ऋग्वेदः सूक्तं ७.७८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.७८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.७७ ऋग्वेदः - मण्डल ७
सूक्तं ७.७८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७९ →
दे. उषसः। त्रिष्टुप्।


प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते ।
उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥१॥
प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः ।
उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥२॥
एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः ।
अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥३॥
अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् ।
आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥४॥
प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥


सायणभाष्यम्

प्रति केतवः' इति पञ्चर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् । ‘प्रति पञ्च' इत्यनुक्रमणिका। उक्तो विनियोगः ॥


प्रति॑ के॒तव॑ः प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते ।

उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥१

प्रति॑ । के॒तवः॑ । प्र॒थ॒माः । अ॒दृ॒श्र॒न् । ऊ॒र्ध्वाः । अ॒स्याः॒ । अ॒ञ्जयः॑ । वि । श्र॒य॒न्ते॒ ।

उषः॑ । अ॒र्वाचा॑ । बृ॒ह॒ता । रथे॑न । ज्योति॑ष्मता । वा॒मम् । अ॒स्मभ्य॑म् । व॒क्षि॒ ॥१

प्रति । केतवः । प्रथमाः । अदृश्रन् । ऊर्ध्वाः । अस्याः । अञ्जयः । वि । श्रयन्ते ।

उषः । अर्वाचा । बृहता । रथेन । ज्योतिष्मता । वामम् । अस्मभ्यम् । वक्षि ॥१

“अस्याः “प्रथमाः प्रथमोत्पन्नाः “केतवः प्रज्ञापका रश्मयः “प्रति “अदृश्रन् प्रतिदृश्यन्ते । अस्याः “अञ्जयः व्यञ्जका रश्मयः “ऊर्ध्वाः ऊर्ध्वमुखाः “वि “श्रयन्ते विविधं सर्वत्र श्रयन्ति । हे “उषः देवि “अर्वाचा अस्मदभिमुखेनागच्छता “बृहता महता ज्योतिष्मता तेजोवता “रथेन “अस्मभ्यं “वामं वननीयं धनं “वक्षि वहसि ॥


प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्ध॒ः प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णन्त॑ः ।

उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥२

प्रति॑ । सी॒म् । अ॒ग्निः । ज॒र॒ते॒ । सम्ऽइ॑द्धः । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्तः॑ ।

उ॒षाः । या॒ति॒ । ज्योति॑षा । बाध॑माना । विश्वा॑ । तमां॑सि । दुः॒ऽइ॒ता । अप॑ । दे॒वी ॥२

प्रति । सीम् । अग्निः । जरते । सम्ऽइद्धः । प्रति । विप्रासः । मतिऽभिः । गृणन्तः ।

उषाः । याति । ज्योतिषा । बाधमाना । विश्वा । तमांसि । दुःऽइता । अप । देवी ॥२

“अग्निः “समिद्धः सन् “सीं सर्वतः “प्रति “जरते अभिवर्धते । “विप्रासः विप्रा मेधाविन ऋत्विजश्च “मतिभिः स्तुतिभिरुषसं “गृणन्तः स्तुवन्तो जरन्ते । “उषाः च “देवी “ज्योतिषा “विश्वा सर्वाणि “तमांसि "दुरिता अस्मद्दुरितानि "अप “बाधमाना "याति ऊर्ध्वं गच्छति ॥


ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः ।

अजी॑जन॒न्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥३

ए॒ताः । ऊं॒ इति॑ । त्याः । प्रति॑ । अ॒दृ॒श्र॒न् । पु॒रस्ता॑त् । ज्योतिः॑ । यच्छ॑न्तीः । उ॒षसः॑ । वि॒ऽभा॒तीः ।

अजी॑जनन् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन॑म् । तमः॑ । अ॒गा॒त् । अजु॑ष्टम् ॥३

एताः । ऊं इति । त्याः । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छन्तीः । उषसः । विऽभातीः ।

अजीजनन् । सूर्यम् । यज्ञम् । अग्निम् । अपाचीनम् । तमः । अगात् । अजुष्टम् ॥३

“एता “उ । उ इति पूरणः । “त्याः ताः प्रसिद्धा एताः “विभातीः विभात्यो विभानं कुर्वत्यः “ज्योतिः तेजः “यच्छन्तीः प्रयच्छन्त्यः “उषसः “पुरस्तात् पूर्वस्यां दिशि “प्रत्यदृश्रन् प्रतिदृश्यन्ते । ता उषसः “सूर्यं यज्ञमग्निं च “अजीजनन् प्रादुरकुर्वन् । उषस उदयानन्तरं तेषां संभवात्तज्जनकत्वमुपचर्यते । किंच “अपाचीनं नीचीनम् “अजुष्टम् अप्रियम्। सर्वेषां दृष्टिनिरोधकत्वादप्रियत्वम् । तादृशं “तमः "अगात् अपगतमभूत् ॥


अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यन्त्यु॒षसं॑ विभा॒तीम् ।

आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वह॑न्ति ॥४

अचे॑ति । दि॒वः । दु॒हि॒ता । म॒घोनी॑ । विश्वे॑ । प॒श्य॒न्ति॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् ।

आ । अ॒स्था॒त् । रथ॑म् । स्व॒धया॑ । यु॒ज्यमा॑नम् । आ । यम् । अश्वा॑सः । सु॒ऽयुजः॑ । वह॑न्ति ॥४

अचेति । दिवः । दुहिता । मघोनी । विश्वे । पश्यन्ति । उषसम् । विऽभातीम् ।

आ । अस्थात् । रथम् । स्वधया । युज्यमानम् । आ । यम् । अश्वासः । सुऽयुजः । वहन्ति ॥४

"दिवो “दुहिता “मघोनी धनवत्युषाः "अचेति सर्वैर्ज्ञायते । “विश्वे सर्वेऽपि प्राणिनः “विभातीम् उच्छन्तीम् “उषसं “पश्यन्ति । तादृशी देवी “स्वधया अन्नेन “युज्यमानं “रथम् “आस्थात् आतिष्ठत् आरोहति । "यं रथं “सुयुजः शोभनयोजनाः “अश्वासः अश्वाः “आ “वहन्ति अभिमतदेशं प्रापयन्ति तं रथमास्थादिति ॥


प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ ।

ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५

प्रति॑ । त्वा॒ । अ॒द्य । सु॒ऽमन॑सः । बु॒ध॒न्त॒ । अ॒स्माका॑सः । म॒घऽवा॑नः । व॒यम् । च॒ ।

ति॒ल्वि॒ला॒यध्व॑म् । उ॒ष॒सः॒ । वि॒ऽभा॒तीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

प्रति । त्वा । अद्य । सुऽमनसः । बुधन्त । अस्माकासः । मघऽवानः । वयम् । च ।

तिल्विलायध्वम् । उषसः । विऽभातीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

हे उषः “त्वा त्वाम् “अद्य अस्मिन् काले "सुमनसः शोभनस्तुतिकाः “मघवानः हविर्लक्षणान्नवन्तः “अस्माकासः अस्माका अस्मदीयाः पुरुषा ऋत्विजः। यद्वा । मघवान इत्येतद्वयमित्येतस्य विशेषणम् । हविष्मन्तो वयम् । “प्रति “बुधन्त प्रत्यबोधयन् स्तुतिभिः । हे “उषसः यूयं च “विभातीः व्युच्छन्त्यः सत्यः तिल्विलायध्वं जगत् स्निग्धभूमिकं कुरुत। ‘ तिल स्नेहने' इत्यस्मात्तिलुः । तिलुरिला भूमिर्यस्य तत्तिल्विलम् । तत् कुरुते । शिष्टं स्पष्टम् ॥ ॥ २५ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७८&oldid=201201" इत्यस्माद् प्रतिप्राप्तम्