ऋग्वेदः सूक्तं ७.३९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.३९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.३८ ऋग्वेदः - मण्डल ७
सूक्तं ७.३९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४० →
दे. विश्वे देवाः। त्रिष्टुप्।


ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति ।
भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति ॥१॥
प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते ।
विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥२॥
ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः ।
अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥३॥
ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः ।
ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरंधिम् ॥४॥
आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम् ।
आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् ॥५॥
ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् ।
धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥६॥
नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

ऊर्ध्वो अग्निः ' इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम् । “ऊर्ध्वः सप्त वैश्वदेवं तु ' इत्यनुक्रमणिका । सूक्तविनियोगो लैङ्गिकः। द्वितीये छन्दोमे प्रउगशस्त्रे उर्ध्वो अग्निः' इति वैश्वदेवस्तृचः । सूत्रितं च - ‘ ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगम्' (आश्व. श्रौ. ८. १०) इति ॥


ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति ।

भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पन्था॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥१

ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽम॒तिम् । वस्वः॑ । अ॒श्रे॒त् । प्र॒ती॒ची । जू॒र्णिः । दे॒वऽता॑तिम् । ए॒ति॒ ।

भे॒जाते॒ इति॑ । अद्री॒ इति॑ । र॒थ्या॑ऽइव । पन्था॑म् । ऋ॒तम् । होता॑ । नः॒ । इ॒षि॒तः । य॒जा॒ति॒ ॥१

ऊर्ध्वः । अग्निः । सुऽमतिम् । वस्वः । अश्रेत् । प्रतीची । जूर्णिः । देवऽतातिम् । एति ।

भेजाते इति । अद्री इति । रथ्याऽइव । पन्थाम् । ऋतम् । होता । नः । इषितः । यजाति ॥१

“अग्निः अञ्जनादिगुणविशिष्टः “ऊर्ध्वः उद्गमनः सन् “वस्वः वासकस्य स्तोतुः “सुमतिम् अस्मदीयां शोभनां स्तुतिम् “अश्रेत् श्रयतु सेवताम् । “प्रतीची अभिमुखी “जूर्णिः सर्वासां प्रजानां जरयित्र्युषोदेवता “देवतातिं यज्ञम् “एति गच्छति । “अद्री आद्रियन्तौ श्रद्धावन्तौ पत्नीयजमानौ “पन्थां पन्थानं यज्ञमार्गं “रथ्येव रथिनाविव “भेजाते सेवेते । तथा “इषितः संप्रेषितः “नः अस्मदीयः "होता “ऋतं यज्ञं “यजाति यजतु । करोत्वित्यर्थः ॥


प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।

वि॒शाम॒क्तोरु॒षस॑ः पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥२

प्र । व॒वृ॒जे॒ । सु॒ऽप्र॒याः । ब॒र्हिः । ए॒षा॒म् । आ । वि॒श्पती॑ इ॒वेति॑ वि॒श्पती॑ऽइव । बीरि॑टे । इ॒या॒ते॒ इति॑ ।

वि॒शाम् । अ॒क्तोः । उ॒षसः॑ । पू॒र्वऽहू॑तौ । वा॒युः । पू॒षा । स्व॒स्तये॑ । नि॒युत्वा॑न् ॥२

प्र । ववृजे । सुऽप्रयाः । बर्हिः । एषाम् । आ । विश्पती इवेति विश्पतीऽइव । बीरिटे । इयाते इति ।

विशाम् । अक्तोः । उषसः । पूर्वऽहूतौ । वायुः । पूषा । स्वस्तये । नियुत्वान् ॥२

“एषां यजमानानां संबन्धि “सुप्रयाः शोभनान्नेन युक्तं “बर्हिः कुशमयं “प्र “ववृजे प्रवृज्यते । आसाद्यत इत्यर्थः । “विश्पतीव । इवेतीदानीमर्थे । इदानीमस्मदीयानां प्रजानां पालकौ “नियुत्वान् । नियुच्छब्देन वडवा उच्यन्ते । तद्वान् "वायुः “पूषा च "विशां प्रजानां “स्वस्तये क्षेमाय “अक्तोः रात्रेः संबन्धिन्याः “उषसः सकाशात् पूर्वहूतौ पूर्वस्मिन्नाह्वाने सति "बीरिटे अन्तरिक्षे “आ “ड्याते आगच्छताम् । यद्वा । विश्पतीवेत्युपमा। विशां मनुष्याणां बीरिटे गणे विश्पतीव राजानौ यथागच्छतां तद्वत् । अस्मिन् पक्षे विशामित्युभयत्र संबध्यते ॥


ज्म॒या अत्र॒ वस॑वो रन्त दे॒वा उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः ।

अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता॑ दू॒तस्य॑ ज॒ग्मुषो॑ नो अ॒स्य ॥३

ज्म॒याः । अत्र॑ । वस॑वः । र॒न्त॒ । दे॒वाः । उ॒रौ । अ॒न्तरि॑क्षे । म॒र्ज॒य॒न्त॒ । शु॒भ्राः ।

अ॒र्वाक् । प॒थः । उ॒रु॒ऽज्र॒यः॒ । कृ॒णु॒ध्व॒म् । श्रोता॑ । दू॒तस्य॑ । ज॒ग्मुषः॑ । नः॒ । अ॒स्य ॥३

ज्मयाः । अत्र । वसवः । रन्त । देवाः । उरौ । अन्तरिक्षे । मर्जयन्त । शुभ्राः ।

अर्वाक् । पथः । उरुऽज्रयः । कृणुध्वम् । श्रोता । दूतस्य । जग्मुषः । नः । अस्य ॥३

“वसवः वसुसंज्ञकाः “देवाः “अत्र अस्मिन् यज्ञे “ज्मयाः पृथिव्यां भवाः “रन्त रमयन्ताम् । “उरौ विस्तीर्णे “अन्तरिक्षे स्थिताः “शुभ्राः दीप्यमाना मरुतश्च “मर्जयन्त परिचर्यन्ते । हे "उरुज्रयः प्रभूतगमना वसवो मस्तश्च यूयं “पथः युष्मदीयान् मार्गान् “अर्वाक् अस्मदभिमुखं यथा भवति तथा “कृणुध्वं कुरुत । अपि च यूयं “जग्मुषः युष्मान् प्रति गतवतः “नः अस्मदीयस्य “अस्य "दूतस्य अग्नेराह्वानं “श्रोत शृणुत। अग्निर्हि यजमानानां दूतः सन् देवानाह्वयतीत्यर्थः ॥


ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ः स॒धस्थं॒ विश्वे॑ अ॒भि सन्ति॑ दे॒वाः ।

ताँ अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं॑धिम् ॥४

ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । स॒धऽस्थ॑म् । विश्वे॑ । अ॒भि । सन्ति॑ । दे॒वाः ।

तान् । अ॒ध्व॒रे । उ॒श॒तः । य॒क्षि॒ । अ॒ग्ने॒ । श्रु॒ष्टी । भग॑म् । नास॑त्या । पुर॑म्ऽधिम् ॥४

ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । सधऽस्थम् । विश्वे । अभि । सन्ति । देवाः ।

तान् । अध्वरे । उशतः । यक्षि । अग्ने । श्रुष्टी । भगम् । नासत्या । पुरम्ऽधिम् ॥४

“यज्ञेषु यागेषु “ते “हि ते खलु प्रसिद्धाः “यज्ञियासः यज्ञार्हाः “ऊमाः रक्षकाः “विश्वे सर्वे “देवाः “सधस्थं सहस्थानम् “अभि “सन्ति अभिभवन्ति आक्रामन्ति । हे “अग्ने “अध्वरे अस्मदीये यज्ञे “उशतः कामयमानान् “तान् देवान् “यक्षि यज। तथा “श्रुष्टी । क्षिप्रनामैतत् । क्षिप्रं “भगम् एतत्संज्ञकं देवं “नासत्या नासत्यावश्विनौ च “पुरंधिं पुरूणां ध्यातारमिन्द्रं च यज ॥


आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् ।

आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो॑ मादयन्ताम् ॥५

आ । अ॒ग्ने॒ । गिरः॑ । दि॒वः । आ । पृ॒थि॒व्याः । मि॒त्रम् । व॒ह॒ । वरु॑णम् । इन्द्र॑म् । अ॒ग्निम् ।

आ । अ॒र्य॒मण॑म् । अदि॑तिम् । विष्णु॑म् । ए॒षा॒म् । सर॑स्वती । म॒रुतः॑ । मा॒द॒य॒न्ता॒म् ॥५

आ । अग्ने । गिरः । दिवः । आ । पृथिव्याः । मित्रम् । वह । वरुणम् । इन्द्रम् । अग्निम् ।

आ । अर्यमणम् । अदितिम् । विष्णुम् । एषाम् । सरस्वती । मरुतः । मादयन्ताम् ॥५

हे “अग्ने त्वं "दिवः द्युलोकात् सकाशात् "गिरः गरणीयान् स्तुत्यान् देवानस्मदीयं यज्ञं प्रति “आ “वह आह्वानं कुरु । “पृथिव्याः अन्तरिक्षाच्च “आ वह । कान् देवानिति तदुच्यते । “मित्रम् एतत्संज्ञकं “वरुणं च “इन्द्रं च देवेषु देवतास्वरूपेणावस्थितं च "अग्निम् “अर्यमणम् एतत्संज्ञकम् “अदितिम् अदीनां पृथिवीं च विष्णुं च । एवंभूतान् देवान् “एषाम् अस्माकं यजमानानामर्थाय “आ वह । “सरस्वती वाग्देवता च "मरुतः च "मादयन्ताम् । अस्मदीयैः स्तोत्रैर्हविर्भिश्च माद्यन्तु ॥


र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् ।

धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥६

र॒रे । ह॒व्यम् । म॒तिऽभिः॑ । य॒ज्ञिया॑नाम् । नक्ष॑त् । काम॑म् । मर्त्या॑नाम् । असि॑न्वन् ।

धात॑ । र॒यिम् । अ॒वि॒ऽद॒स्यम् । स॒दा॒ऽसाम् । स॒क्षी॒महि॑ । युज्ये॑भिः । नु । दे॒वैः ॥६

ररे । हव्यम् । मतिऽभिः । यज्ञियानाम् । नक्षत् । कामम् । मर्त्यानाम् । असिन्वन् ।

धात । रयिम् । अविऽदस्यम् । सदाऽसाम् । सक्षीमहि । युज्येभिः । नु । देवैः ॥६

"यज्ञियानाम् । चतुर्थ्यर्थे षष्ठी । यज्ञार्हेभ्यो देवेभ्यः "मतिभिः अस्मदीयाभिः स्तुतिभिः सह “हव्यं हविः “ररे अस्माभिर्दीयते । “मर्त्यानां मनुष्याणामस्माकं “कामम् अभिलाषम् “असिन्वन् अप्रतिबध्नवन्नग्निः “नक्षत् अस्मदीयं यज्ञं व्याप्नोतु । हे देवा यूयम् “अविदस्थम् अनुपक्षपणीयं “सदासां सर्वदा संभजनीयं “रयिं धनं “धात अस्मभ्यं दत्त । “नु अद्य वयं “युज्येभिः सहायभूतैरिह यज्ञे समागतैः "देवैः "सक्षीमहि । यद्वा । न्वित्युपमार्थे । युज्येभिर्नु बन्धुभिरिव देवैः सक्षीमहि ।।


नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

नु । रोदसी इति । अभिस्तुते इत्यभिऽस्तुते । वसिष्ठैः । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।

यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“नु अद्य “रोदसी द्यावापृथिव्यौ “वसिष्ठैः अस्माभिः । पूजार्थं बहुवचनम्। “अभिष्टुते अभितः सर्वतः स्तुते अभूताम्। तथा “ऋतावानः अस्माभिः क्रियमाणैर्यज्ञैरुपेताः “वरुणः “मित्रः “अग्निः स एवंभूता देवा अस्माभिरभिष्टुता आसन् । “चन्द्राः आह्लादकाः सर्वे देवाः “नः अस्मभ्यम् “उपमम् उपमानभूतमुत्कृष्टम् “अर्कम् अन्नं “यच्छन्तु ददतु । अस्मिन् सूक्ते प्रतिपादिता ये देवास्ते सर्वे “यूयं “नः अस्मान् “स्वस्तिभिः अविनाशैः “सदा सर्वदा “पात पालयत ॥ ॥ ६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३९&oldid=200864" इत्यस्माद् पुनः प्राप्तिः