सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.४१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.४१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.४० ऋग्वेदः - मण्डल ७
सूक्तं ७.४१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४२ →
दे. अग्नीन्द्रमित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्राः, २-६ भगः, ७ उषसः। त्रिष्टुप्, १ जगती।


प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।
भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥५॥
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘ प्रातरग्निम् ' इति सप्तर्चमष्टमं सूक्तम् । अत्रानुक्रमणिका -- प्रातर्भागं जगत्याद्या लिङ्गोक्तदेवतान्त्योषस्या ' इति । वसिष्ठ ऋषिः । आद्या जगती शिष्टास्त्रिष्टुभः। आद्याग्नीन्द्रादिदेवत्या द्वितीयाद्याः पञ्च भगदेवत्याः सप्तम्युषोदेवत्या । अत्र केचिदाहुः ‘निवेष्टुकामो रोगार्तो भगसूक्तं जपेत्सदा । निवेशं विशति क्षिप्रं रोगैश्च परिमुच्यते '( ऋग्वि. २.३०६) इति ।।


प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।

प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥१

प्रा॒तः । अ॒ग्निम् । प्र॒ातः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ ।

प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥१

प्रातः । अग्निम् । प्रातः । इन्द्रम् । हवामहे । प्रतः । मित्रावरुणा । प्रातः । अश्विना ।

प्रतः । भगम् । पूषणम् । ब्रह्मणः । पतिम् । प्रतः । सोमम् । उत । रुद्रम् । हुवेम ॥१

“प्रातः उषःकाले “अग्निं देवं “हवामहे वयं स्तोतार आह्वयामः । तथा प्रातःकाले “इन्द्रं हवामहे। तथा “मित्रावरुणा मित्रावरुणावहोरात्राभिमानिनौ देवौ “प्रातः वयं हवामहे । तथाश्विनौ देवानां भिषजौ “प्रातः वयं हवामहे । तथा “प्रातः “भगं देवं “पूषणं देवं “ब्रह्मणस्पतिं मन्त्राभिमानिनमेतत्संज्ञकं चाह्वयामः। तथा “प्रातः “सोमम् एतत्संज्ञकं देवम् "उत अपि च “रुद्रं देवं च "हुवेम आह्वयामः ॥


प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।

आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥२

प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता ।

आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥२

प्रातःऽजितम् । भगम् । उग्रम् । हुवेम । वयम् । पुत्रम् । अदितेः । यः । विऽधर्ता ।

आध्रः । चित् । यम् । मन्यमानः । तुरः । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥२

“यः भगो देवः “विधर्ता विश्वस्य जगतो धारकः “जितं जयशीलम् “उग्रम् उद्गूर्णम् “अदितेः “पुत्रं “भगं देवं प्रातःकाल एव “वयं “हुवेम आह्वयामः । "आध्रश्चित् दरिद्रोऽपि स्तोता “यं भगं देवं “मन्यमानः स्तुवन् “भगं भजनीयं धनं “भक्षि भज विभज मह्यं देहि इति “आह ब्रवीति । “तुरश्चित् । तुरतिर्गतिकर्मा। प्राप्तधनोऽपि “राजा “चित् समर्थोऽपि जनः “यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह । तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥


भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।

भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑ः स्याम ॥३

भग॑ । प्रने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ ।

भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥३

भग । प्रनेतरिति प्रऽनेतः । भग । सत्यऽराधः । भग । इमाम् । धियम् । उत् । अव । ददत् । नः ।

भग । प्र । नः । जनय । गोभिः । अश्वैः । भग । प्र । नृऽभिः । नृऽवन्तः । स्याम ॥३

हे “भग देव त्वं प्रणेता प्रकर्षेण नेतासि । तादृश “प्रणेतः हे “भग त्वं “सत्यराधः सत्यधनोऽसि । तादृश सत्यराधो हे "भग त्वं “नः अस्मभ्यं “ददत् कामान् प्रयच्छन् "इमाम् अस्मदीयां “धियं स्तुतिम् "उदव उद्रक्ष फलयुक्तां कुरु । हे “भग त्वं “गोभिरश्वैः च “नः अस्मान् “प्र “जनय प्रोद्भूतान् कुरु । हे “भग त्वत्प्रसादाद्वयं “नृभिः नेतृभिः पुत्रादिभिः "नृवन्तः मनुष्यवन्तः “प्र “स्याम प्रभवेम ॥


उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।

उ॒तोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४

उ॒त । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् ।

उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४

उत । इदानीम् । भगऽवन्तः । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् ।

उत । उत्ऽइता । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४

“उत अपि च “इदानीं वयं “भगवन्तः “स्याम । हे भग भगेन त्वया स्वामिना युक्ता भवेम । यद्वा । भगवन्तो धनवन्तः स्याम । “उत अपि च “प्रपित्वे अह्रां प्राप्ते पूर्वाह्ने भगवन्तः स्याम। "उत अपि च "अह्नां दिवसानां "मध्ये मध्याह्ने भगवन्तः स्याम । "उत अपि च हे “मघवन् धनवन् भग देव "सूर्यस्य सर्वस्य प्रेरकस्य देवस्य “उदिता उदितौ उदये सति “वयं त्वदनुग्रहात् "देवानाम् इन्द्रादीनां “सुमतौ अनुग्रहबुद्धौ “स्याम भवेम ॥


भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।

तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥५

भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ ।

तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥५

भगः । एव । भगऽवान् । अस्तु । देवाः । तेन । वयम् । भगऽवन्तः । स्याम ।

तम् । त्वा । भग । सर्वः । इत् । जोहवीति । सः । नः । भग । पुरःऽएता । भव । इह ॥५

हे देवाः "भगः देवः “एव "भगवान् धनवान् “अस्तु । "तेन भगेन देवेन धनेन वा “वयं “भगवन्तः “स्याम धनवन्तो भवेम । हे “भग “तं प्रसिद्धं “त्वा त्वां “सर्व “इत् सर्व एव जनः “जोहवीति भृशं पुनःपुनर्वाह्वयति । हे “भग देव "सः त्वम् “इह अस्मिन् यज्ञे “नः अस्माकं “पुरएता पुरोगन्ता “भव ॥


सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।

अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६

सम् । अ॒ध्व॒राय॑ । उ॒षसः॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ ।

अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ । रथ॑म्ऽइव । अश्वाः॑ । वा॒जिनः॑ । आ । व॒ह॒न्तु॒ ॥६

सम् । अध्वराय । उषसः । नमन्त । दधिक्रावाऽइव । शुचये । पदाय ।

अर्वाचीनम् । वसुऽविदम् । भगम् । नः । रथम्ऽइव । अश्वाः । वाजिनः । आ । वहन्तु ॥६

“शुचये शुद्धाय गमनयोग्याय “पदाय स्थानाय “दधिक्रावेव अश्वो यथा तथा “उषसः उषोदेवताः “अध्वराय अस्मदीयाय यागाय “सं “नमन्त संगच्छन्तु । “वाजिनः वेगवन्तः “अश्वाः “रथमिव रथं यथा तथोषसः “अर्वाचीनम् अस्मदभिमुखं “वसुविदं धनस्य प्रापकं “भगं देवं “नः अस्मान् प्रति “आ “वहन्तु आनयन्तु ॥


अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒ः सद॑मुच्छन्तु भ॒द्राः ।

घृ॒तं दुहा॑ना वि॒श्वत॒ः प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।

घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

अश्वऽवतीः । गोऽमतीः । नः । उषसः । वीरऽवतीः । सदम् । उच्छन्तु । भद्राः ।

घृतम् । दुहानाः । विश्वतः । प्रऽपीताः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“भद्राः भजनीयाः “उषसः उषोदेवताः “अश्वावतीः अश्ववत्योऽश्वसहिताः सत्यः “गोमतीः गोमत्यश्च “वीरवतीः वीरवत्यः पुत्रादिजनोपेताश्च भवन्त्यः “नः अस्मभ्यं “सदं सर्वदा “उच्छन्तु व्युच्छन्तु नैशं तमो विवासयन्तु । कीदृश्यः। “घृतम् उदकं “दुहानाः सिञ्चन्त्यः “विश्वतः सर्वैर्गुणैः “प्रपीताः प्रवृद्धाः । एवंभूता उषसस्तम उच्छन्तु । अस्मिन् सूक्ते प्रतिपादिता हे सर्वे देवाः “यूयं “नः अस्मान् “सदा सर्वदा “स्वस्तिभिः कल्याणैः “पात पालयत ॥ ॥ ८ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४१&oldid=224749" इत्यस्माद् प्रतिप्राप्तम्