया प्रेर्यमाणा सा "तोके पुत्रे “तनये पौत्रे च विषये “प्रावत् प्ररक्षत्वस्मान् । वयं च “सुरत्नासः शोभनधनाः सन्तः “देववीतिं देवैः कामयितव्यं यज्ञं “गमेम प्राप्नुयाम । हे इन्द्रावरुणादयः सर्वे देवाः "यूयं “स्वस्तिभिः कल्याणैः “नः अस्मान् “सदा सर्वदा “पात रक्षत ॥ ॥ ६ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|