नारदपुराणम्- उत्तरार्धः/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
संध्यावली ततः पादौ भर्तुः संगृह्य भूपते ।।
उवाच वचनं देवी धर्मां गदविनाशनम् ।। ३३-१ ।।

बहुधाप्यनुशिष्टेयं मया भूप यथा त्वया ।।
मोहिन्या मोहरूपाया नान्यत्संरोचतेऽधुना ।। ३३-२ ।।

भोजनं वासरे विष्णोर्वधं वा तनयस्य वै ।।
धर्मत्यागाद्वरं नाथ पुत्रस्य विनिपातनम् ।। ३३-३ ।।

यादृशी हि जनन्यास्तु पीडा भवति भूपते ।।
पुत्रस्योत्पादने तीव्रातादृशी न भवेत्पितुः ।। ३३-४ ।।

गर्भसंधारणे राजन् खेदः स्नेहोऽधिको यथा ।।
मातुर्भवति भूपाल तथा नहि भवेत्पितुः ।। ३३-५ ।।

बीजनिर्वाषकः प्रोक्तः पिता राजेंद्र भूतले ।।
जननी धारिणी क्लिष्टा वर्द्धने पालनेऽधिका ।। ३३-६ ।।

पितुः शतगुणः स्नेहो मातुः पुत्रे प्रवर्तते ।।
स्नेहाधिक्यं तु संप्रेक्ष्य मातरं महतीं विदुः ।। ३३-७ ।।

साहं जाता गतस्नेहा परलोकजिगीषया ।।
पुत्रस्य नृपशार्दूल सत्यवाक्यस्य पालनात् ।। ३३-८ ।।

व्यापादय सुतं भूप स्नेहं त्यक्त्वा सुदूरतः ।।
मा सत्यलंघनं कार्षीः शापितोऽसि मयात्मना ।। ३३-९ ।।

निकषेषु ह्यषीकेशो भविष्यति फलप्रदः ।।
यस्मिंश्चीर्णे रुजा देहे नाल्पापि नृप जायते ।। ३३-१० ।।

अधर्मान्मानवोऽवश्यं स्वर्गभ्रष्टो न संशयः ।।
प्राणानादाय पुत्रं वा सर्वस्वं वा महीपते ।। ३३-११ ।।

यश्चानुवर्तते दैवं स पुमान् गीयते महान् ।।
ता आपदोऽपि भूपाल धन्या याः सत्यकारिकाः ।। ३३-१२ ।।

सत्तयसंरक्षणार्थत्वान्नृणां स्युर्मोक्षदायिकाः ।।
कीर्तिसंस्तरणार्थाय कर्त्तव्यं मनुजैः सदा ।। ३३-१३ ।।

कर्म भूपाल शास्त्रोक्तं स्नेहद्वेषविवर्जितम् ।।
तदलं परितापेन सत्यं पालय भूपते ।। ३३-१४ ।।

सत्यस्य पालनाद्राजन्विष्णुदेहेन युज्यते ।।
देवैरुत्पादिता ह्येषा निकषा ते विमोहिनी ।। ३३-१५ ।।

मन्ये भूपाल सा पत्न्या कृता तां त्वं न बुध्यसे ।।
पुत्रव्यपादनाद्देवा भविष्यंति ह्यवाङ्मुखाः ।। ३३-१६ ।।

तेषां दत्वा पदं मूर्ध्नि यास्यसे परमं पदम् ।।
विष्णोरुद्वहतां भक्तिं देवताः परिपंथिनः ।। ३३-१७ ।।

भविष्यत्यंधता लोके तदेव प्रकटीकृतम् ।।
विरुद्धा विबुधा भूप सेश्वरास्तव चेष्टितैः ।। ३३-१८ ।।

मोक्षमार्गप्रभेत्तारस्तव निश्चया लोपकाः ।।
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम् ।। ३३-१९ ।।

मोहिन्याः कुरु वाक्यं तु आत्मनः सत्यपालनात् ।। ३३-२० ।।

लुप्तेऽपि वाक्ये भविता नृपेश पापं समं ब्रह्मवधेन घोरम् ।।
तंतासि लोके शमनस्य भूप यशःप्रणाशो भविता धरायाम् ।। ३३-२१ ।।

वसिष्ठ उवाच ।।
भार्याया वचनं श्रुत्वा राजा रुक्मांगदस्तदा ।।
संध्यावलीमुवाचेदं मोहिन्याः सन्निधौ नृप ।। ३३-२२ ।।

पुत्रहत्या महाहत्या ब्रह्महत्याधिका प्रिये ।।
घातयित्वा सुतं लोके का गतिर्म्मे भविष्यति ।। ३३-२३ ।।

क्व गतो मंदरं शैलं क्व प्राप्ता मोहिनी मया ।।
धर्मांगदविनाशाय देवि कालप्रिया त्वियम् ।। ३३-२४ ।।

धर्मज्ञं विनयोपेतं प्रजारंजनकारकम् ।।
अप्रजं च सुतं हत्वा का गतिर्मे भविष्याति ।। ३३-२५ ।।

कुपुत्रस्यापि हननाद्देवि दुःखं भवेत्पितुः ।। ३३-२६ ।।

किं पुनर्द्धर्मशीलस्य गुरुसेवाविधायिनः ।।
जम्बूद्वीपमिदं भुक्तं मया तु वरवर्णिनि ।। ३३-२७ ।।

द्वीपानि सप्त भुक्तानि तनयेन तवाधुना ।।
विष्णोरंशो वरारोहे पितुरप्यधिको भवेत् ।। ३३-२८ ।।

पुराणेषु वरारोहे कविभिः परिकीर्तितः ।।
योऽयमत्यधिकः पुत्रो धर्मांगद इति क्षितौ ।। ३३-२९ ।।

मम वंशस्य चार्वंगि किं पुनर्मम मानदः ।।
अहो दुःखमनुप्राप्तं पुत्रादप्यधिकं मया ।। ३३-३० ।।

पुनरेव वरारोहे ब्रूहि त्वं वचनैः शुभैः ।।
मोहिनीं मोहसंप्राप्तां मम दुःखप्रदायिनीम् ।। ३३-३१ ।।

एवमुक्त्वा तु नृपतिः प्रियां सन्ध्यावलीं तदा ।।
समीपमागत्य नृपो मोहिनीमिदमब्रवीत् ।। ३३-३२ ।।

न भोक्ष्ये वासरे विष्णोर्न हिंस्ये तनयं शुभे ।।
आत्मानं दारयिष्यामि देवीं सन्ध्यावलीं तथा ।। ३३-३३ ।।

अन्यद्वा दारुणं कर्म करोमि तव शासनात् ।।
दुष्टाग्रहमिमं सुभ्रु परित्यज सुतं प्रति ।। ३३-३४ ।।

किं फलं भविता तुभ्यं हत्वा धर्मांगदं सुतम् ।।
भोजयित्वा दिने विष्णोः को लाभो भविता वद ।। ३३-३५ ।।

दासोऽस्मि तव भृत्योऽस्मि वशगोऽस्मि वरानने ।।
अन्यं याचस्व सुभगे वरं त्वां शरणं गतः ।। ३३-३६ ।।

रक्ताशोकसमानाभ्यां तव चार्वंगिसर्वशः ।।
अन्यत्प्रयोजनं किंचित्कर्त्ताऽस्मि वशगस्तव ।। ३३-३७ ।।

प्रसादं कुरु मे देवि पुत्रभिक्षां प्रयच्छ मे ।।
दुर्लभो गुणवान्पुत्रो दुर्लभो हरिवासरः ।। ३३-३८ ।।

दुर्लभः जाह्नवीतोयं दुर्लभा जननी क्षितौ ।।
दुर्लभं हि कुले जन्म दुर्लभा वंशजा प्रिया ।। ३३-३९ ।।

दुर्लभं कांचनं दानं दुर्लभं हरिपूजनम् ।।
दुर्लभा वैष्णवी दीक्षा दुर्लभः स्मृतिसंग्रहः ।। ३३-४० ।।

दुर्लभः शौकरे वासो दुर्लभं हरिचिन्तनम् ।
दुर्लभो जागरो विष्णोर्दुर्लभा ह्यात्मसत्क्रिया ।। ३३-४१ ।।

दुर्लभा पुत्रसंप्राप्तिर्दुर्लभं पौष्करं जलम् ।।
दुर्लभः शिष्टसंसर्गो दुर्लभा भक्तिरुच्यते ।। ३३-४२ ।।

दुर्लभं कपिलादानं दुर्लभं नीलमोक्षणम् ।।
कृतं श्राद्धं त्रयोदश्यां दुर्लभं वरवर्णिनि ।। ३३-४३ ।।

दुर्लभा वसुधा चीर्णं व्रतं पातकनाशनम् ।।
धेनुस्तिलमयी सुभ्रु दुर्लभा विप्रगामिनी ।। ३३-४४ ।।

धात्रीस्नानं वरारोहे दुर्लभो हरिवासरः ।।
दुर्लभं पर्वकाले तु स्नानं शीतलवारिणा ।। ३३-४५ ।।

माघमासे विशेषेण प्रत्यूषसमये शुभे ।।
यथाशास्त्रोदितं कर्म तद्देवि भुवि दुर्लभम् ।। ३३-४६ ।।

दुर्लभं कुशलं पथ्यं दुर्लभं चौषधं तथा ।।
व्याधेर्विघातकरणं दुर्लभं शास्त्रमार्गतः ।। ३३-४७ ।।

दुर्लभं स्मरणं विष्णोर्मरणे वरवर्णिनि ।।
एवं वचो वरारोहे कुरु मे धर्मरक्षकम् ।। ३३-४८ ।।

किं वधेनेवै चार्वंगि प्रसादं कर्तुमर्हसि ।।
सेविता विषयाः सम्यक्कृतं राज्यमकंटकम् ।। ३३-४९ ।।

मया मूर्घ्नि पदं दत्तं देवगोविप्ररक्षिणाम् ।।
अदृष्टविषयं पुत्रं नाहं हिंस्ये कदाचन ।। ३३-५० ।।

स्वहस्तेनेह चार्वंगि किं नु पापमतः परम् ।।

मोहिन्युवाच ।।
धर्मांगदो न मे शत्रुर्नाहं हन्मि सुतं तव ।। ३३-५१ ।।

पूर्वमेव मया प्रोक्तं भुंक्ष्वत्वं हरिवासरे ।।
वसुधां स्वेच्छया राजंस्त्वं शाधि बहुवत्सरम् ।। ३३-५२ ।।

नाहं व्यापादये पुत्रमर्थसिद्धिस्तु भोजने ।।
मम भूमिपते कार्यं न पुत्रनिधने तव ।। ३३-५३ ।।

यदि पुत्रः प्रियो राजन्भुज्यतां हरिवासरे ।।
किं विलापैर्महीपाल एतैर्द्धर्मबहिष्कृतैः ।। ३३-५४ ।।

सत्यं संरक्ष यत्नेन कुरुष्व वचनं मम ।।
एवं ब्रुवाणां तां राजन्मोहिनीं तनुमध्यमाम् ।। ३३-५५ ।।

धर्मांगदः प्रत्युवाच दृष्ट्वा नत्वाग्रतः स्थितः ।।
एतदेव गृहाण त्वं मा शंकां कुरु भामिनि ।। ३३-५६ ।।

गृहीत्वा निर्मलं खङ्गं विन्यस्य नृपतेः पुरः ।।
आत्मानं च प्रत्युवाच सत्यधर्मव्यवस्थितः ।। ३३-५७ ।।

न विलंबः पितः कार्यस्त्वया मम निपातने ।।
मन्मातुर्वचनं सत्यं कुरु भूप प्रतिश्रुतम् ।। ३३-५८ ।।

आत्मा रक्ष्यो धनैर्दारैरथवापि निजात्मजैः ।।
अपत्यं धर्मकामार्थं श्रेयस्कामस्य भूपतेः ।। ३३-५९ ।।

त्वदर्थे मरणं मह्यमक्षय्य गतिदायकम् ।।
तवापि निर्मला लोकाः स्ववाक्यपरिपालनात् ।। ३३-६० ।।

परित्यज्य परं दुःखं पुत्रव्यापादनोद्भवम् ।।
देहत्यागे ममारंभो नरदेहे भविष्यति ।। ३३-६१ ।।

सर्वामयविनिर्मुक्ते शतक्रतुसमे विभो ।।
पितुरर्थे हता ये तु मातुरर्थे हतास्तथा ।। ३३-६२ ।।

गवार्थे ब्राह्यणार्थे वा प्रमदार्थे महीपते ।।
भूम्यर्थे पार्थिवार्थे वा देवतार्थे तथैव च ।। ३३-६३ ।।

बालार्थे विकलार्थे च यांति लोकान्सुभास्वरान् ।।
तदलं परितापेन जहि मां त्वं वरासिना ।। ३३-६४ ।।

सत्यं पालय राजेंद्र मा भुंक्ष्व हरिवासरे ।।
धर्मार्थे तनयं हन्याद्भार्यां वापि महीपते ।। ३३-६५ ।।

श्रूयते वेदवाक्येषु पुत्रं हन्यान्मखस्थितः ।।
अश्वमेघे मखवरे न दोषो जायते नृप ।। ३३-६६ ।।

यद्ब्रवीति महीपाल मोहिनी जननी मम ।।
तत्त्वया ह्यविचारेण कर्त्तव्यं वचनं ध्रुवम् ।। ३३-६७ ।।

प्रसीद राजेंद्र कुरुष्व वाक्यं मयेरितं चात्मवधाय सत्यम् ।।
विमोचयेथा नृपते सुघोराद्वाक्यानृतान्मोहिनिहस्तयोगात् ।। ३३-६८ ।।

वधेन ते भूमिपते सुतस्य यशः प्रकाशं गमयिष्यते च ।।
यशः प्रकाशाद्भविता हि कीर्तिस्तथाक्षया तात न संशयोऽत्र ।। ३३-६९ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते धर्मांगदोक्तिर्नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।