ऋग्वेदः सूक्तं ७.९८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.९८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.९७ ऋग्वेदः - मण्डल ७
सूक्तं ७.९८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९९ →
दे. इन्द्रः, ७ इन्द्राबृहस्पती। त्रिष्टुप्।


अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।
गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥१॥
यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।
उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥२॥
जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।
एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥
यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान् ।
यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥
प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥
तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।
गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥

सायणभाष्यम्

‘अध्वर्यवः' इति सप्तर्चं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं सप्तम्यैन्द्राबार्हस्पत्या । तथा चानुक्रान्तम्- अध्वर्यवः सप्तोक्तदेवतान्त्या' इति । पूर्वसूक्तेन सहोक्तो विनियोगः ॥


अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् ।

गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥१

अध्व॑र्यवः । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत॑न । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।

गौ॒रात् । वेदी॑यान् । अ॒व॒ऽपान॑म् । इन्द्रः॑ । वि॒श्वाहा॑ । इत् । या॒ति॒ । सु॒तऽसो॑मम् । इ॒च्छन् ॥१

अध्वर्यवः । अरुणम् । दुग्धम् । अंशुम् । जुहोतन । वृषभाय । क्षितीनाम् ।

गौरात् । वेदीयान् । अवऽपानम् । इन्द्रः । विश्वाहा । इत् । याति । सुतऽसोमम् । इच्छन् ॥१

हे "अध्वर्यवः अध्वरस्य नेतार ऋत्विजः "क्षितीनां जनानां मध्ये "वृषभाय श्रेष्ठायेन्द्राय “अरुणम् आरोचमानं “दुग्धम् अभिषुतम् "अंशुं सोमं "जुहोतन जुहुत । "अवपानम् अवक्रम्य स्थितं दूरस्थं पातव्यं सोमं "गौरात् गौरमृगादपि “वेदीयान् अतिशयेन विद्वान् "इन्द्रः “सुतसोमम् अभिषुतसोमं यजमानम् "इच्छन् अन्विच्छन् "विश्वाहा विश्वान्यहानि “इत् एव सर्वदैव “याति गच्छति । अतस्तस्मा इन्द्राय सोमं जुहुतेत्यन्वयः ।।


यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।

उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥२

यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ ।

उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥२

यत् । दधिषे । प्रऽदिवि । चारु । अन्नम् । दिवेऽदिवे । पीतिम् । इत् । अस्य । वक्षि ।

उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्रऽस्थितान् । पाहि । सोमान् ॥२

हे इन्द्र "प्रदिवि प्रगतेषु दिवसेषु पूर्वस्मिन् काले "चारु शोभनं "यत् सोमलक्षणम् "अन्नं “दधिषे पानेनोदरे धारयसि “अस्य सोमस्य “पीतिमित् पानमेव “दिवेदिवे प्रतिदिवसमिदानीमपि “वक्षि कामयसे । ‘वश कान्तौ' इत्यस्य सिपि शपो लुकि षत्वकत्वषत्वेष्वेतद्रूपम् । "उत अपि च हे “इन्द्र "हृदा हृदयेन । उतशब्दश्चार्थे । "मनसा च "जुषाणः सेवमानः "उशन् अस्मान् कामयमानस्त्वं "प्रस्थितान् पुरस्तान्नीतानुत्तरवेदिस्थान् "सोमान् "पाहि पिब ॥


ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।

एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥३

ज॒ज्ञा॒नः । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान॑म् । उ॒वा॒च॒ ।

आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥३

जज्ञानः । सोमम् । सहसे । पपाथ । प्र । ते । माता । महिमानम् । उवाच ।

आ । इन्द्र । पप्राथ । उरु । अन्तरिक्षम् । युधा । देवेभ्यः । वरिवः । चकर्थ ॥३

हे इन्द्र त्वं “जज्ञानः जायमान एव "सहसे बलाय “सोमं “पपाथ पीतवानसि । “ते तव “महिमानं महत्त्वं "माता त्वदीया जनन्यदितिः “प्र “उवाच प्रोक्तवती । संवादसूक्ते ‘अयं पन्था' इत्यादिके ‘नही न्वस्य' (ऋ. सं. ४. १८. ४) इत्यर्धर्चादारभ्य आदित्येन्द्रमहत्त्वस्योक्तत्वात् । अतः कारणात् हे "इन्द्र त्वम् "उरु विस्तीर्णम् "अन्तरिक्षम् “आ “पप्राथ स्वतेजसापूरितवानसि । अपि च "युधा युद्धेन "देवेभ्यः स्तोतृभ्यो देवेभ्य एव वा “वरिवः धनं "चकर्थ कृतवानसि ॥


यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभि॒ः शाश॑दानान् ।

यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥४

यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् ।

यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥४

यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुऽभिः । शाशदानान् ।

यत् । वा । नृऽभिः । वृतः । इन्द्र । अभिऽयुध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥४

हे इन्द्र "महतः प्रभूतान् "मन्यमानान् शत्रून् "यत् यदा योधयाः अस्माभिर्योधयेः । तैः सह योद्धं बलं प्रयच्छेरित्यर्थः । तदानीं "शाशदानान् हिंसतः "तान् शत्रून् "बाहुभिः आयुधनिरपेक्षैर्हस्तैरेव त्वत्प्रसादात् "साक्षाम सहेम अभिभवेम। "यद्वा यदि वा हे "इन्द्र "नृभिः नेतृभिर्मरुद्भिः "वृतः परिवृतस्त्वमेव "अभियुध्याः अस्मदीयाञ्छत्रूनभियुध्येश्च "सौश्रवसम् । श्रवोऽन्नं यशो वा । शोभनस्य श्रवसो हेतुं "तम् "आजिं संग्रामं "त्वया सहायेन वयं "जयेम ॥


प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।

य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑ल॒ः सोमो॑ अस्य ॥५

प्र । इन्द्र॑स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । प्र । नूत॑ना । म॒घऽवा॑ । या । च॒कार॑ ।

य॒दा । इत् । अदे॑वीः । अस॑हिष्ट । मा॒याः । अथ॑ । अ॒भ॒व॒त् । केव॑लः । सोमः॑ । अ॒स्य॒ ॥५

प्र । इन्द्रस्य । वोचम् । प्रथमा । कृतानि । प्र । नूतना । मघऽवा । या । चकार ।

यदा । इत् । अदेवीः । असहिष्ट । मायाः । अथ । अभवत् । केवलः । सोमः । अस्य ॥५

“इन्द्रस्य “कृतानि वीर्यकर्माणि “प्रथमा प्रथमानि पुरातनानि “प्र “वोचं प्रब्रवीमि । "मघवा धनवानिन्द्रः "या यानि “चकार कृतवान् "नूतना नूतनान्यभिनवानि च तानि “प्र वोचम् । "यदेत् यदैव "अदेवीः आसुरीः "मायाः तैः कृतानि “असहिष्ट अभ्यभूत् "अथ अनन्तरमेव "अस्य इन्द्रस्य “सोमः "केवलः असाधारणः "अभवत् । तदाप्रभृत्येव सोमस्येन्द्रस्य चासाधारणः संबन्धो जात इत्यर्थः ॥


तवे॒दं विश्व॑म॒भित॑ः पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।

गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्व॑ः ॥६

तव॑ । इ॒दम् । विश्व॑म् । अ॒भितः॑ । प॒श॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्य॑स्य ।

गवा॑म् । अ॒सि॒ । गोऽप॑तिः । एकः॑ । इ॒न्द्र॒ । भ॒क्षी॒महि॑ । ते॒ । प्रऽय॑तस्य । वस्वः॑ ॥६

तव । इदम् । विश्वम् । अभितः । पशव्यम् । यत् । पश्यसि । चक्षसा । सूर्यस्य ।

गवाम् । असि । गोऽपतिः । एकः । इन्द्र । भक्षीमहि । ते । प्रऽयतस्य । वस्वः ॥६

हे इन्द्र "पशव्यम् । पशवो द्विविधा द्विपादश्चतुष्पादश्च । तेभ्यो हितम् "अभितः सर्वतो विद्यमानम् "इदं "विश्वं सर्वं जगत् “तवेत् तवैव स्वभूतम् । "सूर्यस्य प्रेरकस्यादित्यस्य "चक्षसा तेजसा "यत् विश्वं "पश्यसि त्वं प्रकाशयसि । अपि च हे “इन्द्र "एकः एव त्वं "गोपतिः "असि । न केवलमेकस्या एव गोः पतिः अपि तु सर्वासामित्याह “गवाम् इति । अतः कारणात् "ते त्वया “प्रयतस्य प्रत्तस्य । द्वितीयार्थे षष्ठी । प्रत्तं “वस्वः धनं “भक्षीमहि भजेमहि ॥


बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।

ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ।

धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

व्याख्यातेयम् । अक्षरार्थस्तु । हे "बृहस्पते त्वं च "इन्द्रश्च युवां दिव्यस्य "पार्थिवस्य चोभयविधस्य धनस्येश्वरौ भवथः । तौ युवां "स्तुवते स्तोत्रे धनं दत्तमिति ॥ ॥ २३ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९८&oldid=189877" इत्यस्माद् पुनः प्राप्तिः