नारदपुराणम्- उत्तरार्धः/अध्यायः ६४
अथ कुरुक्षेत्रमाहात्म्यं प्रारभ्यते ।।
मोहिन्युवाच ।।
वसो कृपालो धर्मज्ञ त्वया बहुविदा मम ।।
तीर्थराजस्य माहात्म्यं प्रयागस्य निरूपितम् ।। ६४-१ ।।
यत्सर्वतीर्थमुख्येषु कुरुक्षेत्रं शुभावहम् ।।
पावनं सर्वलोकानां तन्ममाचक्ष्व सांप्रतम् ।। ६४-२ ।।
वसुरुवाच ।।
श्रृणु मोहिनि वक्ष्यामि कुरुक्षेत्रं सुपुण्यदम् ।।
यत्र गत्वा नरः स्नात्वा सर्वपापैः प्रमुच्यते ।। ६४-३ ।।
तत्र तीर्थान्यनेकानि सेवितानि मुनीश्वरैः ।।
तान्यहं तेऽभिधास्यामि श्रृण्वतां मुक्तिदानि च ।। ६४-४ ।।
ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा ।।
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ।। ६४-५ ।।
सरस्वतीदृषद्वत्योर्देवनद्योर्यदंतरम् ।।
तं देवसेवितं देशं ब्रह्मावर्तं प्रचक्षते ।। ६४-६ ।।
दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम् ।।
एवं यः सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ।। ६४-७ ।।
तत्र वै यो वसेद्धीरः सरस्वत्यास्तटे स्थितः ।।
तस्य ज्ञानं ब्रह्ममयं भविष्यति न संशयः ।। ६४-८ ।।
देवता ऋषयः सिद्धाः सेवंते कुरुजांगलम् ।।
तस्य संसेवनाद्देवि ब्रह्म चात्मनि पश्यति ।। ६४-९ ।।
मोहिन्युवाच ।।
कुरुक्षेत्रं द्विजश्रेष्ठ सर्वतीर्थाधिकं कथम् ।।
तन्मे विस्तरतो ब्रूहि त्वामहं शरणं गता ।। ६४-१० ।।
वसुरुवाच ।।
श्रृणु भद्रे प्रवक्ष्यामि कुरुक्षेत्रं महाफलम् ।।
यथा जातं नृणां पापदहनं ब्रह्मणः प्रियम् ।। ६४-११ ।।
आद्यं ब्रह्मसरः पुण्यं तत्र स्थाने समुद्गतम् ।।
ततो रामह्रदो जातः कुरुक्षेत्रं ततः परम् ।। ६४-१२ ।।
सरः संनिहितं तच्च ब्रह्मणा निर्मितं पुरा ।।
अथैषा ब्रह्मणो वेदी दिशमंतरतः स्थिता ।। ६४-१३ ।।
ब्रह्मणात्र तपस्तप्तं सृष्टिकामेन मोहिनि ।।
स्थितिकामेन हरिणा तपस्तप्तं च चक्रिणा ।। ६४-१४ ।।
सरः प्रवेशात्संप्राप्तं स्थाणुत्वं शंभुनापि च ।।
पितुर्वधाच्च तप्तेन पशुरामेण भामिनि ।। ६४-१५ ।।
अब्रह्मण्यक्षत्रवधाद्ये च रक्तह्रदाः कृताः ।।
तद्रक्तेन तु संतर्प्य कृतवांस्तत्र वै तपः ।। ६४-१६ ।।
रामतीर्थं ततः ख्यातं संजातं पापनाशनम् ।।
मार्कंडेयेन मुनिना संतप्तं परमं तपः ।। ६४-१७ ।।
यत्र तत्र समायाता प्लक्षजाता सरस्वती ।।
सा सभाज्य स्तुता तेन मुनिना धार्मिकेण ह ।। ६४-१८ ।।
सरः संनिहितं प्लाव्यं पश्चिमां प्रस्थितां दिशम् ।।
कुरुणा तु ततः कृष्टं यावत्क्षेत्रं समंततः ।। ६४-१९ ।।
पंचयोजनविस्तारं दयासत्यक्षमोद्गमम् ।।
स्यमंतपंचकं तावत्कुरुक्षेत्रमुदाहृतम् ।। ६४-२० ।।
अत्र स्नाता नरा देवि लभंते पुण्यमक्षयम् ।।
मृता विमानमारुह्य ब्रह्मलोकं व्रजंति च ।। ६४-२१ ।।
उपवासश्च दानं च होमो जप्यं सुरार्चनम् ।।
अक्षयत्वं प्रयांत्येव नात्र कार्या विचारणा ।। ६४-२२ ।।
ब्रह्मवेद्यां कुरुक्षेत्रे ये मृतास्तेऽपुनर्भवाः ।।
ग्रहनक्षत्रताराणां कालेन पतनाद्भयम् ।। ६४-२३ ।।
कुरुक्षेत्रे मृतानां तु न भूयः पतनं भवेत् ।।
देवर्षिसिद्धगंधर्वास्तत्सरः सेवनोत्सुकाः ।। ६४-२४ ।।
यत्र नित्यं स्थिता देवि रंतुकं नामतस्ततः ।।
तस्य क्षेत्रस्य रक्षार्थं विष्णुना स्थापिताः पुरा ।। ६४-२५ ।।
यक्षः सुचंद्रः सूर्यश्च वासुकिः शंबुकर्णकः ।।
विद्याधरः सुकेशी च राक्षसाः स्थापिताः शुभे ।। ६४-२६ ।।
सभृत्यैस्तेऽष्टसाहस्रैर्द्धनुर्बाणधरैः सदा ।।
रक्षंति च कुरुक्षेत्रं वारयंति च पापिनः ।। ६४-२७ ।।
रंतुकं तु समासाद्य क्षामयित्वा पुनः पुनः ।।
ततः स्नात्वा सरस्वत्यां यक्षं दृष्ट्वा प्रणम्य च ।। ६४-२८ ।।
पुष्पं धूपं च नैवेद्यं कृत्वैतद्वाक्यमुच्चरेत् ।।
तव प्रसादाद्यक्षेन्द्र वनानि सरितस्तथा ।। ६४-२९ ।।
भ्रमतो मम तीर्थानि मा विघ्नं जायतां नमः ।।
इति प्रसाद्ययक्षेशं यात्रां सम्यक् समाचरेत् ।। ६४-३० ।।
वनानां चापि तीर्थानां सरितामपि मोहिनि ।।
यो नरः कुरुते यात्रां कुरुक्षेत्रस्य पुण्यदाम् ।। ६४-३१ ।।
न तस्य न्यूनता काचिदिह लोके परत्र च ।। ६४-३२ ।।
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्ये क्षेत्रप्रमाणादिनिरूपणं नाम
चतुष्षष्टितमोऽध्यायः ।। ६४ ।।