ऋग्वेदः सूक्तं ७.८१
← सूक्तं ७.८० | ऋग्वेदः - मण्डल ७ सूक्तं ७.८१ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.८२ → |
दे. इन्द्रावरुणौ। जगती। |
प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः ।
अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥१॥
उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत् ।
तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥२॥
प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।
या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥३॥
उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।
तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥४॥
तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम् ।
यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥५॥
श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।
चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥६॥
सायणभाष्यम्
॥ श्रीगणेशायनमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ षष्ठो व्याख्यायते । सप्तमे मण्डले पञ्चमेऽनुवाके दश सूक्तानि व्याकृतानि। ‘ प्रत्यु अदर्शि' इति षडृचमेकादशं सूक्तं वसिष्ठस्यार्षमुषस्यम् । प्रथमाद्या अयुजो बृहत्यो द्वितीयाद्या युजः सतोबृहत्यः । तथा चानुक्रान्तं---- ‘ प्रत्यु षट् प्रागाथम्' इति । प्रातरनुवाक उषस्ये क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च--- प्रत्यु अदर्शि सह वामेनेति बार्हतम्' (आश्व. श्रौ. ४. १४) इति ॥
प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छन्ती॑ दुहि॒ता दि॒वः ।
अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥१
प्रति॑ । ऊं॒ इति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । उ॒च्छन्ती॑ । दु॒हि॒ता । दि॒वः ।
अपो॒ इति॑ । महि॑ । व्य॒य॒ति॒ । चक्ष॑से । तमः॑ । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ॥१
प्रति । ऊं इति । अदर्शि । आऽयती । उच्छन्ती । दुहिता । दिवः ।
अपो इति । महि । व्ययति । चक्षसे । तमः । ज्योतिः । कृणोति । सूनरी ॥१
“आयती आगच्छन्ती व्युच्छन्ती तमांसि विवासयन्ती वर्जयन्ती “दिवः द्युलोकस्य सूर्यस्य वा “दुहिता पुत्री एवंभूतोषाः “प्रति “अदर्शि सर्वैः प्रतिदृश्यते । “उ इति पूरकः । सैषा “महि महत् “तमः नैशमन्धकारम् । अप उ इति निपातद्वयसमुदायोऽपेत्यस्यार्थे। “अपो “व्ययति अपवृणोति । किमर्थम् । “चक्षसे दर्शनार्थम् । एवं कृत्वा “सूनरी जनानां सुष्ठु नेत्र्युषाः "ज्योतिः प्रकाशं “कृणोति करोति ॥
उदु॒स्रिया॑ः सृजते॒ सूर्य॒ः सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥२
उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् ।
तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥२
उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्ऽयत् । नक्षत्रम् । अर्चिऽवत् ।
तव । इत् । उषः । विऽउषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥२
"सूर्यः सर्वस्य प्रेरक आदित्यः "उस्रियाः रश्मीन् "सचा सह युगपदेव “उत् "सृजते उद्गमयति । तथा “उद्यत् उद्गच्छत् प्रादुर्भवत् "नक्षत्रं नभसि दृश्यमानं ग्रहनक्षत्रादिकम् अर्चिवत् दीप्तिमत् करोति । सौरेण तेजसा हि नक्तं चन्द्रप्रभृतीनि नक्षत्राणि भासन्ते। सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः (वा. सं. १८.४०) इति हि निगमः । एवं च सति हे "उषः उषोदेवते “तव “सूर्यस्य “च “व्युषि विवासने प्रकाशने सति “भक्तेन अन्नेन "सं “गमेमहि वयं संगच्छेमहि । इच्छब्दः पूरकः ॥
प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।
या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मय॑ः ॥३
प्रति॑ । त्वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । उषः॑ । जी॒राः । अ॒भु॒त्स्म॒हि॒ ।
या । वह॑सि । पु॒रु । स्पा॒र्हम् । व॒न॒न्ऽव॒ति॒ । रत्न॑म् । न । दा॒शुषे॑ । मयः॑ ॥३
प्रति । त्वा । दुहितः । दिवः । उषः । जीराः । अभुत्स्महि ।
या । वहसि । पुरु । स्पार्हम् । वनन्ऽवति । रत्नम् । न । दाशुषे । मयः ॥३
हे “दिवः "दुहितः दिवोऽन्तरिक्षाज्जायमाने हे "उषः उषोदेवते “त्वा त्वां "जीराः क्षिप्रकारिणो वयं “प्रति "अभुत्स्महि प्रतिबोद्धारो भवेम । हे "वनन्वति । वननं संभजनं संभक्तव्यं धनं वा । तद्वति “या त्वं “पुरु बहु "स्पार्हं स्पृहणीयं धनं "वहसि प्रापयसि “दाशुषे हवींषि दत्तवते यजमानाय "रत्नं “न रमणीयं धनमिव “मयः सुखं च या त्वं वहसि तां त्वां प्रत्यभुत्स्महीत्यन्वयः ॥
उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।
तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नव॑ः ॥४
उ॒च्छन्ती॑ । या । कृ॒णोषि॑ । मं॒हना॑ । म॒हि॒ । प्र॒ऽख्यै । दे॒वि॒ । स्वः॑ । दृ॒शे ।
तस्याः॑ । ते॒ । र॒त्न॒ऽभाजः॑ । ई॒म॒हे॒ । व॒यम् । स्याम॑ । मा॒तुः । न । सू॒नवः॑ ॥४
उच्छन्ती । या । कृणोषि । मंहना । महि । प्रऽख्यै । देवि । स्वः । दृशे ।
तस्याः । ते । रत्नऽभाजः । ईमहे । वयम् । स्याम । मातुः । न । सूनवः ॥४
हे "महि महति “देवि दानादिगुणयुक्त उषोदेवते व्युच्छन्ती तमांसि वर्जयन्ती “मंहना महिम्ना युक्ता। यद्वा। मंहतिर्दानकर्मा। दानयुक्ता। "या त्वं “स्वः सर्वं जगत् “प्रख्यै प्रबोधनार्थं “दृशे दर्शनार्थं च "कृणोषि करोषि “तस्याः तादृश्याः “रत्नभाजः रत्नानां रमणीयानां धनानां भाजयित्र्याः सेवयित्र्याः “ईमहे याचामहे । किम् । रत्नभाज इति समभिव्याहाराद्रत्नानीति गम्यते । अपि च “वयं तव प्रियतमाः “स्याम भवेम। “मातुर्न “सूनवः । यथा मातुर्जनन्याः सूनवः पुत्राः प्रियतमा भवन्ति तद्वत् ॥
तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मम् ।
यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥५
तत् । चि॒त्रम् । राधः॑ । आ । भ॒र॒ । उषः॑ । यत् । दी॒र्घ॒श्रुत्ऽत॑मम् ।
यत् । ते॒ । दि॒वः॒ । दु॒हि॒तः॒ । म॒र्त॒ऽभोज॑नम् । तत् । रा॒स्व॒ । भु॒नजा॑महै ॥५
तत् । चित्रम् । राधः । आ । भर । उषः । यत् । दीर्घश्रुत्ऽतमम् ।
यत् । ते । दिवः । दुहितः । मर्तऽभोजनम् । तत् । रास्व । भुनजामहै ॥५
हे “उषः “तच्चित्रं चायनीयं “राधः धनम् “आ “भर आहर । अस्मभ्यं प्रयच्छ । “यत् धनं “दीर्घश्रुत्तमं देशकालयोर्विप्रकर्षेऽप्यतिशयेन श्रोतव्यम् । अपि च हे “दिवो “दुहितः “ते तव त्वया देयं “मर्तभोजनं मर्तानां मनुष्याणां भोगयोग्यं “यत् अन्नमस्ति “तत् "रास्व देह्यस्मभ्यम् । वयं च त्वद्दत्तं धनमन्नं च "भुनजामहे अभ्यवहरेम ॥
श्रव॑ः सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।
चो॒द॒यि॒त्री म॒घोन॑ः सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिध॑ः ॥६
श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् । वाजा॑न् । अ॒स्मभ्य॑म् । गोऽम॑तः ।
चो॒द॒यि॒त्री । म॒घोनः॑ । सू॒नृता॑ऽवती । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥६
श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् । वाजान् । अस्मभ्यम् । गोऽमतः ।
चोदयित्री । मघोनः । सूनृताऽवती । उषाः । उच्छत् । अप । स्रिधः ॥६
हे उषः सूरिभ्यः स्तोतृभ्योऽस्मभ्यम् “अमृतं मरणरहितं नित्यं “वसुत्वनं वासकं वसुत्वयुक्तं वा “श्रवः श्रवणीयं यशो रास्वेत्यनुषङ्गः । तथा “गोमतः बहुभिर्गोभिर्युक्तान “वाजान् अन्नानि च “अस्मभ्यं रास्व। शिष्टः परोक्षकृतः । "मघोनः हविष्मतो यजमानस्य “चोदयित्री प्रेरयित्री "सूनृतावती । प्रियसत्यात्मिका वाक्सूनृता । तद्वती “उषाः “स्रिधः शोषकान्छत्रून् "अप “उच्छत् अपगमयतु ॥ ॥१॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|