नारदपुराणम्- उत्तरार्धः/अध्यायः ६९

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

अथ सिद्धनाथचरित्रसहितं कामाक्षा माहात्म्यं प्रारभ्यते ।।

मोहिन्युवाच ।।
श्रुतं कामोदकाख्यानं पापघ्नं पुण्यदं नृणाम् ।।
सांप्रतं श्रोतुमिच्छामि कामाक्षायाः फलं द्विज ।। ६९-१ ।।

वसुरुवाच ।।
कामाक्षा परमा देवी पूर्वस्यां दिशि संस्थिता ।।
सागरानूपतटगा कलौ सिद्धिप्रदा नृणाम् ।। ६९-२ ।।

यस्तत्र गत्वा कामाक्षां संपूज्य नियताशनः ।।
तिष्ठेदेकां निशां भद्रे स पश्येत्तां दृढासनः ।। ६९-३ ।।

सा देवी भीमरूपेण याति संदर्शनं नृणाम् ।।
तां दृष्ट्वा न चलेद्यो वै स सिद्धिं वांछितां लभेत् ।। ६९-४ ।।

यस्तु दृष्ट्वा सुरेशानीं कामाक्षां भीमरूपिणीम् ।।
आसनाच्चलितः सद्यः स विक्षिप्तो भवेद्ध्रुवम् ।। ६९-५ ।।

तत्रास्ते पार्वतीपुत्रः सिद्धनाथो वरानने ।।
उग्रे तपसि लोकैः स प्रेक्ष्यते न कदाचन ।। ६९-६ ।।

कृतत्रेताद्वापरेषु प्रत्यक्षं दृश्यतेऽखिलैः ।।
कलावंतर्हितस्तिष्ठेद्यावत्पादः कलेर्व्रजेत् ।। ६९-७ ।।

कलेः पादे गते चैकस्मिन्घोरे च धरातले ।।
स वै प्रत्यक्षतां प्राप्य साधयेदखिलं जनम् ।। ६९-८ ।।

मोहिनाद्यैरुपायैस्तु म्लेच्छप्रायाञ्जनांस्तदा ।।
कृत्वा वशे महाभागे गमयेत्त्रिपदं कलेः ।। ६९-९ ।।

यस्तत्र गत्वा सिद्धेशं भक्तिभावसमन्वितः ।।
चिंतयेद्वर्षमात्रं तु कामाक्षां नित्यदार्चयन् ।। ६९-१० ।।

स लभेद्दर्शनं स्वप्ने दर्शनांते समाहितः ।।
सूचितां तेन सिद्धिं स लब्ध्वा सिद्धो भवेद्भुवि ।। ६९-११ ।।

विचरेत्सर्वलोकानां कामनाः पूरयञ्शुभे ।।
त्रिलोक्यां यानि वस्तूनि तानि संकर्षयेद्वरात् ।। ६९-१२ ।।

स मत्स्यनाथः किल तत्र संस्थो विज्ञानपारंगम एव भद्रे ।।
चचार लोकाभिमतं वितन्वंस्तपोऽतिघोरं न च याति दृष्टिम् ।। ६९-१३ ।।

युगान्यनेकानि पुरा भ्रमित्वा लोकान्समग्रानहतेष्टगत्या ।।
तपस्थितोऽद्यास्ति महानुभावो न कालवेगेन शुभेऽभिभूतः ।। ६९-१४ ।।

गंडांतजातस्तु पुराभवेऽभूद्द्विजस्य कस्यापि सुतः सुभद्रे ।।
स जातमात्रः किल पुष्कराख्ये द्वीपेऽस्य पित्रा ह्युदधौ विसृष्टः ।। ६९-१५ ।।

प्रक्षिप्तमात्रं किल तत्र बालं मत्स्योऽग्रसीत्कोऽपि विधेर्नियोगात् ।।
तत्र स्थितोऽनेकयुगानि सोऽभूत्कालस्य गत्या ह्यजरामरांगः ।। ६९-१६ ।।

ततः कदाचित्प्रियया प्रदिष्टो महेश्वरः सार्द्धमगप्रसूत्या ।।
तत्त्वोपदेशाय जगाम भद्रे स लोकलोकाच लमप्रमेयः ।। ६९-१७ ।।

तत्सौम्यश्रृंगे मणिभिः प्रदीप्ते स्थित्वा क्षणार्द्धं हरिमग्नचेताः ।।
देवीमुमां संप्रतिबोध्य शक्त्या तालत्रयेणाप्यभिभूय सत्त्वान् ।। ६९-१८ ।।

उवाच तत्त्वं सुरहस्यभूतं यद्द्वादशार्णार्थनिजस्वरूपम् ।।
ततस्तु सा शैलसुता महेशं मारांतक यावदभिप्रणम्य ।। ६९-१९ ।।

अज्ञाय तत्त्वं समवस्थिताऽभूत्तावत्स मत्स्यस्तु महार्णवस्थः ।।
द्रुतं समुत्प्लुत्य जगाम श्रृंगं यो विप्रबालो ह्युदरे स्थितोऽस्य स तत्त्वसिद्धोऽखिलबंधमुक्तः ।। ६९-२० ।।

निर्गम्य मत्स्योदरतः शुभास्ये नमः प्रचक्रे भवयोः पुरस्तात् ।।
विज्ञाततत्त्वोऽपि महेश्वरस्तं पप्रच्छ तद्गर्भगतेर्निदानम् ।। ६९-२१ ।।

स वर्णयामास यथार्थमेव तयोः पुरः सर्वमपि प्रवृत्तम् ।।
आकर्ण्य तद्वृत्तमनुप्रसन्ना सोमा महेशानुमतिं च कृत्वा ।। ६९-२२ ।।

तं कल्पयामास सुतं शुभांगे सोत्संग आस्थाप्य चुचुंब वक्त्रम् ।।
सुतो ममायं किल मत्स्यनाथो विज्ञाततत्त्वोऽखिलसिद्धनाथः ।। ६९-२३ ।।

निजेच्छया संप्रति यातु लोकान्कीर्तिं वितन्वन्सुखमावयोश्च ।।
ततः प्रभृत्येष सुतोंऽबिकाया लोकान्समग्रान्प्रविहृत्य कामम् ।। ६९-२४ ।।

तत्सिद्धपीठं समवाप्य तत्र तपस्युपादिष्ट इवास्थितोऽस्ति ।।
तं सिद्धनाथं मनसा विचिंत्य नरो भवेत्सिद्धसमस्तकामः ।। ६९-२५ ।।

संप्राप्य विद्यां निजवाक्यवाहे निमज्जयेत्पंडितवर्गजातम् ।।
एतां कथां तस्य जगत्पवित्रां श्रृणोति यः कर्णपथप्रयाताम् ।। ६९-२६ ।।

स चाभिकामं समवाप्य भूमौ स्वर्गं प्रयात्येव सुरार्चितांघ्रिः ।।
एतन्मया ते कथितं सुनेत्रे श्रीसिद्धनाथस्य चरित्रयुक्तम् ।।
कामाक्षमाहात्म्यमघघ्नमाद्यं भूयोऽपि किं ते प्रवदामि भद्रे ।। ६९-२७ ।।

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे सिद्धनाथचरित्रयुक्तं कामाक्षामाहात्म्यं
नामैकोनसप्ततितमोऽध्यायः ।। ६९ ।।

इति सिद्धनाथचरित्रसहितं कामाक्षामाहात्म्यं समाप्तम् ।।