रामायणम्/बालकाण्डम्/सम्पूर्णम्
रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
अयोध्याकाण्डम् → |
रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥
यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥
जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥
निजघान रणे रामस्तेषां चैव पदानुगान् ।
वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥
जगाम सहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥
तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥
श्रमणां धर्मनिपुणामभिगच्छेति राघव ।
सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥
शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥
रामायावेदितं सर्वं प्रणयात् दुःखितेन च ।
प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥
वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥
ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥
अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥
न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।
असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥
राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥
एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
पठन् द्विजो वागृषभत्वमीयात् ।
स्यात् क्षत्रियो भूमिपतित्वमीयात् ॥
वणिक् जनः पण्यफलत्वमीयात् ।
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ३ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥१-२-१॥
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।
आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥१-२-३॥
स तु तीरं समासाद्य तमसाया मुनिस्तदा ।
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥१-२-४॥
अकर्दममिदं तीर्थं भरद्वाज निशामय ।
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥१-२-५॥
न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥१-२-६॥
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥१-२-७॥
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।
विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥१-२-८॥
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥१-२-९॥
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः ।
जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१-२-१०॥
तं शोणितपरीताङ्गं चेष्टमानं महीतले ।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥१-२-११॥
वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१-२-१२॥
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१-२-१३॥
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१-२-१४॥
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१-२-१५॥
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१-२-१६॥
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् ।
शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥१-२-१७॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१-२-१८॥
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥१-२-१९॥
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥१-२-२०॥
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥१-२-२१॥
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥१-२-२२॥
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः ।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥१-२-२३॥
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥१-२-२५॥
अथोपविश्य भगवानासने परमार्चिते ।
वाल्मीकये च ऋषये संदिदेशासनं ततः ॥१-२-२६॥
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।॥१-२-२७॥
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।॥१-२-२८॥
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।
शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥१-२-२९॥
पुनरन्तर्गतमना भूत्वा शोकपरायणः ।
तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥१-२-३०॥
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा ।
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥१-२-३१॥
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।
धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥१-२-३३॥
रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।
वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥१-२-३४॥
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।
न ते वागनृता काव्ये काचिदत्र भविष्यति ॥१-२-३५॥
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥१-२-३६॥
तावद् रामायणकथा लोकेषु प्रचरिष्यति ।
यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥१-२-३७॥
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।
ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥१-२-३९॥
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।
सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥१-२-४०॥
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥१-२-४१॥
उदारवृत्तार्थपदैर्मनोरमै-
स्तदास्य रामस्य चकार कीर्तिमान् ।
समाक्षरैः श्लोकशतैर्यशस्विनो
यशस्करं काव्यमुदारदर्शनः ॥१-२-४२॥
तदुपगतसमाससंधियोगं
सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरकरितं मुनिप्रणीतं
दशशिरसश्क वधं निशामयध्वम् ॥१-२-४३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः २ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ४ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् ।
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥
रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥
हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।
तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥
स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥
ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः ।
पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।
अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥
स यथा कथितं पूर्वं नारदेन महात्मना ।
रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥
रामरामविवादं च गुणान् दाशरथेस्तथा ।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥
विघातं चाभिषेकस्य रामस्य च विवासनम् ।
राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥
वास्तुकर्म निवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्
अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥
राघवस्य विलापं च गृध्रराजनिबर्हणम् ।
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥
शबरीदर्शनं चैव फलमूलाशनं तथा ।
प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्
ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥
कोपं राघवसिंहस्य बलानामुपसंग्रहम्
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्
प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥
पर्वतारोहणं चैव सागरस्यापि लङ्घनम्
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥
राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्
आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्
अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्
प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥
राघवाश्वासनं चैव मणिनिर्यातनं तथा
संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्
विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्
अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥
प्रेषणं वायुपुत्रस्य भरतेन समागमम्
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥
अनागतं च यत् किंचिद् रामस्य वसुधातले
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ३ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ५ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१-४-१॥
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥१-४-२॥
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥१-४-३॥
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥१-४-४॥
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥१-४-५॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥१-४-६॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥१-४-७॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥१-४-८॥
रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः ।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥१-४-९॥
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥१-४-१०॥
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥१-४-११॥
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१-४-१२॥
ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१-४-१३॥
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।
तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥१-४-१४॥
मध्ये सभं समीपस्थाविदं काव्यमगायताम् ।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥१-४-१५॥
साधु साध्विति तावूचुः परं विस्मयमागताः ।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥१-४-१६॥
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥१-४-१७॥
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।
प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥१-४-१८॥
सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा ।
एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥१-४-१९॥
संरक्ततरमत्यर्थं मधुरं तावगायताम् ।
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥१-४-२०॥
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः ।
अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥१-४-२१॥
कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ।
बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥१-४-२२॥
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥१-४-२३॥
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥१-४-२४॥
औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् ।
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥१-४-२५॥
ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः ।
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥१-४-२६॥
परं कवीनामाधारं समाप्तं च यथाक्रमम् ।
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥१-४-२७॥
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥१-४-२९॥
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ।
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥१-४-३१॥
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥१-४-३२॥
विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ।
तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥१-४-३३॥
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।
ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥१-४-३४॥
इमौ मुनी पार्थिवलक्षणान्वितौ ।
कुशीलवौ चैव महातपस्विनौ ।
ममापि तद् भूतिकरं प्रचक्षते ।
महानुभावं चरितं निबोधत ॥१-४-३५॥
ततस्तु तौ रामवचः प्रचोदिता-
वगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनै-
र्बुभूषयासक्तमना बभूव ह ॥१-४-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ४ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ६ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥
सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा ।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥१-५-१॥
येषां स सगरो नाम सागरो येन खानितः ।
षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥१-५-२॥
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥१-५-३॥
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः ।
धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥१-५-४॥
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥१-५-५॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥१-५-७॥
राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥१-५-८॥
तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।
पुरीमावासयामास दिवि देवपतिर्यथा ॥१-५-९॥
कपाटतोरणवतीं सुविभक्तान्तरापणाम् ।
सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥१-५-१०॥
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥१-५-११॥
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥१-५-१२॥
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥१-५-१३॥
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥१-५-१४॥
प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् ।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥१-५-१५॥
चित्रामष्टापदाकारां वरनारीगणायुताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥१-५-१६॥
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥१-५-१७॥
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥१-५-१८॥
विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥१-५-१९॥
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥१-५-२०॥
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥१-५-२१॥
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ॥१-५-२२॥
तामग्निमद्भिर्गुणवद्भिरावृतां
द्विजोत्तमैर्वेदषडङ्गपारगैः ।
सहस्रदैः सत्यरतैर्महात्मभि-
र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥१-५-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ५ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ७ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥
तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥१-६-१॥
इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥१-६-३॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥१-६-५॥
तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥१-६-६॥
नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥१-६-७॥
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥१-६-८॥
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥१-६-९॥
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥१-६-१०॥
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥१-६-११॥
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥१-६-१२॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥१-६-१३॥
नास्तिको नानृती वापि न कश्चिदबहुश्रुतः ।
नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥१-६-१४॥
नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥१-६-१५॥
कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥१-६-१६॥
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥१-६-१७॥
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः ।
शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥१-६-१९॥
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥१-६-२१॥
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥१-६-२२॥
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥१-६-२३॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥१-६-२४॥
भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥१-६-२५॥
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।
सा योजने द्वे च भूयः सत्यनामा प्रकाशते ।
यस्यां दशरथो राजा वसञ्जगदपालयत् ॥१-६-२६॥
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
तां सत्यनामां दृढतोरणार्गलाम्
गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसंकुलां
शशास वै शक्रसमो महीपतिः ॥१-६-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-५॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ६ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ८ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥
तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥१-७-१॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥१-७-२॥
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥१-७-३॥
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥१-७-४॥
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥१-७-५॥
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥१-७-६॥
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥१-७-७॥
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥१-७-८॥
तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥१-७-९॥
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥१-७-१०॥
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥१-७-११॥
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥१-७-१२॥
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥१-७-१४॥
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥१-७-१५॥
सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः ।
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥१-७-१६॥
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥१-७-१७॥
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।
सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः ॥१-७-१८॥
मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥१-७-१९॥
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥१-७-२०॥
अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥१-७-२१॥
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥१-७-२२॥
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद् राजा दिवि देवपतिर्यथा ॥१-७-२३॥
तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै-
र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त-
स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥१-७-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ७ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ९ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥
तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।
च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
तथा विधानं क्रियतां समर्थाः साधनेष्विति ।
तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।
तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ८ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १० → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।
श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ।
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ।
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।
तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ।
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥
अनावृष्टिः सुघोरा वै सर्वलोकभयावहा ।
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व ।
भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥
आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् ।
विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।
आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत।
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ९ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः ११ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः
तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-१॥
रोमपादमुवाचेदं सहामात्यः पुरोहितः
उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-२॥
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः
अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-३॥
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-४॥
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः
प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-५॥
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्
पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-६॥
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-७॥
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः
पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-८॥
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-९॥
ततः कदाचित् तं देशमाजगाम यदृच्छया
विभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥१-१०-१०॥
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-११॥
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-१२॥
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः
हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-१३॥
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः
ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-१४॥
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-१५॥
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै
तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-१६॥
गतानां तु ततः पूजामृषिपुत्रश्चकार ह
इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-१७॥
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-१८॥
अस्माकमपि मुख्यानि फलानीमानि हे द्विज
गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-१९॥
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः
मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-२०॥
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-२१॥
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च
गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-२२॥
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः
अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-२३॥
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्
विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-२४॥
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-२५॥
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः
एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-२६॥
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च
तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-२७॥
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-२८॥
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि
ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-२९॥
वर्षेणैवागतं विप्रं तापसं स नराधिपः
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-३०॥
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-३१॥
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि
शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-३२॥
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः
ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥१-१०-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १० | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १२ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥१-११-२॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥१-११-३॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥१-११-५॥
श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥१-११-६॥
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥१-११-७॥
तं च राजा दशरथो यशस्कामः कृताञ्जलिः ।
ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥१-११-८॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥१-११-९॥
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१-११-१०॥
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥१-११-१२॥
सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥१-११-१३॥
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ।
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१-११-१५॥
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् ।
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१-११-१६॥
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।
रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१-११-१७॥
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥१-११-१९॥
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥१-११-२०॥
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥१-११-२१॥
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥१-११-२२॥
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः ।
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥१-११-२४॥
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् ।
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥१-११-२५॥
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा ।
ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥१-११-२६॥
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् ।
ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥१-११-२७॥
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥१-११-२९॥
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥१-११-३०॥
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥१-११-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः ११ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १३ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥
ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥
ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥
तथेति च स राजानमुवाच वसुधाधिपम् ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।
मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥
पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।
तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥
ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥
सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥
ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥
गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥
छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥
तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥
ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥
गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १२ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १४ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥
यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥
तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥
ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥
कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि ।
गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥
तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥
इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥
तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः ।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥
वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥
यथा सर्वं सुविहितं न किंचित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।
यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥
यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते ।
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥१-१३-२०॥
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥
तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥
तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥
तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥
अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥
तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥
प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।
राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥
दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् ।
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ।
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥
उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥
यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥
सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥
तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः ।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १३ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १५ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-१॥
ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः ।
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।
चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-४॥
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।
प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-५॥
ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः ।
मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-६॥
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।
चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-७॥
आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।
ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-८॥
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः ।
होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥
न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन ।
दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-१०॥
न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते ।
नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-११॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।
तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-१२॥
वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च ।
अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-१३॥
दीयतां दीयतामन्नं वासांसि विविधानि च ।
इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१-१४-१४॥
अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः ।
दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।
अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥१-१४-१७॥
स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१-१४-१८॥
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥१-१४-१९॥
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥१-१४-२०॥
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।
सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥१-१४-२१॥
प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।
तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥१-१४-२२॥
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥१-१४-२३॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥१-१४-२४॥
एकविंशतियूपास्ते एकविंशत्यरत्नयः ।
वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥१-१४-२५॥
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥१-१४-२६॥
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥१-१४-२८॥
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥१-१४-२९॥
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-३०॥
शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।
ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-३१॥
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।
अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-३२॥
कौसल्या तं हयं तत्र परिचर्य समन्ततः ।
कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-३३॥
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।
अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-३४॥
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।
महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-३५॥
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।
ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।
यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-३७॥
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-३८॥
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।
अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-३९॥
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-४०॥
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-४१॥
ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ ।
अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-४२॥
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-४३॥
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।
अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-४४॥
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-४५॥
एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः ।
ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-४६॥
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।
न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-४७॥
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।
निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-४८॥
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।
तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-४९॥
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ।
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-५२॥
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ।
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-५३॥
जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा ।
दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-५४॥
कस्मैचित् याचमानाय ददौ राघवनन्दनः ।
ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-५५॥
प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः ।
तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥
उदारस्य नृवीरस्य धरण्यां पतितस्य च ।
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-५७॥
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।
ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-५८॥
कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत
तथेति च स राजानमुवाच द्विजसत्तमः
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-५९॥
स तस्य वाक्यं मधुरं निशम्य
प्रणम्य तस्मै प्रयतो नृपेन्द्रः ।
जगाम हर्षं परमं महात्मा
तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-६०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १४ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १६ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।
लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-१॥
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-२॥
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् ।
जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-३॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-४॥
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-५॥
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-६॥
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा ।
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-७॥
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-८॥
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा ।
अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-९॥
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् ।
वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-११॥
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् ।
हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।
अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-१३॥
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा ।
तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-१४॥
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१-१५-१५॥
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-१६॥
वैनतेयं समारुह्य भास्करस्तोयदम् यथा ।
तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः ।
तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-१९॥
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-२०॥
विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ।
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-२१॥
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ।
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-२२॥
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते ।
ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-२३॥
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः ।
वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-२४॥
सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः ।
त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥
वधाय देवशतॄणां नृणां लोके मनः कुरु ।
एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-२६॥
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-२७॥
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।
सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-२८॥
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-२९॥
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ।
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-३०॥
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः ।
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-३१॥
पितरं रोचयामास तदा दशरथं नृपम् ।
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-३२॥
तमुद्धतं रावणमुग्रतेजसं
प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।
विरावणं साधु तपस्विकण्टकं
तपस्विनामुद्धर तं भयावहम् ॥१-१५-३३॥
तमेव हत्वा सबलं सबान्धवम्
विरावणं रावणमुग्रपौरुषम् ।
स्वर्लोकमागच्छ गतज्वरश्चिरं
सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १५ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १७ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।
जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥
उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।
यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।
मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः ।
येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति ।
तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥
इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।
अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् ।
अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥
ततो वै यजमानस्य पावकादतुलप्रभम् ।
प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥
दिवाकरसमाकारं दीप्तानलशिखोपमम् ।
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥
समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् ।
प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।
भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।
राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥
इदं तु नरशार्दूल पायसं देवनिर्मितम् ।
प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।
तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥
ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥
हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ ।
शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।
सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥
ततस्तु ताः प्राश्य तमुत्तमस्त्रियो
महीपतेरुत्तमपायसं पृथक् ।
हुताशनादित्यसमानतेजसो-
ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः
प्ररूढगर्भाः प्रतिलब्धमानसः ।
बभूव हृष्टस्त्रिदिवे यथा हरिः
सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १६ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १८ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥१-१७-१॥
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥१-१७-२॥
मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥१-१७-३॥
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥१-१७-४॥
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥१-१७-५॥
किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥१-१७-६॥
पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥१-१७-८॥
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-९॥
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-१०॥
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् ।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-११॥
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-१२॥
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-१३॥
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-१४॥
वरुणो जनयामास सुषेणं नाम वानरम् ।
शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-१५॥
मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-१६॥
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१-१७-१७॥
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-१८॥
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-१९॥
अजायत समं तेन तस्य तस्य पृथक् पृथक् ।
गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-२०॥
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।
देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-२१॥
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-२२॥
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-२३॥
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।
नागकन्यासु च तदा गन्धर्वीणां तनूषु च ।
कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-२४॥
सिंहशार्दूलसदृशा दर्पेण च बलेन च ।
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-२५॥
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-२६॥
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-२७॥
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ।
गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् ।
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-२९॥
शतं शतसहस्राणि यूथपानां महात्मनाम् ।
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-३०॥
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् ।
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-३१॥
अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे ।
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-३२॥
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः ।
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-३३॥
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-३४॥
महाबलो महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-३५॥
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-३६॥
तैर्मेघवृन्दाचलकूटसंनिभै-
र्महाबलैर्वानरयूथपाधिपैः
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः ॥१-१७-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १७ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः १९ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम् ॥१-१८-१॥
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥१-१८-२॥
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् ॥१-१८-३॥
श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥
शान्तया प्रययौ सार्धमृशष्यशृङ्गः सुपूजितः ।
अमुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥
एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥१-१८-७॥
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥१-१८-९॥
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥१-१८-१०॥
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् ।
लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥१-१८-११॥
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥१-१८-१२॥
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ।
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥१-१८-१४॥
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥१-१८-१५॥
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥१-१८-१६॥
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥१-१८-१७॥
उत्सवश्च महानासीदयोध्यायां जनाकुलः ।
रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः ॥१-१८-१८॥
गायनैश्च विराविण्यो वादनैश्च तथापरैः ।
विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥१-१८-१९॥
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः ॥१-१८-२०॥
अतीत्यैकादशाहं तु नामकर्म तथाकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥१-१८-२१॥
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।
वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥१-१८-२२॥
ब्राह्मणान् भोजयामास पौराजानपदानपि ।
अददद् ब्राह्मणानां च रत्नौघमलं बहु ॥१-१८-२३॥
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥
बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ।
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ।
तेषामपि महातेजा रामः सत्यपराक्रमः ॥१-१८-२६॥
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥१-१८-२७॥
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥१-१८-२८॥
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥१-१८-२९॥
लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः ।
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥१-१८-३०॥
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
यदा हि हयमारूढो मृगयां याति राघवः ॥१-१८-३१॥
अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥१-१८-३२॥
प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः ।
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥१-१८-३३॥
बभूव परमप्रीतो देवैरिव पितामहः ।
ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ॥१-१८-३४॥
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।
तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् ॥१-१८-३५॥
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥१-१८-३६॥
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।
अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥१-१८-३७॥
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥१-१८-३८॥
अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः ।
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥१-१८-३९॥
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ।
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥
संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥१-१८-४१॥
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ।
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः ।
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥१-१८-४३॥
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ।
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥१-१८-४४॥
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥
कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
अपि ते संनताः सर्वे सामन्तरिपवो जिताः ॥१-१८-४६॥
दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् ।
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥१-१८-४७॥
ऋषींश्च तान् यथान्यायं महाभाग उवाच ह ।
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥१-१८-४८॥
विविशुः पूजितास्तेन निषेदुश्च यथार्हतः ।
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥१-१८-४९॥
उवाच परमोदारो हृष्टस्तमभिपूजयन् ।
यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥१-१८-५०॥
यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै ।
प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥१-१८-५१॥
तथैवागमनं मन्ये स्वागतं ते महामुने ।
कं च ते परमं कामं करोमि किमु हर्षितः ॥१-१८-५२॥
पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि मानद ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥१-१८-५३॥
यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम ।
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥१-१८-५४॥
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ।
तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥१-१८-५५॥
शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो ।
ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥१-१८-५६॥
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये ।
कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥१-१८-५७॥
कर्ता चाहमशेषेण दैवतं हि भवान् मम ।
मम च अयमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥१-१८-५८॥
इति हृदयसुखं निशम्य वाक्यं
श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः
परमऋषिः परमं जगाम हर्षम् ॥१-१८-५९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १८ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २० → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥
सदृशं राजशार्दूल तवैवं भुवि नान्यतः ।
महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥१-१९-२॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥१-१९-३॥
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥१-१९-४॥
व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥
तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ।
अवधूते तथाभूते तस्मिन् नियमनिश्चये ॥१-१९-६॥
कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे ।
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ॥१-१९-७॥
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ।
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ॥१-१९-८॥
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ।
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥
राक्षसा ये विकर्तारस्तेषामपि विनाशने ।
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ॥१-१९-१०॥
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ।
न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ॥१-१९-११॥
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ।
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ॥१-१९-१२॥
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ।
न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥१-१९-१३॥
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ।
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ॥१-१९-१४॥
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ।
यदि ते धर्मलाभं च यशश्च परमं भुवि ॥१-१९-१५॥
स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ।
यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ॥१-१९-१६॥
वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ।
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ॥१-१९-१७॥
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ।
नात्येति कालो यज्ञस्य यथायं मम राघव ॥१-१९-१८॥
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ।
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ॥१-१९-१९॥
विरराम महातेजा विश्वामित्रो महामतिः ।
स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ॥१-१९-२०॥
शोकेन महताविष्टश्चचाल च मुमोह च ।
लब्धसंज्ञस्तदोत्थाय व्यषीदत भयान्वितः ॥१-१९-२१॥
इति हृदयमनोविदारणं
मुनिवचनं तदतीव शुश्रुवान् ।
नरपतिरभवन्महान् महात्मा
व्यथितमनाः प्रचचाल चासनात् ॥१-१९-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः १९ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २१ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे विंशः सर्गः ॥१-२०॥
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥१-२०-१॥
ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥१-२०-२॥
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः ।
अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः ॥१-२०-३॥
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥१-२०-४॥
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः ॥१-२०-५॥
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥१-२०-६॥
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥१-२०-७॥
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः ।
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥१-२०-८॥
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।
यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ॥१-२०-९॥
चतुरङ्गसमायुक्तं मया सह च तं नय ।
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि ।
चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥१-२०-११॥
ज्येष्ठे धर्मप्रधानेच न रामं नेतुमर्हसि ।
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥१-२०-१२॥
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव ।
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥१-२०-१३॥
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ।
सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥१-२०-१४॥
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।
तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥१-२०-१५॥
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥१-२०-१६॥
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।
श्रूयते च महाराज रावणो राक्षसाधिपः ॥१-२०-१७॥
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः ॥१-२०-१८॥
तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥१-२०-१९॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥१-२०-२०॥
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥१-२०-२१॥
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥१-२०-२२॥
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः ।
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥१-२०-२३॥
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।
कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ॥१-२०-२४॥
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ।
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः ।
अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः ॥१-२०-२७॥
इति नरपतिजल्पनात् द्विजेन्द्रं
कुशिकसुतं सुमहान् विवेश मन्युः ।
सुहुत इव मखेऽग्निराज्यसिक्तः
समभवदुज्ज्वलितो महर्षिवह्निः ॥१-२०-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः २० | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २२ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥
एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥
न देवा नर्षयः केचिन्नामरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् ।
वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥
सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः ।
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः ।
अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः ।
न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥
एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।
न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥
इति मुनिवचनात् प्रसन्नचित्तो
रघुवृषभः च मुमोद पार्थिवाग्र्यः ।
गमनमभिरुरोच राघवस्य
प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः २१ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २३ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् ।
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१-२२-१॥
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥१-२२-२॥
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा ।
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥१-२२-३॥
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा ।
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥१-२२-४॥
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः ।
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥
विश्वामित्रो ययावग्रे ततो रामो महायशाः ।
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥१-२२-६॥
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥१-२२-७॥
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।
अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-८॥
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ ।
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥१-२२-९॥
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।
अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-१०॥
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ।
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१-२२-११॥
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ।
गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥१-२२-१२॥
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ।
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१३॥
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ।
न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१-२२-१४॥
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव ।
बलामतिबलां चैव पठतस्तात राघव ॥१-२२-१५॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१-२२-१६॥
एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव ।
बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१-२२-१७॥
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।
बलामतिबलां चैव पठस्तात राघव ॥१-२२-१८॥
गृहाण सर्वलोकस्य गुप्तये रघुनन्दन ।
विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि ।
पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१-२२-१९॥
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव ।
कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१-२२-२०॥
तपसा संभृते चैते बहुरूपे भविष्यतः ।
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥१-२२-२१॥
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ।
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥१-२२-२२॥
सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः ।
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥१-२२-२३॥
दशरथनृपसूनुसत्तमाभ्यां
तृणशयनेऽनुचिते तदोषिताभ्याम् ।
कुशिकसुतवचोऽनुलालिताभ्याम्
सुखमिव सा विबभौ विभावरी च ॥१-२२-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः २२ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २४ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१-२३-१॥
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१-२३-२॥
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥१-२३-३॥
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥१-२३-४॥
तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥
तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः ॥१-२३-६॥
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥१-२३-७॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् ।
भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥१-२३-८॥
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥१-२३-९॥
कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ।
तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥१-२३-१०॥
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१-२३-११॥
अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन ।
व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥१-२३-१२॥
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥१-२३-१३॥
अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१-२३-१४॥
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥१-२३-१५॥
इहाद्य रजनीं राम वसेम शुभदर्शन ।
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥१-२३-१६॥
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥१-२३-१७॥
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥१-२३-१८॥
विज्ञाय परमप्रीता मुनयो हर्षमागमन् ।
अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥१-२३-१९॥
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ।
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥१-२३-२०॥
यथार्हमजपन् संध्यामृषयस्ते समाहिताः ।
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा ।
कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
← सर्गः २३ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २५ → |
रामायणम्/बालकाण्डम् |
---|