ऋग्वेदः सूक्तं ७.१७

विकिस्रोतः तः
← सूक्तं ७.१६ ऋग्वेदः - मण्डल ७
सूक्तं ७.१७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१८ →
दे. अग्निः। द्विपदा त्रिष्टुप्।


अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् ॥१॥
उत द्वार उशतीर्वि श्रयन्तामुत देवाँ उशत आ वहेह ॥२॥
अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः ॥३॥
स्वध्वरा करति जातवेदा यक्षद्देवाँ अमृतान्पिप्रयच्च ॥४॥
वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य ॥५॥
त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥६॥
ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥७॥


सायणभाष्यम्

'अग्ने भव सुषमिधा' इति सप्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षमग्निदेवताकम् । सप्तापि द्विपदास्त्रिष्टुभः । तथैवानुक्रम्यते--'अग्ने भव सप्त द्वैपदं त्रैष्टुभम् ' इति । अतिरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणशस्त्रे 'अग्ने भव' इति तृचोऽनुरूपः । सूत्र्यते हि - 'अग्ने त्वं नोऽअन्तमोऽग्ने भव सुषमिधा समिद्ध इति स्तोत्रियानुरूपौ' (आश्व. श्रौ. ८. २) इति ॥


अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीतां ॥१

अग्ने॑ । भव॑ । सु॒ऽस॒मिधा॑ । सम्ऽइ॑द्धः । उ॒त । ब॒र्हिः । उ॒र्वि॒या । वि । स्तृ॒णी॒ता॒म् ॥१

अग्ने । भव । सुऽसमिधा । सम्ऽइद्धः । उत । बर्हिः । उर्विया । वि । स्तृणीताम् ॥१

हे "अग्ने "सुषमिधा शोभनया समिधा “समिद्धः भव सम्यग्दीप्तो भव। "उत अपि च 'बर्हिः “उर्विया विस्तीर्णम् उपस्तृणीतामध्वर्युः ॥


उ॒त द्वार॑ उश॒तीर्वि श्र॑यंतामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥२

उ॒त । द्वारः॑ । उ॒श॒तीः । वि । श्र॒य॒न्ता॒म् । उ॒त । दे॒वान् । उ॒श॒तः । आ । व॒ह॒ । इ॒ह ॥२

उत । द्वारः । उशतीः । वि । श्रयन्ताम् । उत । देवान् । उशतः । आ । वह । इह ॥२

“उत अपि च “उशतीः देवान् कामयमानाः “द्वारः यज्ञगृहस्य देव्यो वा। तथा च यास्कः -- 'द्वारो जवतेर्वा द्रवतेर्वा वारयतेर्वा' (निरु. ८. ९) इति। “वि “श्रयन्ताम् । “उत अपि च “उशतः यज्ञं कामयमानान् "देवान् "इह यज्ञे “आ “वह ॥


अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥३

अग्ने॑ । वी॒हि । ह॒विषा॑ । यक्षि॑ । दे॒वान् । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ ॥३

अग्ने । वीहि । हविषा । यक्षि । देवान् । सुऽअध्वरा । कृणुहि । जातऽवेदः ॥३

हे जातवेदः जातधन "अग्ने "वीहि देवानभिगच्छ। "हविषा "देवान् "यक्षि यज च। "स्वध्वरा स्वध्वरान् शोभनयज्ञांश्च "कृणुहि कुरु ॥


स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥४

सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ । जा॒तऽवे॑दाः । यक्ष॑त् । दे॒वान् । अ॒मृता॑न् । पि॒प्रय॑त् । च॒ ॥४

सुऽअध्वरा । करति । जातऽवेदाः । यक्षत् । देवान् । अमृतान् । पिप्रयत् । च ॥४

“जातवेदाः जातधनोऽग्निः “अमृतान् मरणरहितान् “देवान् “स्वध्वरा स्वध्वरान् शोभनयज्ञान् “करति करोतु "यक्षत् हविषा यजतु च । “पिप्रयत् स्तोत्रैः प्रीणयतु च ॥


वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वंत्वा॒शिषो॑ नो अ॒द्य ॥५

वंस्व॑ । विश्वा॑ । वार्या॑णि । प्र॒चे॒त॒ इति॑ प्रऽचेतः । स॒त्याः । भ॒व॒न्तु॒ । आ॒ऽशिषः॑ । नः॒ । अ॒द्य ॥५

वंस्व । विश्वा । वार्याणि । प्रचेत इति प्रऽचेतः । सत्याः । भवन्तु । आऽशिषः । नः । अद्य ॥५

हे “प्रचेतः प्रकृष्टमतिमन्नग्ने “विश्वा विश्वानि “वार्याणि वरणीयानि धनानि “वंस्व अस्मभ्यं देहि । “नः अस्माकम् "आशिषः “अद्य “सत्याः यथार्थाः “भवन्तु ॥


त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ दे॒वासो॑ अग्न ऊ॒र्ज आ नपा॑तं ॥६

त्वाम् । ऊं॒ इति॑ । ते । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । दे॒वासः॑ । अ॒ग्ने॒ । ऊ॒र्जः । आ । नपा॑तम् ॥६

त्वाम् । ऊं इति । ते । दधिरे । हव्यऽवाहम् । देवासः । अग्ने । ऊर्जः । आ । नपातम् ॥६

हे “अग्ने “ऊर्जः बलस्य “नपातं पुत्रम् । “सूनुर्नपात्' इत्यपत्यनामसु पाठात् । “त्वामु त्वामैव “ते प्रसिद्धाः "देवासः देवाः “हव्यवाहं हविषो वोढारम् “आ “दधिरे । अकुर्वन्नित्यर्थः ॥


ते ते॑ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ॥७

ते । ते॒ । दे॒वाय॑ । दाश॑तः । स्या॒म॒ । म॒हः । नः॒ । रत्ना॑ । वि । द॒धः॒ । इ॒या॒नः ॥७

ते । ते । देवाय । दाशतः । स्याम । महः । नः । रत्ना । वि । दधः । इयानः ॥७

हे अग्ने “देवाय द्योतमानाय “ते तुभ्यं “ते प्रसिद्धा वसिष्ठा वयं “दाशतः हवींषि ददतः “स्याम भवेम । अतः “महः महांस्त्वम् “इयानः उपगम्यमानो याच्यमानो वा “नः अस्मभ्यं “रत्ना रत्नानि रमणीयानि धनानि “वि “दधः विधत्स्व ॥ ॥ २३ ॥ ॥ १ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१७&oldid=209154" इत्यस्माद् प्रतिप्राप्तम्