नारदपुराणम्- उत्तरार्धः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
एवं धर्मांगदो राज्यं चकार वसुधातले ।।
पितुर्ननियोगाद्राजेंद्र पालयन् हरिवासरम् ।। २२-१ ।।

न बभूव जनः कश्चिद्यो न धर्मे व्यवस्थितः ।।
नासुखी नाप्रजः कश्चिन्न वा कुष्ठी महीपते ।। २२-२ ।।

हृष्टपुष्ट जने तस्मिन् क्ष्मा चैव निधिदायिनी ।।
घटदोग्ध्रीषु नृपते तृप्तवत्सासु धेनुषु ।। २२-३ ।।

पुटके कुटके क्षौद्रं द्रोणमात्रं द्रुमे द्रुमे ।।
प्रहृष्टायां तु मेदिन्यां सर्वधान्यसमुद्भवः ।। २२-४ ।।

कृतस्य स्पर्द्धिनि युगे त्रेतान्ते द्वापरे युगे ।।
व्यतीते जलदापाये निर्मले चांबरे गृहे ।। २२-५ ।।

सुगंधिशालिपक्वाढ्ये कुंभोद्भवविलोकिते ।।
मध्यप्रवाहयुक्तासु निम्नगासु समंततः ।। २२-६ ।।

तीरोत्थैः काशपुष्पैश्च शुक्लकेशैरिवांगना ।।
चन्द्रांशुधवले लोके नातितीव्रे दिवाकरे ।। २२-७ ।।

तस्मिन्मनुष्यबहुलैर्जलस्नानविचित्रितैः ।।
यत्रोत्सुकैः प्रयातैस्तु भूमिपालैः समंततः ।। २२-८ ।।

प्रबोधसमये विष्णोराश्विनांते जगद्गुरोः ।।
मोहिनी रमयामास तत्काले हृच्छयार्दिता ।। २२-९ ।।

राजानं विविधैः सौख्यैः सर्वभावेन सुंदरी ।।
वनेषु गिरिश्रृंगेषु नदीनां संगमेषु च ।। २२-१० ।।

पद्मिनी कुसुमाढ्येषु सरःसु विविधेषु च ।।
मलये मन्दरे विंध्ये महेंद्रे विबुधालये ।। २२-११ ।।

सह्ये प्रालेयसंज्ञे च दिगंबरगिरौ शुभे ।।
अन्येषु चैव राजानं स्वर्गस्थानादिकेषु च ।। २२-१२ ।।

रमयायास राजेंद्र दिव्यरूपा दिने दिने ।।
राजापि मोहिनीं प्राप्य सर्वं कृत्यं परित्यजन् ।। २२-१३ ।।

त्यक्तं न वासरं विष्णोर्जन्ममृत्युनिकृंतनम् ।।
व्रतं नोपेक्षते तत्तु अतिमुग्धोऽपि पार्थिवः ।। २२-१४ ।।

क्रीडां त्यजति भूपालो दशम्यादिदिनत्रये ।।
एवं प्रकीडतस्तस्य पूर्णे संवत्सरे गते ।। २२-१५ ।।

काले कालविदां श्रेष्ठः संप्राप्तः कार्तिकः शुभः ।।
निद्राछेदकरो विष्णोः स मासः पुण्यदायकः ।। २२-१६ ।।

यस्मिन्कृतं हि सुकृतं वैष्णवैर्मनुजैर्नृप ।।
अक्षयं हि भवेत्सर्वं विष्णुलोकप्रदायकम् ।। २२-१७ ।।

न कार्तिकसमो मासो न कृतेन समं युगम् ।।
न धर्मस्तु दया तुल्यो न ज्योतिश्चक्षुषा समम् ।। २२-१८ ।।

न वेदेन समं शास्त्रं न तीर्थं गंगया समम् ।।
न भूम्या सदृशं दानं न सुखं भार्यया समम् ।। २२-१९ ।।

न कृष्या तु समं वित्तं न लाभः सुरभीसमः ।।
न तपोऽनशनादन्यन्न दमेन समं शिवम् ।। २२-२० ।।

तृप्तिर्न रसनातुल्या न समोऽन्यो द्विजेन च ।।
न धर्मेण समं मित्रं न सत्येन समं यशः ।। २२-२१ ।।

नारोग्यसममैश्वर्यं न देवः केशवात्परः ।।
न कार्तिकसमं लोके पावनं कवयो विदुः ।। २२-२२ ।।

कार्तिकः प्रवरो मासो विष्णोश्चापि प्रियः सदा ।।
अव्रतो हि क्षिपेद्यस्तु मासं दामोदरप्रियम् ।। २२-२३ ।।

तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः ।। २२-२४ ।।

मांधातोवाच ।।
संप्राप्य कार्तिके मासे राजा रुक्मांगदो मुने ।।
मोहिनीं मोहसंयुक्तां कथं स बुभुजे वद ।। २२-२५ ।।

विष्णुभक्तः श्रुतिपरः प्रवरः स महीक्षिताम् ।।
तस्मिन्पुण्यतमे मासे किं चकार नृपोत्तमः ।। २२-२६ ।।

वसिष्ठ उवाच ।।
संप्राप्तं कार्तिकं दृष्ट्वा प्रबोधकरणं हरेः ।।
अतिप्रमुग्धो राजेंद्रो मोहिनीं वाक्यमब्रवीत् ।। २२-२७ ।।

रतं देवि त्वया सार्द्धं मया संवत्सरान्बहून् ।।
तवापमानभीतेन नोक्तं किञ्चिदपि क्वचित् ।। २२-२८ ।।

सांप्रतं वक्तुकामोऽहं तन्निबोध शुभानने ।।
त्वय्यासक्तस्य मे देवि बहवः कार्तिका गताः ।। २२-२९ ।।

न व्रती कार्तिके जातो मुक्त्वैकं हरिवासरम् ।।
सोऽहं कार्तिकमिच्छामि व्रते न पर्य्युपासितुम् ।। २२-३० ।।

अव्रतेन गतो येषां कार्तिको मर्त्यधर्मिणाम् ।
इष्टापूर्तौ वृथा तेषां धर्मो द्रुहिणसंभवे ।। २२-३१ ।।

मांसाशिनोऽपि भूपाला अत्यर्थं मृगयारताः ।।
ते भांसं कार्तिके त्यक्त्वा गता विष्ण्वालयं शुभे ।। २२-३२ ।।

प्रवृत्तानां हि भक्ष्याणां कार्तिके नियमे कृते ।।
अवश्यं विष्णुरूपत्वं प्राप्यते साधकेन हि ।। २२-३३ ।।

तिष्ठंतु बहुवित्तानि दानानि वरवर्णिनि ।।
हृदयायासकर्तॄणि दीपदानाद्दिवं व्रजेत् ।। २२-३४ ।।

तस्याप्यभावात्सुभगे परदीपप्रबोधनम् ।।
कर्तव्यं भक्तिभावेन सर्वदानाधिकं च तत् ।। २२-३५ ।।

एकतः सर्वदानानि दीपदानं हि चैकतः ।।
कार्तिकेन समं प्रोक्तं दीपदानात्प्रबोधनम् ।। २२-३६ ।।

कर्तव्यं भक्तिभावेन सर्वदानाधिकं स्मृतम् ।।
कार्तिकीं च तिथिं कृत्वा विष्णोर्नाभिसरोरुहे ।। २२-३७ ।।

आजन्मकृतपापात्तु मुच्यते नात्रसंशयः ।।
व्रतोपवासनियमैः कार्तिको यस्य गच्छति ।। २२-३८ ।।

देवो वैमानिको भूत्वा स याति परमां गतिम् ।।
तस्मान्मोहिनि मोहं त्वं परित्यज्य ममोपरि ।। २२-३९ ।।

आज्ञां विधेहि तत्कालं करिष्ये कार्त्तिकव्रतम् ।।
तव वक्षोजपूजाया विरतो नीरजेक्षणे ।। २२-४० ।।

अहं व्रतधरश्चैव भविष्ये हरिपूजने ।।

मोहिन्युवाच ।।
विस्तरेण समाख्याहि माहात्म्यं कार्तिकस्य च ।। २२-४१ ।।

सर्वपुण्याकरः प्रोक्तो मासोऽयं राजसत्तमा ।।
विशेषात्कुत्र कथितस्तदादिश महामते ।। २२-४२ ।।

श्रुत्वा कार्त्तिकमाहात्म्यं करिष्येऽहं यथेप्सितम् ।। २२-४३ ।।

रुक्मांगद उवाच ।।
माहात्म्यमभिधास्यामि मासस्यास्य वरानने ।।
येन भक्तिर्भवित्री ते प्रकर्तुं हरिपूजनम् ।। २२-४४ ।।

कार्त्तिके कृच्छ्रसेवी यः प्राजापत्यचरोऽपि वा ।।
एकांतरोपवासी वा त्रिरात्रोपोषितोऽपि वा ।। २२-४५ ।।

यद्वा दशाहं पक्षं वा मासं वा वरवर्णिनि ।।
क्षपयित्वा नरो याति स विष्णोः परमं पदम् ।। २२-४६ ।।

एकभक्तेन नक्तेन तथैवायाचितेन च ।।
अस्मिन् नरैर्धरा चैव प्राप्यते द्वीपमालिनी ।। २२-४७ ।।

विशेषात्पुष्करे तीर्थे द्वारावत्यां च शौकरे ।।
मासोऽयं भक्तिदः प्रोक्तो व्रतदानार्चनादिभिः ।। २२-४८ ।।

तस्निन्हरि दिनं पुण्यं तथा वै भीष्मपंचकम् ।।
प्रबोधिनीं नरः कृत्वा जागरेण समन्विताम् ।। २२-४९ ।।

न मातुर्जठरे तिष्ठेदपि पापान्वितो नरः ।।
तस्मिन्दिने वरारोहे मंडलं यस्तु पश्यति ।। २२-५० ।।

विना सांख्येन योगेन स याति परमं पदम् ।।
कार्तिके मंडलं दृष्ट्वा शौकरेः सूकरं शुभे ।। २२-५१ ।।

दृष्ट्वा कोकवराहं वा न भूयस्तनयो भवेत् ।।
त्रिविधस्यापि पापस्य दृष्ट्वा मुक्तिर्भवेन्नृणाम् ।। २२-५२ ।।

मंडलं चपलापांगि श्रीधरं कुब्जके तथा ।।
कार्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु ।। २२-५३ ।।

कार्तिके वर्जयेन्मांसं कार्तिके वर्जयेत्स्त्रियः ।।
निष्पावान्कार्तिके देवि त्यंजेद्विष्णुतत्परः ।। २२-५४ ।।

संवत्सरकृतात्पापाद्ब्रहिर्भवति तत्क्षणात् ।।
प्राप्नोति राजकीं योनिं सकृद्भक्षणसंभवात् ।। २२-५५ ।।

कार्तिके शौकरमांसं यस्तु भुञ्जीत दुर्मतिः ।।
षष्टिवर्षसहस्राणि रौरवे परिपच्यते ।। २२-५६ ।।

तन्मुक्तो जायते पापी विष्ठाशी ग्राम्यसूकरः ।।
मात्स्यं मांसं न भुञ्जीत न कौर्मं नापि हारिणम् ।। २२-५७ ।।

चाण्डालो जायते देवि कार्तिके मांसभक्षणात् ।।
कार्तिकः सर्वपापघ्नः किञ्चिद्व्रतधरस्य हि ।। २२-५८ ।।

कार्तिके तु कृतादीक्षा नृणां जन्मनिकृंतनी ।।
तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्तिके ।। २२-५९ ।।

अदीक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ।।
पशुयोनिमवाप्नोति दीक्षया रहितो नरः ।। २२-६० ।।

न गृहे कार्तिकं कुर्याद्विशेषेण तु कार्तिकीम् ।।
तीर्थे हि कार्तिकीं कुर्वन्नरो याति हरेः पदम् ।। २२-६१ ।।

कार्तिके शुक्लपक्षस्य कृत्वा ह्येकादशीं नरः ।।
प्रातर्दत्वा शुभान्कुंभान्प्रयाति हरिमंदिरम् ।। २२-६२ ।।

संवत्सरव्रतानां हि समाप्तिः कार्तिकं स्मृता ।।
विवाहा यत्र दृश्यंते विष्णोर्नाभिसरोरुहे ।। २२-६३ ।।

दिनानि तत्र चत्वारि यथैकं वरावर्णिनि ।।
विनोत्तरायणे कालं लग्नशुद्धिं विनापि च ।। २२-६४ ।।

दृश्यन्ते यत्र सम्बन्धाः पुत्रपौत्रविवर्द्धनाः ।।
तस्मान्मोहिनि कर्तास्मि कार्तिके व्रतसेवनम् ।। २२-६५ ।।

अशेषपापनाशाय तव प्रीतिविवृद्धये ।।

मोहिन्युवाच ।।
अहो माहात्म्यमतुलं कार्तिकस्य त्वयोरितम् ।। २२-६६ ।।

चातुर्मास्यव्रतानां हि विधिमुद्यापनं वद ।।
पूर्णता येन भवतगि व्रतानां पृथिवीपते ।। २२-६७ ।।

अवैकल्यं भवेच्चैव व्रतं पुण्यफलस्य तु ।।

राजोवाच ।।
नक्तव्रती षड्रसेन ब्राह्मणं भोजयेत्प्रिये ।। २२-६८ ।।

अयाचिते त्वनङ्काहं सहिरण्यं प्रदापयेत् ।।
अमांसाशीभवेद्यस्त्तु गां प्रदद्यात्सदक्षिणाम् ।। २२-६९ ।।

धात्रीस्नाने नरो दद्याद्दधिपायसमेव च ।।
फलानां नियमे सुभ्रु फलदानं समाचरेत् ।। २२-७० ।।

तैलत्यागे घृतं दद्याद्धृतत्यागे पयस्तथा ।।
धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा ।। २२-७१ ।।

दद्याद्भूशयने शय्यां तूलिकागंडकान्विताम् ।।
पत्रभोजी नरोदद्याद्भाजनं घृतसंयुतम् ।। २२-७२ ।।

मौने घंटां तिलान्वापि सहिरण्यान्प्रदापयेत् ।।
दंपत्योर्भोजनं कार्यमुभयोः शयनान्वितम् ।। २२-७३ ।।

संभोगं दक्षिणोपेतं व्रतस्य परिपूर्तये ।।
प्रातः स्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान् ।। २२-७४ ।।

नखराणां च केशानां धारणे दर्पणं ददेत् ।।
उपानहौ प्रदद्यात्तु पादत्राणविवर्जने ।। २२-७५ ।।

लवणस्य तु संत्यागे दातव्या सुरभिस्तथा ।।
आमिषस्य परित्यागे सवत्सां कपिलां ददेत् ।। २२-७६ ।।

नित्यं दीपप्रदो यस्तु व्रतेऽभीष्टे सुरालये ।।
स कांचनं तथा ताम्रं सघृतं दीपकं प्रिये ।। २२-७७ ।।

प्रदद्याद्वाससा छत्रं वैष्णवे व्रतपूर्तये ।।
एकांतरोपवासी तु क्षौमवस्त्रं प्रदापयेत् ।। २२-७८ ।।

त्रिरात्रे कांचनोपेतां दद्याच्छय्यां स्वलंकृताम् ।।
षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम् ।। २२-७९ ।।

सवाहपुरुषं पीनमनङ्वाहमथार्पयेत् ।।
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम् ।। २२-८० ।।

शाकाहारे फलं दद्यात्सौवर्णं घृतसंयुतम् ।।
रसानां चैव सर्वेषां त्यागेऽनुक्तस्य वापि च ।। २२-८१ ।।

दातव्यं राजतं पात्रं सौवर्ण वापि शक्तितः ।।
यथोक्तस्याप्रदाने तु यथोक्ताकरणेऽपि वा ।। २२-८२ ।।

विप्रवाक्यं चरेत्सुभ्रु विष्णुस्मरणपूर्वकम् ।।
वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे ।। २२-८३ ।।

दक्षिणां नैव दद्याद्वा स याति नरकेध्रुवम् ।।
व्रतवैकल्यमासाद्य कुष्ठी चांधः प्रजायते ।। २२-८४ ।।

धरामराणां वचने व्यवस्थिता दिवौकसस्तीर्थगणा मखाश्च ।।
को लंघयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान् ।। २२-८५ ।।

इदं मया धर्मरहस्ययुक्तं विरंचये श्रीपतिना यथोक्तम् ।
प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम् ।। २२-८६ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे कार्तिकमाहात्म्यं नाम द्वाविंशोऽध्यायः ।। २२ ।।