नारदपुराणम्- उत्तरार्धः/अध्यायः २१
मांधातोवाच ।।
पुत्रस्य वचनं श्रुत्वा किं चकार महीपतिः ।।
सा चापि मोहिनी ब्रह्मन्प्रिया राज्ञो विधेः सुता ।। २१-१ ।।
आश्चर्यरूपं कथितमाख्यानं तु सुधोपमम् ।।
विशेषतस्त्वया पुण्यं सर्वसंदेहभंजनम् ।। २१-२ ।।
वसिष्ठ उवाच ।।
तत्पुत्रवचनं श्रुत्वा प्रहृष्टो नृपपुंगवः ।।
उदतिष्ठत्प्रियायुक्तस्ताः श्रियश्चावलोकयत् ।। २१-३ ।।
क्षणं हर्षान्वितो भूप राजा विष्णुपरायणः ।।
नागकन्यास्तु ताः सर्वा वारुणीसहिता मुदा ।। २१-४ ।।
प्रददौ तनये प्रेम्णा भार्यार्थं धर्मभूषणे ।।
शेषं दानवनारीभिर्बहुरत्नसमन्वितम् ।। २१-५ ।।
मोहिन्यै प्रददौ राजा कामबाणप्रपीडितः ।।
संविभज्य पिता वित्तं धर्मांगदसमाहृतम् ।। २१-६ ।।
पुरोहितमुवाचेदं काले चाहूय भूपतिः ।।
सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः ।। २१-७ ।।
कुमारीणां कुमारोऽयं मद्वाक्ये संस्थितः सदा ।।
वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे ।। २१-८ ।।
वाचयित्वा द्विजान्स्वस्ति गोस्वर्णांबरतोषितान् ।।
विवाहं कुरु पुत्रस्य मम धर्मांगदस्य वै ।। २१-९ ।।
यः पुत्रस्य पितोद्वाहं न करोतीह मंदधीः ।।
स मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम् ।। २१-१० ।।
तस्माच्चोद्वाहयेत्पुत्रं पिता धर्मसमन्वितः ।।
आत्मा संस्थापितस्तेन येन संस्थापितः सुतः ।। २१-११ ।।
सर्वक्रतुफलं तस्य पुत्रोद्वाहे कृते भवेत् ।।
पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर ।। २१-१२ ।।
पित्रा कारयितव्यो हि विवाहो धर्ममिच्छता ।।
यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता ।। २१-१३ ।।
न पुमान्स तु विज्ञेय इहामुत्र विगर्हितः ।।
तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः ।। २१-१४ ।।
यथा रमन्ते ते तुष्टाः सुखं पुत्राः सुमानिताः ।।
तच्छ्रुत्वा वचनं राज्ञो द्विजस्तस्य पुरोहितः ।। २१-१५ ।।
धर्मांगदविवाहार्थमुद्यतो हर्षसंयुतः ।।
स युवानिच्छमानोऽपि स्त्रीसौख्यं लज्जाया सुतः ।। २१-१६ ।।
स्वीचकार पितुर्वाक्याद्दारसंग्रहणं तदा ।।
वरुणात्मजया सार्द्धं नागकन्या मनोहराः ।। २१-१७ ।।
उपयेमे महाबाहू रूपेणाप्रतिमा भुवि ।।
उद्वाहयित्वा सर्वास्ता विधिदृष्टेन कर्मणा ।। २१-१८ ।।
वसुगोरत्नदानानि विप्रेभ्यः प्रददौ मुदा ।।
कृतदारो ववंदेऽथ पादान्मातुः पितुर्मुदा ।। २१-१९ ।।
ततः संध्यावलीदेवीमाह धर्मांगदः सुतः ।।
पितुर्वाक्येन मे देवि संजातो दारसंग्रहः ।। २१-२० ।।
एतन्मे नास्ति मनसि यत्पित्रोद्वाहितो ह्यहम् ।।
अव्ययं पितरं विज्ञं देवि शुश्रूषये ह्यहम् ।। २१-२१ ।।
दिव्यैर्भोगैर्न मे किंचित्स्वर्गेणापि प्रयोजनम् ।।
कार्या मे पितृशुश्रूषा तव चैव दिवानिशम् ।। २१-२२ ।।
संध्यावल्युवाच ।।
चिरं जीव सुखं पुत्र भुंक्ष्व भोगान्मनोऽनुगान् ।।
पितुः प्रसादाद्दीर्घोयुर्मनो नंदय मे सुत ।। २१-२३ ।।
त्वया सुपुत्रिणी पुत्र जाता गुणवता क्षितौ ।।
सपत्नीनां च सर्वासां हृदये संस्थिता ह्यहम् ।। २१-२४ ।।
एवमुक्त्वा परिष्वज्य मूर्द्धन्याघ्राय चासकृत् ।।
व्यसर्जयत्ततः पुत्रं राज्यतंत्रावलोकने ।। २१-२५ ।।
विसर्जितस्तदा मात्रा मातॄरन्याः प्रणम्य च ।।
राज्यतंत्रं तदखिलं चक्रे पितृवचः स्थितः ।। २१-२६ ।।
दुष्टनिग्रहणं चक्रे शिष्टानां परिपालनम् ।।
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ।। २१-२७ ।।
चक्रे सर्वत्र कार्याणां मासि मासि निरीक्षणम् ।।
हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा ।। २१-२८ ।।
वादसंवीक्षणं चक्रे तुलामानं दिने देने ।।
गृहे गृहे नराणां च चक्रे संरक्षणं नृपः ।। २१-२९ ।।
स्तनंधयी क्वचिद्बालः स्तनहीनो न रोदिति ।।
श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता ।। २१-३० ।।
क्वचित्समर्थस्तनयः पितरं नहि याचते ।।
न वर्णसंकरो राज्ये केषांचिदभवत्पुनः ।। २१-३१ ।।
न गूढविभवो लोको धर्मे वदति दूषणम् ।।
न कंचुकविहीना तु भवेन्नारी सभर्तृका ।। २१-३२ ।।
गृहान्निष्क्रमणं स्त्रीणां मास्तु राज्ये मदीयके ।।
मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका ।। २१-३३ ।।
मा व्रतीह सदाक्रोशी मारण्या नगराश्रयाः ।।
सामान्यवृत्त्यदाता मे राज्येऽवसतु निर्घृणः ।। २१-३४ ।।
गोपालो नगराकांक्षी निर्गुणस्तूपदेशकः ।।
ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह ।। २१-३५ ।।
यो हि निष्पादयेन्नीलीं नीलीरंगातिसेचकः ।।
निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च ।। २१-३६ ।।
वृथा मांसं हि योऽश्नाति पृष्ठमांसप्रियो हि यः ।।
तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः ।। २१-३७ ।।
विष्णुं परित्यज्य वरं सुराणां संपूजयेद्योऽन्यतमं हि देवम् ।।
गच्छेत्सगर्भां युवतीं प्रसूतां दंड्यश्च वध्यश्च स चास्मदीयैः ।। २१-३८ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे शिक्षानिरूपणं नामैकविंशोऽध्यायः ।। २१ ।।