सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.८७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.८७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.८६ ऋग्वेदः - मण्डल ७
सूक्तं ७.८७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८८ →
दे. वरुणः। त्रिष्टुप्।


रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् ।
सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः ॥१॥
आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् ।
अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥२॥
परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके ।
ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥३॥
उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।
विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥४॥
तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः ।
गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥५॥
अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् ।
गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥६॥
यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः ।
अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘रदत्पथः' इति सप्तर्चं सप्तदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वारुणम् । अनुक्रान्तं च – रदत्सप्त ' इति । गतो विनियोगः ॥


रद॑त्प॒थो वरु॑ण॒ः सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् ।

सर्गो॒ न सृ॒ष्टो अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥१

रद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् ।

सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥१

रदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् ।

सर्गः । न । सृष्टः । अर्वतीः । ऋतऽयन् । चकार । महीः । अवनीः । अहऽभ्यः ॥१

अयं "वरुणः देवः "सूर्याय सर्वस्य प्रेरकायादित्याय "पथः मार्गानन्तरिक्षप्रदेशान् "प्र “रदत् प्रायच्छत् । "समुद्रिया समुद्र उदधौ भवानि । यद्वा। समुद्भवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तत्र भवानि । "अर्णांसि उदकानि "नदीनां प्रासृजत् । "सर्गो "न । सृज्यते युद्धभूमौ सादिना प्रेर्यत इति सर्गोऽश्वः । स यथा “अर्वतीः वडवाः प्रति शीघ्रं गच्छति तद्वत् “ऋतायन् ऋतं शीघ्रं गमनमात्मन इच्छन् “महीः महतीः “अवनीः रात्रीः "अहभ्यः अहोभ्यः सकाशात् “चकार भेदेन कृतवान् । अस्तं गच्छन् सूर्य एव वरुण इत्युच्यते । स हि स्वगमनेन रात्रीर्जनयति ॥


आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् ।

अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥२

आ॒त्मा । ते॒ । वातः॑ । रजः॑ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः॑ । यव॑से । स॒स॒ऽवान् ।

अ॒न्तः । म॒ही इति॑ । बृ॒ह॒ती इति॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । विश्वा॑ । ते॒ । धाम॑ । व॒रु॒ण॒ । प्रि॒याणि॑ ॥२

आत्मा । ते । वातः । रजः । आ । नवीनोत् । पशुः । न । भूर्णिः । यवसे । ससऽवान् ।

अन्तः । मही इति । बृहती इति । रोदसी इति । इमे इति । विश्वा । ते । धाम । वरुण । प्रियाणि ॥२

हे वरुण "ते त्वदीयस्त्वयान्तरिक्षे प्रेर्यमाणः “वातः वायुः “आत्मा सर्वस्य प्राणिजातस्य प्राणरूपेण धारयिता । स च "रजः उदकम् “आ “नवीनोत् समन्तात् प्रेरयति । वातेन हि वृष्टिर्जायते । “भूर्णिः जगतो भर्ता स वायुः "यवसे घासे प्रक्षिप्ते सति यथा पशुरन्नवान् भवति तद्वत् "ससवान् । 'ससम्' इत्यन्ननाम् । तद्वान् भवति । हविर्लक्षणमन्नमपि तस्मै प्रयच्छन्तीत्यर्थः। यद्वा सनोतेः क्वसौ रूपम् । ततः ससवान् संभक्तवान् वातो घासे सति पशुर्यथा भारवाही भवति तद्वज्जगतो भर्ता । हे "वरुण “मही महत्यौ “बृहती परिवृढे “इमे “रोदसी द्यावापृथिव्यौ “अन्तः मध्ये। द्यावापृथिव्योर्मध्य इत्यर्थः । "ते तव "विश्वा सर्वाणि “धाम धामानि स्थानानि तेजांसि वा "प्रियाणि सर्वेषां प्रीतिकराणि भवन्ति ॥


परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ ।

ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑रा॒ः प्रचे॑तसो॒ य इ॒षय॑न्त॒ मन्म॑ ॥३

परि॑ । स्पशः॑ । वरु॑णस्य । स्मत्ऽइ॑ष्टाः । उ॒भे इति॑ । प॒श्य॒न्ति॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

ऋ॒तऽवा॑नः । क॒वयः॑ । य॒ज्ञऽधी॑राः । प्रऽचे॑तसः । ये । इ॒षय॑न्त । मन्म॑ ॥३

परि । स्पशः । वरुणस्य । स्मत्ऽइष्टाः । उभे इति । पश्यन्ति । रोदसी इति । सुमेके इति सुऽमेके ।

ऋतऽवानः । कवयः । यज्ञऽधीराः । प्रऽचेतसः । ये । इषयन्त । मन्म ॥३

स्पशन्ति स्पृशन्तीति स्पशश्चराः । "वरुणस्य देवस्य “स्पशः चराः "स्मदिष्टाः । स्मदित्येतत् प्रशस्थार्थे सहार्थे च वर्तते । प्रशस्तगतयः । यद्वा । सह प्रेषिताः सन्तः । "सुमेके शोभनमेहने सुरूपे वा “उभे "रोदसी द्यावापृथिव्यौ "परि "पश्यन्ति परित ईक्षन्ते । उभयोर्लोकयोर्वर्तमानान् पुण्यापुण्यकारिणो जनान् पश्यन्तीत्यर्थः । यस्मादेवं तस्मात् तद्भीत्या “ऋतावानः कर्मवन्तः "यज्ञधीराः यज्ञेषु कृतबुद्धयः "प्रचेतसः प्राज्ञाः "कवयः क्रान्तदर्शिनः “ये जनाः “मन्म मन्मानि स्तोत्राणि "इषयन्त गमयन्ति वरुणं प्रापयन्ति । तानपि परिपश्यन्तीत्यर्थः । अतोऽस्मानपि स्तोतॄन् ज्ञात्वा पापात् मुञ्चन्त्वित्यृषिराशास्ते ॥


उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति ।

वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥४

उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ ।

वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥४

उवाच । मे । वरुणः । मेधिराय । त्रिः । सप्त । नाम । अघ्न्या । बिभर्ति ।

विद्वान् । पदस्य । गुह्या । न । वोचत् । युगाय । विप्रः । उपराय । शिक्षन् ॥४

“मेधिराय मेधाविने "मे मह्यं "वरुणः "उवाच उक्तवान् । किमुक्तवान् तदाह । "त्रिः "सप्त एकविंशतिसंख्याकानि नामानि “अघ्न्या गौः “बिभर्ति धारयतीति । वागत्र गौरुच्यते । सा च उरसि कण्ठे शिरसि च बद्धानि गायत्र्यादीनि सप्त छन्दसां नामानि बिभर्ति । यद्वा । वेदात्मिका वागेकविंशतिसंस्थानां यज्ञानां नामानि बिभर्ति धारयति । अपर आह । गौः पृथिवी । तस्याश्च ‘ गौर्ग्मा ज्मा ' इति पठितान्येकविंशतिनामानीति । अपि च "विद्वान् जानन "विप्रः मेधावी स वरुणः "युगाय युक्ताय “उपराय उप समीपे रममाणायान्तेवासिने मह्यं "शिक्षन् उपदिशन् “पदस्य उत्कृष्टस्य स्थानस्य ब्रह्मलोकलक्षणस्य संबन्धीनि “गुह्या गुह्यानि रहस्यान्युपदेशगम्यानि । नशब्दश्चार्थे । इमानि च "वोचत् उक्तवान् । अतोऽहं वरुणस्य शिष्योऽस्मि । तस्मात् स वरुणः अस्मान् पापात् मोचयत्वित्यर्थः ॥


ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑रा॒ः षड्वि॑धानाः ।

गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥५

ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः ।

गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥५

तिस्रः । द्यावः । निऽहिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्ऽविधानाः ।

गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्रऽईङ्खम् । हिरण्ययम् । शुभे । कम् ॥५

“तिस्रः त्रिप्रकारा उत्तममध्यमाधमभावेन त्रिविधाः "द्यावः द्युलोकाः "अस्मिन् वरुणे “अन्तः मध्ये "निहिताः । “तिस्रः पूर्ववत्त्रिविधाः “भूमीः भूम्यश्च “षड्विधानाः। विधानं विधा । वसन्ताद्यृतुभेदेन षड्विधाः प्रकारा यासु तादृश्यः । "उपराः अस्मिन्नेव वरुणे उप्ता अन्तर्भूताः । लोकानां त्रित्वं च ‘त्रयो वा इमे त्रिवृतो लोकाः' (ऐ. ब्रा. २.१७) इत्यादिना ब्राह्मणेनावगम्यते । ‘तिस्रो भूमीर्धारयन्' (ऋ. सं. २.२७,८) इति निगमश्च भवति । इमौ लोकावावृत्य वरुणस्तिष्ठतीत्यर्थः । अपि च "गृत्सः स्तुत्यः "राजा ईश्वरः सः "वरुणः “दिवि अन्तरिक्षे "हिरण्ययं हिरण्मयं सुवर्णमयं हितरमणीयं वा "प्रेङ्खं दोलावद्दिग्द्वयसंस्पर्शिनम् "एतं सूर्यं “शुभे "कं दीप्त्यर्थं "चक्रे कृतवान् । ‘ दिवि सूर्यमदधात्सोममद्रौ' (ऋ. सं. ५. ८५. २ ) इति हि श्रूयते ॥


वारुणे पशौ ' अव सिन्धुम्' इति वपाया अनुवाक्या । सूत्रितं च --- अव सिन्धुं वरुणो द्यौरिव स्थादयं सु तुभ्यं वरुण स्वधावः' (आश्व, श्रौ. ३.७ ) इति ।।

अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् ।

ग॒म्भी॒रशं॑सो॒ रज॑सो वि॒मान॑ः सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥६

अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् ।

ग॒म्भी॒रऽशं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥६

अव । सिन्धुम् । वरुणः । द्यौःऽइव । स्थात् । द्रप्सः । न । श्वेतः । मृगः । तुविष्मान् ।

गम्भीरऽशंसः । रजसः । विऽमानः । सुपारऽक्षत्रः । सतः । अस्य । राजा ॥६

“द्यौरिव सूर्य इव दीप्तः "वरुणः "सिन्धुं समुद्रम् "अव "स्थात् वेलायामवस्थापयति । यथा वेलां नातिक्रामति तथा करोतीत्यर्थः । कीदृशो वरुणः । “द्रप्सो “न द्रवणशील उदबिन्दुरिव “श्वेतः शुभ्रवर्णः “मृगः। लुप्तोपममेतत्। गौरमृग इव "तुविष्मान् बलवान् प्रवृद्धो वा "गम्भीरशंसः । गम्भीरो महान् शंसः स्तोत्रं यस्य स तथोक्तः। "रजसः उदकस्य “विमानः निर्माता सुपारक्षत्रः सुष्ठु दुःखात् पारकं क्षत्रं बलं धनं वा यस्य तादृशो वरुणः "सतः विद्यमानस्य "अस्य जगतः "राजा ईश्वरो भवति ॥


यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः ।

अनु॑ व्र॒तान्यदि॑तेरृ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

यः । मृ॒ळया॑ति । च॒क्रुषे॑ । चि॒त् । आगः॑ । व॒यम् । स्या॒म॒ । वरु॑णे । अना॑गाः ।

अनु॑ । व्र॒तानि॑ । अदि॑तेः । ऋ॒धन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

यः । मृळयाति । चक्रुषे । चित् । आगः । वयम् । स्याम । वरुणे । अनागाः ।

अनु । व्रतानि । अदितेः । ऋधन्तः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“आगः अपराधं "चक्रुषे "चित् कृतवतेऽपि स्तोत्रे "यः वरुणः "मृळयाति उपदयां करोति तस्मिन् “वरुणे “अनागाः अनागसोऽनपराधाः सन्तः "वयं "स्याम वर्तमाना भवेम । किं कुर्वन्तः । "अदितेः अदीनस्य वरुणस्य संबन्धीनि “व्रतानि कर्माणि "अनु आनुपूर्व्येण “ऋधन्तः समर्धयन्तः । हे वरुणादयो देवा यूयमस्मान् सर्वदा कल्याणैः पालयत ॥ ॥ ९ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८७&oldid=201383" इत्यस्माद् प्रतिप्राप्तम्